Sukta 1.121
त्वं सूरो हरितो रामयो नॄन्भरच्चक्रमेतशो नायमिन्द्र । प्रास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून् ॥
त्वं सूरो॑ ह॒रितो॑ रामयो॒ नॄन्भर॑च्च॒क्रमेत॑शो॒ नायमि॑न्द्र । प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या॑ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ॥
tváṃ sú̄ro haríto rāmayo nṛ́̄n bhárat cákram étaśo ná̄yam indra | prā́sya pā́raṃ navatíṃ nā́vyānām ápi kártam avartayo 'yájyūn ||
因陀罗啊,你如太阳般,以金色的威能使人类欢悦;你负载轮辐,如迅疾的骏马载轮而行。你已使他们渡至彼岸——九十道可航之流;并使那不祭献者(不行祭祀者)的深坑转离、退散。
त्वम् । सूरः॑ । ह॒रितः॑ । र॒म॒यः॒ । नॄन् । भर॑त् । च॒क्रम् । एत॑शः । न । अ॒यम् । इ॒न्द्र॒ । प्र॒ऽअस्य॑ । पा॒रम् । न॒व॒तिम् । ना॒व्या॑नाम् । अपि॑ । क॒र्तम् । अय॑ज्यून् ॥त्वम् । सूरः । हरितः । रमयः । नॄन् । भरत् । चक्रम् । एतशः । न । अयम् । इन्द्र । प्रअस्य । पारम् । नवतिम् । नाव्यानाम् । अपि । कर्तम् । अयज्यून् ॥tvam | sūraḥ | haritaḥ | ramayaḥ | nṝn | bharat | cakram | etaśaḥ | na | ayam | indra | pra-asya | pāram | navatim | nāvyānām | api | kartam | ayajyūn