
第24章以毗耶娑发问为缘起,请善那俱摩罗简要叙述一则与五髻女(Pañcacūḍā)相关、旨在警诫德行的旧日教诲。善那俱摩罗宣示将开示“女子之性”(strīṇāṃ svabhāva),使闻者仅凭聆听便生起强烈离欲(vairāgya)。随后引入一段古史(itihāsa):天仙圣者那罗陀游行诸界,遇见天女五髻女,为解疑而问。她起初要求问者具足资格且所问相应;那罗陀说明自己并非为不正之用,而是欲知行为倾向以作辨别之具。善那俱摩罗将其答语作为教化法门,用以诊察执著,并警示求解脱(mokṣa)者莫为诸根境界所缠。其密意并非对女性作世俗描摹,而是出离之辞:借强烈社会意象增上离著,引心从欲(kāma)转向解脱,并凸显修行者须常怀不放逸之警觉(apramāda)。
Verse 1
व्यास उवाच । कुत्सितं योषिदर्थं यत्संप्रोक्तं पंचचूडया । तन्मे ब्रूहि समासेन यदि तुष्टोऽसि मे मुने
毗耶娑说道:“噢,牟尼啊,若你对我满意,请你简要告诉我:五髻女(Pañcacūḍā)关于那与女子相关、可责之事,曾说了些什么?”
Verse 2
सनत्कुमार उवाच । स्त्रीणां स्वभावं वक्ष्यामि शृणु विप्र यथातथम् । यस्य श्रवणमात्रेण भवेद्वैराग्यमुत्तमम्
萨那特库玛罗说道:“我将阐明女子之性;婆罗门啊,你当如实聆听。仅仅听闻此事,便能生起最上离欲(vairāgya)。”
Verse 3
स्त्रियो मूलं हि दोषाणां लघुचित्ताः सदा मुने । तदासक्तिर्न कर्तव्या मोक्षेप्सुभिरतन्द्रितैः
女子,噢圣者,被说为诸多过失之根,心念常轻浮不定;因此,渴求解脱而又警醒不懈的行者,不应陷入对她们的执著。
Verse 4
अत्राप्युदाहरंतीममितिहासं पुरातनम् । नारदस्य च संवादं पुंश्चल्या पंचचूडया
在此我也将引述一则古老的圣传:那罗陀(Nārada)与歌伎五髻女(Pañcacūḍā)之间的对话。
Verse 5
लोकान्परिचरन्धीमान्देवर्षिर्नारदः पुरा । ददर्शाप्सरसं बालां पंचचूडामनुत्तमाम्
昔日,睿智的天界圣仙那罗陀游行诸世界时,见到一位无与伦比的年轻天女阿普萨拉,名为“般遮楚达”。
Verse 6
पप्रच्छाप्सरसं सुभ्रूं नारदो मुनिसत्तमः । संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे
圣贤中最胜的那罗陀问那位眉目秀美的天女阿普萨拉:“我心中生起一疑;纤腰者啊,请为我如实道来。”
Verse 7
एवमुक्ता तु सा विप्रं प्रत्युवाच वराप्सरा । विषये सति वक्ष्यामि समर्थां मन्यसेऽथ माम्
她既被如此询问,那位殊胜的天女便答那婆罗门道:“若此事确当言说,我将为你宣说——只要你认为我堪当其任。”
Verse 8
नारद उवाच । न त्वामविषये भद्रे नियोक्ष्यामि कथंचन । स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं सुमध्यमे
那罗陀说道:“吉祥者啊,我绝不会在任何情况下让你涉入不当之事。纤腰的女士,我愿从你处聆听女子的天性本相。”
Verse 9
सनत्कुमार उवाच । एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा । प्रत्युवाच मुनीशं तं देवर्षिं मुनिसत्तमम्
萨那特库玛罗说道:听闻那位天界圣仙的言辞后,最尊胜的阿普萨拉便答复那位尊贵的牟尼——天仙德瓦尔希、诸修行者中最上者。
Verse 10
पंचचूडोवाच । मुने शृणु न शक्या स्त्री सती वै निंदितुं स्त्रिया । विदितास्ते स्त्रियो याश्च यादृश्यश्च स्वभावतः
潘恰楚达说道:“噢,牟尼,请听。贞洁贤善的女子(satī)不应被另一女子加以诋毁。你早已知晓女人的本性——她们如何为人,以及她们的性情如何由与生俱来的禀性而起。”
Verse 11
न मामर्हसि देवर्षे नियोक्तुं प्रश्नमीदृशम् । इत्युक्त्वा साऽभवत्तूष्णीं पंचचूडाप्सरोवरा
天女中最殊胜者五髻(Pañcacūḍā)说道:“噢,天圣仙人啊,你不当以如此问题逼问于我。”言毕,她便默然无语。
Verse 12
अथ देवर्षिवर्यो हि श्रुत्वा तद्वाक्यमुत्तमम् । प्रत्युवाच पुनस्तां वै लोकानां हितकाम्यया
于是诸天圣仙中最上者,听闻那至善之言,又再答复于她,唯愿诸世界得其安乐。
Verse 13
नारद उवाच । मृषावादे भवेद्दोषस्सत्ये दोषो न विद्यते । इति जानीहि सत्यं त्वं वदातस्तत्सुमध्यमे
