Adhyaya 9
Srishti KhandaAdhyaya 9191 Verses

Adhyaya 9

Genealogy of the Ancestors (Pitṛs) and the Procedure of Śrāddha

毗湿摩请问普罗萨提亚:祖灵(Pitṛ)之谱系,以及与施行祭祖(śrāddha)相关的日神罗毗(Ravi)与月神苏摩(Soma)的来历。普罗萨提亚说明祖灵的分类与所居之界——Vairāja、Somapathā、Barhiṣad、Somapā,并穿插缘起故事:阿却陀(Acchodā)的堕落、无月日(Amāvāsyā)的神圣化,以及与萨蒂娅瓦蒂/阿什塔迦(Satyavatī/Aṣṭakā)和毗耶娑/婆达罗耶那(Vyāsa/Bādarāyaṇa)相连的预示。 随后本章转为仪轨教令,详述祭祖的三类:常行(nitya)、因缘(naimittika)、求愿(kāmya);受请婆罗门的资格与禁忌;以及仪式布置与次第——方位、prācīnāvīta 的佩法、器皿尤以银器为胜、供品、诵念与祈请、piṇḍa 团食的分配、事后戒慎。并指出吉凶时日:parvan、saṅkrānti、春秋分与冬夏至、Mahālaya。末了宣说“sādhāraṇa”祭祖,即使首陀罗亦可行(不诵咒),并强调布施(dāna)为其最上之法(dharma)。

Shlokas

Verse 1

भीष्म उवाच । भगवन्श्रोतुमिच्छामि पितॄणां वंशमुत्तमम् । रवेश्च श्राद्धदेवस्य सोमस्य च विशेषतः

毗湿摩说道:噢,圣者啊,我愿聆听诸皮特利(祖灵)的殊胜族系;尤其是拉维——主宰施罗陀(śrāddha)祭仪之日神——以及苏摩(月神)的来历。

Verse 2

पुलस्त्य उवाच । हंत ते कथयिष्यामि पितॄणां वंशमुत्तमम् । स्वर्गे पितृगणाः सप्त त्रयस्तेषाममूर्तयः

普罗陀斯提耶说道:“好,我将为你讲述祖灵(Pitṛ)之殊胜族系。天界有七类祖灵,其中三类无形无相。”

Verse 3

मूर्तिमंतोथ चत्वारः सर्वेषाममितौजसां । अमूर्त्तयः पितृगणा वैराजस्य प्रजापतेः

其中四类具身有形,皆具无量光辉;而诸祖灵之众亦有无形者,隶属于毗罗阇·般若波提(Vairāja Prajāpati)。

Verse 4

यजन्ति यान्देवगणा वैराजा इति विश्रुताः । ये वै ते योगविभ्रष्टाः प्रापुर्लोकान्सनातनान्

诸天众所礼敬的诸界——以“毗罗阇(Vairāja)”诸境著称——即使是从瑜伽中退失者亦能得至;他们抵达永恒之界。

Verse 5

पुनर्ब्रह्मदिनांते तु जायंते ब्रह्मवादिनः । संप्राप्य तां स्मृतिं भूयो योगं सांख्यमनुत्तमम्

然而在梵天之日终了之时,宣说梵(Brahman)者复得再生;重获彼等记忆后,又再证得无上之瑜伽与数论(Sāṃkhya)。

Verse 6

सिद्धिं प्रयांति योगेन पुनरावृत्तिदुर्ल्लभाम् । योगिनामेव देयानि तस्माच्छाद्धानि दातृभिः

凭借瑜伽,他们证得一种成就,几乎难再回堕于轮回。故而行供养者,应将施行的施罗陀(śrāddha)祭仪特别奉献给瑜伽行者。

Verse 7

एतेषां मानसी कन्या पत्नी हिमवतो मता । मैनाकस्तस्य दायादः क्रौचस्तस्य सुतोभवत्

在这些(群山)之中,有一位意生之女被视为喜马梵(Himavān)之妻。由其血脉出有摩那迦(Maināka),而克劳恰(Krauca)成为其子。

Verse 8

क्रौंचद्वीपः स्मृतो येन चतुर्थो धृतसंयुतः । मेना तु सुषवे तिस्रः कन्या योगवतीस्ततः

