Sukta 6.51
यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । कर्ता नो अध्वन्ना सुगं गोपा अमा ॥
यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः । कर्ता॑ नो॒ अध्व॒न्ना सु॒गं गो॒पा अ॒मा ॥
yūyáṃ hí ṣṭhā su-dānava índra-jyeṣṭhā abhi-dyávaḥ | kártā no ádhvann ā́ su-gáṃ gopā́ amā́ ||
你们确是施赐善礼者,以因陀罗为最上,向光明奋进的诸力。愿为我等行旅开辟善道——在此与我等同在的守护者。
यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ । इन्द्र॑ऽज्येष्ठाः । अ॒भिऽद्य॑वः । कर्ता॑ । नः॒ । अध्व॑न् । आ । सु॒ऽगम् । गो॒पाः । अ॒मा ॥यूयम् । हि । स्थ । सुदानवः । इन्द्रज्येष्ठाः । अभिद्यवः । कर्ता । नः । अध्वन् । आ । सुगम् । गोपाः । अमा ॥yūyam | hi | stha | su-dānavaḥ | indra-jyeṣṭhāḥ | abhi-dyavaḥ | kartā | naḥ | adhvan | ā | su-gam | gopāḥ | amā