Adhyaya 20
Satarudra SamhitaAdhyaya 2040 Verses

हनूमत्प्रादुर्भावः (Hanūmat-prādurbhāvaḥ) — The Manifestation/Birth of Hanumān as Śiva’s Agency

第20章以难提湿伐罗对一位牟尼的开示展开,专述哈奴曼事迹,并明言这是湿婆为成就罗摩事业(rāma-kāryārtha)而示现的神圣戏游(līlā)。商婆见毗湿奴之摩希尼相,所起之动并非纯属情欲,而是受控且有目的的神意。湿婆之精力(vīrya)由七仙(Saptarṣi)收摄,置于叶制器皿中守护,象征仪轨的涵容与宇宙的托付。继而此力转授于安贾那(Añjanā),并联系乔达摩系谱与“由耳而受”的传承意象,强调合乎法(dharma)的工具性。哈奴曼以猿身(kapi)作为商婆之显现而诞生,具大力(mahā-bala)与大勇(mahā-parākrama)。其幼时欲吞日轮之事,被解读为超凡威能的征兆。诸天(deva)出面调停,认定哈奴曼为湿婆化身(avatāra),并赐予诸神与仙圣的祝福。最终他归母前叙述经过,以家亲之系与教诲之明作结:湿婆虽示现于身,超越性不减;化身乃为护持正法、助成罗摩使命的定向恩典。

Shlokas

Verse 1

नन्दीश्वर उवाच । अतः परं श्रुणु प्रीत्या हनुमच्चरितम्मुने । यथा चकाराशु हरो लीलास्तद्रूपतो वराः

难提湿伐罗说道:“如今,噢牟尼,请以欢喜虔敬聆听哈奴曼的圣传——哈罗(主湿婆)化现为那殊胜之相,迅疾演作其神圣戏游(līlā)。”

Verse 2

चकार सुहितं प्रीत्या रामस्य परमेश्वराः । तत्सर्वं चरितं विप्र शृणु सर्वसुखावहम्

至上主(湿婆)以慈爱之恩,为罗摩成就最为有益之事。噢婆罗门,请聆听这全部圣传——它能赐予一切吉祥之乐。

Verse 3

एकस्मिन्समये शम्भुरद्भुतोतिकरः प्रभुः । ददर्श मोहिनीरूपं विष्णोस्स हि वसद्गुणः

有一次,主宰商布(Śambhu)——其临在能显现无量奇迹——见到毗湿奴(Viṣṇu)那迷惑众生的摩希尼(Mohinī)之相,此相乃由毗湿奴自身内住之力所显。

Verse 4

चक्रे स्वं क्षुभितं शम्भुः कामबाणहतो यथा । स्वम्वीर्यम्पातयामास रामकार्यार्थमीश्वरः

商布(Śambhu)之主使自身震荡,如同被爱神迦摩(Kāma)之箭所中;为成就罗摩(Rāma)的神圣旨意,至上主令自身雄浑之精力(vīrya)流出。

Verse 5

तद्वीर्यं स्थापयामासुः पत्रे सप्तर्षयश्च ते । प्रेरिता मनसा तेन रामकार्यार्थ मादरात

在他的内心感召下,那七位圣仙恭敬谨慎地将那雄浑精粹安置于一片叶上,为成就罗摩(Rāma)的神圣使命。

Verse 6

तैर्गौतमसुतायां तद्वीर्यं शम्भोर्महर्षिभिः । कर्णद्वारा तथांजन्यां रामकार्यार्थमाहितम्

