Sukta 6.51
नम इदुग्रं नम आ विवासे नमो दाधार पृथिवीमुत द्याम् । नमो देवेभ्यो नम ईश एषां कृतं चिदेनो नमसा विवासे ॥
नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो॑ दाधार पृथि॒वीमु॒त द्याम् । नमो॑ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ॥
náma íd ugráṃ náma ā́ vivāse námo dādhāra pṛthivī́m utá dyā́m | námo devébhyo náma ī́śa eṣāṃ kṛtáṃ cid éno námasā vivāse ||
诚然,向那威猛之力致敬;我以敬礼趋近而安住其侧。敬礼支撑大地与苍穹。敬礼诸天神;敬礼他们的主宰:即便已作之过失,我亦以敬礼与崇拜之行,愿使之得以匡正。
नमः॑ । इत् । उ॒ग्रम् । नमः॑ । आ । वि॒वा॒से॒ । नमः॑ । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । नमः॑ । दे॒वेभ्यः॑ । नमः॑ । ई॒शे॒ । ए॒षा॒म् । कृ॒तम् । चि॒त् । एनः॑ । न॒म॒सा । आ । वि॒वा॒से॒ ॥नमः । इत् । उग्रम् । नमः । आ । विवासे । नमः । दाधार । पृथिवीम् । उत । द्याम् । नमः । देवेभ्यः । नमः । ईशे । एषाम् । कृतम् । चित् । एनः । नमसा । आ । विवासे ॥namaḥ | it | ugram | namaḥ | ā | vivāse | namaḥ | dādhāra | pṛthivīm | uta | dyām | namaḥ | devebhyaḥ | namaḥ | īśe | eṣām | kṛtam | cit | enaḥ | namasā | ā | vivāse