Sukta 1.171
त्वं पाहीन्द्र सहीयसो नॄन्भवा मरुद्भिरवयातहेळाः । सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं वृजनं जीरदानुम् ॥
त्वं पा॑हीन्द्र॒ सही॑यसो॒ नॄन्भवा॑ म॒रुद्भि॒रव॑यातहेळाः । सु॒प्र॒के॒तेभि॑: सास॒हिर्दधा॑नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
tváṁ pā́hīndra sahī́yaso nṝ́n bhávā marúdbhír avayāta-heḷāḥ | su-praketébhiḥ sāsahír dádhāno vidyā́meṣáṁ vṛ́janaṁ jīrá-dānum ||
因陀罗啊,请护佑那求更强盛的众人;与马鲁特诸神同在,使忿怒远离。你以明见之力持守胜能与主宰,愿我们得知这真实的驱策、这正当的战阵,并识那施与者——其赐福恒久不竭。
त्वम् । पा॒हि॒ । इ॒न्द्र॒ । सही॑यसः । नॄन् । भव॑ । म॒रुत्ऽभिः॑ । अव॑यातऽहेळाः । सु॒ऽप्र॒के॒तेभिः॑ । स॒स॒हिः । दधा॑नः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥त्वम् । पाहि । इन्द्र । सहीयसः । नॄन् । भव । मरुत्भिः । अवयातहेळाः । सुप्रकेतेभिः । ससहिः । दधानः । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥tvam | pāhi | indra | sahīyasaḥ | nṝn | bhava | marut-bhiḥ | avayāta-heḷāḥ | su-praketebhiḥ | sasahiḥ | dadhānaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum