Adhyaya 37
Kotirudra SamhitaAdhyaya 3755 Verses

Śivapūjā-stuti: Deva-Ṛṣi-Paramparāyāṃ Śaṃkara-caritasya Prastāvaḥ (Prelude to Śaṃkara’s narrative and the lineage of Śiva-worship)

第37章以正式请问开篇:诸仙人请求苏多以更广更详(vistarāt)之方式再述湿婆的圣行。苏多先立宗旨,称将要宣说的“商羯罗行传(śāṃkaraṃ caritraṃ)”能赐予世间受用(bhukti)与解脱(mukti),先明其救度意义。随后章节回溯传承:那罗陀请问毗多摩诃(梵天),梵天欣然应答,许诺宣说能摧灭大罪(mahāpātaka-nāśana)之法。开端偈颂旨在确立湿婆礼拜为遍宇宙之行:毗湿奴与罗摩(吉祥天女拉克什米)同修湿婆供奉(Śiva-pūjā),因主之慈悲而得所愿;梵天亦自称为湿婆崇拜者,其创造之职得以延续皆赖湿婆恩典。又列举权威修行群体与典范:梵天意生诸子、诸多仙人、尤其那罗陀、七圣仙(自婆悉吒起),以及阿伦达蒂、罗波慕陀罗、阿诃利耶等贤德女性,从而建立湿婆信奉的仪轨谱系与社会广度。总体而言,本章为序言,既证成言教传递之链(ṛṣi→苏多→听众;那罗陀→梵天),亦以湿婆供奉作为后续叙事的诠释钥匙。

Shlokas

Verse 1

ऋषय ऊचुः । सूतसूत महाभाग ज्ञानवानसि सुव्रत । पुनरेव शिवस्य वै चरितं ब्रूहि विस्तरात्

诸仙人说道:“噢,苏多,苏多之子,福德广大者——具足智慧,坚住清净誓戒——请再一次详尽宣说主湿婆的神圣行迹。”

Verse 2

पुरातनाश्च राजान ऋषयो देवतास्तथा । आराधनञ्च तस्यैव चकुर्देववरस्य हि

古代诸王、诸仙人与诸天神也都礼敬供养那至上神祇——即诸天中最胜者湿婆大自在天。

Verse 3

सूत उवाच । साधु पृष्टमृषिश्रेष्ठाः श्रूयतां कथयामि वः । चरित्रं शांकरं रम्यं शृण्वतां भुक्तिमुक्तिदम्

苏多说道:“诸位最胜仙贤,你们所问甚善。请听——我将为你们宣说那美妙的商羯罗(主湿婆)圣行;凡以虔敬聆听者,既得世间圆满,亦获解脱。”

Verse 4

एतदेव पुरा पृष्टो नारदेन पितामहः । प्रत्युवाच प्रसन्नात्मा नारदं मुनिसत्तमम्

久远以前,正是此事,祖父梵天曾被那罗陀问及;梵天心境安宁、慈悦欢喜,便答复那罗陀——诸仙中最胜者。

Verse 5

ब्रह्मोवाच । शृणु नारद सुप्रीत्या शांकरं चरितं वरम् । प्रवक्ष्यामि भवत्स्नेहान्महापातकनाशनम्

梵天说道:“那罗陀啊,请以欢喜的虔敬聆听商羯罗(主湿婆)最胜的圣行。我因怜爱于你而为你宣说——此圣传能摧灭乃至最重之罪。”

Verse 6

रमया सहितो विष्णुश्शिवपूजां चकार ह । कृपया परमेशस्य सर्वान्कामानवाप हि

毗湿奴与罗摩(吉祥天女拉克什米)相伴,奉行对湿婆的礼拜;凭借至上主宰帕拉梅湿伐罗的恩典,他确实成就了一切所愿。

Verse 7

अहं पितामहश्चापि शिवपूजनकारकः । तस्यैव कृपया तात विश्वसृष्टिकरस्सदा

我——梵天,诸世界之祖父——确是行持湿婆礼拜者。唯凭祂的恩典,亲爱的啊,我才恒常得力,得以承担宇宙的创造。

Verse 8

शिवपूजाकरा नित्यं मत्पुत्राः परमर्षयः । अन्ये च ऋषयो ये ते शिवपूजनकारकाः

“我的诸子——至上的圣贤——恒常从事对湿婆(Śiva)的礼拜;而在那里其余的诸位仙人,也同样是行持湿婆崇拜者。”

