Adhyaya 41
Satarudra SamhitaAdhyaya 4167 Verses

Śiva–Arjuna Yuddha and the Subjugation of Pride (Śiva-parīkṣā)

第41章以阿周那与湿婆的对决,阐明湿婆派所说的神圣“考验”(parīkṣā)。阿周那先观想忆念湿婆而来,投入激烈战斗;湿婆的众侍从神(gaṇa)以利器猛攻,使阿周那在苦难中更忆其主湿婆。阿周那斩断箭雨、步步紧逼,令侍从神一度溃散,旋即被首领制止。战势升级为湿婆与阿周那以多种兵器正面交锋;阿周那出手刚猛,而湿婆内在的慈悲亦隐约可见。湿婆继而剥夺阿周那的武器与甲胄,使其赤露无依,示现武力与物质倚仗之有限。随后二人转为徒手摔跤,其宇宙般的威势震动大地、令诸天不安。最终湿婆腾空而起仍续比斗,彰显超越常规战场条件的神圣主宰。其深义在于:此试炼使英雄之能转化为觉悟——真正的胜利与灵性成就,根植于忆念湿婆与对神意的谦卑顺从。

Shlokas

Verse 1

तमागतन्ततो दृष्ट्वा ध्यानं कृत्वा शिवस्य सः । गत्वा तत्रार्जुनस्तेन युद्धं चक्रे सुदारुणम्

阿周那见他到来,便入定观想主宰湿婆;随后前往彼处,与其展开一场极其惨烈的战斗。

Verse 2

गणैश्च विविधैस्तीक्ष्णैरायुधैस्तं न्यपीडयत् । तैस्तदा पीडितः पार्थः सस्मार स्वामिनं शिवम्

于是众多伽那手持各类锋利兵刃,猛烈逼迫于他;当下被其折磨的帕尔塔(Pārtha)忆念起自己的主宰——湿婆。

Verse 3

अर्जुनश्च तदा तेषां बाणावलिमथाच्छिनत् । यदायुद्धं च तैः क्षिप्तं ततः शर्वं परामृशत्

随后阿周那斩落他们的箭雨。待他们掷来的兵器皆被遏止之后,他便将心转向舍尔瓦(Śarva)——主湿婆,万物之毁灭者。

Verse 4

पीडितास्ते गणास्तेन ययुश्चैव दिशो दश । गणेशा वारितास्ते च नाजग्मुस्स्वामिनम्प्रति

那些伽那被他所逼迫,便向十方逃散。虽被象头神伽内沙拦阻,他们仍未回到自己的主前。

Verse 5

शिवश्चैवार्जुनश्चैव युयुधाते परस्परम् । नानाविधैश्चायुधैर्हि महाबलपराक्रमौ

湿婆与阿周那彼此交战,轮番相当,不分高下。以种种兵器鏖战——二者皆具大力,勇烈炽然——显现主宰之有相(saguṇa)戏游,借以考验并淬炼奉者的英勇与归依。

Verse 6

शिवोऽपि मनसा नूनं दयां कृत्वार्जुनं ह्यगात् । अर्जुनश्च दृढं तत्र प्रहारं कृतवांस्तदा

即便是湿婆,也在心中生起慈悲,向阿周那走近。其时阿周那立定不移,当即施以沉猛一击。

Verse 7

आयुधानि शिवस्सो वै ह्यर्जुनस्याच्छिनत्तदा । कवचानि च सर्वाणि शरीरं केवलं स्थितम्

其时,主宰湿婆亲自斩断阿周那之诸般兵器,又尽裂其一切甲胄;唯余赤身之躯伫立。

Verse 8

तदार्जुनः शिवं स्मृत्वा मल्लयुद्धं चकार सः । वाहिनीपतिना तेन भयात्क्लिष्टोपि धैर्यवान्

尔时阿周那忆念主湿婆,遂入相扑之战(malla-yuddha)。虽因惧彼军旅统帅而心受逼迫,然仍坚忍不移,勇毅不屈。

Verse 9

तद्युद्धेन मही सर्वा चकंपे ससमुद्रका । देवा दुःखं समापन्नः किं भविष्यति वा पुनः

因彼激烈之战,大地尽体连同诸海皆震动。诸天神陷于忧惧,反复自问:“如今将会如何?”

