Adhyaya 12
Vayaviya SamhitaUttara BhagaAdhyaya 1238 Verses

पञ्चाक्षर-षडक्षरमन्त्र-माहात्म्यम् | The Greatness of the Pañcākṣara/Ṣaḍakṣara Mantra

第12章开篇,圣克里希纳请求如实(tattvataḥ)讲述五字真言(pañcākṣara)的伟大。优波摩纽答曰:其圆满展开即使历经无量时劫亦不可尽量,故以简要方式宣说。本章确认此真言在《吠陀》与《湿婆阿伽摩》(Śivāgama)中同具权威,并描绘它为湿婆奉者的圆满法具,能成就一切所求。此真言虽音节短少,却义理丰厚:为吠陀精髓、赐解脱、决定无疑,且本性即湿婆。又赞其神圣、能生悉地(siddhi)、摄受众生之心,而仍深奥明晰、不含歧义。随后明示真言之形为“namaḥ śivāya”,并视为根本(ādya)法句。关键教义在于将一字“oṃ”(ekākṣara)与湿婆遍在之临在相连,并把与伊沙那(Īśāna)及五梵(pañcabrahma)体系相关的微细一音真实安置于真言次第之中。由此,真言既为能诠亦为所诠:湿婆以五梵之身(pañcabrahma-tanu)依“声义同一”(vācyavācaka-bhāva)安住于微细的六字(ṣaḍakṣara)之内。

Shlokas

Verse 1

श्रीकृष्ण उवाच । महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे । पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः

圣克里希纳说道:“噢,最胜大圣者,噢,全知者,噢,一切智海——我愿依真实义理,聆听五音节真言的荣耀。”

Verse 2

उपमन्युरुवाच । पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि । अशक्यं विस्तराद्वक्तुं तस्मात्संक्षेपतः शृणु

优波摩纽说道:“五音节真言的伟大,即使历经百亿万年也难以详尽宣说;因此,请听我略说其要。”

Verse 3

वेदे शिवागमे चायमुभयत्र षडक्षरेः । सर्वेषां शिवभक्तानामशेषार्थसाधकः

在《吠陀》与湿婆《阿伽摩》中,同样教授此六音节真言。对一切湿婆的奉献者而言,它成就诸般所求——既得世间安泰,亦达至高解脱之旨。

Verse 4

तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् । आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम्

此一言辞,虽寥寥数音而义蕴丰厚;乃诸吠陀之精髓,能赐解脱。由神圣权威所确立,毫无疑惑——此语即具湿婆自性。

Verse 5

नानासिद्धियुतं दिव्यं लोकचित्तानुरंजकम् । सुनिश्चितार्थं गंभीरं वाक्यं तत्पारमेश्वरम्

那至上主宰(Parameśvara)之语,神圣殊胜,具足种种成就之力(悉地),悦乐一切众生之心;其义旨确立无疑,而意趣深邃。

Verse 6

मन्त्रं सुखमुकोच्चार्यमशेषार्थप्रसिद्धये । प्राहोन्नमः शिवायेति सर्वज्ञस्सर्वदेहिनाम्

为使一切义理与所求之果皆得圆满显明,他宣说了易于诵持的真言:“唵 那摩ḥ 湿婆耶(Oṃ Namaḥ Śivāya)。”此乃全知之主的圣音,亦是一切有身众生内在之自性。

Verse 7

तद्बीजं सर्वविद्यानां मंत्रमाद्यं षडक्षरम् । अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत्

此即一切诸学之种子——六字之本初真言。虽极其微妙,却含摄广大义趣;当如榕树之种而悟:形虽甚小,潜能无量。

Verse 8

देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः । ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः

主超越三德(guṇa),全知且为万行之自在因。安住于一音真言“唵(Om)”之中,湿婆遍满一切,处处现前。

Verse 9

मंत्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः । वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः

在微妙的六字真言中,湿婆——其身即五梵(五婆罗门相)——依自性而住,亲自现前,既为所表之义(vācya),亦为能表之声(vācaka)。

Verse 10

वाच्यश्शिवोप्रमेयत्वान्मंत्रस्तद्वाचकस्स्मृतः । वाच्यवाचकभावो ऽयमनादिसंस्थितस्तयोः