彼处被称忆为克劳恰洲(Krauncha-dvīpa),为第四大洲,与持(Dhṛti)相应。其后,梅那(Menā)诞下三位女儿,皆具瑜伽之力。

Verse 9

उमैकपर्णा पर्णा च तीव्रव्रतपरायणाः । रुद्रस्यैका भृगोश्चैका जैगीषव्यस्य चापरा

乌玛、独叶女(Ekaparṇā)与叶女(Parṇā)——坚守严峻誓戒——遂成:一位为鲁陀罗之配偶,一位为婆利古之妻,另一位为阇耆湿毗耶(Jaigīṣavya)之妻。

Verse 10

दत्ता हिमवता बालाः सर्वलोकतपोधिकाः । पितॄणां लोकसंगीतं कथयामि शृणुष्व तत्

喜马梵(Himavān)将诸少女许配出嫁——她们的苦行功德胜过诸世界。如今我将宣说祖灵(Pitṛ)之界与其和谐秩序;汝当谛听。

Verse 11

लोकाः सोमपथा नाम यत्र मारीचनंदनाः । वर्त्तंते येन पितरो यान्देवा भावयन्त्यलम्

有诸世界名为“苏摩之道”(Somapathā),其间居住着摩利支(Marīci)的后裔;祖灵(Pitṛ)循此道而行,诸天神亦大力供养并由其所资。

Verse 12

अग्निष्वात्ता इति ख्याता यज्वानो यत्र संस्थिताः । अच्छोदा नाम तेषां तु कन्याभूद्वरवर्णिनी

彼处住着以“阿耆尼湿瓦多”(Agniṣvātta)著称的祭祀司祭(yajvāna)。其间有一少女名阿遮陀(Acchodā),肤色殊胜而光辉。

Verse 13

अच्छोदं च सरस्तत्र पितृभिर्निर्मितं पुरा । अच्छोदाथ तपश्चक्रे दिव्यं वर्षसहस्रकम्

彼处久远以前,祖灵(Pitṛ)造作一湖,名曰阿遮陀(Acchoda)。其后阿遮陀行神圣苦行,历一千天年。

Verse 14

आजग्मुः पितरस्तुष्टा दास्यन्तः किल ते वरम् । दिव्यरूपधराः सर्वे दिव्यमाल्यानुलेपनाः

诸位祖灵(Pitṛ)欢喜而来,确欲赐你恩愿;他们皆现天妙之身,佩戴天界花鬘,并涂抹神圣香膏。

Verse 15

सर्वे प्रधाना बलिनः कुसुमायुधसन्निभाः । तन्मध्येमावसुं नाम पितरं वीक्ष्य सांगना

他们皆为首领而强盛,宛如花箭之神迦摩(Kāma)。在他们中间,众女子见到名为摩婆苏(Māvasu)的祖灵,便注目而观。

Verse 16

वव्रे वरार्थिनी संगं कुसुमायुधपीडिता । योगाद्भ्रष्टा तु सा तेन व्यभिचारेण भामिनी

为花箭之神迦摩(Kāma)所逼恼,那情炽之女——求夫为愿——选择了相伴;然因那不贞之行,她便从瑜伽的持守中堕落。

Verse 17

धरान्न स्पृशते पूर्वं प्रयाताथ भुवस्तले । तथैवामावसुर्योयमिच्छां चक्रे न तां प्रति

他未先触地,便离去而行于大地之上。同样,这位名为阿摩婆苏(Amāvāsu)的新月之日之“日”,亦生起欲念,却并非向着她。

Verse 18

धैर्येण तस्य सा लोके अमावास्येति विश्रुता । पितॄणां वल्लभा यस्माद्दत्तस्याक्षयकारिका

因其坚忍,此日于世间著称为阿摩婆西亚(Amāvāsyā);盖其为祖灵(Pitṛ)所爱,且使此日所施之供养功德无尽。

Verse 19

अच्छोदाधोमुखी दीना लज्जिता तपसः क्षयात् । सा पितॄन्प्रार्थयामास पुनरात्मसमृद्धये

阿阇乔达垂首哀苦——因苦行之力已尽而羞惭——再度向祖灵祈求,愿自身内在的福德与丰盛得以恢复。

Verse 20

विलज्जमाना पितृभिरिदमुक्ता तपस्विनी । भविष्यमथ चालोक्य देवकार्यं च ते तदा

于是,那位苦行女因羞惭而心怯,被祖灵(Pitṛ)如此告诫;当时他们亦观照未来,并思量她面前的神圣使命。

Verse 21

इदमूचुर्महाभागाः प्रसाद शुभयागिरा । दिवि दिव्यशरीरेण यत्किंचित्क्रियते बुधैः

那些有福者以慈和吉祥之语说道:“凡智者在天界以天身所行之事……”