那罗陀曰:“妄语必生过失;真实之言则无过失。故当明了此理,吐露真言吧,纤腰佳人。”
Verse 14
सनत्कुमार उवाच । इत्युक्ता सा कृतमती रभसा चारुहासिनी । स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं संप्रचक्रमे
善那特库玛罗说道:她既被如此问及,便心志坚定、应答迅捷,含着柔美的微笑,开始陈述世间女子行止中常见的、恒常而真实的过失。
Verse 15
पञ्चचूडोवाच । कुलीना नाथवंत्यश्च रूपवंत्यश्च योषितः । मर्यादासु न तिष्ठंति स दोषः स्त्रीषु नारद
五髻者(Pañcacūḍa)说道:“即便是出身高贵、有夫君庇护且容貌姣好的女子,也可能不守应有的分寸。噢,那罗陀啊,这是女子中常见的一种过失。”
Verse 16
न स्त्रीभ्यः किंचिदन्यद्वै पापीयस्तरमस्ति हि । स्त्रियो मूलं हि पापानां तथा त्वमपि वेत्थ ह
“诚然,没有什么比对女子的放纵执著更为卑下;因为人们说女子是诸罪之根——此事你也必定知晓。”
Verse 17
समाज्ञातानर्थवतः प्रतिरूपान् यथेप्सितान् । यतीनन्तरमासाद्य नालं नार्य्यः प्रतीक्षितुम्
她们既已得知有合宜而贤善、与所求品性相称的男子;当发现诸苦行者不可得或有所迟延时,便再也无法继续等待。
Verse 18
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो । पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे
噢主宰,这对我们女子而言确成不义之途——抛却羞惭,而与行恶有罪之男子相交相从。
Verse 19
स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति । ईषच्च कुरुते सेवां तमेवेच्छति योषितः
凡是恳求女子、亲近她并为其效劳哪怕只有一点点的男子,那女子便只会渴望他一人。
Verse 20
अनर्थित्वान्मनुष्याणां भयात्पतिजनस्य च । मर्यादायाममर्यादाः स्त्रियस्तिष्ठंति भर्तृषु
因世人多扰及畏惧丈夫之亲族,纵使是放荡不羁之女子,在丈夫的保护与权威之下,亦能守持礼法。
Verse 21
नासां कश्चिदमान्योऽस्ति नासां वयसि निश्चयः । सुरूपं वा कुरूपं वा पुमांसमुपभुंजते
在她们之中,没有哪个男子被视为不配;年龄也无一定之规。无论俊美或丑陋,她们都取男子以供自身享乐。
Verse 22
न भयादथ वाक्रोशान्नार्थहेतोः कथंचन । न ज्ञातिकुलसम्बन्धास्त्रियस्तिष्ठंति भर्तृषु
女子并非因恐惧而依附其夫,也非因严厉呵斥,亦非为财物之故;她们也不只是因亲族与门第之系而留在丈夫身边。
Verse 23
यौवने वर्तमानानामिष्टाभरणवाससाम् । नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः
良家妇女见到别的女子正值青春盛放,佩戴悦目的饰物、身着华美衣裳,又随心而行,便也生起同样的向往。
Verse 24
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां स्त्रीस्वभाववर्णनं नाम चतुर्विंशोऽध्यायः
至此,在《圣湿婆大往世书》第五部《乌玛集》中,题为“女子本性之描述”的第二十四章圆满结束。
Verse 25
पंगुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः । स्त्रीणामगम्यो लोकेषु नास्ति कश्चिन्महामुने
噢天圣仙人,即便在跛者之中,乃至其他卑劣男子之中——大牟尼啊——诸世界里也无一人真能为女子所不可及。
Verse 26
यदि पुंसां गतिर्ब्रह्मन्कथंचिन्नोपपद्यते । अप्यन्योन्यं प्रवर्तन्ते न च तिष्ठन्ति भर्तृषु
婆罗门啊,当人们的正道与至高归宿无从确立时,他们便在不安的追逐中彼此转向,却不能安住于对其正当依止(夫主/主宰)的虔敬与忠诚。
Verse 27
अलाभात्पुरुषाणां च भयात्परिजनस्य च । वधबन्धभयाच्चैव ता भग्नाशा हि योषितः
由于得不到男子,又惧怕自家亲族,并且恐惧被杀或被缚,那些女子遂彻底绝望。
Verse 28
चलस्वभाव दुश्चेष्टा दुर्गाह्या भवतस्तथा । प्राज्ञस्य पुरुषस्येह यथा रतिपरिग्रहात्
你的(心)性轻浮多变,冲动乖僻而难以约束;同样在此世间,即便明智之人,一旦被感官贪著所攫取,也变得难以调伏。
