Adhyaya 26
Satarudra SamhitaAdhyaya 2665 Verses

Vaiśyanātha-avatāra-kathā (The Account of Śiva’s Manifestation as Vaiśyanātha)

本章以难提湿伐罗(Nandīśvara uvāca)的开示为框架,讲述湿婆以“毗舍耶那他”(Vaiśyanātha)之名示现的化身故事。情节设于难提伽罗摩(Nandigrāma),并介绍名妓摩诃难陀(Mahānandā),以美貌、财富与精通歌舞技艺著称。章节借叙事建立教义要旨:虔敬(bhakti)超越世俗的社会标签。摩诃难陀恒常奉事商羯罗(Śaṃkara),专注持诵湿婆圣名(śiva-nāma-japa),身涂圣灰 bhasma、佩戴鲁陀罗珠 rudrākṣa,并每日礼拜。她歌咏湿婆功德,且在虔敬狂喜中起舞。又以一只猴与一只雄鸡为象征:为其饰以鲁陀罗珠并训练舞动,显示圣徽与持戒修行能使边缘者乃至动物界亦得净化与神圣化。诸般母题为后续化身的救度介入铺垫,并含蓄呈现“恩赐/加被”(anugraha)通过虔敬、圣名与湿婆派标志而流注的神学。

Shlokas

Verse 1

नन्दीश्वर उवाच । शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः । अवतारं परमानन्दं वैश्यनाथाह्वयं मुने

难提伊湿伐罗说道:“亲爱的孩子,且听我说。如今我将宣说湿婆——至上真我——的降世(化身),那是至极安乐的化现;噢,牟尼,此化身名为毗舍耶那他(Vaiśyanātha)。”

Verse 2

नन्दिग्रामे पुरा काचिन्महानन्देति विश्रुता । बभूव वारवनिता शिवभक्ता सुसुन्दरी

很久以前,在难提村(Nandigrāma),住着一位名闻遐迩的歌伎,名叫摩诃难陀(Mahānandā)——容貌绝伦,且虔敬礼拜湿婆主。

Verse 3

महाविभवसम्पन्ना सुधनाढ्या महोज्ज्वला । नानारत्नपरिच्छिन्न शृङ्गाररसनिर्भरा

她具足大富贵,财宝充盈,光彩夺目——以种种珍宝严饰,满溢吉祥妆饰之美与风韵。

Verse 4

सर्वसंगीत विद्यासु निपुणातिमनोहरा । तस्या गेयेन हृष्यन्ति राज्ञ्यो राजान एव च

她精通一切音乐艺业,极其摄人心魄。她的歌声使王后们与诸王自身都心生欢喜。

Verse 5

समानर्च सदा साम्बं सा वेश्या शंकरं मुदा । शिवनामजपासक्ता भस्मरुद्राक्षभूषणा

那歌伎常以欢喜之心礼敬商羯罗——与乌玛同在的湿婆。她专注持诵湿婆圣名,以圣灰(tripuṇḍra-bhasma)与鲁陀罗叉念珠庄严其身。

Verse 6

शिवं सम्पूज्य सा नित्यं सेवन्ती जगदीश्वरम् । ननर्त परया भक्त्या गायन्ती शिवसद्यशः

她如法礼敬湿婆后,恒常侍奉宇宙之主。歌咏湿婆当下显现的荣光,她以至上的虔敬起舞。

Verse 7

रुद्राक्षैर्भूषयित्वैकं मर्कटं चैव कुक्कुटम् । करतालैश्च गीतैश्च सदा नर्तयति स्म सा

她以鲁陀罗叉念珠装饰一只猴子与一只公鸡,并以拍掌与歌唱相伴,常常令它们起舞。

Verse 8

नृत्यमानौ च तौ दृष्ट्वा शिवभक्तिरता च सा । वेश्या स्म विहसत्युच्चैः प्रेम्णा सर्वसखीयुता

见那二者起舞,那位歌伎沉浸于对湿婆的虔信之中,因爱而放声欢笑,众伴侣环绕在侧。

Verse 9

रुद्राक्षैः कृतकेयूरकर्णा भरणमण्डनः । मर्कटः शिक्षया तस्याः पुरो नृत्यति बालवत्

那猴子以鲁陀罗叉珠制成的臂钏与耳饰为装点;经她调教,便在她面前如幼童般起舞。

Verse 10

शिखासंबद्धरुद्राक्षः कुक्कुटः कपिना सह । नित्यं ननर्त नृत्यज्ञः पश्यतां हितमावहन्