Verse 22

तेनैव तत्कर्मफलं भुज्यते वरवर्णिनी । सद्यः फलंति कर्माणि देवत्वे प्रेत्यमानुषे

正由此因,肤色姝丽的女士啊,便得受用其业果。诸业即时结果:或得天神之位,或死后复受人身。

Verse 23

तस्मात्त्वं सुकृतं कृत्वा प्राप्स्यसे प्रेत्य यत्फलम् । अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा

因此,你当修作善业,死后必得其应得之果。在第二十八(世代)时,你将生于兜婆罗瑜伽(Dvāpara Yuga),出自鱼胎而生。

Verse 24

व्यतिक्रमात्पितॄणां तु कष्टं कुलमवाप्स्यसि । तस्माद्राज्ञो वसोः कन्या त्वमवश्यं भविष्यसि

因你违越了对祖灵应守之道,你的家族将遭受艰苦。因此,你必定会成为婆苏王之女。

Verse 25

कन्यात्वे देवलोकांस्तान्पुनः प्राप्स्यसि दुर्ल्लभान् । पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि

在你为处女之时,你将再度抵达那难得的天界诸境;并凭借帕罗沙罗之威力,你将得一子。

Verse 26

द्वीपे तु बदरीप्राये बादरायणमप्युत । स वेदमेकं बहुधा विभजिष्यति ते सुतः

并且在近于婆陀梨的岛状之地,也将有婆陀罗衍那;你的儿子将把唯一的吠陀分为多部。

Verse 27

पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शंतनोः । विचित्रवीर्यस्तनयस्तथा चित्रांगदो नृपः

且说在波罗婆族系中——商多奴乃大海之一分——有两位王子:其一为国王质多昂伽陀,其二为毗奇多毗梨耶。

Verse 28

इमावुत्पाद्य तनयौ क्षेत्रजौ तस्य धीमतः । प्रौष्ठपद्यष्टकाभूयः पितृलोके भविष्यसि

在为那位贤者以“田生”(kṣetra,受命生育)之法生下这两子之后,你将再度成为普罗什塔帕达月期的阿湿塔迦祭仪,并居于祖灵(Pitṛ)之界。

Verse 29

नाम्ना सत्यवती लोके पितृलोके तथाष्टका । आयुरारोग्यदा नित्यं सर्वकामफलप्रदा

在人间,她以“萨蒂亚瓦蒂”(Satyavatī)之名为人所知;在祖灵之界(Pitṛloka),则名为“阿什塔迦”(Aṣṭakā)。她恒常赐予长寿与无病安康,并成就一切所愿之果报。

Verse 30

भविष्यसि परे लोके नदी त्वं च गमिष्यसि । पुण्यतोया सरिच्छ्रेष्ठा लोकेष्वच्छोदनामिका

在来世,你将化为一条河流而奔涌不息;你的水将成为圣水。作为诸河之最胜,你将在诸世界以“阿乔达”(Acchodā)之名为人所称。

Verse 31

इत्युक्ता सा गणैस्तैस्तु तत्रैवांतरधीयत । साप्यापचारित्रफलं मया यदुदितं पुरा

她被那些侍从如此告诫之后,便当场隐没不见。这同样是我先前所宣说之失德行径的果报。

Verse 32

विभ्राजो नाम ये चान्ये दिवि संति सुवर्चसः । लोका बर्हिषदो यत्र पितरः संति सुव्रताः

在天界,有名为“毗婆罗阇”(Vibhrājas)等诸光辉者,灿然照耀。彼处亦有“巴尔希沙德”(Barhiṣad)诸界,祖灵之父(Pitṛ)安住其中,坚守神圣戒行。

