Adhyaya 26
Kotirudra SamhitaAdhyaya 2657 Verses

गौतमस्य शिवदर्शनं पापक्षयवचनं च | Gautama’s Vision of Śiva and the Teaching on Sin and Purification

第26章由苏多(Sūta)叙述,高潮是圣者乔多摩(Gautama)亲见湿婆(Śiva)显现,并听闻关于罪与清净的教诲。湿婆与诸侍从神众(gaṇa)一同现身,因乔多摩与其妻共同修持的虔敬(bhakti)而欢喜;作为慈悲之藏(kṛpānidhi),祂允其求愿。乔多摩瞻仰商婆(Śaṃbhu)吉祥之相,赞颂并祈求消除罪垢,愿成无罪者(niṣpāpa)。湿婆答曰:乔多摩本性清净,且安住于奉爱,真诚的奉爱者不应被视为有罪;甚至奉爱者的瞻礼(darśana)亦能净化他人。随后湿婆将道德之责归于那些敌视并伤害奉爱者的恶心之人(durātman),说明其恶行必反噬自身;祂护佑善者,惩戒恶者。此章含示湿婆派关于恩赐(anugraha)与惩罚(daṇḍa)的法义:恩典回应持戒修敬,而伤害奉爱者乃尤为重罪。清净之道来自亲近湿婆的瞻礼、真实的奉爱与神圣裁断对恶意的惩治。

Shlokas

Verse 1

सूत उवाच । एवं कृते तु ऋषिणा सस्त्रीकेन द्विजाश्शिवः । आविर्बभूव स शिवः प्रसन्नस्सगणस्तदा

苏多曰:当那位仙人携其妻如是成就仪轨之后,主湿婆便在诸“二生者”(dvija)之前显现。其时,慈悦欢喜的湿婆与其侍从众(gaṇa)一同出现。

Verse 2

अथ प्रसन्नस्स शिवो वरं ब्रूहि महामुने । प्रसन्नोऽहं सुभक्त्या त इत्युवाच कृपानिधिः

尔时,主宰湿婆心生欢喜,对大牟尼说道:“说吧——求一愿赐。我因你清净的奉爱而满足。”慈悲宝藏的湿婆如是宣言。

Verse 3

तदा तत्सुंदरं रूपं दृष्ट्वा शंभोर्महात्मनः । प्रणम्य शंकरं भक्त्या स्तुतिं चक्रे मुदान्वितः

随后,他见到大心者商婆(Śambhu)那极其殊妙的圣相,便以奉爱顶礼商羯罗(Śaṅkara);心满欢喜,开始献上赞颂圣歌。

Verse 4

स्तुत्वा बहु प्रणम्येशं बद्धाञ्जलिपुटः स्थितः । निष्पापं कुरु मां देवाब्रवीदिति स गौतमः

他既多番赞颂,又屡次礼拜主宰,便合掌而立,对天神说道:“噢主啊,愿使我离罪清净。”——这是乔达摩之言。

Verse 5

सूत उवाच । इत्याकर्ण्य वचस्तस्य गौतमस्य महात्मनः । सुप्रसन्नतरो भूत्वा शिवो वाक्यमुपाददे

苏多说道:如此听闻大心者乔达摩之言后,主湿婆愈加慈悦、圆满欢喜,遂开口作答。

Verse 6

शिव उवाच । धन्योऽसि कृतकृत्योऽसि निष्पापोऽसि सदा मुने । एतैर्दुष्टैः किल त्वं च च्छलितोऽसि खिलात्मभिः

湿婆说道:“你是有福之人;你的人生所求已得圆满;圣者啊,你恒常无罪清净。然而确实,你被这些性情乖僻的恶人所欺诳。”

Verse 7

त्वदीयदर्शनाल्लोका निष्पापाश्च भवंति हि । किं पुनस्त्वं सपापोऽसि मद्भक्तिनिरतस्सदा

仅凭见到你,世人便确实得以离罪清净。既然你恒常安住于对我——湿婆——的奉爱(bhakti)之中,你又怎会是有罪之人?