由于湿婆作为所表之义(vācya)不可度量,故真言被忆念为能表其义之声(vācaka)。二者之间“所表”与“能表”的关系,自无始以来即已安立。

Verse 11

यथा ऽनादिप्रवृत्तोयं घोरसंसारसागरः । शिवो ऽपि हि तथानादिसंसारान्मोचकः स्थितः

正如这可怖的轮回大海自无始以来奔流不息,同样,湿婆亦自无始以来安住为解脱者,救度众生出离此轮回。

Verse 12

व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः । तद्वत्संसारदोषाणां प्रतिपक्षः शिवस्स्मृतः

正如药物依其本性为疾病之对治,同样,湿婆被忆念为轮回(世缚)诸过患的天然对治之力。

Verse 13

असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् । अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च

若宇宙之主不真实,则此整个世界必沉入黑暗;因为普拉克里蒂(原质)无知无觉,而普鲁沙亦仅凭自身并无真实的觉知。

Verse 14

प्रधानपरमाण्वादि यावत्किंचिदचेतनम् । न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना

从普拉达那(原初自然)直到原子以及一切无觉之物——从未见其在没有智慧因的情况下自作其主、自成其因;因此,主宰——具觉知的帕提——超越惰性物质,是真正的能作之因。

Verse 15

धर्माधर्मोपदेशश्च बंधमोक्षौ विचारणात् । न सर्वज्ञं विना पुंसामादिसर्गः प्रसिद्ध्यति

关于达摩与非达摩的教诲,以及对系缚与解脱的辨明,若无全知的主,便不能为世人所确立;同样,离开祂,原初创造的真实义理亦不得显明。

Verse 16

वैद्यं विना निरानंदाः क्लिश्यंते रोगिणो यथा । तस्मादनादिः सर्वज्ञः परिपूर्णस्सदाशिवः

如病者无医则无乐而受苦,众生离开祂亦同样困厄。故萨达希瓦无始、全知,且圆满具足。

Verse 17

अस्ति नाथः परित्राता पुंसां संसारसागरात् । आदिमध्यांतनिर्मुक्तस्स्वभावविमलः प्रभुः

确有一位主宰——护佑者——能使众生渡脱轮回之海。超越始、中、终,至尊本性清净,无垢无染。

Verse 18

सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयश्शिवागमे । तस्याभिधानमन्त्रो ऽयमभिधेयश्च स स्मृतः

在湿婆派《阿伽摩》圣典中,应当了知湿婆为全知且圆满具足者。此真言是祂的名号真言,而祂自身即被忆念为此真言所指之本体。

Verse 19

अभिधानाभिधेयत्वान्मंत्रस्सिद्धः परश्शिवः । एतावत्तु शिवज्ञानमेतावत्परमं पदम्

由于真言与其所指之义如“名”与“所名”般不可分离,故此真言本身即是成就的至上湿婆。唯此才是湿婆之真知;唯此才是无上境地、最高归处。

Verse 20

यदोंनमश्शिवायेति शिववाक्यं षडक्षरम् । विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम्

“唵 那摩湿婆耶”乃湿婆自身的六字圣言。此为湿婆派的修持法令(vidhi),并非仅是赞颂之辞;其本性即是湿婆。

Verse 21

यस्सर्वज्ञस्सुसंपूर्णः स्वभावविमलः शिवः । लोकानुग्रहकर्ता च स मृषार्थं कथं वदेत्

湿婆全知、圆满具足,本性清净;又是施恩于诸世界的护佑者。如此圣者,怎会怀着虚妄之意而发言,或说出不真实之语呢?

Verse 22

यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः । यावत्फलं च तत्पूर्णं सर्वज्ञस्तु यथा वदेत्

万事万物都应如其所是而宣说——依其本性,兼陈其德与过——并且把它所结之果报完整道出,正如全知者所宣示一般。

Verse 23

रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् । ते चेश्वरे न विद्येते ब्रूयात्स कथमन्यथा

众生因被贪著(rāga)与无明(ajñāna)等过失所缠,或会说出虚妄之言;然而此等缺失在自在主(Īśvara,湿婆)中并不存在。既如此,祂又怎会说出非真之语?