Verse 33

यत्र बर्हिषि युक्तानि विमानानि सहस्रशः । संकल्पपादपा यत्र तिष्ठंति फलदायिनः

在那里,于神圣祭草(barhis)之上,千万辆天车陈列成行;那里又有如意之树屹立,随愿赐予所求之果。

Verse 34

यदभ्युदयशालासु मोदंते श्राद्धदायिनः । ये दानवासुरगणा गंधर्वाप्सरसां गणाः

献行施祖祭(śrāddha)者,在兴盛之殿中欢喜;彼处亦有檀那婆与阿修罗之众,以及乾闼婆与阿普萨罗的群集。

Verse 35

यक्षरक्षोगणास्ते च यजंति दिवि देवताः । पुलस्त्यपुत्राः शतशस्तपोयोगबलान्विताः

那些夜叉与罗刹之众,具足由苦行与瑜伽修持所生之力——皆为普罗娑底耶之子,数以百计——在天界礼敬诸神。

Verse 36

महात्मानो महाभागा भक्तानामभयंकराः । एतेषां पीवरी कन्या मानसी दिवि विश्रुता

他们心怀大德、福分殊胜,赐予信众无畏。其间有一位名为毗伐梨(Pīvarī)的少女——由意念所生(mānasī)——在天界声名远播。

Verse 37

योगिनी योगमाता च तपश्चक्रे सुदारुणं । प्रसन्नो भगवांस्तस्या वरं वव्रे तु सा ततः

瑜伽女神、瑜伽之母,修行极其严峻的苦行。世尊因她而欢喜,赐与恩愿;于是她便启请所愿之赐。

Verse 38

योगवंतं सुरूपं च भर्तारं विजितेंद्रियम् । देहि देव प्रसन्नस्त्वं यदि ते वदतां वर

天神啊,若你欢喜,愿赐我一位夫君:具足瑜伽之德,形貌端严,克制诸根;赐愿者中最胜者啊。

Verse 39

निर्णुदः सर्वपापानां पवित्र ऋषिसंस्तुतः । गंधपुष्पैरलंकृत्य या दिव्येत्यर्घमुत्सृजेत्

能驱除一切罪业者——清净,为诸仙圣所赞——以香与花庄严供品后,应当献上阿尔伽(arghya),并诵曰:“噢,神圣者!”

Verse 40

भविष्यति च ते कन्या कृत्तीनामाथ योगिनी । पांचालपतये देया सात्वताय तु सा तदा

你将生一女,名为Kṛttī(克里蒂),为一位瑜伽女行者(yoginī)。那时应将她嫁与般遮罗(Pāñcāla)之主——萨特瓦塔(Sātvata)。

Verse 41

जननी ब्रह्मदत्तस्य योगसिद्धांतगा स्मृता । कृष्ण गौरश्च शंभुश्च भविष्यंति च ते सुताः

婆罗摩达多(Brahmadatta)之母被忆为安住于瑜伽成就之教义者。你的儿子将是:Kṛṣṇa(黑天)、Gaura(高罗)与Śambhu(商布)。

Verse 42

सर्वकामसमृद्धेषु विमानेष्वपि पावनाः । किं पुनः श्राद्धदा विप्रा भक्तिमंतः क्रियान्विताः

即便是充满一切所欲享乐的天界宫殿(vimāna),亦具净化之力;更何况那些以信敬(bhakti)具足、如法行仪而施行施罗陀(śrāddha)的婆罗门!

Verse 43

गौर्नाम कन्या येषां तु मानसी दिवि राजते । सुकन्या दयिता पत्नी साध्यानां कीर्तिवर्द्धिनी

在他们之中,有一位名为Gaura(高罗)的少女——由心意所生——在天界熠熠生辉。此贤淑佳女、挚爱的妻子,为诸Sādhya(萨提亚天众)之配偶,并增长其名望。

Verse 44

मरीचिगर्भनामानो लोके मार्तंडमंडले । पितरो यत्र तिष्ठंति हविष्मंतोंगिरः सुताः

在太阳之界、玛尔坦达(Mārtaṇḍa)之光轮中,住着世间称为“摩利支胎”(Marīcigarbhā)的祖灵(Pitṛ);他们安住其间——哈维什曼(Haviṣmān)与安吉罗萨(Aṅgiras)之子。

Verse 45

तीर्थश्राद्धप्रदा यांति यत्र क्षत्रियसत्तमाः । राज्ञां तु पितरस्ते वै स्वर्गभोगफलप्रदाः

