Sukta 1.188
पुरोगा अग्निर्देवानां गायत्रेण समज्यते । स्वाहाकृतीषु रोचते ॥
पु॒रो॒गा अ॒ग्निर्दे॒वानां॑ गाय॒त्रेण॒ सम॑ज्यते । स्वाहा॑कृतीषु रोचते ॥
purógā agnír devā́nāṃ gāyatréṇa sám ajyate | svā́hākṛtīṣu rocate ||
先行的阿耆尼(Agni),诸天之中之领袖,以伽雅特丽(Gāyatrī)而被圆满涂膏、合而发动;他在“svāhā”所成的供献行中放光。
पु॒रः॒ऽगाः । अ॒ग्निः । दे॒वाना॑म् । गा॒य॒त्रेण॑ । सम् । अ॒ज्य॒ते॒ । स्वाहा॑ऽकृतीषु । रो॒च॒ते॒ ॥पुरःगाः । अग्निः । देवानाम् । गायत्रेण । सम् । अज्यते । स्वाहाकृतीषु । रोचते ॥puraḥ-gāḥ | agniḥ | devānām | gāyatreṇa | sam | ajyate | svāhākṛtīṣu | rocate