Sukta 6.58
पूषा सुबन्धुर्दिव आ पृथिव्या इळस्पतिर्मघवा दस्मवर्चाः । यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् ॥
पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्या इ॒ळस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः । यं दे॒वासो॒ अद॑दुः सू॒र्यायै॒ कामे॑न कृ॒तं त॒वसं॒ स्वञ्च॑म् ॥
pūṣā́ subándhur divá ā́ pṛthivyā́ iḷáspátir maghávā dasmávarchāḥ | yáṃ devā́so ádaduḥ sū́ryāyai kā́mena kṛtáṃ tavásaṃ sváñcam ||
普善(Pūṣan)自天至地,为善亲之友;为伊ḷā(圣启之祈、灵感之颂)的主宰;慷慨施与,光辉奇妙。诸神以欢悦之意,将他赐与苏利娅(Sūryā);由欲乐所造,强健而自行——凭自身的冲力趋向真光之力。
पू॒षा । सु॒ऽबन्धुः॑ । दि॒वः । आ । पृ॒थि॒व्याः । इ॒ळः । पतिः॑ । म॒घऽवा॑ । द॒स्मऽव॑र्चाः । यम् । दे॒वासः॑ । अद॑दुः । सू॒र्यायै॑ । कामे॑न । कृ॒तम् । त॒वस॑म् । सु॒ऽअञ्च॑म् ॥पूषा । सुबन्धुः । दिवः । आ । पृथिव्याः । इळः । पतिः । मघवा । दस्मवर्चाः । यम् । देवासः । अददुः । सूर्यायै । कामेन । कृतम् । तवसम् । सुअञ्चम् ॥pūṣā | su-bandhuḥ | divaḥ | ā | pṛthivyāḥ | iḷaḥ | patiḥ | magha-vā | dasma-vacārḥ | yam | devāsaḥ | adaduḥ | sūryāyai | kāmena | kṛtam | tavasam | su-añcam