最胜的刹帝利(Kṣatriya)所往之处,即得在圣地(tīrtha)所修施祖供(śrāddha)之功德;而诸王之祖灵(Pitṛ)确能赐予享受天界福乐之果报。

Verse 46

एतेषां मानसी कन्या यशोदा नाम विश्रुता । पत्नी यांशुमतः श्रेष्ठा स्नुषा पंचजनस्य च

在他们之中,有一位意生之女,名闻为“耶输达”(Yaśodā);她是雅姆舒玛特(Yāṃśumat)最贤的妻子,亦为潘恰迦那(Pañcajana)之媳。

Verse 47

जनन्यथ दिलीपस्य भगीरथपितामही । लोकाः कामदुघा नाम कामभोगफलप्रदाः

于是她成为迪利帕(Dilīpa)之母、婆伽罗他(Bhagīratha)之祖母(父系)。由她而生诸界,名为“甘愿乳”(Kāmadhughā),能赐所愿受用与欢乐之果。

Verse 48

सुस्वधा नाम पितरो यत्र तिष्ठन्ति ते सुताः । आज्यपा नाम लोकेषु कर्दमस्य प्रजापतेः

在“善供”(Susvadhā)之名的祖灵(Pitṛ)所住之处——那便是他们的子嗣;而诸世界中亦有名为“酥供者”(Ājyapā)的祖灵,隶属于生主迦尔达摩(Prajāpati Kardama)。

Verse 49

पुलहाग्रजदायादा वैश्यास्तान्भावयंति ह । यत्र श्राद्धकृतः सर्वे पश्यंति युगपद्गताः

在那里,毗舍耶族——普罗诃长兄的后裔——确实以虔敬召请并令彼等(祖灵)满足;在那处,凡已行施罗陀(śrāddha)者,皆得见之,宛如他们同一时刻齐至。

Verse 50

मातृभ्रातृपितृस्वसॄः सखिसंबंधिबांधवान् । अपिजन्मायुतैर्दृष्टाननुभूतान्सहस्रशः

母亲、兄弟、父亲、姊妹、朋友、亲属与族亲——纵使在成千上万次出生中相见、又千百次相逢相处——终究也并非真正永恒属于“我”的人。

Verse 51

एतेषां मानसी कन्या विरजा नाम विश्रुता । सा पत्नी नहुषस्यासीद्ययातेर्जननी तथा

由这些(众生)之中,生出一位意生之女,名闻为毗罗阇(Virajā)。她成为那胡沙(Nahuṣa)之妻,也同样是耶耶提(Yayāti)之母。

Verse 52

एषाष्टकाभवत्पश्चाद्ब्रह्मलोकगता सती । त्रय एते गणाः प्रोक्ताश्चतुर्थं तु वदाम्यहम्

其后,她成为“八众”(aṣṭakā),并以贞善之德往生梵天之界。此三类已述;如今我将宣说第四类。

Verse 53

लोकाः सुमनसो नाम ब्रह्मलोकोपरिस्थिताः । सोमपा नाम पितरो यत्र तिष्ठंति शाश्वतं

在梵界(Brahmaloka)之上,有名为苏摩那萨(Sumanasa)的诸世界;彼处名为索摩帕(Somapā)的祖灵(Pitṛ)永恒安住。

Verse 54

धर्ममूर्तिधराः सर्वे परतो ब्रह्मणः स्मृताः । उत्पन्नाः प्रलयांते तु ब्रह्मत्वं प्राप्य योगिनः

他们皆具持法(Dharma)之形,被忆念为超越梵天(Brahmā)。虽于创生中出现,至劫末坏灭之时,这些瑜伽行者证得梵(Brahman)之境。

Verse 55

कृत्वा सृष्ट्यादिकं सर्वे मानसे सांप्रतं स्थिताः । नर्मदा नाम तेषां तु कन्या तोयवहा सरित्

他们完成了以创世等为始的一切作为,便安住于摩那萨(Mānasa)之地。由他们生出一位女儿,名为那尔摩达(Narmadā)——载水之河。

Verse 56

भूतानि पुनती या तु पश्चिमोदधिगामिनी । तेभ्यः सर्वत्र मनुजाः प्रजासर्गे च निर्मितम्