公鸡的发髻上系着鲁德拉叉(金刚菩提),它与猴子一起,每天以精湛的舞技翩翩起舞,给所有观看的人带来福祉与吉祥。

Verse 11

एवं सा कुर्वती वेश्या कौतुकम्परमादरात् । शिवभक्तिरता नित्यं महानन्दभराऽभवत्

于是,那位歌妓以热切的好奇与至高的恭敬如此行持,恒常安住于对湿婆的奉爱(Śiva-bhakti),并不断充满广大喜乐。

Verse 12

शिवभक्तिं प्रकुर्वन्त्या वेश्याया मुनिसत्तम । बहुकालो व्यतीयाय तस्याः परमसौख्यतः

噢,最胜的圣贤啊!当那歌妓持续修持对主湿婆的奉爱时,漫长岁月于她而言在至上的内在安乐中悄然流逝。

Verse 13

एकदा च गृहे तस्या वैश्यो भूत्वा शिवस्स्वयम् । परीक्षितुं च तद्भावमाजगाम शुभो व्रती

有一次,主湿婆亲自化作一位吠舍(商人)来到她家。那吉祥的持戒者为试验她奉爱的真诚与内在心境而来。

Verse 14

त्रिपुण्ड्रविलसद्भालो रुद्राक्षाभरणः कृती । शिवनामजपासक्तो जटिलः शैववेषभृत्

他的额头以三道圣灰印(tripuṇḍra)熠熠生辉;身佩鲁陀罗叉念珠,行持严谨而德行圆满。专注于持诵湿婆圣名,发结成髻(jaṭā),身着湿婆派奉献者的标志性衣饰。

Verse 15

स बिभ्रद्भस्मनिचयं प्रकोष्ठे वरकंकणम् । महारत्नपरिस्तीर्णं राजते परकौतुकी

祂喜悦于奇妙的庄严而熠熠生辉——手持一堆神圣的圣灰(bhasma),前臂佩戴上等臂钏,镶嵌铺陈无数大宝珠。

Verse 16

तमागतं सुसंपूज्य सा वेश्या परया मुदा । स्वस्थाने सादरं वैश्यं सुन्दरी हि न्यवेशयत्

商人到来时,那位歌伎满怀大喜,依礼恭敬款待,并郑重地请那俊美的吠舍商人坐在她自己的座位上。

Verse 17

तत्प्रकोष्ठे वरं वीक्ष्य कंकणं सुमनोहरम् । तस्मिञ्जातस्पृहा सा च तं प्रोवाच सुविस्मिता

她看见他腕上那只华美、极其动人的臂钏,心中便生起渴慕;在欢喜的惊叹中,她对他说道。

Verse 18

महानन्दोवाच । महारत्नमयश्चायं कंकणस्त्वत्करे स्थितः । मनो हरति मे सद्यो दिव्यस्त्रीभूषणोचितः

摩诃难陀说道:“这臂钏由大宝珠所成,如今安在你手上。它立刻摄住我的心神——确是天界淑女所宜的神圣饰物。”

Verse 19

नन्दीश्वर उवाच । इति तां नवरत्नाढ्ये सस्पृहां करभूषणे । वीक्ष्योदारमतिर्वैश्यः सस्मितं समभाषत

难提湿伐罗说道:于是,见她以九宝(navaratna)为饰,珠玉丰盛、装点华贵,那胸怀宽宏的吠舍心生渴慕,含笑开口说道。

Verse 20

वैश्यनाथ उवाच । अस्मिन्रत्नवरे दिव्ये सस्पृहं यदि ते मनः । त्वमेवाधत्स्व सुप्रीत्या मौल्यमस्य ददासि किम्

毗舍耶那他(Vaiśyanātha)说道:“若你心中渴慕这颗殊胜的天赐宝珠,就请你以欢喜的奉爱亲自取去——你又能拿什么价钱来偿付它呢?”