Verse 9

नारद त्वं विशेषेण शिवपूजनकारकः । सप्तर्षयो वसिष्ठाद्याः शिवपूजनकारकाः

“噢,那罗陀(Nārada),你尤为卓越,既启发众生亦亲自奉行对湿婆的礼拜。七圣仙亦然——婆悉吒(Vasiṣṭha)等诸贤——同样致力于弘扬并行持湿婆崇拜。”

Verse 10

अरुंधती मदासाध्वी लोपामुद्रा तथैव च । अहल्या गौतमस्त्री च शिवपूजनकारिकाः

“阿伦达蒂(Arundhatī)、贞德的玛达萨德薇(Madāsādhvī)、洛帕穆德拉(Lopāmudrā),以及阿诃利耶(Ahalyā)——乔多摩(Gautama)之妻——皆以虔诚奉行主湿婆礼拜而著称。”

Verse 11

दुर्वासाः कौशिकश्शक्तिर्दधीचो गौतमस्तथा । कणादो भार्गवो जीवो वैशंपायन एव च

“杜尔瓦萨(Durvāsā)、考希迦(Kauśika)、沙克提(Śakti)、达地契(Dadhīci)、乔多摩(Gautama)、迦那陀(Kaṇāda)、婆尔伽瓦(Bhārgava)、吉瓦(Jīva),以及毗舍ṃ帕耶那(Vaiśaṃpāyana)——这些可敬的圣仙在此被列举为与神圣湿婆派(Śaiva)传统相系的卓越奉献者。”

Verse 12

एते च मुनयस्सर्वे शिवपूजाकरा मताः । तथा पराशरो व्यासश्शिवपूजारतस्सदा

“这一切诸位牟尼皆被认为是虔诚行持湿婆礼拜者;同样,帕罗沙罗(Parāśara)与毗耶娑(Vyāsa)也恒常沉浸于对主湿婆的敬拜之中。”

Verse 13

उपमन्युर्महाभक्तश्शिवस्य परमात्मनः । याज्ञवल्क्यो महाशैवो जैमिनिर्गर्ग एव च

优波摩纽是至上我——湿婆的大奉献者。雅若那伐尔迦是大湿婆信徒;同样,阇弥尼与迦尔伽亦然。

Verse 14

शुकश्च शौनकाद्याश्च शङ्करस्य प्रपूजकाः । अन्येऽपि बहवस्सन्ति मुनयो मुनिसत्तमाः

舒迦(Śuka)、绍那迦(Śaunaka)等亦皆为商羯罗(Śaṅkara)的虔诚礼拜者。又有许多圣贤牟尼——苦行者中最胜者——悉皆在此,恭敬奉事于祂。

Verse 15

अदितिर्देवमाता च नित्यं प्रीत्या चकार ह । पार्थिवीं शैवपूजां वै सवधूः प्रेमतत्परा

天众之母阿底提(Aditi)每日以由衷欢喜,修行对泥土所成之林伽(Liṅga)的湿婆派礼拜;并与诸媳同修,专注于充满爱敬的奉爱之心。

Verse 16

शक्रादयो लोकपाला वसवश्च सुरास्तथा । महाराजिकदेवाश्च साध्याश्च शिवपूजकाः

因陀罗及诸世界护持者,诸婆苏与天众;同样,摩诃罗阇迦诸神与萨陀耶(Sādhya)众——皆为湿婆主的礼拜者。

Verse 17

गन्धर्वा किन्नराद्याश्चोपसुराश्शिवपूजकाः । तथाऽसुरा महात्मानश्शिवपूजाकरा मताः

乾闼婆、紧那罗等诸天众,以及副阿修罗(Upasura),皆为湿婆的礼拜者。同样,即便是阿修罗——当其心量宏大之时——也被视为行持湿婆供奉之人。

Verse 18

हिरण्यकशिपुर्देत्यस्सानुजत्ससुतो मुने । शिवपूजाकरो नित्यं विरोचनबली तथा

噢,牟尼圣者,阿修罗族的希兰尼亚迦湿布与其弟与其子,恒常从事对湿婆的礼拜;同样,毗罗遮那与婆利也虔诚于每日对主湿婆的供奉。

Verse 19

महाशैव स्मृतो बाणो हिरण्याक्षसुतास्तथा । वृषपर्वा दनुस्तात दानवाः शिवपूजकाः

婆那被忆念为大湿婆 भक्त;同样,希兰尼亚叉之诸子亦然。噢,亲爱者,弗利沙帕尔瓦与达努亦复如是——这些达那婆皆为礼敬主湿婆之人。

Verse 20

शेषश्च वासुकिश्चैव तक्षकश्च तथा परे । शिवभक्ता महानागा गरुडाद्याश्च पक्षिणः

舍沙、婆苏吉、达叉迦以及其他大那伽;又如迦楼罗与诸鸟之最胜者——皆为归依并礼拜主湿婆的 भक्त。

Verse 21

सूर्यचन्द्रावुभौ देवौ पृथ्व्यां वंशप्रवर्त्तकौ । शिवसेवारतौ नित्यं सवंश्यौ तौ मुनीश्वर