此河净化一切众生,奔流向西方大海;由此河,在众生的创造之中,人类被遍处造就。

Verse 57

ज्ञात्वा श्राद्धानि कुर्वंति धर्मभावेन सर्वदा । सर्वदा तेभ्य एवास्य प्रसादाद्योगसंततिः

知晓其正法仪则,他们恒常以法心行施祖祭(śrāddha);唯由那些祖灵的恩泽,于他便不断生起不绝的瑜伽相续。

Verse 58

पितॄणामादिसर्गे तु श्राद्धमेवं विनिर्मितम् । सर्वेषां राजतं पात्रमथवा राजतान्वितम्

于是,在为祖灵(Pitṛ)而设的最初创世之中,施祖祭(śrāddha)便如此制定。诸供品所用之器,当为银器,或至少饰以白银。

Verse 59

दत्तं स्वधां पुरोधाय पितॄन्प्रीणाति सर्वदा । आग्नीध्रसोमपाभ्यां तु कार्यमाप्यायनं बुधैः

当供献之物以“svadhā”圣句为先而奉上时,常能令诸Pitṛ(祖灵)欢喜。然智者又教示:当以献给Agnīdhra与Somapā的两次供火之供,滋养并坚固此仪轨。

Verse 60

अग्न्यभावे तु विप्रस्य पाणौ वाथ जलेपि वा । अजाकर्णेश्वकर्णे वा गोष्ठे वाथ शिवांतिके

然而若婆罗门无火可用,(此仪)可于掌中行之,或甚至于水中行之;亦可在Ajākarṇa或Aśvakarṇa之处;或在牛栏中;或在湿婆(Śiva)圣祠近旁。

Verse 61

पितॄणाममलं स्थानं दक्षिणादिक्प्रशस्यते । प्राचीनावीतमुदकं तिलसंत्यागमेव च

对于诸Pitṛ(祖灵),无垢而相应之处被称赞为南方之域;并且(行礼时)当以prācīnāvīta之式,奉以水供,亦当献上芝麻之供。

Verse 62

खड्गिगनामामिषं चैवमन्नं श्यामाकशालयः । यवनीवारमुद्गेक्षु शुक्लपुष्प फलानि च

所述供品包括:肉食(āmiṣa),如śyāmāka与śāli稻米等谷物,yavanī与nīvāra之谷,mudga(绿豆)与甘蔗,以及白色花朵与诸果。

Verse 63

वल्लभानि प्रशस्तानि पितॄणामिह सर्वदा । दर्भा माषष्षष्टिकान्नं गोक्षीरं मधुसर्पिषी

在此,对诸Pitṛ(祖灵)而言,常为所爱、尤为称善者是:darbha圣草、māṣa(黑豆)、以ṣaṣṭika米所制之食、牛乳、蜂蜜与酥油(ghee)。

Verse 64

शस्त्राणि च प्रवक्ष्यामि श्राद्धे वर्ज्यानि यानि च । मसूर शण निष्पावा राजमाषाः कुलुत्थकाः

我亦将宣说在施行Śrāddha(祭祖供养)时应当避开的供品:扁豆、麻籽、niṣpāva豆、rājamāṣa豆,以及马豆(kulattha)。

Verse 65

पद्म बिल्वार्कादुत्तूर पारिभद्राटरूषकाः । न देयाः पितृकार्येषु पयश्चाजाविकं तथा

莲花、毕婆(bilva)、阿尔迦(arka)、曼陀罗(dhattūra)、波利阇多(pārijāta)与aṭarūṣaka,不可在祭祖之事中供献;同样,山羊或绵羊之乳亦不可供给。

Verse 66

कोद्रवोदारवरटकपित्थं मधुकातसी । एतान्यपि न देयानि पितॄभ्यः श्रियमिच्छता

欲求吉祥富足者,即便是这些也不应供奉于祖灵Pitṛ:kodrava谷、odāra、varaṭa、kapittha果、madhuka,以及ātasi(亚麻籽)。

Verse 67

पितृन्प्रीणाति यो भक्त्या ते पुनः प्रीणयंति तं । यच्छंति पितरः पुष्टिं स्वांगारोग्यं प्रजाफलम्

以虔敬之心令祖灵Pitṛ——先祖之父——欢喜者,祖灵亦复欢喜于彼。诸Pitṛ赐予滋养与力量、自身之安康,以及子嗣之果报。

Verse 68

देवकार्यादपि पुनः पितृकार्यं विशिष्यते । देवताभ्यः पितॄणां तु पूर्वमाप्यायनं स्मृतम्