Verse 8

उपद्रवस्त्वयि मुने यैः कृतस्तु दुरात्मभिः । ते पापाश्च दुराचारा हत्यावंतस्त एव हि

圣者啊,那些心性邪恶、加害于你的众人,确是罪人,行止卑劣;实则他们自己就是犯下杀业之徒。

Verse 9

एतेषां दर्शनादन्ये पापिष्ठाः संभवंतु च । कृतघ्नाश्च तथा जाता नैतेषां निष्कृतिः क्वचित्

仅仅看见这等人,旁人也可能变得更加罪重;而他们自身则沦为忘恩负义之徒。对他们而言,任何时候都无有赎罪之道。

Verse 10

सूत उवाच । इत्युक्त्वा शंकरस्तस्मै तेषां दुश्चरितं तदा । बहूवाच प्रभुर्विप्राः सत्कदोऽसत्सु दंडदः

苏多说道:对他说完这些后,商羯罗便在当时详述了他们的恶行。诸婆罗门啊,主宰——奖善惩恶者——长久开示。

Verse 11

शर्वोक्तमिति स श्रुत्वा सुविस्मितमना ऋषिः । सुप्रणम्य शिवं भक्त्या सांजलिः पुनरब्रवीत्

听闻舍婆(主湿婆)所说之言,那位仙者心中充满惊奇;他以虔敬深深礼拜湿婆,合掌再度开口。

Verse 12

गौतम उवाच । ऋषिभिस्तैर्महेशान ह्युपकारः कृतो महान् । यद्येवं न कृतं तैस्तु दर्शनं ते कुतो भवेत्

乔多摩说道:“噢,大自在天(Maheśāna),那些仙人确实为您成就了极大的助缘。若非如此行事,他们又从何得见您的神圣示现(darśana)呢?”

Verse 13

धन्यास्ते ऋषयो यैस्तु मह्यं शुभतरं कृतम् । तद्दुराचरणादेव मम स्वार्थो महानभूत्

“那些仙人真是有福,因为他们为我成就了最为吉祥之事。诚然,即便因那不当之行,我自身的一大旨意也得以圆满。”

Verse 14

सूत उवाच । इत्येवं तद्वचश्श्रुत्वा सुप्रसन्नो महेश्वरः । गौतमं प्रत्युवाचाशु कृपादृष्ट्या विलोक्य च

苏多说道:听罢此言,摩诃伊湿伐罗(大天)极为欢喜;他立刻答复乔多摩,并以慈悲、充满恩泽的目光注视着他。

Verse 15

शिव उवाच । ऋषि धन्योसि विप्रेंद्र ऋषे श्रेष्ठतरोऽसि वै । ज्ञात्वा मां सुप्रसन्नं हि वृणु त्वं वरमुत्तमम्

湿婆说道:“噢圣仙,婆罗门中最胜者,你实为有福;确然你是诸见者中最卓越者。既知我已全然欢喜、慈恩充盈,如今当择取至上的恩赐。”

Verse 16

सूत उवाच । गौतमोऽपि विचार्यैव लोके विश्रुतमित्युत । अन्यथा न भवेदेव तस्मादुक्तं समाचरेत्

苏多说道:高多摩亦经思惟,遂肯定道:“此事确为世间所共闻,断无他途。”因此,应当如所规定者,恭敬如法而行。

Verse 17

निश्चित्यैवं मुनिश्रेष्ठो गौतमश्शिवभक्तिमान् । सांजलिर्नतशीर्षो हि शंकरं वाक्यमब्रवीत्

既已如此决断,最胜牟尼高多摩——虔敬于湿婆者——合掌低首,遂向商羯罗说道如下之言。

Verse 18

गौतम उवाच । सत्यं नाथ ब्रवीषि त्वं तथापि पंचभिः कृतम् । नान्यथा भवतीत्यत्र यज्जातं जायतां तु तत्

高多摩说道:“诚然,主啊,你所言真实无妄。然而既由五者所作,便不可能另有他样。故愿此处所生之事,得以圆满成就。”

Verse 19

यदि प्रसन्नो देवेश गंगा च दीयतां मम । कुरु लोकोपकारं हि नमस्तेऽस्तु नमोऽस्तु ते

噢诸天之主,若你垂喜,愿将恒河赐予我;为诸世界之安乐而行此事。向你顶礼——再三顶礼于你。

Verse 20

सूत उवाच । इत्युक्त्वा वचनं तस्य धृत्वा वै पादपंकजम् । नमश्चकार देवेशं गौतमो लोककाम्यया

苏多说道:说罢此言,乔多摩执持主那如莲华之足,怀着愿世间安泰圆满之心,恭敬顶礼天神之主——湿婆。

Verse 21

ततस्तु शंकरो देवः पृथिव्याश्च दिवश्च सः । सारं चैव समुद्धृत्य रक्षितं पूर्वमेव तत्

