Sukta 10.158
सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् । अग्निर्नः पार्थिवेभ्यः ॥
सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् । अ॒ग्निर्न॒: पार्थि॑वेभ्यः ॥
sū́ryo no divás pātu vā́to antárikṣāt | agnír naḥ pā́rthivebhyaḥ ||
愿苏利耶(Sūrya)自天上护佑我们;愿伐多(Vāta,风神)自中界(antarikṣa)护佑我们;愿阿耆尼(Agni)自大地诸境护佑我们。
सूर्यः॑ । नः॒ । दि॒वः । पा॒तु॒ । वातः॑ । अ॒न्तरि॑क्षात् । अ॒ग्निः । नः॒ । पार्थि॑वेभ्यः ॥सूर्यः । नः । दिवः । पातु । वातः । अन्तरिक्षात् । अग्निः । नः । पार्थिवेभ्यः ॥sūryaḥ | naḥ | divaḥ | pātu | vātaḥ | antarikṣāt | agniḥ | naḥ | pārthivebhyaḥ