Verse 10

एतस्मित्रंतरे देवः शिवो गगनमास्थितः । युद्धं चकार तत्रस्थस्सोर्जुनश्च तथाऽकरोत्

其间,主宰——湿婆——安住虚空之上而投入战斗;阿周那亦立于彼处,同样奋战。

Verse 11

उड्डीयोड्डीय तौ युद्धं चक्रतुर्देवपार्थिवौ । देवाश्च विस्मयं प्रापू रणं दृष्ट्वा तदाद्भुतम्

二者屡屡腾跃而战——一为神圣者,一为王者之勇士。诸天见此奇妙战阵,尽皆惊叹。

Verse 12

अथार्जुनोत्तरे ज्ञात्वा स्मृत्वा शिवपदांबुजम् । दधार पादयोस्तं वै तद्ध्यानादाप्तसद्बलः

随后,阿周那明了其势,忆念主湿婆的莲华圣足;由此禅观所得善力,他牢牢执住其足。

Verse 13

धृत्वा पादौ तदा तस्य भ्रामयामास सोर्जुनः । विजहास महादेवो भक्तवत्सल ऊतिकृत्

当时阿周那抓住其足,开始旋转挥舞。大天——怜爱 भक्त者、赐予安乐之施惠者——含笑而笑。

Verse 14

दातुं स्वदासतां तस्मै भक्तवश्यतया मुने । शिवेनैव कृतं ह्येतच्चरितन्नान्यथा भवेत्

噢牟尼啊,因被 भक्त之信爱所降伏,正是湿婆亲自成就此事,为赐那位奉者以作其侍从之位;除此别无可能。

Verse 15

पश्चाद्विहस्य तत्रैव शंकरो रूपम द्भुतम् । दर्शयामास सहसा भक्तवश्यतया शुभम्

随后,就在当处,商羯罗含笑戏谑,忽然显现出奇妙而吉祥的圣相——因祂被奉爱(bhakti)所征服。

Verse 16

यथोक्तं वेदशास्त्रेषु पुराणे पुरुषोत्तमम् । व्यासोपदिष्टं ध्यानाय तस्य यत्सर्वसिद्धिदम्

正如《吠陀》、诸论典与《往世书》所宣说:那至上之人(Purushottama)——由毗耶娑为修观而教授——能赐予修禅者一切成就(悉地)。

Verse 17

तद्दृष्ट्वा सुंदरं रूपं ध्यानप्राप्तं शिवस्य तु । बभूव विस्मितोतीव ह्यर्जुनो लज्जितः स्वयम्

目睹那由禅定之力显现的湿婆至尊妙相,阿周那惊叹至极,并自觉内心谦卑羞惭。

Verse 18

अहो शिवश्शिवस्सोय यो मे प्रभुतया वृतः । त्रिलोकेशः स्वयं साक्षाद्धा कृतं किं मयाऽधुना

啊!这就是湿婆——湿婆亲自——以其主宰之恩垂纳于我。三界之主如今直立在我面前;此刻我还需做什么呢?

Verse 19

प्रभोर्बलवती माया मायिनामपि मोहिनी । किं कृतं रूपमाच्छाद्य प्रभुणा छलितो ह्यहम्

主的摩耶极其强大——连善于幻术者亦为其迷惑。祂以假相遮蔽真身,究竟以何等机巧使我受惑?

Verse 20

धियेति संविचार्य्यैव साञ्जलिर्नतमस्तकः । प्रणनाम प्रभुं प्रीत्या तदोवाच स खिन्नधीः

他在心中反复思量:“此乃由智慧与辨识之力。”遂合掌低首;以虔敬之心向主顶礼俯伏,继而虽心仍忧惘,仍开口说道。

Verse 21

अर्जुन उवाच देवदेव महादेव करुणाकर शंकर । ममापराधः सर्वेश क्षन्तव्यश्च त्वया पुनः

阿周那说道:噢,诸神之神,噢,大天(Mahādeva),噢,慈悲的商羯罗(Śaṅkara)——噢,万有之主——我所犯的一切过失,愿你再一次垂怜赦宥。

Verse 22

किं कृतं रूपमाच्छाद्य च्छलितोऽस्मि त्वयाधुना । धिङ् मां समरकर्तारं स्वामिना भवता प्रभो

“你做了什么——遮蔽真实之身,方才又欺诳了我?惭愧啊我这挑起战斗之人;噫,普拉布,我竟被你——我自己的主宰——以方便所胜!”