随后,圣主商羯罗——至神者——抽取大地与诸天的精髓,并早已将那同一精髓保存起来,以护持诸世界、成就安乐。

Verse 22

विवाहे ब्रह्मणा दत्तमवशिष्टं च किंचन । तत्तस्मै दत्तवाञ्च्छंभुर्मुनये भक्तवत्सलः

凡是婚礼之时梵天所赐礼物中尚余的一点点,商婆——恒常怜爱信众者——都将那余分赐予圣仙。

Verse 23

गंगाजलं तदा तत्र स्त्रीरूपमभवत्परम् । तस्याश्चैव ऋषिश्रेष्ठः स्तुतिं कृत्वा नतिं व्यधात्

就在那处,恒河之水化现为极其奇妙的女身。见到她,最上等的圣仙作颂赞叹,并以恭敬谦卑而顶礼。

Verse 24

गौतम उवाच । धन्यासि कृतकृत्यासि पावितं भुवनं त्वया । मां च पावय गंगे त्वं पततं निरये ध्रुवम्

乔达摩说道:“你真是有福,所当成就者已圆满。由你诸界得以清净。噢恒河,也请净化我吧,因为我确实正坠入那落迦(地狱)。”

Verse 25

सूत उवाच । शंभुश्चापि तदोवाच सर्वेषां हितकृच्छृणु । गंगे गौतममेनं त्वं पावयस्व मदाज्ञया

苏多说道:随后,商布(主湿婆)也开口道:“听着,汝乃为众生作利益者。噢恒河,依我之命,净化此高多摩。”

Verse 26

इति श्री शिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां । त्र्यंबकेश्वरमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः

至此,在《圣湿婆摩诃往世书》第四部《拘底鲁陀罗集》中,题为“特里央巴凯湿伐罗之荣耀的描述”的第二十六章圆满结束。

Verse 27

गंगोवाच । ऋषिं तु पावयित्वाहं परिवारयुतं प्रभो । गमिष्यामि निजस्थानं वचस्सत्यं ब्रवीमि ह

恒河女神说道:“主啊,我将净化这位仙人——连同他的随从——然后回到我自己的住处。我所言句句真实。”

Verse 28

सूत उवाच । इत्युक्तो गंगया तत्र महेशो भक्तवत्सलः । लोकोपकरणार्थाय पुनर्गगां वचोऽब्रवीत्

苏多说道:恒河在彼处如此禀告后,慈爱护念信众的摩诃伊湿伐罗,为了诸世界的利益与安乐,又再次对恒河开示言辞。

Verse 29

शिव उवाच । त्वया स्थातव्यमत्रैव व्रजेद्यावत्कलिर्युगः । वैवस्वतो मनुर्देवि ह्यष्टाविंशत्तमो भवेत्

湿婆说道:“女神啊,你当就住在此处,直至迦利瑜伽过去。其后方可离去——当毗婆斯瓦塔·摩奴(Vaivasvata Manu),女神啊,成为第二十八位摩奴之时。”

Verse 30

सूत उवाच । इति श्रुत्वा वचस्तस्य स्वामिनश्शंकरस्य तत् । प्रत्युवाच पुनर्गंगा पावनी सा सरिद्वरा

苏多说道:如此听闻其主、圣者商羯罗之言后,净化众生的恒河——诸河之最胜——又再开口答复。

Verse 31

गंगोवाच । माहात्म्यमधिकं चेत्स्यान्मम स्वामिन्महेश्वर । सर्वेभ्यश्च तदा स्थास्ये धरायां त्रिपुरान्तकः

恒河说道:“噢,大自在天(Maheśvara),我的主宰——若要宣扬我的伟大为更殊胜,那么,噢,灭三城者(Tripurāntaka),我必将留在大地之上,利益一切众生。”

Verse 32

किं चान्यच्च शृणु स्वामिन्वपुषा सुन्दरेण ह । तिष्ठ त्वं मत्समीपे वै सगणसांबिकः प्रभो

并且还请垂听,主宰啊:愿你示现那美妙圣身,住在此处靠近我——噢,至上之主——与诸侍从众伽那同在,并与安比迦(神圣之母)同在。

Verse 33

सूत उवाच । एवं तस्या वचः श्रुत्वा शंकरो भक्तवत्सलः । लोकोपकरणार्थाय पुनर्गंगां वचोब्रवीत्

苏多说道:如此听闻她的话后,商羯罗——恒常怜爱信众者——为了利益世间,又再对恒河开示言辞。

Verse 34

शिव उवाच । धन्यासि श्रूयतां गंगे ह्यहं भिन्नस्त्वया न हि । तथापि स्थीयते ह्यत्र स्थीयतां च त्वयापि हि

湿婆说道:“吉祥的恒河啊,且听我言:我实不与汝相离。然为此神圣显现之故,我将安住于此;故汝亦当安住于此。”