Verse 21

वेश्योवाच । वयं हि स्वैरचारिण्यो वेश्यास्तु न पतिव्रताः । अस्मत्कुलोचितो धर्मो व्यभिचारो न संशयः

妓女说道:“确实,我们是随心而行的女子;既为妓女,便不守一夫之贞。就我们的族类与行当而言,被称为‘相应之法’的行止,便是与多人相交——毫无疑问。”

Verse 22

यद्येतदखिलं चित्तं गृह्णाति करभूषणम् । दिनत्रयमहोरात्रं पत्नी तव भवाम्यहम्

“若你收下我这整颗心的供奉——这为你手腕而备的饰物——那么三日三夜之间,我便作你的妻。”

Verse 23

वैश्य उवाच । तथास्तु यदि ते सत्यं वचनं वीरवल्लभे । ददामि रत्नवलयं त्रिरात्रं भव मे वधूः

吠舍说道:“如是便好——若你所言真实,噢,英雄所爱之人。我将赠你宝石手镯;三夜之间,你当作我的新娘。”

Verse 24

एतस्मिन्व्यवहारे तु प्रमाणं शशिभास्करौ । त्रिवारं सत्यमित्युक्त्वा हृदयं मे स्पृश प्रिये

在此事上,月与日即为凭证与见证。你三次宣言“此乃真实”之后,爱人啊,请触我心间。

Verse 25

वेश्योवाच । दिनत्रयमहोरात्रं पत्नी भूत्वा तव प्रभो । सहधर्मं चरामीति सत्यंसत्यं न संशयः

那歌伎说道:“主啊,三日三夜之间,我愿为你的妻,与君同修共行之法(达摩)。此言真实——真实无疑。”

Verse 26

नन्दीश्वर उवाच । इत्युक्त्वा हि महानन्दा त्रिवारं शशिभास्करौ । प्रमाणीकृत्य सुप्रीत्या सा तद्धृदयमस्पृशत्

难提湿伐罗说道:如是言毕,摩诃难陀恭敬地三次以月与日为证,心怀欢喜,以深情触及他的心。

Verse 27

अथ तस्यै स वैश्यस्तु प्रदत्त्वा रत्नकंकणम् । लिंगं रत्नमयं तस्य हस्ते दत्त्वेदमब्रवीत्

随后,那位吠舍献给她一只宝石手镯,又将宝石所成的湿婆林伽置于她手中,并说道如下之语。

Verse 28

वैश्यनाथ उवाच । इदं रत्नमयं लिंगं शैवं मत्प्राणदवल्ल भम् । रक्षणीयं त्वया कान्ते गोपनीयं प्रयत्नतः

吠舍那他说道:“爱人啊,此宝石所成的湿婆圣林伽,于我如同生命之息般珍贵。你当护持它,并竭力将其隐秘不露。”

Verse 29

नन्दीश्वर उवाच । एवमस्त्विति सा प्रोच्य लिंगमादाय रत्नजम् । नाट्यमण्डपिका मध्ये निधाय प्राविशद्गृहम्

难提湿伐罗说道:“如是。”她说罢,取起宝石林伽,安置在舞亭中央,随后进入屋内。

Verse 30

सा तेन संगता रात्रौ वैश्येन विटधर्मिणा । सुखं सुष्वाप पर्यंके मृदुतल्पोपशो भिते

那一夜,她与他同宿——那位行止放荡的吠舍——并在铺着柔软寝具的榻上安适而眠。

Verse 31

ततो निशीथसमये मुने वैश्यपतीच्छया । अकस्मादुत्थिता वाणी नृत्यमण्डपिकान्तरे

随后,在夜最深沉之时,噢牟尼圣者,因吠舍之妻的心愿,舞亭内室之中忽然响起一声神秘之语。

Verse 32

महाप्रज्वलितो वह्निः सुसमीरसहायवान् । नाट्यमण्डपिकां तात तामेव सहसावृणोत्

一团大火猛烈炽燃,又得强风助势,亲爱的啊,顷刻间便吞没了那座舞亭。

Verse 33

मण्डपे दह्यमाने तु सहसोत्थाय संभ्रमात् । मर्कटं मोचयामास सा वेश्या तत्र बन्धनात्

当舞亭燃烧之时,那名歌伎惊惶地立刻起身,在那里解开束缚,放出了那只猴子。

Verse 34

स मर्कटो मुक्तबन्धः कुक्कुटेन सहामुना । भिया दूरं हि दुद्राव विधूयाग्निकणान्बहून्