Verse 29
नाग्निस्तुष्यति काष्ठानां नापगानां महोदधि । नान्तकस्सर्वभूतानां न पुंसां वामलोचनाः
火不因柴薪而满足;大海不因众河而盈满。死神不因吞噬群生而餍足——同样,对男子而言,明眸女子的魅力也从不穷尽。故欲望随之则愈增;知足生于克制,并当令心转向赐解脱的主宰——湿婆。
Verse 30
इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् । दृष्ट्वैव पुरुषं सद्यो योनिः प्रक्लिद्यते स्त्रियाः
“还有一桩秘密,天界圣仙啊,为一切女子所共有:只要看见男子,女子的阴门(yoni)便立刻润湿,被欲念所搅动。”
Verse 31
सुस्नातं पुरुषं दृष्ट्वा सुगन्धं मलवर्जितम् । योनिः प्रक्लिद्यते स्त्रीणां दृतेः पात्रादिवोदकम्
“见到男子沐浴洁净、芬芳馥郁、远离污秽,女子的阴门(yoni)便润湿起来——如同水从皮囊或皮制容器中渗出一般。”
Verse 32
कायानामपि दातारं कर्त्तारं मानसांत्वयोः । रक्षितारं न मृष्यंति भर्तारं परमं स्त्रियः
“女子不容忍把那只会供给身用、做些外在安慰之事的人当作夫君;她们只承认真正的守护者为至上之夫——那确实护持并保全她们的人。”
Verse 33
न कामभोगात्परमान्नालंकारार्थसंचयात् । तथा हितं न मन्यन्ते यथा रतिपरिग्रहात्
他们不认为真正的福祉来自享受欲乐,也不来自囤积饰物与财宝;反而以追逐并占有感官之乐为自身安乐之所系。
Verse 34
अन्तकश्शमनो मृत्युः पातालं वडवामुखम् । क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः
安多迦、阎摩、死亡;地下诸界;马面海底之火;剃刀般的锋刃;毒药;毒蛇;与烈火——诸般恐怖在一边;而另一边,人们说“女人”亦有相当之力,能迷乱并系缚人心。
Verse 35
यतश्च भूतानि महांति पंच यतश्च लोको विहितो विधात्रा । यतः पुमांसः प्रमदाश्च निर्मिताः सदैव दोषः प्रमदासु नारद
五大从彼而生;此世界亦由造物主依彼而安立;男女亦由彼而出——然而,噢那罗陀,过失却常常被归咎于女子。
Verse 36
सनत्कुमार उवाच । इति श्रुत्वा वचस्तस्या नारदस्तुष्टमानसः । तथ्यं मत्वा ततस्तद्वै विरक्तोभूद्धि तासु च
善住童子(Sanatkumāra)说:如是听闻她的话语,那罗陀心中欢喜。认定其为真实,于是他确实生起离欲之心,对那些执著之境亦复淡然。
Verse 37
इत्युक्तः स्त्री स्वभावस्ते पंचचूडोक्त आदरात् । वैराग्यकारणं व्यास किमन्यच्छ्रोतुमर्हसि
“如是,般遮俱陀(Pañcacūḍa)以恭敬之心向你阐明了女子之性。噢毗耶娑,生起离欲的因已说尽——你还想听什么呢?”
A framed exemplum is presented: Sanatkumāra recounts how Nārada questions the apsaras Pañcacūḍā, and her ensuing discourse is positioned as a rhetorical instrument to provoke vairāgya and warn liberation-seekers against attachment to sense-objects.
The “apsaras” functions symbolically as viṣaya (sense-allurement) and the dialogue as a diagnostic method: the text converts social/erotic imagery into a contemplative trigger for dispassion, teaching that mokṣa requires unwavering vigilance and the reorientation of attention away from kāma toward liberation.
No specific śiva-svarūpa or gaurī-svarūpa is foregrounded in the sampled passage; the chapter’s Śaiva contribution is primarily soteriological (vairāgya and restraint) rather than iconographic, functioning as preparatory instruction supportive of Śiva-centered practice.