Verse 35

सूत उवाच । इत्येवं वचनं श्रुत्वा स्वामिनः परमेशितुः । प्रसन्नमानसा भूत्वा गंगा च प्रत्यपूजयत्

苏多说道:恒河如是听闻其主、至上主宰(湿婆)之言,心意欢悦宁静,遂以恭敬之礼回向供奉。

Verse 36

एतस्मिन्नंतरे देवा ऋषयश्च पुरातनाः । सुतार्थान्यप्यनेकानि क्षेत्राणि विविधानि च

与此同时,诸天与古老的圣仙(ṛṣi)也启程前往众多圣域与各类朝圣之地,为求吉祥之事与灵性之志。

Verse 37

आगत्य गौतमं सर्वे गंगां च गिरिशं तथा । जयजयेति भाषंतः पूजयामासुरादरात्

随后众人一同趋近乔多摩,又礼见恒河女神与吉利沙(主湿婆)。他们高呼“胜利!胜利!”,以至诚恭敬而奉拜。

Verse 38

ततस्ते निर्जरा सर्वे तेषां चक्रुः स्तुतिं मुदा । करान् बद्ध्वा नतस्कंधा हरिब्रह्मादयस्तदा

随后,一切不死诸天欢喜地献上赞颂之歌。就在那时,哈利(毗湿奴)、梵天及诸神——合掌俯身,谦恭低首——开始称扬祂。

Verse 39

गंगा प्रसन्ना तेभ्यश्च गिरिशश्चोचतुस्तदा । वरं ब्रूत सुरश्रेष्ठा दद्वो वः प्रियकाम्यया

当时,恒河女神对他们心生欢喜,吉利沙(主湿婆)说道:“诸天中最胜者啊,说出你们所求的恩赐;为成就你们所珍爱的愿望,我等将赐予你们。”

Verse 40

देवा ऊचुः । यदि प्रसन्नो देवेश प्रसन्ना त्वं सरिद्वरे । स्थातव्यमत्र कृपया नः प्रियार्थं तथा नृणाम्

诸天说道:“噢,众神之主啊,若您确已欢喜——若您在这最胜之河亦垂慈恩——愿您出于悲悯住于此处,以成就我们所珍爱的愿望,并为人类带来福祉。”

Verse 41

गंगोवाच । यूयं सर्वप्रियार्थं च तिष्ठथात्र न किं पुनः । गौतमं क्षालयित्वाहं गमिष्यामि यथागतम्

恒河女神说道:“你们都留在此处,为成就众生所珍爱的事——又何必再疑?待我洗净(净化)乔达摩之后,我将离去,如来时一般归返。”

Verse 42

भवत्सु मे विशेषोत्र ज्ञेयश्चैव कथं सुराः । तत्प्रमाणं कृतं चेत्स्यात्तदा तिष्ठाम्यसंशयम्

“噢,诸天啊,在此处如何才能知晓我在你们之中的殊胜?若能立下恰当的凭证,那么我必定住下——毫无疑虑。”

Verse 43

सर्वे ऊचुः । सिंहराशौ यदा स्याद्वै गुरुस्सर्वसुहृत्तमः । तदा वयं च सर्वे त्वागमिष्यामो न संशयः

众人说道:“当导师——布里哈斯帕提(木星),一切众生最伟大的善友,行至狮子宫之时,我们众人也必定前来与你相会;毫无疑虑。”

Verse 44

एकादश च वर्षाणि लोकानां पातकं त्विह । क्षालितं यद्भवेदेवं मलिनास्स्मः सरिद्वरे

“确实,此地众生积累十一年的罪垢,如此便得洗净;然而我们仍未清净——噢,诸河之最胜者。”

Verse 45

तस्यैव क्षालनाय त्वायास्यामस्सर्वथा प्रिये । त्वत्सकाशं महादेवि प्रोच्यते सत्यमादरात्

亲爱的,我们必定前来,只为将其洗净清净。噢,大女神摩诃提毗,在你面前,我们以恭敬至诚宣说真实。

Verse 46

अनुग्रहाय लोकानामस्माकं प्रियकाम्यया । स्थातव्यं शंकरेणापि त्वया चैव सरिद्वरे

为怜悯加持诸世界,并成就我们所珍爱的愿望——噢,最胜之河,请你住于此处;而商羯罗(主湿婆)亦当与你同住于此。

Verse 47

यावत्सिंहे गुरुश्चैव स्थास्यामस्तावदेव हि । त्वयि स्नानं त्रिकालं च शंकरस्य च दर्शनम्