噢,诸牟尼之上首,日神与月神二位天尊在大地上成为王族世系的开创者;他们恒常奉事大自在天湿婆,并与其诸代子孙一同安住于以湿婆为中心的虔敬之中。

Verse 22

मनवश्च तथा चक्रुस्स्वायंभुवपुरस्सराः । शिवपूजां विशेषेण शिववेषधरा मुने

噢,牟尼啊,诸摩奴亦如是行——以自生摩奴(Svāyambhuva Manu)为首——以殊胜虔诚礼拜湿婆,并摄受湿婆之形仪与戒行。

Verse 23

प्रियव्रतश्च तत्पुत्रास्तथा चोत्तानपात्सुतः । तद्वंशाश्चैव राजानश्शिवपूजनकारकाः

普利耶弗拉塔及其诸子,以及乌塔那帕达之子;并且出自其诸族系的诸王,皆为虔诚奉行湿婆礼拜之人。

Verse 24

ध्रुवश्च ऋषभश्चैव भरतो नव योगिनः । तद्भ्रातरः परे चापि शिवपूजनकारकाः

德鲁瓦、利沙婆与婆罗多,连同九位瑜伽行者,以及他们其余的兄弟,也都成为虔诚奉行湿婆礼拜之人。

Verse 25

वैवस्वतसुतास्तार्क्ष्य इक्ष्वाकुप्रमुखा नृपाः । शिवपूजारतात्मानः सर्वदा सुखभोगिनः

出自毗婆斯瓦塔(摩奴)之王族谱系——包括塔尔克夏以及以伊克什瓦库为首的诸王——恒常以心奉事湿婆礼拜;因此他们不断享受安泰与幸福之果。

Verse 26

ककुत्स्थश्चापि मांधाता सगरश्शैवसत्तमः । मुचुकुन्दो हरिश्चन्द्रः कल्माषांघ्रिस्तथैव च

迦库特斯塔与曼陀诃多;萨伽罗——诸湿婆奉者中最胜者;又有牟朱昆达、哈利施旃陀罗,以及迦尔摩沙昂伽利——这些君王皆在此传承中著名。

Verse 27

भगीरथादयो भूपा बहवो नृपसत्तमाः । शिवपूजाकरा ज्ञेयाः शिववेषविधायिनः

婆祇罗陀等诸王——其中多为人主之最胜者——当知皆为虔行湿婆供奉之人,因为他们受持湿婆奉者的外相标志与修持戒律。

Verse 28

खट्वांगश्च महाराजो देवसाहाय्यकारकः । विधितः पार्थिवीम्मूर्तिं शिवस्यापूजयत्सदा

大王佉特瓦昂伽曾助诸天,恒常依正法仪轨礼拜湿婆主,恭敬供奉以泥土塑成的“帕尔提瓦”湿婆圣像。

Verse 29

तत्पुत्रो हि दिलीपश्च शिवपूजनकृत्सदा । रघुस्तत्तनयः शैवः सुप्रीत्याः शिवपूजकः

其子名提利波,恒常修持礼拜湿婆。提利波之子罗伽,是虔诚的湿婆信徒,以深挚爱意与满心欢喜供奉湿婆主。

Verse 30

अजश्शिवार्चकस्तस्य तनयो धर्मयुद्धकृत् । जातो दशरथो भूयो महाराजो विशेषतः

阿阇是虔敬礼拜湿婆者。由他诞生其子十车王(达沙拉塔),行持正法之战;他确实成为卓越的伟大君王。

Verse 31

पुत्रार्थे पार्थिवी मूर्त्ति शैवी दशरथो हि सः । समानर्च विशेषेण वसि ष्ठस्याज्ञया मुनेः

为求得子嗣,十车王依圣者婆悉吒之命,以泥土塑成湿婆的帕尔提瓦圣像,并以格外虔敬之心加以供奉礼拜。

Verse 32

पुत्रेष्टिं च चकारासौ पार्थिवो भवभक्तिमान् । ऋष्यशृङ्गमुनेराज्ञां संप्राप्य नृपसत्तमः