那猴子既已脱缚,便与这只公鸡一同因惧而远遁,抖落了许多火星。

Verse 35

स्तम्भेन सह निर्दग्धं तल्लिंगं शकलीकृतम् । दृष्ट्वा वेश्या स वैश्यश्च दुरंतं दुःखमापतुः

当那圣林伽连同其柱被焚烧并碎裂成片时,见此情景,那妓女与那位商人都陷入难以承受的悲痛之中。

Verse 36

दृष्ट्वा ह्यात्मसमं लिंगं दग्धं वैश्यपतिस्तदा । ज्ञातुन्तद्भावमन्तःस्थम्मरणाय मतिन्दधे

见到那与自身无二的林伽已被焚毁,吠舍之主当即立下赴死之念,只为体悟那内在安住之实相的幽微境界与真实义趣。

Verse 37

निविश्येतितरां खेदाद्वैश्यस्तामाह दुःखिताम् । नानालीलो महेशानः कौतुकान्नरदेहवान्

吠舍因忧苦疲惫而坐下,哀伤地对她诉说。只因大自在天摩诃伊舍那,其戏游万端,出于神圣的妙趣而示现人身。

Verse 38

वैश्यपतिरुवाच । शिवलिंगे तु निर्भिन्ने दग्धे महत्प्राणवल्लभे । सत्यं वच्मि न सन्देहो नाहं जीवितुमुत्सहे

吠舍主说道:“当湿婆林伽被劈裂并焚烧——比我的生命更为珍爱——我所言皆真,毫无疑惑:我已不愿再活。”

Verse 39

चितां कारय मे भद्रे स्वभृत्यैस्त्वं वरैर्लघु । शिवे मनस्समावेश्य प्रवेक्ष्यामि हुताशनम्

“吉祥者啊,速令你那些得力的侍从为我备好火葬柴堆。令我心神全然安住于湿婆,我将步入烈火。”

Verse 40

यदि ब्रह्मेन्द्रविष्ण्वाद्या वारयेयुः समेत्य माम् । तथाप्यस्मिन् क्षणे भद्रे प्रविशामि त्यजाम्यसून्

“纵使梵天、因陀罗、毗湿奴等诸天齐来阻我,然就在此刻,吉祥者啊,我亦将投入此誓愿,舍离我之生命气息。”

Verse 41

नन्दीश्वर उवाच । तमेवं दृढनिर्बन्धं सा विज्ञाय सुदुःखिता । स्वभृत्यैः कारयामास चितां स्वभवनाद्बहिः

难提伊湿伐罗说道:她得知他意志如此坚决,便深陷悲痛,遂命自己的侍从在宅邸之外备置火葬的柴堆。

Verse 42

ततस्स वैश्यश्शिव एक एव प्रदक्षिणीकृत्य समिद्धमग्निम् । विवेश पश्यत्सु नरेषु धीरः सुकौतुकी संगतिभावमिच्छुः

随后,那位吠舍——心志坚定、虔奉湿婆——独自绕着熊熊燃起的圣火行右绕礼;在众人注视之下,他从容步入火中,心中渴望与湿婆相契相近。

Verse 43

दृष्ट्वा सा तद्गतिं वेश्या महानन्दातिविस्मिता । अनुतापं च युवती प्रपेदे मुनिसत्तम

见到他所证得的归趣(境地),那名妓女大喜而惊叹不已;继而,少女心中涌起深深悔恨,噢,最胜的圣仙。

Verse 44

अथ सा दुःखिता वेश्या स्मृत्वा धर्म सुनिर्मलम् । सर्वान्बंधुजनान्वीक्ष्य बभाषे करुणं वचः

随后,那悲恸的妓女忆起正法(dharma)无垢的清净,环顾诸亲族,便以悲悯之语开口说道。

Verse 45

महानन्दोवाच । रत्नकंकणमादाय मया सत्यमुदाहृतम् । दिनत्रयमहं पत्नी वैश्यस्यामुष्य संमता