Verse 23

नन्दीश्वर उवाच । इत्येवं पाण्डवस्सोथ पश्चात्तापमवाप सः । पादयोर्निपपाताशु शंकरस्य महाप्रभोः

难提伊湿伐罗说道:“如此,那位般度之子便充满悔恨,立刻俯伏在大主商羯罗的足下。”

Verse 24

अथेश्वरः प्रसन्नात्मा प्रत्युवाचार्जुनं च तम् । समाश्वास्येति बहुशो महेशो भक्तवत्सलः

随后,主宰心怀欣悦而安定,答复那位阿周那。大自在天摩诃伊湿伐罗,素来怜爱奉者,一再安慰并使他安心。

Verse 25

शंकर उवाच । न खिद्य पार्थ भक्तोसि मम त्वं हि विशेषतः । परीक्षार्थं मया तेऽद्य कृतमेवं शुचञ्जहि

圣者商羯罗说道:“莫要忧伤,哦帕尔塔。你确是我的奉主者,尤为我所钟爱。今日我如此行事,只为试验于你。故当舍离悲苦。”

Verse 26

नंदीश्वर उवाच । इत्युक्त्वा तं स्वहस्ताभ्यामुत्थाप्य प्रभुरर्जुनम् । विलज्जं कारयामास गणैश्च स्वामिनो गणैः

难提湿伐罗说道:“说罢,主以亲手扶起阿周那;又借由主之侍从众伽那(Gaṇa),使他心生惭愧,深感谦卑。”

Verse 27

पुनश्शिवोऽर्जुनम्प्राह पाण्डवं वीरसम्मतम् । हर्षयन् सर्वथा प्रीत्या शंकरो भक्तवत्सलः

主湿婆再次对阿周那——在诸英雄中备受称颂的般度之子——开口。慈爱眷顾信众的商羯罗,以满溢的恩爱之 grace 使他处处欢喜。

Verse 28

शिव उवाच । हे पार्थ पाण्डवश्रेष्ठ प्रसन्नोस्मि वरं वृणु । प्रहारैस्ताडनैस्तेऽद्य पूजनम्मानितम्मया

湿婆说道:“噢,帕尔塔,般度诸子中最卓越者,我已欢喜。你当自择一愿。今日因你之击打与攻势,你的礼敬已为我所纳受并加以嘉许。”

Verse 29

इच्छया च कृतं मेऽद्य नापराधस्तवाधुना । नादेयं विद्यते तुभ्यं यदिच्छसि वृणीष्व तत्

我今日所行,皆出于我自身之意愿;因此此刻你并无过失。于你而言,无有不可赐与之物——随你所愿,择取你所欲者。

Verse 30

ते शत्रुषु यशोराज्यस्थापनाय शुभं कृतम् । एतद्दुःखं न कर्तव्यं वैक्लव्यं च त्यजाखिलम्

此吉祥之举,乃为降伏诸敌,并重建名誉与正当王权而行。故汝勿沉溺于此忧苦;当尽舍一切沮丧与心怯。

Verse 31

नन्दीश्वर उवाच । इत्युक्तस्त्वर्जुनस्तेन प्रभुणा शंकरेण सः । उवाच शंकरं भक्त्या सावधानतया स्थितः

难提伊湿伐罗曰:阿周那既蒙主宰商羯罗如是告诫,便凝神端立、安住不乱;继而以虔敬之心答复商羯罗。

Verse 32

अर्जुन उवाच । भक्तप्रियस्य शम्भोस्ते सुप्रभो किं समीहितम् । वर्णनीयं मया देव कृपालुस्त्वं सदाशिव

阿周那说道:“光辉的主啊!噢,深受奉者爱戴的商婆(Śambhu),你意欲何事?神啊,请告知我当宣说、当称述什么;你是慈悲的,噢,常住吉祥者(Sadāśiva)。”

Verse 33

इत्युक्त्वा संस्तुतिं तस्य शंकरस्य महाप्रभोः । चकार पाण्डवस्सोथ सद्भक्तिं वेदसंमताम्

如此赞颂了大主商羯罗(Śaṅkara)之后,那位般度之子便修行真实的奉爱——为吠陀所认可的奉爱——归向于他。

Verse 34

अर्जुन उवाच । नमस्ते देवदेवाय नमः कैलासवासिने । सदाशिव नमस्तुभ्यं पञ्चवक्त्राय ते नमः

