
Praise of Pilgrimage (Tīrtha) and Prelude to the Greatness of Prayāga
本章以总结前文的圣地(tīrtha)名录作结:宣说一切圣地皆为毗湿奴(Viṣṇu)之“身”,乃至仅与一处圣地结缘,也能趋向解脱。于迦利时代,聆听圣地功德、奉事圣地,被推为灭罪之首要方便;然而又强调侍奉婆罗门(brāhmaṇa-sevā)更为殊胜,胜过遍浴诸圣地。 经文劝人日日礼敬“二生足”(dvija-pada,婆罗门之足/婆罗门为圣所),并以恭敬绕行阿湿瓦塔树(aśvattha)、圣罗勒(tulasī)与乳牛,以得如同遍历诸圣地之福德。随后诸仙请求详说普拉亚伽(Prayāga),苏多(Sūta)遂引出古老对话:婆罗多大战后,忧伤的尤提希提罗(Yudhiṣṭhira)迎请马尔坎德耶(Mārkaṇḍeya),求赎罪与更高见地,被指引修习数论(Sāṅkhya)、瑜伽(Yoga),尤其趋向普拉亚伽——称为有德者之最上朝圣处。
Verse 1
सूत उवाच । एवमुक्तानि तीर्थानि विष्णुदेहानि सुव्रताः । एषामन्यतमा संगान्मुक्तो भवति मानवः
苏多说道:“这些圣地(tīrtha)已如是宣说——它们正是毗湿奴的圣身,善誓者啊。只要与其中任何一处结缘相近,人便得解脱。”
Verse 2
तीर्थानुश्रवणं धन्यं धन्यं तीर्थनिषेवणम् । पापराशिनिपाताय नान्योपायः कलौयुगे
聆听关于圣地(tīrtha)的功德是吉祥的,虔诚亲近并礼敬圣地亦是吉祥的。于迦梨时代,要摧灭罪业之堆,别无他法。
Verse 3
वासं कुर्यामहं तीर्थे तीर्थस्पर्शमहं तथा । एवं योऽनुदिनं ब्रूते स याति परमं महत्
“愿我居于圣地(tīrtha),愿我亦得触及并沐浴于圣地。”每日如是发愿称说者,必至至上广大之境。
Verse 4
पापानि तस्य नश्यंति तीर्थालापनमात्रतः । तीर्थानि खलु धन्यानि धन्यसेव्यानि सुव्रताः
仅仅称念一处圣地(tīrtha)之名,其人的罪业便消灭。圣地确实吉祥,应为有福之人所参礼供奉,善誓者啊。
Verse 5
तीर्थानां सेवनादेव सेवितो भवति प्रभुः । नारायणो जगत्कर्ता नास्ति तीर्थात्परं पदम्
唯以奉事诸圣地(tīrtha),即是奉事主宰。那罗延(Nārāyaṇa)为世界之造主——无有高于由圣地所至之境。
Verse 6
ब्राह्मणस्तुलसी चैव अश्वत्थस्तीर्थसंचयः । विष्णुश्च परमेशानः सेव्य एव सदा नृभिः
婆罗门、圣洁的图拉西、阿湿婆他圣树——诸圣地(tīrtha)之汇聚——以及至上主毗湿奴:世人应当恒常礼敬并奉事。
Verse 7
ब्राह्मणानां विशेषेण सेवनं मुनिपुंगवाः । सर्वतीर्थावगाहादेरधिकं विदुरग्रजाः
噢,诸仙之最,尤其奉事婆罗门者,被视为——噢,毗度罗之兄长——胜过在一切圣地沐浴等诸行。
Verse 8
तस्माद्द्विजपदं साक्षात्सर्वतीर्थमयं शुभम् । भजेतानुदिनं विद्वांस्तत्र तीर्थाधिकं भवेत्
因此,智者应当日日礼拜神圣的“二生之足”(Dvi-ja-pada);它直接吉祥,具足一切圣地(tīrtha)。由此所得功德,胜过仅仅朝圣。
Verse 9
अश्वत्थस्य तुलस्याश्च गवां कुर्यात्प्रदक्षिणम् । सर्वतीर्थफलंप्राप्य विष्णुलोके महीयते
若有人绕行阿湿婆他圣树、图拉西圣草与圣牛作右绕礼(pradakṣiṇā),便得一切圣地之果报,并在毗湿奴的居处受尊崇。
Verse 10
तस्माद्दुष्कृतकर्माणि नाशयेत्तीर्थसेवनात् । अन्यथा नरकं याति कर्म्मभोगाद्धि शाम्यति
因此,应当依止奉事诸圣地(tīrtha)以灭除恶业;否则人将堕入地狱,因为业力唯有在受报中方能耗尽。
Verse 11
पापिनां नरके वासः सुकृती स्वर्गमश्नुते । तस्मात्पुण्यं निषेवेत तीर्थं खलु विचक्षणः