借由那些大圣仙,商布(Śambhu)的精力被传入乔多摩(Gautama)之女;同样地,又由耳门植入阿阇那(Añjanā)之中,为成就罗摩(Rāma)的神圣目的。

Verse 7

ततश्च समये तस्माद्धनूमा निति नामभाक् । शम्भुर्जज्ञे कपितनुर्महाबलपराक्रमः

于是就在那一刻,商布(主湿婆)以猿身而生,名号“哈奴曼尼提”(Hanūmānīti),具无量大力与英雄威猛。

Verse 8

हनूमान्स कपीशानः शिशुरेव महाबलः । रविबिम्बं बभक्षाशु ज्ञात्वा लघुफलम्प्रगे

哈奴曼,群猴之主——虽仍幼小却具无边神力——在黎明时分迅疾跃起,欲吞日轮,只因误以为那是小小果实。

Verse 9

देवप्रार्थनया तं सोऽत्यजज्ज्ञात्वा महाबलम् । शिवावतारं च प्राप वरान्दत्तान्सुरर्षिभिः

在诸天的祈请之下,他知晓其无边大力,便将其释放;并得证为湿婆之化身,同时领受诸天与天仙圣者所赐的诸般恩赐。

Verse 10

स्वजनन्यन्तिकम्प्रागादथ सोतिप्रहर्षितः । हनूमान्सर्वमाचख्यौ तस्यै तद्वृत्तमादरात्

随后,哈奴曼满怀大喜,立刻来到母亲身边;他以恭敬之心,将所发生的一切始末悉数禀告于她。

Verse 11

तदाज्ञया ततो धीरस्सर्वविद्यामयत्नतः । सूर्यात्पपाठ स कपिर्गत्वा नित्यं तदान्तिकम्

遵奉其命,那位坚毅者不费力便通达诸般学艺;这位猿族英雄日日前往日神苏利耶座前,从他处受教。

Verse 12

सूर्याज्ञया तदंशत्य सुग्रीवस्यान्तिकं ययौ । मातुराज्ञामनुप्राप्य रुद्रांशः कपिसत्तमः

依日神苏利耶之命,那尊贵的神圣分身前往觐见苏格利瓦;既已恭敬领受母命,作为鲁陀罗一分之化现的最上猿王,便如是启程。

Verse 13

ज्येष्ठभ्रात्रा वालिना हि स्वस्त्रीभोक्त्रा तिरस्कृतः । ऋष्यमृकगिरौ तेन न्यवसत्स हनूमता

确实,他被长兄婆利(Vāli)所轻蔑,因为婆利夺取了他的妻子。于是他与哈奴曼一同居住在梨师耶穆迦山(Ṛṣyamūka)。

Verse 14

ततोऽभूत्स सुकण्ठस्य मन्त्री कपिवरस्सुधीः । सर्वथा सुहितं चक्रे सुग्रीवस्य हरांशजः

于是,那位在群猴中最具至慧的尊者成为苏坎塔的辅臣。因其为哈罗(湿婆)之流出化现,便以种种方式成就苏格利瓦的安泰与昌盛。

Verse 15

तत्रागतेन सभ्रात्रा हृतभार्येण दुःखिना । कारयामास रामेण तस्य सख्यं सुखावहम्

当他与兄弟一同来到那里——因妻子被掳而悲苦——便促使罗摩与他结为友契;此友谊遂成安乐之源。

Verse 16

घातयामास रामश्च वालिनं कपिकुञ्जरम् । भ्रातृपत्न्याश्च भोक्तारं पापिनम्वीरमानिनम्

罗摩诛杀了婆林,那如象般雄强的猴王——他因夺取兄弟之妻而造罪,虽已堕落却仍自诩为英雄。

Verse 17

ततो रामाऽऽज्ञया तात हनूमान्वानरेश्वरः । स सीतान्वेषणञ्चक्रे बहुभिर्वानरैस्सुधीः

随后,亲爱的啊,奉罗摩之命,哈奴曼——诸般婆那罗首领中的尊主——以智慧率领众多婆那罗勇士,展开对悉多的寻觅。

Verse 18

ज्ञात्वा लङ्कागतां सीतां गतस्तत्र कपीश्वरः । द्रुतमुल्लंघ्य सिंधुन्तमनिस्तीर्य्यं परैस्स वै

得知悉多已至楞迦,猴王便前往彼处;他迅疾跃过大海——那片他人皆不能渡越的不可逾越之浩瀚。

Verse 19

चक्रेऽद्भुतचरित्रं स तत्र विक्रमसंयुतम् । अभिज्ञानन्ददौ प्रीत्या सीतायै स्वप्रभोर्वरम्