阿周那说道:“礼敬天中之天;礼敬住于凯拉萨(Kailāsa)者。噢,常住吉祥者(Sadāśiva),我向你顶礼;我向你五面相(Pañcavaktra)顶礼。”

Verse 35

कपर्दिने नमस्तुभ्यन्त्रिनेत्राय नमोऽस्तु ते । मनः प्रसन्नरूपाय सहस्रवदनाय च

礼敬你,迦婆尔丁(Kapardin),披垂结发者;礼敬你,三眼之主。礼敬你,那令心欢悦的圣相;亦礼敬你,千面之尊。

Verse 36

नीलकंठ नमस्तेस्तु सद्योजाताय वै नमः । वृषध्वज नमस्तेस्तु वामांगगिरिजाय च

顶礼于您,尼罗迦ṇṭha(青喉大主);亦顶礼于您,萨德约阇多之相。顶礼于您,弗利沙陀伐阇(牛为旗帜者);并顶礼于您,左侧安住着吉丽迦(帕尔瓦蒂)的圣主。

Verse 37

दशदोष नमस्तुभ्यन्नमस्ते परमात्मने । डमरुकपालहस्ताय नमस्ते मुण्डमालिने

顶礼于您,除灭十种过失者;顶礼于您,至上真我。顶礼于您,手持达玛鲁鼓与骷髅钵者;顶礼于您,佩戴骷髅花鬘者。

Verse 38

शुद्धस्फटिकसंकाशशुद्धकर्पूरवर्ष्मणे । पिनाकपाणये तुभ्यन्त्रिशूलवरधारिणे

顶礼于您——身躯清净明耀,如无瑕水晶;形相洁白无垢,如纯净龙脑香;顶礼于您,手执毗那迦弓者,佩持殊胜三叉戟者。

Verse 39

व्याघ्रचर्मोत्तरीयाय गजाम्बरविधारिणे । नागांगाय नमस्तुभ्यं गंगाधर नमोस्तु ते

顶礼于您,披虎皮为上衣、裹象皮为衣者;顶礼于您,通身以蛇为饰者。噢持恒河者(Gaṅgādhara),我向您致敬——再三再三,顶礼于您。

Verse 40

सुपादाय नमस्तेऽस्तु आरक्तचरणाय च । नन्द्यादिगणसेव्याय गणेशाय च ते नमः

顶礼于您,足相端严者;顶礼于您,足色微赤者。亦顶礼于伽内沙,南迪因及诸众伽那侍奉供养之主。

Verse 41

इत्यष्टाशीत्यवताराः । इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातेश्वरावतारवर्णनं नामैकचत्वारिंशोऽध्यायः

至此,已叙述大自在天湿婆的八十八种化现(示现之相)。此为《圣湿婆摩诃往世书》第三部《百鲁陀罗集》之第四十一章终,章名《基罗塔伊湿伐罗化身之描述》。

Verse 42

अगुणाय नमस्तेस्तु सगुणाय नमोनमः । अरूपाय सरूपाय सकलायाकलाय च

礼敬于汝,超越一切德相者(离相、nirguṇa);复再礼敬于汝,具足德相者(有相、saguṇa)。礼敬于汝,无形者;亦礼敬于汝,示现形相者。礼敬于汝,显现之全体;亦礼敬于汝,未显而超越之真实。

Verse 43

नमः किरातरूपाय मदनुग्रहकारिणे । युद्धप्रियाय वीराणां नानालीलानुकारिणे

礼敬那化现为基罗塔(天猎者)之主,赐我恩悯者;礼敬那喜于正法之战者;并为勇士而演示种种神圣戏游者。

Verse 44

यत्किंचिद्दृश्यते रूपन्तत्तेजस्तावकं स्मृतम् । चिद्रूपस्त्वं त्रिलोकेषु रमसेन्वयभेदतः

凡在任何处所所见之形相,皆应知为汝自身的光辉。汝本性为清净觉知;于三界之中,汝随种种因缘与传承差别而示现,并自得其乐。

Verse 45

गुणानान्ते न संख्यास्ति यथा भूरजसामिह । आकाशे तारकाणां हि कणानां वृष्ट्यपामपि

主之德相无有穷尽,故不可计数——如大地尘粒不可胜数,如虚空星辰难以尽数,亦如降雨之水滴无量无边。

Verse 46

न ते गुणास्तु संख्यातुं वेदा वै सम्भवन्ति हि । मन्दबुद्धिरहं नाथ वर्णयामि कथम्पुनः

即便诸吠陀也不能尽数你的德相。主啊,我愚钝浅陋,又怎能描绘赞颂你呢?

