Sukta 5.54
प्र शर्धाय मारुताय स्वभानव इमां वाचमनजा पर्वतच्युते । घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णमर्चत ॥
प्र शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नव इ॒मां वाच॑मनजा पर्वत॒च्युते॑ । घ॒र्म॒स्तुभे॑ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ॥
prá śárdhāya mārútāya svabhā́nava imā́ṁ vā́cam anaja parvata-cyúte | gharmá-stubhe divá ā́ pṛṣṭhá-yajvane dyumná-śravase máhi nṛ́mṇam arcata ||
向那马鲁特(Marut)之军前进吧,噢自放光辉者;噢由山而生、能使山动者——把这言辞驱送给赞颂炽热太阳者。向那支撑祭仪之背脊者、向那具光耀名闻者,歌唱伟大的男子之力;愿宏阔秩序中,灵魂的劲力得以挺立。
प्र । शर्धा॑य । मारु॑ताय । स्वऽभा॑नवः । इ॒माम् । वाच॑म् । अ॒न॒ज॒ । प॒र्व॒त॒ऽच्युते॑ । घ॒र्म॒ऽस्तुभे॑ । दि॒वः । आ । पृ॒ष्ठ॒ऽयज्व॑ने । द्यु॒म्नऽश्र॑वसे । महि॑ । नृ॒म्णम् । अ॒र्च॒त॒ ॥प्र । शर्धाय । मारुताय । स्वभानवः । इमाम् । वाचम् । अनज । पर्वतच्युते । घर्मस्तुभे । दिवः । आ । पृष्ठयज्वने । द्युम्नश्रवसे । महि । नृम्णम् । अर्चत ॥pra | śardhāya | mārutāya | sva-bhānavaḥ | imām | vācam | anaja | parvata-cyute | gharma-stubhe | divaḥ | ā | pṛṣṭha-yajvane | dyumna-śravase | mahi | nṛmṇam | arcata