Sukta 1.118
युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय । अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥
यु॒वं धे॒नुं श॒यवे॑ नाधि॒तायापि॑न्वतमश्विना पू॒र्व्याय॑ । अमु॑ञ्चतं॒ वर्ति॑का॒मंह॑सो॒ निः प्रति॒ जङ्घां॑ वि॒श्पला॑या अधत्तम् ॥
yuváṃ dhénuṃ śayáve nādhitā́yā́pinvatam aśvinā pū́rvyāya | ámuñcataṃ vártikām áṃhaso níḥ práti jáṅghāṃ viśpálāyā adhattam ||
阿śvin双神啊,你们以古法使那挤乳之母牛为困厄的舍由(Śayu)涨满乳流。你们使瓦尔蒂迦(Vartikā)脱离苦难;又为毗ś帕罗(Viśpalā)复置其腿,使其再得行走之力。
यु॒वम् । धे॒नुम् । श॒यवे॑ । ना॒धि॒ताय॑ । अपि॑न्वतम् । अ॒श्वि॒ना॒ । पू॒र्व्याय॑ । अमु॑ञ्चतम् । वर्ति॑काम् । अंह॑सः । निः । प्रति॑ । जङ्घा॑म् । वि॒श्पला॑याः । अ॒ध॒त्त॒म् ॥युवम् । धेनुम् । शयवे । नाधिताय । अपिन्वतम् । अश्विना । पूर्व्याय । अमुञ्चतम् । वर्तिकाम् । अंहसः । निः । प्रति । जङ्घाम् । विश्पलायाः । अधत्तम् ॥yuvam | dhenum | śayave | nādhitāya | apinvatam | aśvinā | pūrvyāya | amuñcatam | vartikām | aṃhasaḥ | niḥ | prati | jaṅghām | viśpalāyāḥ | adhattam