在那里,他以英雄之威行下奇妙之举;又以慈爱欢喜,将一件识认的信物——属于他自身主君的上妙礼物——奉赠给悉多。

Verse 20

सीताशोकं जहाराशु स वीरः कपिनायकः । श्रावयित्वा रामवृत्तं तत्प्राणावनकारकम्

那位英勇的猴王迅速消除悉多的忧愁,向她宣说罗摩的事迹——那些能救命、使希望之息复苏的功业。

Verse 21

तदभिज्ञानमादाय निवृत्तो रामसन्निधिम् । रावणाऽऽराममाहत्य जघान बहुराक्षसान्

他取了那识认的信物,便回到罗摩跟前;又击毁罗波那的园林,诛杀众多罗刹。

Verse 22

तदेव रावणसुतं हत्वा सबहुराक्षसम् । स महोपद्रवं चक्रे महोतिस्तत्र निर्भयः

他斩杀了罗波那之子,并诛灭众多罗刹;摩诃提无所畏惧,在彼处掀起了巨大的动荡。

Verse 23

यदा दग्धो रावणेनावगुंठ्य वसनानि च । तैलाभ्यक्तानि सुदृढं महाबलवता मुने

圣者啊,当他被大力的罗波那点燃焚烧——先被紧紧裹上浸透油脂的衣裳之后——

Verse 24

उत्प्लुत्योत्प्लुत्य च तदा महादेवांशजः कपिः । ददाह लंकां निखिलां कृत्वा व्याजन्तमेव हि

随后,那由大天(摩诃提婆)一分神力所生的猿猴,连连腾跃,果然焚尽整个楞迦城,使其烈焰冲天。

Verse 25

दग्ध्वा लंकां वंचयित्वा विभीषणगृहं ततः । अपतद्वारिधौ वीरस्ततस्स कपिकुञ्जरः

焚烧楞迦之后,他又绕过毗毗沙那的居所而不加损害;那位猿中如象的勇士,随即跃入大海。

Verse 26

स्वपुच्छ तत्र निर्वाप्य प्राप तस्य परन्तटम् । अखिन्नस्स ययौ रामसन्निधिं गिरिशांशजः

他在彼处以自己的尾巴熄灭火焰,抵达了对岸。那承载吉利沙(湿婆)一分神力之子毫不疲惫,遂前往罗摩面前。

Verse 27

अविलंबेन सुजवो हनूमान् कपिसत्तमः । रामोपकण्ठमागत्य ददौ सीताशिरोमणिम्

毫不迟疑,迅捷的哈奴曼——群猴之最胜者——来到罗摩尊前,奉上悉多的顶饰宝珠。

Verse 28

ततस्तदाज्ञया वीरस्सिन्धौ सेतुमबन्धयत् । वानरस्स समानीय बहून्गिरिवरान्बली

随后奉其命令,那位英勇强力者令在大海上筑起堤桥;又召集众多婆那罗,搬来许多上妙群山以成其事。

Verse 29

गत्वा तत्र ततो रामस्तर्तुकामो यथा ततः । शिवलिंगं समानर्च प्रतिष्ठाप्य जयेप्सया

到达彼处后,罗摩欲渡彼岸,便如法礼敬供养一尊湿婆林伽;并为求胜利而行仪式,将其安立。

Verse 30

तद्वरात्स जयं प्राप्य वरं तीर्त्वोदधिं ततः । लंकामावृत्य कपिभी रणं चक्रे स राक्षसैः

凭那恩赐之力,他获得胜利;随后依所赐护佑渡过大海,以群猴大军围拢楞迦,并与罗刹众交战。

Verse 31

जघानाथासुरान्वीरो रामसैन्यं ररक्ष सः । शक्ति क्षतं लक्ष्मणं च संजीविन्या ह्यजीवयत्