罪人住于地狱,行善者得至天界。因此,明智之人当修积福德,并确当依止诸圣地渡口(tīrtha),行朝圣之旅。
Verse 12
ऋषय ऊचुः । श्रुतानि किल तीर्थानि समाहात्म्यानि सुव्रत । इदानीं श्रोतुमिच्छामः प्रयागस्य विशेषकम्
诸仙人说道:“善誓者啊,我们确已听闻诸圣地(tīrtha)及其汇集的功德威光。如今我们愿聆听普罗耶伽(Prayāga)的殊胜伟大。”
Verse 13
प्रयागं तु पुरा प्रोक्तं संक्षेपात्सूत यत्त्वया । विशेषाच्छ्रोतुमिच्छामः सूत नः कथ्यतामिति
“苏多(Sūta)啊,你先前略说普罗耶伽(Prayāga)。如今我们愿详闻其事;因此,苏多啊,请为我们宣说。”
Verse 14
सूत उवाच । साधु पृष्टं महाभागाः प्रयागं प्रति सुव्रताः । हंताहं तत्प्रवक्ष्यामि प्रयागस्योपवर्णनम्
苏多说道:“诸位福德具足、善誓者啊,你们问得甚好,正是关于普罗耶伽(Prayāga)。来吧——我今将详述普罗耶伽。”
Verse 15
मार्कंडेयेन कथितं यत्पुरा पांडुसूनवे । भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते
此事昔日由马尔坎德耶(Mārkaṇḍeya)讲述给般度之子:当《婆罗多》(Bhārata)诸事已毕,普利塔之子得获王国之时。
Verse 16
एतस्मिन्नंतरे राजा कुंतीपुत्रो युधिष्ठिरः । भ्रातृशोकेन संतप्तः चिंतयंस्तु पुनः पुनः
其间,昆蒂之子、国王坚战(Yudhiṣṭhira)为兄弟之哀所灼,反复沉思不已。
Verse 17
आसीद्दुर्योधनो राजा एकादशचमूपतिः । अस्मान्संतप्य बहुशः सर्वे ते निधनं गताः
杜尤陀那为王,统领十一军团;屡屡折磨我们之后,他们众人终皆走向灭亡。
Verse 18
वासुदेवं समाश्रित्य पंचशेषास्तु पांडवाः । कथं द्रोणं च भीष्मं च कर्णं चैव महाबलम्
依止婆苏提婆(Vāsudeva)而行,那仅存的五位般度族——他们又怎能战胜德罗那、毗湿摩,以及大力的迦尔那呢?
Verse 19
दुर्योधनं च राजानं भ्रातृपुत्रसमन्वितम् । राजानो निहताः सर्वे ये चान्ये शूरमानिनः
连国王杜尤陀那——与其兄弟与诸子同在——也被诛杀;那些诸王,以及自负为勇士的其他人,尽皆被杀。
Verse 20
विना राज्येन कर्तव्यं किं भोगैर्जीवितेनवा । धिक्कष्टमिति संचिंत्य राजा विह्वलतां गतः
“没有王国,还能做什么——享乐又有何用,乃至生命又有何益?”他思忖“唉,何其苦哉!”,国王遂陷入极度忧乱。
Verse 21
निश्चेष्टोऽथ निरुत्साहः किं चित्तिष्ठत्यधोमुखः । लब्धसंज्ञो यदा राजा चिंतयानः पुनः पुनः
随后他一动不动、意志消沉,片刻间低首垂面而立。国王恢复神识后,反复思量,念念不已。
Verse 22
कं चरे विधिना योगं नियमं तीर्थमेव वा । येनाहं शीघ्रमामुच्ये महापातककिल्बिषात्
我当依正法修行何种法门——瑜伽、戒律与誓行,或赴圣地渡口(tīrtha)朝礼——使我能迅速脱离大罪之垢染?
Verse 23
यत्र स्नात्वा नरो याति विष्णुलोकमनुत्तमम् । कथं पृच्छामि वै कृष्णं येनेदं कारितं महत्
人在彼处沐浴,便得至无上之毗湿奴界。然我当如何询问克里希纳——正是他成就了这宏大的神圣事业?
Verse 24
धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम् । व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः
我怎能去问持国(Dhṛtarāṣṭra),他的一百个儿子尽皆被杀?我又怎能去问毗耶娑(Vyāsa),由他而起宗族的覆灭?