即便较诸奉事诸天之仪,祭奉祖灵Pitṛ之事更为殊胜;因为传统记载:当先令祖先满足,甚至在诸神之前。

Verse 69

शीघ्रप्रसादास्त्वक्रोधा निस्संगाः स्थिर सौहृदाः । शांतात्मानः शौचपराः सततं प्रियवादिनः

他们易于宽恕,无嗔无怒,离执无著,友谊坚定;心神寂静,奉持清净,恒常言语柔和。

Verse 70

भक्तानुरक्ताः सुखदाः पितरः पर्वदेवताः । हविष्मतामाधिपत्ये श्राद्धदेवः स्मृतो रविः

诸祖灵(Pitṛ)爱护其信众,赐予安乐,被视为诸圣时之神明;而在献供(havis)者之中,罗毗(Ravi,太阳)被忆念为施行 śrāddha 祭仪的主宰神。

Verse 71

एतद्धि सर्वमाख्यातं पितृवंशानुकीर्त्तनम् । पुण्यं पवित्रमारोग्यं कीर्त्तनीयं नृभिः सदा

如是,祖先世系的全部叙述已宣说完毕。此诵念具大功德,能净化身心,亦为健康之因;故人们应当恒常称诵。

Verse 72

भीष्म उवाच । श्रुत्वैतदखिलं भूयः पराभक्तिरुपस्थिता । श्राद्धकालं विधिं चैव श्राद्धमेव तथैव च

毗湿摩说道:听闻这一切之后,我心中再次生起至上的虔敬。如今也请为我宣说:行 śrāddha 的时日、其仪轨,以及 śrāddha 本身的全貌。

Verse 73

श्राद्धेषु भोजनीया ये श्राद्धवर्ज्या द्विजातयः । कस्मिन्वासरभागे तु पितृभ्यः श्राद्धमारभेत्

在行 śrāddha 时,哪些两生者(dvija)应受供食,哪些两生者应从 śrāddha 中排除?又当于一日之何时开始为诸 Pitṛ(祖灵)举行 śrāddha?

Verse 74

अन्नं दत्तं कथं याति श्राद्धे वै ब्रह्मवित्तम । विधिना केन कर्त्तव्यं कथं प्रीणाति तान्पितॄन्

噢,最通达梵(Brahman)者啊,在施行施罗达(śrāddha)时所供之食,如何抵达亡者?应依何等仪轨而行,又如何令祖灵——诸皮特利(Pitṛ)得以欢喜满足?

Verse 75

पुलस्त्य उवाच । कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च । पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन्

普拉斯提亚(Pulastya)说:应当日日行施罗达(śrāddha),以食物并以清水;或以乳、根、果亦可,如是令诸祖先(pitṛ)得欢喜。

Verse 76

नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते । नित्यं तावत्प्रवक्ष्यामि अर्घ्यावाहनवर्जितम्

所谓施罗达(śrāddha)有三类:常行(nitya)、因缘时行(naimittika)、以及为愿而行(kāmya)。我先宣说常行施罗达:不设阿尔伽(arghya)之供,亦不作召请(āvāhana)。

Verse 77

अदैवतं विजानीयात्पार्वणं पर्व सुस्मृतम् । पार्वणं त्रिविधं प्रोक्तं शृणु यत्नान्महीपते

当知所谓“无天神供”(adaivata)即为帕尔瓦那(Pārvaṇa)之仪,亦即众所周知的“帕尔万”(Parvan)之行。帕尔瓦那被宣说为三种——大王啊,请用心聆听。

Verse 78

पार्वणेय नियोज्यास्तु तान्शृणुष्व नराधिप । पंचाग्निः स्नातकश्चैव त्रिसौपर्णः षडंगवित्

大王啊,请听当被任用于帕尔瓦那(Pārvaṇa)之仪者:奉持五圣火者、已成“沐浴毕业者”斯那塔迦(Snātaka)、通晓三首苏帕尔那(Suparṇa)赞歌者,以及精通六支(Vedāṅga)者。

Verse 79

श्रोत्रियः श्रोत्रियसुतो विधिवाक्यविशारदः । सर्वज्ञो वेदवान्मंत्री ज्ञानवंशकुलान्वितः

