वृष्ण॑ ऊ॒र्मिर॑सि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒ । वृष्ण॑ ऊ॒र्मिर॑सि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि । वृ॑षसे॒नो॒ऽसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॑ । वृषसे॒नो॒ऽसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि
vṛ́ṣṇo ū́rmir asi rāṣṭradā rāṣṭráṃ me dehi svā́hā | vṛ́ṣṇo ū́rmir asi rāṣṭradā rāṣṭrám amúṣmai dehi | vṛ́ṣasenó ’si rāṣṭradā rāṣṭráṃ me dehi svā́hā | vṛ́ṣasenó ’si rāṣṭradā rāṣṭrám amúṣmai dehi
你是公牛的涌潮,赐国之者:赐我王国——娑嚩诃!你是公牛的涌潮,赐国之者:把王国赐与彼人。你是以公牛为军阵者,赐国之者:赐我王国——娑嚩诃!你是以公牛为军阵者,赐国之者:把王国赐与彼人。
वृष्ण॑ः । ऊ॒र्मिः । अ॒सि । रा॒ष्ट्र॒दा । रा॒ष्ट्रम् । मे॒ । दे॒हि । स्वाहा॒ । वृष्ण॑ः । ऊ॒र्मिः । अ॒सि । रा॒ष्ट्र॒दा । रा॒ष्ट्रम् । अ॒मुष्मै॑ । दे॒हि । वृ॑ष-से॒नः । अ॒सि । रा॒ष्ट्र॒दा । रा॒ष्ट्रम् । मे॒ । दे॒हि । स्वाहा॑ । वृ॑ष-से॒नः । अ॒सि । रा॒ष्ट्र॒दा । रा॒ष्ट्रम् । अ॒मुष्मै॑ । दे॒हि