धा॒न्य॒मसि धिनु॒हि दे॒वान् प्रा॒णाय॑ त्वो दा॒नाय॑ त्वा व्या॒नाय॑ त्वा । दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धां दे॒वो व॑: सवि॒ता हिर॑ण्यपाणि॒: प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॒ चक्षु॑षे त्वा म॒हीनां॒ पयो॑ऽसि
dhā́nyam asi dhinuhi devā́n prāṇā́ya tvo dānā́ya tvā vyānā́ya tvā | dīrghā́m ánu prásitim ā́yuṣe dhāṃ devó vaḥ savitā́ híraṇyapāṇíḥ práti gṛbhṇātv ácchidreṇa pāṇínā cákṣuṣe tvā mahīnā́ṃ páyo 'si
你是谷粮:为诸天而抖净、筛洁。为入息(prāṇa)我取你;为施与(dāna)我取你;为遍息(vyāna)我取你。沿着长久的行程,沿着前行之路,我安置你以求寿命。愿金手的神萨维特里(Savitar)纳受你;愿他以无瑕之手摄取你。你是伟大者的乳汁,为眼目而取你。
धा॒न्यम् । असि । धिनु॒हि । दे॒वान् । प्रा॒णाय॑ । त्वः । दा॒नाय॑ । त्वा । व्या॒नाय॑ । त्वा । दी॒र्घाम् । अनु॒ । प्रसि॑तिम् । आयु॑षे । धाम् । दे॒वः । वः । सवि॒ता । हिर॑ण्य-पाणि॒ः । प्रति॑-गृभ्णातु । अ॒च्छि॑द्रेण । पा॒णिना॒ । चक्षु॑षे । त्वा । म॒हीनाम् । पयः । असि