玛哈南达(Mahānanda)说:“拿着这只镶嵌珠宝的手镯,我所说的是实话。在三天的时间里,我被接纳为那位吠舍(Vaiśya,商人)的妻子。”

Verse 46

कर्मणा मत्कृतेनायं मृतो वैश्यः शिवव्रती । तस्मादहं प्रवेक्ष्यामि सहानेन हुताशनम्

“因为我所做的一件事,这位坚守对湿婆(Śiva)虔诚誓言的吠舍去世了。因此,我将与他一同进入火中(炽热的火焰)。”

Verse 47

स्वधर्मचारिणी त्यक्तमाचार्य्यै सत्यवादिभिः । एवं कृते मम प्रीत्या सत्यं मयि न नश्यतु

她虽恪守自身正法,却被说真言的师长所弃。若此举是出于对我的爱敬,愿我之内的真理永不毁灭,永不变伪。

Verse 48

सत्याश्रयः परो धर्म सत्येन परमा गतिः । सत्येन स्वर्ग मोक्षौ च सत्ये सर्वं प्रतिष्ठितम्

至上的法,是依止真理之法。由真理得至最高归趣。凭真理可得天界与解脱;一切万有,确然安立于真理之中。

Verse 49

नन्दीश्वर उवाच । इति सा दृढनिर्वन्धा वार्यमाणापि बन्धुभिः । सत्यलोकपरा नारी प्राणांस्त्यक्तुं मनो दधे

难提湿伐罗说道:如是,那位坚贞的女子,虽被亲族劝阻,仍一心趋向真谛天(Satyaloka),在心中决意舍弃生命。

Verse 50

सर्वस्वं द्विजमुख्येभ्यो दत्त्वा ध्यात्वा सदाशिवम् । तमग्निं त्रिः परिक्रम्य प्रवेशाभिमुखी ह्यभूत्

她将一切所有布施给最尊贵的二生者,复又观想常住吉祥的萨达湿婆(Sadāśiva)。随后,她绕行那圣火三匝,便转身面向,准备投入其中。

Verse 51

तां पतन्तीं समिद्धेग्नौ स्वपदार्पितमानसाम् । वारयामास विश्वात्मा प्रादुर्भूतः स वै शिवः

当她正要坠入熊熊燃烧、已然旺盛点燃的火中——其心神尽皆奉献于主之莲足——湿婆自身,作为宇宙内在之灵(世界之我),显现而出,制止了她。

Verse 52

सा तं विलोक्याखिलदेवदेवन्त्रिलोचनं चन्द्रकलावतंसम् । शशांकसूर्यानलकोटिभासं स्तब्धेव भीतेव तथैव तस्थौ

她见到祂——诸天之主、三眼者、以新月为冠饰——光辉灿然,宛如无数月轮、日轮与火焰;她便如其所立,恍若惊呆般一动不动,又似畏惧般战栗。

Verse 53

तां विह्वलां सुवित्रस्वां वेपमानां जडीकृताम् । समाश्वास्य गलद्बाष्पां करौ धृत्वाऽब्रवीद्वचः

见她惊惶失措——恐惧战栗,仿佛呆住——祂便温柔安慰。泪水潸然之际,祂握住她的双手,说道:

Verse 54

शिव उवाच । सत्यं धर्मं च धैर्यं च भक्तिं च मयि निश्चलाम् । परीक्षितुं त्वत्सकाशं वैश्यो भूत्वाहमागतः

湿婆说道:“为考验你之真实、正法、坚忍,以及对我不动摇的奉爱,我化作吠舍(vaiśya)之形,来到你这里。”

Verse 55

मा ययाग्निं समुद्दीप्य दग्धन्ते नाट्यमण्डपम् । दग्धं कृत्वा रत्नलिंगं प्रविष्टोहं हुताशनम्

“哀哉!因她点燃烈火,焚毁了神圣舞蹈之殿。将如宝珠般的林伽烧尽之后,我也投入那熊熊火焰之中。”

Verse 56

सा त्वं सत्यमनुस्मृत्य प्रविष्टाग्निं मया सहा । अतस्ते संप्रदास्यामि भोगांस्त्रिदशदुर्लभान्

