Sukta 1.121
मा सा ते अस्मत्सुमतिर्वि दसद्वाजप्रमहः समिषो वरन्त । आ नो भज मघवन्गोष्वर्यो मंहिष्ठास्ते सधमादः स्याम ॥
मा सा ते॑ अ॒स्मत्सु॑म॒तिर्वि द॑स॒द्वाज॑प्रमह॒: समिषो॑ वरन्त । आ नो॑ भज मघव॒न्गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒माद॑: स्याम ॥
mā́ sā́ te asmát sumatír ví dasad vā́japramahaḥ sám iṣó varanta | ā́ no bhaja maghavan góṣv aryo maṃhiṣṭhās te sadhamā́daḥ syāma ||
愿你的善意不从我们这里离散,噢赐丰盈者、赐vāja者;愿增长之流汇聚而择取我们。请与我们分享吧,噢慷慨者(Maghavan),在光明的牛群中(诸光线、知识之群);愿我们在共同的欢悦中,成为你最丰沛的同伴。
मा । सा । ते॒ । अ॒स्मत् । सु॒ऽम॒तिः । वि । द॒स॒त् । वाज॑ऽप्रमहः । सम् । इषः॑ । व॒र॒न्त॒ । आ । नः॒ । भ॒ज॒ । म॒घ॒ऽव॒न् । गोषु॑ । अ॒र्यः । मंहि॑ष्ठाः । ते॒ । स॒ध॒ऽमादः॑ । स्या॒म॒ ॥मा । सा । ते । अस्मत् । सुमतिः । वि । दसत् । वाजप्रमहः । सम् । इषः । वरन्त । आ । नः । भज । मघवन् । गोषु । अर्यः । मंहिष्ठाः । ते । सधमादः । स्याम ॥mā | sā | te | asmat | su-matiḥ | vi | dasat | vāja-pramahaḥ | sam | iṣaḥ | varanta | ā | naḥ | bhaja | magha-van | goṣu | aryaḥ | maṃhiṣṭhāḥ | te | sadha-mādaḥ | syāma