那位最胜之王,虔信婆伐(湿婆),在亲近并领受圣者日施耶施林伽的教导与命令之后,举行求子之祭——普特雷什提仪式。

Verse 33

कौसल्या तत्प्रिया मूर्त्ति पार्थिवीं शांकरीं मुदा । ऋष्यशृंगसमादिष्टा समानर्च सुताप्तये

考萨利娅——为王所钟爱者——依梨师耶施林伽之教,欢喜礼拜以泥土所成的圣母商迦丽(Śāṅkarī)之地相(pārthiva),以求得一子。

Verse 34

सुमित्रा च शिवं प्रीत्या कैकेयी नृपवल्लभा । पूजयामास सत्पुत्रप्राप्तये मुनिसत्तम

噢,最胜牟尼!苏蜜特拉与凯凯伊——国王所宠爱的王后——以爱敬之心礼拜主湿婆,愿得贤善高贵之子。

Verse 35

शिवप्रसादतस्ता वै पुत्रान्प्रापुश्शुभंकरान् । महाप्रतापिनो वीरान्सन्मार्गनिरतान्मुने

噢,圣者!凭主湿婆之恩,他们确实得到了吉祥而赐福的儿子——威光炽盛、英勇无畏,并恒住于正法之道。

Verse 36

ततः शिवाज्ञया तस्मात्तासु राज्ञस्स्वयं हरिः । चतुर्भिश्चैव रूपैश्चाविर्बभूव नृपात्मजः

随后,奉主湿婆之命,哈利(毗湿奴)亲自于彼处为那位国王显现,化作王子之身,并以四种不同形相出现。

Verse 37

कौसल्यायाः सुतो राम सुमित्रायाश्च लक्ष्मण । शत्रुघ्नश्चैव कैकेय्या भरतश्चेति सुव्रताः

罗摩为拘萨利耶之子;拉克什曼那生于苏弥特罗;而沙特鲁诃那与婆罗多为凯凯伊之子——这些王子皆高贵端正,善守誓愿。

Verse 38

रामस्ससहजो नित्यं पार्थिवं समपूजयत् । भस्म रुद्राक्षधारी च विरजागममास्थितः

罗摩与其兄弟恒常礼敬土制的帕尔提瓦林伽。身佩圣灰(bhasma)与鲁陀罗叉念珠,安住于“离垢”(Virajā)阿伽摩之行仪——清净的湿婆行持,导人超越诸染。

Verse 39

तद्वंशे ये समुत्पन्ना राजानः सानुगा मुने । ते सर्वे पार्थिवं लिंगं शिवस्य समपूजयन्

圣者啊,凡出自那一族系的诸王,连同随从,皆以如法敬奉土制帕尔提瓦林伽而礼拜湿婆。

Verse 40

सुद्युम्नश्च महाराजश्शैवो मुनिसुतो मुने । शिवशापात्प्रियाहेतोरभून्नारी ससेवकः

圣者啊,大王苏底尤姆那,虔奉湿婆,亦为牟尼之子;因湿婆之诅咒(为其所爱之故),他与随从一同化为女子。

Verse 41

पार्थिवेशसमर्चातः पुनस्सोऽभूत्पुमान्वरः । मासं स्त्री पुरुषो मासमेवं स्त्रीत्वं न्यवर्त्तत

因礼拜帕尔提维沙(湿婆之土林伽),他又复为卓越的男子:一月为女,一月为男;如此,女身之相反复被转回。

Verse 42

ततो राज्यं परित्यज्य शिवधर्मपरायणः । शिववेषधरो भक्त्या दुर्लभं मोक्षमाप्तवान्

其后,他舍弃王国,专心依止湿婆之法,身着圣洁的湿婆行者之相;以虔爱(bhakti)而证得难得的解脱。

Verse 43

पुरूरवाश्च तत्पुत्रो महाराजस्तु पूजक । शिवस्य देवदेवस्य तत्सुतः शिवपूजकः

普鲁罗婆斯及其儿子——那位大王——虔诚礼敬湿婆,诸神之神。其子亦成为礼敬湿婆之人。

Verse 44

भरतस्तु महापूजां शिवस्यैव सदाकरोत् । नहुषश्च महा शैवः शिवपूजारतो ह्यभूत्

婆罗多常常为湿婆行大供养。那胡沙亦然——身为伟大的湿婆信徒——坚定专注于湿婆的礼拜。

Verse 45

ययातिः शिवपूजातः सर्वान्कामानवाप्तवान् । अजीजनत्सुतान्पंच शिवधर्मपरायणान्

因礼敬湿婆,耶耶提王得获一切所愿之福;并生下五子,皆归依湿婆之法(达摩)。

Verse 46

तत्सुता यदुमुख्याश्च पंचापि शिवपूजकाः । शिवपूजाप्रभावेण सर्वान्कामांश्च लेभिरे

其诸子——在夜度族中最为卓越者——五人皆为礼敬湿婆之信众;凭借湿婆礼拜之威力与功德,他们成就一切所愿。

Verse 47

अन्येऽपि ये महाभागाः समानर्चुश्शिवं हि ते । तद्वंश्या अन्यवंश्याश्च भुक्तिमुक्तिप्रदं मुने

