
本章延续由风神伐由(Vāyu)所叙的对话框架,转入一幕:女神(天女/考湿吉-高丽,Kauśikī-Gaurī)向梵天(Brahmā)谈及一只化作猛虎(śārdūla)而来依止在她近旁的众生。女神称赞其一心专注的虔敬,并宣示护持它为自己所珍爱;又预示商羯罗(Śaṅkara)将赐其“伽那主”(gaṇeśvara)之位,并令其随侍于她的眷属行列。梵天含笑告诫,追述其前业:虽现虎形,实为凶恶的夜叉类尼沙遮罗(niśācara),且为能变形的迦摩卢宾(kāmarūpin),曾伤害牛与婆罗门,因此必当受其罪业之果报。此段论述强调慈悲须具辨别——质疑对残暴者不加分别的恩赐——但仍保留在湿婆主宰之下,凭神圣意志而得提升与转化的可能。
Verse 1
वायुरुवाच । उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् । तस्य प्रत्युपकाराय पितामहमथाब्रवीत्
伐由(Vāyu)说道:生起考希吉(Kauśikī)——即高丽(Gaurī)——并将她呈献于梵天之后,祖父梵天欲报其功德,遂开口说道。
Verse 2
देव्युवाच । दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः । अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम्
女神说道:“你可曾见到这只投依我庇护的猛虎?凭借它,我的苦行林苑得以免受邪恶众生侵扰。”
Verse 3
मय्यर्पितमना एष भजते मामनन्यधीः । अस्य संरक्षणादन्यत्प्रियं मम न विद्यते
此人以心全然奉献于我,以不二之慧敬拜我。于我而言,没有什么比护佑他更为可爱珍贵。
Verse 4
भवितव्यमनेनातो ममान्तःपुरचारिणा । गणेश्वरपदं चास्मै प्रीत्या दास्यति शंकरः
因此,此在我内宫侍奉之人,命中注定当如此;而商羯罗(Śaṅkara)若心生欢喜,必将以慈爱赐予他“伽内湿伐罗”(Gaṇeśvara,众伽那之主)的位阶。
Verse 5
एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे । प्रदीयतामनुज्ञा मे प्रजानां पतिना १ त्वया
让他走在前方作我们的领袖,我已准备与同伴一同前行。因此,众生之主啊,愿你赐我许可。
Verse 6
इत्युक्तः प्रहसन्ब्रह्मा देवीम्मुग्धामिव स्मयन् । तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत्१
被如此问及,梵天大笑,含笑如对天真少女一般;继而以往昔严厉的事迹向女神述说那人的残忍与乖戾本性。
Verse 7
ब्रह्मोवाच । पशौ देवि मृगाः क्रूराः क्व च ते ऽनुग्रहः शुभः । आशीविषमुखे साक्षादमृतं किं निषिच्यते
梵天说道:“噢,女神啊,禽兽与野兽本性凶残——你对它们的吉祥慈悲又在何处?难道要把甘露直接倾入毒蛇之口吗?”
Verse 8
व्याघ्रमात्रेण सन्नेष दुष्टः को ऽपि निशाचरः । अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः
此处有一恶毒的夜行罗刹,仅以虎形作伪装。它吞食了牛群,甚至连富于苦行功德的婆罗门也被它吃掉。
Verse 9
तर्पयंस्तान्यथाकामं कामरूपी चरत्यसौ । अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः
他随众生欲望而使其满足,便以贪欲所塑之形相四处游行。的确,罪业之果必定要亲自受报。
Verse 10
अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु । अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना
因此,对这等恶心之人施以怜悯又有何用?而对女神而言,此人天性污浊、内里染垢,又能成就何事?
Verse 11
देव्युवाच । यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः । तथापि मां प्रपन्नो ऽभून्न त्याज्यो मामुपाश्रितः
女神说道:“你所说的一切都是真实的;他确是如此。然而即便如此,他已归依于我——投身我庇护之下者,不应被弃绝。”
Verse 12
ब्रह्मोवाच । अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् । भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति
梵天说道:“因未识得他的虔敬(bhakti),我才将先前之事禀告于你。然若他确有信爱之心,罪又能奈何?你的 भक्त者终不败亡。”
Verse 13
पुण्यकर्मापि किं कुर्यात्त्वदीयाज्ञानपेक्षया । अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी
若不依止祢的神圣智慧,即使是功德之行又能成就什么?唯有祢是不生者、至上智慧、太古本初者——诚然,祢即是帕拉梅湿瓦丽(Parameśvarī)。
Verse 14
त्वदधीना हि सर्वेषां बंधमोक्षव्यवस्थितिः । त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा
对一切众生而言,束缚与解脱的秩序皆依于你而立。离开你,又凭谁的作为能有至上神力,或任何真实圆满的成就?
