Sukta 10.65
ब्रह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन्पृथिवीं पर्वताँ अपः । सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि ॥
ब्रह्म॒ गामश्वं॑ ज॒नय॑न्त॒ ओष॑धी॒र्वन॒स्पती॑न्पृथि॒वीं पर्व॑ताँ अ॒पः । सूर्यं॑ दि॒वि रो॒हय॑न्तः सु॒दान॑व॒ आर्या॑ व्र॒ता वि॑सृ॒जन्तो॒ अधि॒ क्षमि॑ ॥
bráhma gā́m áśvaṃ janáyanta óṣadhīr vánaspatīn pṛthivī́ṃ párvatām̐ ápāḥ | sū́ryaṃ diví roháyantaḥ su-dā́navo ā́ryā vratā́ vi-sṛjántaḥ ádhi kṣámi ||
梵(Brahman)——那创造之言——生出母牛与骏马(象征光明之知与能量之力);又生出药草与林木之主,生出大地、群山与诸水。那慷慨的圣者在心天之中高举太阳,并在大地之上散布雅利安的誓律与正行之法。
ब्रह्म॑ । गाम् । अश्व॑म् । ज॒नय॑न्तः । ओष॑धीः । वन॒स्पती॑न् । पृ॒थि॒वीम् । पर्व॑तान् । अ॒पः । सूर्य॑ । दि॒वि । रो॒हय॑न्तः । सु॒ऽदान॑वः । आर्या॑ । व्र॒ता । वि॒ऽसृ॒जन्तः॑ । अधि॑ । क्षमि॑ ॥ब्रह्म । गाम् । अश्वम् । जनयन्तः । ओषधीः । वनस्पतीन् । पृथिवीम् । पर्वतान् । अपः । सूर्य । दिवि । रोहयन्तः । सुदानवः । आर्या । व्रता । विसृजन्तः । अधि । क्षमि ॥brahma | gām | aśvam | janayantaḥ | oṣadhīḥ | vanaspatīn | pṛthivīm | parvatān | apaḥ | sūrya | divi | rohayantaḥ | su-dānavaḥ | āryā | vratā | vi-sṛjantaḥ | adhi | kṣami