你——忆念真实——与我一同入火。因此,我将赐予你连三十天神也难得的享乐与神圣成就。

Verse 57

यद्यदिच्छसि सुश्रोणि तदेव हि ददामि ते । त्वद्भक्त्याहं प्रसन्नोस्मि तवादेयं न विद्यते

噢,腰胯娴美者,凡你所愿,我皆赐予。因你的虔敬,我已全然欢喜;对你而言,从我处领受并无不当之物。

Verse 58

नन्दीश्वर उवाच । इति ब्रुवति गौरीशे शंकरे भक्तवत्सले । महानन्दा च सा वेश्या शंकरम्प्रत्यभाषत

难提湿伐罗说道:当高丽之主——善待信众、怜爱奉者的商羯罗——如此开示之时,那名名为摩诃难陀的歌伎便起身答复商羯罗。

Verse 59

वेश्योवाच । न मे वाञ्छास्ति भोगेषु भूमौ स्वर्गे रसातले । तव पादाम्बुजस्पर्शादन्यत्किंचिन्न कामये

歌伎说道:“我对享乐毫无所求——无论在人间、天界,乃至罗娑多罗(下界)。除了得触及您莲华般的圣足之外,我别无所愿。”

Verse 60

ये मे भृत्याश्च दास्यश्च ये चान्ये मम बान्धवाः । सर्वे त्वद्दर्शनपरास्त्वयि सन्न्यस्तवृत्तयः

“我的仆从与婢女,以及我其余一切亲族——众人皆唯愿瞻仰尊主;他们的生活之道与内在精进,尽已托付于你。”

Verse 61

सर्वानेतान्मया सार्द्धं निनीयात्मपरम्पदम् । पुनर्जन्मभयं घोरं विमोचय नमोऽस्तु ते

愿你与我一道,引领此众皆至自性的至上境界——你最崇高的圣住处;并解脱(我等)于再生轮回那可怖之惧。顶礼于你。

Verse 62

नन्दीश्वर उवाच । ततस्स तस्या वचनम्प्रतिनन्द्य महेश्वरः । ताः सर्वाश्च तया सार्धं निनाय स्वम्परम्पदम्

难提伊湿伐罗说道:随后,大自在天慈然允纳她的话语,便将众人——连同她——引入他自身的至上圣住处,即解脱的最高境界。

Verse 63

वैश्यनाथावतारस्ते वर्णितः परमो मया । महानन्दासुखकरो भक्तानन्दप्रदस्सदा

至此,我已宣说了名为毗舍耶那他(Vaiśyanātha)之化身的至上事迹。他赐予广大安乐与喜悦,并恒常施与其奉者欢欣。

Verse 64

इदं चरित्रं परमं पवित्रं सतां च सर्वप्रदमाशु दिव्यम् । शिवावतारस्य विशाम्पतेर्महानन्दामहासौख्यकरं विचित्रम्

此圣传至为清净,最能涤除垢染——具大神圣之性,并迅速赐予贤善者一切福德。噫,人中之主,此乃湿婆之化身(avatāra)奇妙事迹,能带来大安乐与深邃的灵性喜悦。

Verse 65

इदं यः शृणुयाद्भक्त्या श्रावयेद्वा समाहितः । च्यवते न स्वधर्मात्स परत्र लभते गतिम्

凡以虔信聆听此章者——或以摄心令他人为众诵读者——不致从自身的自法(svadharma)中退堕;并于来世获得真实的归趣(gati),得至吉祥安乐之境。

Frequently Asked Questions

Nandīśvara introduces the Vaiśyanātha-avatāra narrative and grounds it in an exemplum: Mahānandā’s unwavering Shaiva devotion. The theological argument is that authentic bhakti—expressed through worship and nāma-japa—carries salvific force irrespective of social designation.

Rudrākṣa and bhasma operate as condensed Shaiva theology: they signify belonging to Śiva, inner purification, and remembrance. Their extension even to a trained monkey and rooster dramatizes the doctrine that sacred signs and disciplined practice can transform the field of action (karma) into offering (upacāra), sacralizing the mundane.

Śiva is highlighted as the supreme paramātman and specifically introduced under the avatāra-name Vaiśyanātha. The sampled verses do not foreground a distinct Gaurī/Umā manifestation; the emphasis is on Śiva’s grace mediated through devotion and Shaiva observances.