Sukta 8.61
यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतिभिर्वि द्विषो वि मृधो जहि ॥
यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ॥
yátá indra bháyāmahe tátó no ábhayaṃ kṛdhi | mághavañ chágdhi táva tán na ūtíbhir ví dvíṣo ví mṛ́dho jahi ||
凡我们所惧者,因陀罗啊,就从那处为我们造就无畏。施主(Maghavan)啊,赐我们你克胜之力;以你的护佑,驱散憎恨者,驱散敌对的攻袭。
यतः॑ । इ॒न्द्र॒ । भया॑महे । ततः॑ । नः॒ । अभ॑यम् । कृ॒धि । मघ॑ऽवन् । श॒ग्धि । तव॑ । तम् । नः॒ । ऊ॒तिऽभिः । वि । द्विषः॑ । वि । मृधः॑ । ज॒हि॒ ॥यतः । इन्द्र । भयामहे । ततः । नः । अभयम् । कृधि । मघवन् । शग्धि । तव । तम् । नः । ऊतिभिः । वि । द्विषः । वि । मृधः । जहि ॥yataḥ | indra | bhayāmahe | tataḥ | naḥ | abhayam | kṛdhi | magha-van | śagdhi | tava | tam | naḥ | ūti-bhiḥ | vi | dviṣaḥ | vi | mṛdhaḥ | jahi