Verse 15
त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् । अशक्तः कर्मकरणे कर्ता वा किं करिष्यति
唯有你是多样的神圣力量(Śakti)——或为一切众生所具之力,或为力量本身。若离此力,所谓“行作者”在诸业行持中又能成就什么?
Verse 16
विष्णोश्च मम चान्येषां देवदानवरक्षसाम् । तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम्
对毗湿奴、对我以及一切他者——诸天、达那婆与罗刹——各自威力与主宰之得,唯由你的命令而起;确然,你的许可才是真正的因。
Verse 17
अतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः । अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः
已逝的梵天、哈利(毗湿奴)与鲁陀罗,实为无量无数;未来将至者亦复无量——各各皆依你的命令而行。
Verse 18
त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् । लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः
噢女神,诸天之主——若不敬拜于你,即便我们乃至一切最胜天众,也不能获得人之四大目标(法、利、欲与解脱)。
Verse 19
व्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः । सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः
即便在刹那之间,于梵天之位与不动之身的境况之间发生逆转也可能——因为确是你亲自建立了福德与罪业(及其果报)。
Verse 20
त्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः । अनादिमध्यनिधना शक्तिराद्या सनातनी
你确是至上我、遍持诸界之主——湿婆的本初、永恒之圣力(Śakti),无始、无中、无终。
Verse 21
समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि । क्रीडसे २ विविधैर्भावैः कस्त्वां जानाति तत्त्वतः
为使诸世界的运行井然有序,你随意入于任何所择之形。你以种种境态示现游戏——究竟有谁能如实了知你的真性?
Verse 22
अतो दुष्कृतकर्मापि व्याघ्रो ऽयं त्वदनुग्रहात् । प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः
因此,纵然此虎曾造罪业,凭你的恩慈,愿它得证至上成就(解脱)。在此,又有谁能成为障碍?
Verse 23
इत्यात्मनः परं भावं स्मारयित्वानुरूपतः । ब्रह्मणाभ्यर्थिता गौरी तपसो ऽपि न्यवर्तत
于是,她如理忆念自身至高的灵性本怀;在梵天的恳请之下,圣母高丽甚至也止息了她的苦行。
Verse 24
ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति । देवीं च मातरं दृष्ट्वा मेनां हिमवता सह
随后,他向女神辞别;待梵天隐没不见之时,他看见女神之母梅那,与希摩梵同在。
Verse 25
प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ । तपः प्रणयिनो देवी तपोवनमहीरुहान्
她先俯首礼拜,又屡屡安慰那难忍离别之痛的双亲。随后,女神一心奉行苦行(tapas),便走向苦行林中那巍然的大树——修持之圣林。
Verse 26
विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुंचतः । तत्तुच्छाखासमारूढविहगो दीरितै रुतैः
在最前方,因离别之悲而哀恸,它洒下“花之泪”。而一只栖在那枝上的鸟儿,以绵长的鸣叫声不断啼唤。
Verse 27
व्याकुलं बहुधा दीनं विलापमिव कुर्वतः । सखीभ्यः कथयंत्येवं सत्त्वरा भर्तृदर्शने
一见到夫君,她便极度惊惶,屡屡陷入凄苦之境,仿佛放声哀诉;就在那般情状中,她迅速对女伴们说出了这些话。
Verse 28
पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् । देहस्य प्रभया चैव दीपयन्ती दिशो दश
她将那如虎般的英雄置于前方,出于慈爱,仿佛他是自己的亲生儿子一般继续前行;其身光辉灿然,似乎照耀了十方。
Verse 29
प्रययौ मंदरं गौरी यत्र भर्ता महेश्वरः । सर्वेषां जगतां धाता कर्ता पाता विनाशकृत्
高丽前往曼陀罗山,那里是她的主宰摩诃伊湿伐罗所居之处——至上之主(Pati),支撑一切世界者,亦为创造者、护持者,并作诸界归灭之因。
Devī (Kauśikī-Gaurī) seeks permission to take a refuge-seeking tiger with her attendants, while Brahmā reveals the tiger is actually a wicked niśācara with a violent past.
The chapter stages a tension between karuṇā (compassion) and viveka (discrimination), teaching that grace may elevate a being, yet karmic residues still demand reckoning—an ethical-theological balance central to Purāṇic Śaivism.
Kauśikī-Gaurī is highlighted as the compassionate divine feminine, and Śiva/Śaṅkara is implied as the sovereign who can confer gaṇeśvara status, integrating transformation and hierarchy within Śaiva order.