Verse 47

सोसि योसि नमस्तेऽस्तु कृपां कर्तुमिहार्हसि । दासोहं ते महेशान स्वामी त्वं मे महेश्वर

你是彼者,你亦是此者——敬礼于你。愿你此时此地垂赐慈恩。噢摩诃伊舍那,我是你的仆从;噢摩诃伊湿伐罗,唯你是我的主宰。

Verse 48

नन्दीश्वर उवाच । इति श्रुत्वा वचस्तस्य पुनः प्रोवाच शंकर । सुप्रसन्नतरो भूत्वा विहसन्प्रभुरर्जुनम्

难提伊湿伐罗说道:听罢他的话,商羯罗又开口。主更显慈悦,含笑对阿周那说道。

Verse 49

शंकर उवाच । वचसा किम्बहूक्तेन शृणुष्व वचनम्मम । शीघ्रं वृणु वरम्पुत्र सर्वन्तच्च ददामि ते

商羯罗说道:“何须多言?且听我之宣示。爱子啊,速择一愿;凡你所求,我皆赐予。”

Verse 50

नन्दीश्वर उवाच । इत्युक्तश्चार्जुनस्तेन प्रणिपत्य सदाशिवम् । साञ्जलिर्नतकः प्रेम्णा प्रोवाच गद्गदाक्षरम्

难提湿伐罗说道:阿周那受其言教,便向常住吉祥的萨达湿婆顶礼。合掌俯首,满怀敬爱而启口,言辞因激动而哽咽。

Verse 51

अर्जुन उवाच । किं ब्रूयां त्वं च सर्वेषामन्तर्यामितया स्थितः । तथापि वर्णितं मेऽद्य श्रूयतां च त्वया विभो

阿周那说道:“当你以‘内在主宰’(Antaryāmin)住于一切众生之中时,我还能说什么呢?然而,哦遍在的大主,我今日已尽己所能陈述;愿你垂听并予以纳受。”

Verse 52

शत्रूणां संकटं यच्च तद्गतन्दर्शनात्तव । ऐहिकीं च परां सिद्धिम्प्राप्नुयां वै तथा कुरु

“唯以瞻仰于你,愿我敌人所遭的一切困厄得以消除;并愿我确能获得世间成就与至上灵性证得。惟愿大主成就此愿。”

Verse 53

नन्दीश्वर उवाच । इत्युक्त्वा तं नमस्कृत्य शंकरम्भक्तवत्सलम् । नतस्कन्धोऽर्जुनस्तत्र बद्धाञ्जलिरुपस्थितः

难提湿伐罗说道:“说罢,阿周那向慈爱护念奉主者的商羯罗顶礼。肩背谦恭下垂,他合掌而立,恭敬地侍立在主前。”

Verse 54

शिवोपि च तथाभूतञ्ज्ञात्वा पाण्डवमर्जुनम् । निजभक्तवरं स्वामी महातुष्टो बभूव ह

湿婆亦然,认出般度族的阿周那确为如此之人,便知他是自己最上首的奉主者;那位主宰因此极其欢喜。

Verse 55

अस्त्रम्पाशुपतं स्वीयन्दुर्जयं सर्वदाखिलैः । ददौ तस्मै महेशानो वचनश्चेदमब्रवीत्

于是摩诃伊舍那(主湿婆)将自己的“帕舒帕塔”神兵——为一切众生所不能征服、恒常无敌——赐予他,并说道如下之言。

Verse 56

शिव उवाच । स्वं महास्त्रम्मया दत्तन्दुर्जयस्त्वम्भविष्यति । अनेन सर्वशत्रूणां जयकृत्यमवाप्नुहि

湿婆说道:“我已将我自身的大天兵赐予你。凭此你将不可战胜。以此成就对一切仇敌的胜利之业。”

Verse 57

कृष्णं च कथयिष्यामि साहाय्यन्ते करिष्यति । स वै ममात्मभूतश्च मद्भक्तः कार्य्यकारकः

“我也要说到黑天——他将助你。确然,他如同我的自我,是我的奉献者,亦是能成办此事的行者。”