“只要我们住在狮子圣渡(Siṁha-tīrtha),噢,尊敬的导师,在那段期间,此处每日三次沐浴净身,并得蒙瞻礼商羯罗(主湿婆)的吉祥圣容(darśana)。”

Verse 48

कृत्वा स्वपापं निखिलं विमोक्ष्यामो न संशयः । स्वदेशांश्च गमिष्यामो भवच्छासनतो वयम्

既已行此归依与顺从之举,我们必将解脱自身一切罪垢——毫无疑虑。并且遵从你的命令,我们将返回各自的国土。

Verse 49

सूत उवाच । इत्येवं प्रार्थितस्तैस्तु गौतमेन महर्षिणा । स्थितोऽसौ शंकरः प्रीत्या स्थिता सा च सरिद्वरा

苏多说道:就这样,他们——在大圣仙乔多摩的祈请之下——恳求之后,心怀欢喜的商羯罗便驻留于彼处;那最胜之河亦同样停驻。

Verse 50

सा गंगा गौतमी नाम्ना लिंगं त्र्यंबकमीरितम् । ख्याता ख्यातं बभूवाथ महापातकनाशनम्

那恒河遂以“乔多弥(Gautamī)”之名而闻名;而林伽被宣称为“三目者(Tryambaka)”。于是二者皆声名远播,被称为能摧灭至大罪业者。

Verse 51

तद्दिनं हि समारभ्य सिंहस्थे च बृहस्पतौ । आयांति सर्वतीर्थानि क्षेत्राणि देवतानि च

确然,自那一日起——当布里哈斯帕提(木星)驻于狮子宫之时——一切圣渡处(tīrtha)、一切圣域(kṣetra),乃至诸天神祇,都被说会前来汇聚于彼处。

Verse 52

सरांसि पुष्करादीनि गंगाद्यास्सरितस्तथा । वासुदेवादयो देवाः संति वै गोतमीतटे

在乔多弥(戈达瓦里)河岸,普什迦罗等圣湖与以恒河为首的诸圣河皆现前;诸天亦然——以婆苏提婆为首——确实住于彼处。

Verse 53

यावत्तत्र स्थितानीह तावत्तेषां फलं न हि । स्वप्रदेशे समायातास्तर्ह्येतेषां फलं भवेत्

只要他们仍停留在那里,那些功行的果报在此并不显现;但当他们回到自己的国土时,那些行为的果实便真实地为他们生起。

Verse 54

ज्योतिर्लिंगमिदं प्रोक्तं त्र्यंबकं नाम विश्रुतम् । स्थितं तटे हि गौतम्या महापातकनाशनम्

此光明灵伽被宣说为以“特里扬巴卡”(Tryambaka)之名而闻名。它安立于乔达弥河之滨,能摧灭最重的大罪。

Verse 55

यः पश्येद्भक्तितो ज्योतिर्लिंगं त्र्यंबकनामकम् । पूजयेत्प्रणमेत्स्तुत्वा सर्वपापैः प्रमुच्यते

凡以虔敬瞻礼名为“特里扬巴卡”的光明灵伽,并加以供奉、顶礼、赞颂者,皆得解脱一切罪业。

Verse 56

ज्योतिर्लिंगं त्र्यंबकं हि पूजितं गौतमेन ह । सर्वकामप्रदं चात्र परत्र परमुक्तिदम्

诚然,三眼主特里扬巴卡之光明灵伽(Jyotirliṅga)曾为圣者乔多摩所虔敬供奉。在此处,它成就一切正当愿望;于来世,则赐予至上解脱(moksha)。

Verse 57

इति वश्च समाख्यातं यत्पृष्टोऽहं मुनीश्वराः । किमन्यदिच्छथ श्रोतुं तद् ब्रूयां वो न संशयः

如是,诸位尊贵的仙圣,我已将你们所问之事尽皆详述。你们还想听什么?但请明言——我必无疑为你们宣说。

Frequently Asked Questions

Śiva directly manifests before Gautama, invites a boon, and argues that a devotee devoted to Śiva is inherently purified; wrongdoing lies with those who harass or deceive the devotee, who incur severe demerit.

Darśana functions as a purificatory conduit: proximity to Śiva (and, by extension, to steadfast devotees) transmits śuddhi, reframing purity as relational and grace-mediated rather than merely juridical or external.

Śiva is foregrounded as prasanna-kṛpānidhi (the gracious, pleased lord) and as satkada/asatsu-daṇḍada (benefactor of the good and punisher of the wicked), integrating compassion with moral governance.