Verse 24

अज्ञाताशेषदोषेण सर्वज्ञेय शिवेन यत् । प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः

凡由湿婆所宣成的清净无垢之教言——祂不染任何过失,且知一切所知——此言本身即为权威之量(pramāṇa),对此毫无疑惑。

Verse 25

तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता । यथार्थपुण्यपापेषु तदश्रद्धो व्रजत्यधः

因此,智者应当信受主宰(自在天)的圣言,因为它如实宣说功德与罪业;而不信者便会堕落下沉。

Verse 26

स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम् । वाक्यं मुनिवरैः शांतैस्तद्विज्ञेयं सुभाषितम्

当知:为成就天界之乐,并超越其上而得究竟解脱,诸寂静而卓越的圣仙所宣说的那美妙教诲,名为“善说”。

Verse 27

रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् । वाक्यं निरयहेतुत्वात्तद्दुर्भाषितमुच्यते

凡随顺贪著与憎恶、虚妄、嗔怒、欲望与渴爱之言;由于它成为堕入地狱的因缘,故称为“恶语”。

Verse 28

संस्कृतेनापि किं तेन मृदुना ललितेन वा । अविद्यारागवाक्येन संसारक्लेशहेतुना

言语又有何益——纵然辞藻精雅、柔和婉丽——若由无明与执著所驱使,便成轮回世间诸苦恼之因?

Verse 29

यच्छ्रुत्वा जायते श्रेयो रागादीनां च संशयः । विरूपमपि तद्वाक्यं विज्ञेयमिति शोभनम्

凡是听闻之后能生起福祉,并令对贪染、执著等情欲起疑而渐得松脱的教诲,即使言辞表达似有不圆满,也应当认定为真实、值得了知;此乃正当而吉祥的准则。

Verse 30

बहुत्वेपि हि मंत्राणां सर्वज्ञेन शिवेन यः । प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित्

纵然真言无量无数,然由全知的主宰湿婆所宣制的无垢真言,处处皆无与伦比。

Verse 31

सांगानि वेदशास्त्राणि संस्थितानि षडक्षरे । न तेन सदृशस्तस्मान्मन्त्रो ऽप्यस्त्यपरः क्वचित्

诸吠陀及其支分学科,并一切经教之义,皆安立于六字真言之中;因此,世间无有任何别的真言能与之等同。

Verse 32

सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा । मन्त्रः षडक्षरो भिन्नस्सूत्रं वृत्यात्मना यथा

纵以七俱胝大真言与无数随真言而千般宣说,六字真言在本体上仍是一味;正如一根丝线,因用途与编织方式不同,便显现为种种形相。

Verse 33

शिवज्ञानानि यावंति विद्यास्थानापि यानि च । षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः

一切关于湿婆的诸般智慧,以及一切学问之处与修学之法——总而言之——皆是对六字真言之纲要教诲的简要注释。

Verse 34

किं तस्य बहुभिर्मंत्रैश्शास्त्रैर्वा बहुविस्तरैः । यस्योन्नमः शिवायेति मन्त्रो ऽयं हृदि संस्थितः

当此咒——“唵 那摩 湿婆耶”(Om Namaḥ Śivāya)——已牢固安住于其心中时,他又何必另求众多真言,或依赖卷帙浩繁的经典与繁复阐释呢?

Verse 35

तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् । येनोन्नमश्शिवायेति मंत्राभ्यासः स्थिरीकृतः

由他而成就:一切所学皆已圆满,一切应闻皆已听闻,一切本分皆已如法奉行——正是由他,令“唵 那摩ḥ 湿婆耶”(Oṃ Namaḥ Śivāya)之真言修持得以坚固恒常。

Verse 36

नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् । जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम्

若有人舌尖恒住与恭敬礼拜“那摩ḥ”(namaḥ)相连的三音“湿—婆—耶”(śi-vā-ya),其生命实为蒙福而圆满;以真言忆念,使主宰(Pati)湿婆常现于心。

Verse 37

अंत्यजो वाधमो वापि मूर्खो वा पंडितो ऽपि वा । पञ्चाक्षरजपे निष्ठो मुच्यते पापपंजरात्

无论出身卑下或被视为下劣,无论愚昧或乃至博学——凡于五音真言之持诵(japa)坚住不退者,皆得脱离罪业之牢笼。

Verse 38

इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना । हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः

于是,至上主、执三叉戟的湿婆,为答女神之问而宣说此言——为一切凡人之福祉,尤为“二次出生者”(婆罗门等)而说。

Frequently Asked Questions

Rather than a narrative episode, the chapter is structured as a doctrinal dialogue: Kṛṣṇa questions and the sage Upamanyu expounds the mantra’s greatness and metaphysical grounding.

The teaching frames ‘namaḥ śivāya’ as the core formula while also integrating the ekākṣara ‘oṃ’ as a subtle, all-pervasive presence of Śiva—yielding a ṣaḍakṣara reading alongside the pañcākṣara focus.

Śiva is presented as guṇa-transcendent and omnipresent, while the pañcabrahma structure (with Īśāna and related subtle principles) is mapped into the mantra, affirming deity–mantra identity.