Verse 58

मत्प्रभावान्भारत त्वं राज्यन्निकण्टकं कुरु । धर्म्यान्नानाविधान्भ्रात्रा कारय त्वं च सर्वदा

婆罗多啊,凭我的神圣威力,使你的国度无有荆棘——远离祸患与阻挠。并藉由你的诸位兄弟,恒常令种种合乎正法的职责与事业得以施行。

Verse 59

नन्दीश्वर उवाच । इत्युक्त्वा निजहस्तं च धृत्वा शिरसि तस्य सः । पूजितो ह्यर्जुनेनाशु शंकरोन्तरधीयत

难提湿伐罗说道:说罢,圣主商羯罗以自己的手按在阿周那的头顶。阿周那恭敬礼拜供养之后,主商羯罗便迅速隐没,消失于众目。

Verse 60

अथार्जुनः प्रसन्नात्मा प्राप्यास्त्रं च वरं प्रभोः । जगाम स्वाश्रमे मुख्यं स्मरन्भक्त्या गुरुं शिवम्

随后,阿周那心神澄明,从主那里得到了神圣的武器与恩赐,便回到自己主要的隐修林;他以虔敬之心忆念湿婆——上师之主。

Verse 61

सर्व्वे ते भ्रातरः प्रीतास्तन्वः प्राणमिवागतम् । मिलित्वा तं सुखं प्रापुर्द्रौपदी चाति सुव्रता

诸兄弟皆欢喜充满,仿佛生命之息重归其身。再度相逢,他们得大安乐;而德行至纯、誓愿坚固的德罗帕蒂亦极其欣悦。

Verse 62

शिवं परं च सन्तुष्टम्पाण्डवाः सर्व एव हि । नातृप्यन्सर्ववृत्तान्तं श्रुत्वा हर्षमुपागताः

诚然,般度诸子皆对至上湿婆心满意足;然而听完全部经过,他们仍不觉餍足,反而喜悦盈怀。

Verse 63

आश्रमे पुष्पवृष्टिश्च चन्दनेन समन्विता । पपात सुकरार्थं च तेषाञ्चैव महात्मनाम्

在林居道场中,夹杂着檀香芬芳的花雨纷纷降下,赐予那些大心者吉祥安泰与顺遂安乐。

Verse 64

धन्यं च शंकरं चैव नमस्कृत्य शिवम्मुदा । अवधिं चागतं ज्ञात्वा जयश्चैव भविष्यति

欢喜顶礼吉祥的商羯罗——即湿婆本尊——并知晓考验的命定期限已至,胜利必将实现。

Verse 65

एतस्मिन्नन्तरे कृष्णश्श्रुत्वार्जुनमथागतम् । मेलनाय समायातश्श्रुत्वा सुखमुपागतः

其间,克里希那听闻阿周那已至,便前来相会;闻此消息,他心中充满欢喜。

Verse 66

अतश्चैव मयाख्यातः शंकरः सर्वदुःखहा । स सेव्यते मया नित्यं भवद्भिरपि सेव्यताम्

因此我宣说:圣者商羯罗(Śaṅkara)能除尽一切忧苦。我日日礼拜供奉于祂;你们亦当礼敬供奉于祂。

Verse 67

इत्युक्तस्ते किराताह्वोवतारश्शंकस्य वै । तं श्रुत्वा श्रावयन्वापि सर्वान्कामानवाप्नुयात्

如是宣说了商羯罗(Śaṅkara)名为“基罗多(Kirāta)”的化身。凡闻此事迹者,或令他人亦得闻者,皆能成就一切所愿。

Frequently Asked Questions

It presents the Śiva–Arjuna confrontation as a structured divine ordeal: Arjuna’s prowess is met by gaṇas and then by Śiva directly, culminating in the stripping of weapons/armor and a cosmic-scale duel, arguing that devotion and humility before Śiva’s will outrank heroic self-reliance.

Weapons and armor represent contingent supports (upādhis) and ego-backed agency; their removal dramatizes spiritual nakedness before the Absolute. The gaṇas signify the Lord’s operative powers guarding sacred order, while the earth shaking and aerial combat encode the cosmic scope of Śiva’s sovereignty beyond terrestrial limits.

Śiva is highlighted as both the formidable Rudra-like warrior and the compassionate lord acting 'manasā dayāṃ kṛtvā'—a synthesis of terrifying power and inward grace (anugraha), revealing the divine capacity to test, restrain, and uplift the devotee simultaneously.