Sukta 10.169
या देवेषु तन्वमैरयन्त यासां सोमो विश्वा रूपाणि वेद । ता अस्मभ्यं पयसा पिन्वमानाः प्रजावतीरिन्द्र गोष्ठे रिरीहि ॥
या दे॒वेषु॑ त॒न्व१॒॑मैर॑यन्त॒ यासां॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र गो॒ष্ঠे रि॑रीहि ॥
yā́ devéṣu tanvàm airáyanta yā́sāṁ sómo víśvā rūpā́ṇi véda | tā́ asmábhyaṁ páyasā pínvamānāḥ prajā́vatīr indra goṣṭhé rirīhi ||
那些神力——在诸天之中唤醒并驱动具身之存在者——其一切形相,苏摩(Soma)尽知。愿她们为我等以滋养之乳而充盈,富于生成为力;因陀罗(Indra)啊,愿她们安住于我等光明的牛栏(goṣṭha)之中。
याः । दे॒वेषु॑ । त॒न्व॑म् । ऐर॑यन्त । यासा॑म् । सोमः॑ । विश्वा॑ । रू॒पाणि॑ । वेद॑ । ताः । अ॒स्मभ्य॑म् । पय॑सा । पिन्व॑मानाः । प्र॒जाऽव॑तीः । इ॒न्द्र॒ । गो॒ऽस्थे । रि॒री॒हि॒ ॥याः । देवेषु । तन्वम् । ऐरयन्त । यासाम् । सोमः । विश्वा । रूपाणि । वेद । ताः । अस्मभ्यम् । पयसा । पिन्वमानाः । प्रजावतीः । इन्द्र । गोस्थे । रिरीहि ॥yāḥ | deveṣu | tanvam | airayanta | yāsām | somaḥ | viśvā | rūpāṇi | veda | tāḥ | asmabhyam | payasā | pinvamānāḥ | prajāvatīḥ | indra | go--sthe | rirīhi