圣者啊,凡那些同样礼敬湿婆的极有福德之人——无论其后裔,抑或他族他系之人——皆从祂得受世间享乐(bhukti)与解脱(mukti)之赐。

Verse 48

कृष्णेन च कृतं नित्यं बदरीपर्वतोत्तमे । पूजनं तु शिवस्यैव सप्तमासावधि स्वयम्

在最殊胜的跋陀梨山(Badarī)上,黑天(Kṛṣṇa)亲自日日礼拜湿婆尊主,并将此虔敬持续了七个月之久。

Verse 49

प्रसन्नाद्भगवांस्तस्माद्वरान्दिव्यानने कशः । सम्प्राप्य च जगत्सर्वं वशेऽनयत शङ्करात्

当那位至福的主欢喜时,便赐下无数天界妙愿。既从商羯罗(Śaṅkara)得此诸愿,他遂使整个世界归于其掌控之下。

Verse 50

प्रद्युम्नः तत्सुतस्तात शिवपूजाकरस्सदा । अन्ये च कार्ष्णिप्रवरास्साम्बाद्याश्शिवपूजकाः

亲爱的啊,普拉丢姆那及其子恒常从事对湿婆主的礼拜。同样,迦尔什尼族中最杰出的英雄——以三婆为首——也都是虔诚礼敬湿婆的信徒。

Verse 51

जरासंधो महाशैवस्तद्वंश्याश्च नृपास्तथा । निमिश्शैवश्च जनकस्तत्पुत्राश्शिवपूजकाः

阇罗桑陀是伟大的湿婆信徒,他族系中所生的诸王亦复如是。尼弥亦为湿婆派,阇那迦王亦然;阇那迦之诸子皆礼拜湿婆主。

Verse 52

नलेन च कृता पूजा वीरसेनसुतेन वै । पूर्वजन्मनि यो भिल्लो वने पान्थसुरक्षकः

那次供奉正是由那罗(Nala),即毗罗塞那之子所行。于前世,他曾为毗罗(Bhilla)林居之人,在森林中护卫行旅。

Verse 53

यतिश्च रक्षितस्तेन पुरा हरसमीपतः । स्वयंव्याघ्रादिभी रात्रौ भक्षितश्च मृतो वृषात्

往昔,那位苦行者曾被他护持,且就在哈罗(Hara,湿婆)面前。然至夜间,他却被虎及诸兽吞噬而亡——此乃“Vṛṣa(公牛)”所致,即命运与业报之力,非世间护卫所能违越。

Verse 54

तेन पुण्यप्रभावेण स भिल्लो हि नलोऽभवत् । चक्रवर्ती महाराजो दमयन्ती प्रियोऽभवत्

凭借那积聚功德之力,那位毗罗(Bhilla)遂成那罗(Nala)。他曾一度为毗罗之身,继而成为转轮圣王(cakravartin)、伟大的君王;达摩延提亦再度成为他的挚爱。

Verse 55

इति ते कथितं तात यत्पृष्टं भवतानघ । शाङ्करं चरितं दिव्यं किमन्यत्प्रष्टुमिच्छसि

如是,亲爱的孩子——无罪者啊——我已如你所问而告知。关于商羯罗(主湿婆)的神圣事迹已叙述完毕;如今你还想再问什么?

Frequently Asked Questions

It advances a theological argument of ritual universality: Viṣṇu (with Ramā) and Brahmā themselves perform Śiva-pūjā and succeed by Śiva’s kṛpā, positioning Śiva-worship as the trans-deity foundation for attainment and cosmic function.

The pairing encodes a Purāṇic Śaiva soteriology in which devotion is not merely transactional; it is a graded path where the same practice that yields worldly order and desired ends can, when deepened, culminate in liberating knowledge and freedom from sin (mahāpātaka-nāśana).

Rather than a specialized iconographic form, the chapter foregrounds Śiva as ‘Śaṃkara/Parameśa’—the gracious supreme Lord whose favor empowers Viṣṇu and Brahmā; Śakti appears implicitly through Ramā’s presence with Viṣṇu, underscoring household and cosmic participation in Śiva-worship.