那位英雄诛灭阿修罗,护持罗摩之军;又以“苏生草”桑吉维尼,使被神枪(Śakti)所伤的罗什曼那复得生命。

Verse 32

सर्वथा सुखिनं चक्रे सरामं लक्ष्मणं हि सः । सर्वसैन्यं ररक्षासौ महादेवात्मजः प्रभुः

他以种种方式使罗摩与拉克什玛那都得以安然无忧。那位至上主宰、摩诃提婆之子,也护佑了全军。

Verse 33

रावणं परिवाराढ्यं नाशयामास विश्रमः । सुखीचकार देवान्स महाबलग्रहः कपि

那大力神猴毗湿罗摩摧灭了罗波那及其随从,使诸天再度欢喜安稳。

Verse 34

महीरावणसंज्ञं स हत्वा रामं सलक्ष्मणम् । तत्स्थानादानयामास स्वस्थानम्परिपाल्य च

他诛杀名为摩醯罗波那者后,将罗摩与拉克什玛那从彼处迎回;并守护自身住处,遂护送二位归返。

Verse 35

रामकार्यं चकाराशु सर्वथा कपिपुंगवः । असुरान्नमयामास नानालीलां चकार च

群猴之雄迅疾而周全地成就罗摩之事;他折伏阿修罗,示现无数奇妙利拉——显明神力在世间运作,以复兴正法。

Verse 36

स्थापयामास भूलोके रामभक्तिं कपीश्वरः । स्वयं भक्तवरो भूत्वा सीतारामसुखप्रदः

群猴之主在大地上建立对罗摩的虔敬。自身成为最上奉者,遂为悉多与罗摩赐予欢悦安乐。

Verse 37

लक्ष्मणप्राणदाता च सर्वदेवमदापहः । रुद्रावतारो भगवान्भक्तोद्धारकरस्स वै

他赐予罗什曼那(Lakṣmaṇa)生命,并除去诸天的傲慢。诚然,他是薄伽梵(Bhagavān)——鲁陀罗(Rudra)的化身,必定救度并提升其奉献者,使之得解脱。

Verse 38

हनुमान्स महावीरो रामकार्यकरस्सदा । रामदूताभिधो लोके दैत्यघ्नो भक्तवत्सलः

哈奴曼(Hanumān)是那位大英雄,恒常成办罗摩(Rāma)之事。世间称他为“罗摩的使者”,他诛灭达伊提亚(daitya)诸魔,并常怀慈爱于奉献者。

Verse 39

इति ते कथितं तात हनुमच्चरितम्वरम् । धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम्

如此,亲爱的孩子,我已向你宣说哈奴曼的殊胜圣行。此传记吉祥而蒙福,赐予名声与长寿,并成就一切正当愿求之果。

Verse 40

य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः । स भुक्त्वेहाखिलान्कामानन्ते मोक्षं लभेत्परम्

凡以虔敬聆听此文者,或心神专注而令他人为众诵读者——此生将享得一切所愿之成就,终究获得至上的解脱(mokṣa)。

Frequently Asked Questions

It presents Hanumān’s manifestation as Śiva’s intentional līlā undertaken for Rāma’s task: Śiva beholds Viṣṇu’s Mohinī-form, his potency is ritually safeguarded by the Saptarṣis, transmitted to Añjanā, and results in Hanumān’s birth as a kapi-bodied Śiva-avatāra endowed with extraordinary power and boons.

The ‘leaf-vessel’ containment and ṛṣi-custodianship symbolize regulated tejas (spiritual potency) under dharmic governance; the ‘ear-door’ transmission motif encodes non-ordinary conception through sanctioned śakti-transfer rather than biological accident; the sun-consumption episode functions as a semiotic proof of avatāric energy and the necessity of divine/social regulation (devas’ intervention).

Śiva is highlighted as Śambhu/Hara acting through avatāra-agency culminating in Hanumān as a Śiva-avatāra; the chapter’s cited verses do not foreground a distinct Gaurī-form, focusing instead on Śiva’s purposeful embodiment and empowerment of Hanumān for the Rāma-kārya.