Sukta 10.108
दूरमित पणयो वरीय उद्गावो यन्तु मिनतीॠतेन । बृहस्पतिर्या अविन्दन्निगूळ्हाः सोमो ग्रावाण ऋषयश्च विप्राः ॥
दू॒रमि॑त पणयो॒ वरी॑य॒ उद्गावो॑ यन्तु मिन॒तीॠ॒तेन॑ । बृह॒स्पति॒र्या अवि॑न्द॒न्निगू॑ळ्हा॒: सोमो॒ ग्रावा॑ण॒ ऋष॑यश्च॒ विप्रा॑: ॥
dū́ram ít paṇayo varī́ya úd gā́vo yantu minatī́r ṛ́tena | bṛ́haspátir yā́ avindán nigū́ḷhāḥ sómo grā́vāṇa ṛ́ṣayaś ca víprāḥ ||
般尼啊,确然远去——更远些!愿诸光芒出行,以真理(ṛta)破开阻隔。婆罗诃斯波提所发现的、原本隐匿者:苏摩、榨石(grāvan),以及诸仙圣、诸明智者(vipra),皆与那发现同在。
दू॒रम् । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः । उत् । गावः॑ । य॒न्तु॒ । मि॒न॒तीः । ऋ॒तेन॑ । बृह॒स्पतिः॑ । याः । अवि॑न्दत् । निऽगू॑ळ्हाः । सोमः॑ । ग्रावा॑नः । ऋष॑यः । च॒ । विप्राः॑ ॥दूरम् । इत । पणयः । वरीयः । उत् । गावः । यन्तु । मिनतीः । ऋतेन । बृहस्पतिः । याः । अविन्दत् । निगूळ्हाः । सोमः । ग्रावानः । ऋषयः । च । विप्राः ॥dūram | ita | paṇayaḥ | varīyaḥ | ut | gāvaḥ | yantu | minatīḥ | ṛtena | bṛhaspatiḥ | yāḥ | avindat | ni-gūḷhāḥ | somaḥ | grāvānaḥ | ṛṣayaḥ | ca | viprāḥ