Verse 25
एवं वैक्लव्यमापन्नो धर्मपुत्रो युधिष्ठिरः । रुदंतः पांडवाः सर्वे भ्रातृशोकपरिप्लुताः
如是,法子由提士提罗(Yudhiṣṭhira)陷入无助的悲苦;众般度(Pāṇḍava)皆号泣不止,为兄弟之哀而沉没。
Verse 26
ये च तत्र महात्मानः समेताः पांडवाश्रिताः । कुंती च द्रौपदी चैव ये च तत्र समागताः
以及在那里聚集的诸位大德,皆依止般度五子;昆蒂与德劳帕蒂亦在其中,并一切到场之人。
Verse 27
भूमौ निपतिताः सर्वे रोदमानाः समंततः । वाराणस्यां तु मार्कंडस्तेन ज्ञातो युधिष्ठरः
众人尽皆仆倒于地,四面哀泣。而在婆罗奈城,有圣者摩尔坎达;由他之故,犹提湿提罗的身份得以显明。
Verse 28
यथाविक्लवमापन्नो रोदमानः सुदुःखितः । अचिरेणैव कालेन मार्कंडस्तु महातपाः
如是陷入极度无助,啼泣而深受苦恼;不久之后,大苦行者摩尔坎达便现前而至。
Verse 29
हस्तिनापुर संप्राप्तो राजद्वारे स तिष्ठति । द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथितवान्द्रुतम्
他抵达象城(Hastināpura),立于王门之前。守门者见之,便急忙禀告国王。
Verse 30
त्वां द्रष्टुकामो मार्कंडो द्वारे तिष्ठत्यसौ मुनिः । त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परः
圣者摩尔坎德耶欲见于你,正立于门前。于是法子(Dharmaputra)急趋至门口,专注其事而开口说道。
Verse 31
युधिष्ठिर उवाच । स्वागतं ते महाप्राज्ञ स्वागतं ते महामुने । अद्य मे सफलं जन्म अद्य मे पावितं कुलम्
尤提希提罗说道:“欢迎你,至智者;欢迎你,大牟尼。今日我之出生得其果报;今日我之族系得以净化。”
Verse 32
अद्य मे पितरस्तृप्तास्त्वयि दृष्टे महामुने । सिंहासन उपस्थाप्य पादशौचार्चनादिभिः
“今日我之祖先得以满足,大牟尼啊,因为我得见于你。为你设下宝座,并以洗足等礼与供奉之仪来敬奉你。”
Verse 33
युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम् । ततस्तमूचे मार्कण्डः पूजितोऽहं त्वया विभो
大心的尤提希提罗确实礼敬了那位圣仙。随后,马尔坎德耶对他说:“大能者啊,我已蒙你礼敬。”
Verse 34
आख्याहि त्वरितो राजन्किमर्थं त्वरितं त्वया । केन वा विक्लवीभूतः कथयस्व ममाग्रतः
“快告诉我,国王啊——你为何如此匆忙?因何缘故你这般忧惧不安?在我面前说来。”
Verse 35
युधिष्ठिर उवाच । अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने । एतत्सर्वं विदित्वा तु भगवानिह चागतः
尤提希提罗说道:“大牟尼啊,关于王国之事我们所遭遇的一切,世尊已尽皆知晓,因此圣者已来到此处。”
Verse 36
मार्कंडेय उवाच । शृणु राजन्महाबाहो यत्र धर्मो व्यवस्थितः । नैव दृष्टं रणे पापं युध्यमानस्य धीमतः
马尔坎德耶说道:听着,臂力雄伟的国王啊——在正法(Dharma)稳固安立之处,智者为正义之因而战,于战阵中不见罪业。
Verse 37
किं पुना राजधर्मेण क्षत्रियस्य विशेषतः । तदेवं हृदये कृत्वा तस्मात्पापं न चिंतयेत्
更何况是王者之法,尤其对刹帝利而言!将此义牢牢记在心中,因此不应因此而忧惧罪过。
Verse 38
ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम् । पृच्छामि त्वां मुनिश्रेष्ठ सदा त्रैकाल्यदर्शनम् । कथयस्व समासेन मुच्येऽहं येन किल्बिषात्
于是,国王尤迪施提罗向圣仙俯首顶礼,说道:“最胜牟尼啊,我请问那种修持,能使人恒常得见三时——过去、现在与未来。请你略说,使我得以解脱罪垢。”
Verse 39
मार्कंडेय उवाच । शृणु राजन्महाभाग यन्मां पृच्छसि भारत । एवं सांख्यं च योगं च तीर्थं चैव युधिष्ठिर
马尔坎德耶说道:听着,福德具足的国王啊,婆罗多后裔啊,你所问于我者。我将如是为你宣说数论(Sāṅkhya)与瑜伽(Yoga),并且也说那神圣的渡口(tīrtha),尤迪施提罗啊。
Verse 40
इति श्रीपाद्मे महापुराणे स्वर्गखंडे चत्वारिंशोऽध्यायः
至此,《圣莲大摩诃往世书》(Śrī Padma Mahāpurāṇa)天界品(Svarga-khaṇḍa)第四十章圆满结束。