他是精通吠陀的学者,亦为学者之子,善解经典戒律之言;近乎全知,具足吠陀学识,为明智的谋臣,并承继以智慧为本的家族血脉与传统。

Verse 80

त्रिणाचिकेतस्त्रिमधुः श्रुतेष्वन्येषु संस्थितः । पुराणवेत्ता ब्रह्मज्ञः स्वाध्यायी जपतत्परः

他奉行三重那奇克多(Nāciketa)仪轨,通晓“三蜜(Madhu)”之教,安住于吠陀及诸余经典;精通《往世书》(Purāṇa),了知梵(Brahman),勤于自修诵习,恒常专注于持诵(japa)圣名。

Verse 81

ब्रह्मभक्तः पितृपरः सूर्यभक्तोथ वैष्णवः । ब्राह्मणो योगनिष्ठात्मा विजितात्मा सुशीलवान्

他敬奉梵天(Brahmā),勤于祖先祭仪,礼敬太阳神,亦为毗湿奴信徒(Vaiṣṇava);他是婆罗门,安住瑜伽,克己自持,品行端雅。

Verse 82

एते तोष्याः प्रयत्नेन वर्जनीयानिमान्शृणु । पतितस्तत्सुतः क्लीबः पिशुनो व्यंगरोगितः

这些人当以勤恳之心令其欢喜;现在且听应当回避者:堕落之人及其子,阳痿无能者,搬弄是非者,以及形体残缺或患病之人。

Verse 83

सर्वे ते श्राद्धकाले तु त्याज्या वै धर्मदर्शिभिः । पूर्वेद्युरपरेद्युर्वा विनीतांश्च निमंत्रयेत्

凡此诸人,于施行施罗达(śrāddha)之时,明辨法(dharma)者确应回避。应邀请端谨而堪受供养之人,可于前一日或后一日行请。

Verse 84

निमंत्रितांश्च पितर उपतिष्ठंति तान्द्विजान् । वायुभूतानि गच्छंति तथासीनानुपासते

当被恭请时,诸祖灵(Pitṛ)便临至二次生者之前;化为如风般微妙之形而来,如是近侍,守候并奉事端坐之人。

Verse 85

दक्षिणं जानुचालभ्य वामं पात्यनिमंत्रयेत् । अक्रोधनैः शौचपरैः सुस्नातैर्ब्रह्मवादिभिः

右膝前出、左膝下伏而安坐,应当发出恭请;当由通达梵(Brahman)者为之——离嗔无怒,守持清净,且已如法沐浴。

Verse 86

भवितव्यं भवद्भिस्तु मया च श्राद्धकर्मणि । पितृयज्ञं विनिर्वर्त्य तर्पणाख्यं तु योग्निमान्

你我当如法参与施行śrāddha之仪。既已圆满祖先祭(pitṛ-yajña),具戒行之修持者复当行名为tarpaṇa之法,以水奠祭祖灵。

Verse 87

पिंडान्वाहार्यकं कुर्याच्छ्राद्धमिंदुक्षये तथा । गोमयेनानुलिप्ते तु दक्षिणाप्लवनस्थले

亦当于月亏之时行piṇḍa–anvāhāryaka之śrāddha;在名为dakṣiṇā-plavana的南向供献之处,先以牛粪涂抹其地,然后施行。

Verse 88

श्राद्धं समारभेद्भक्त्या गोष्ठे वा जलसन्निधौ । अग्निमान्निर्वपेत्पित्र्यं चरुं वा सक्तुमुष्टिभिः

当以虔敬发起śrāddha,可在牛舍之中,或在近水之处。于火前当献祖先之供(piṭrya):或献caru熟米粥,或以手捧献saktu之炒谷/炒粉。

Verse 89

पितृभ्यो निर्वपामीति सर्वं दक्षिणतो न्यसेत् । अभिघार्य ततः कुर्यान्निर्वापत्रयमग्रतः

口诵“此供奉于祖灵(Pitṛ)”,应将一切安置于南方。随后浇注酥油供献(ghee),并在前方作三次供养。

Verse 90

ते वितस्त्यायताः कार्याश्चतुरङ्गुलविस्तृताः । दर्वीत्रयं च कुर्वीत खादिरं रजतान्वितम्

其制应为一拃之长、四指之宽;并当另备三柄勺(祭勺),以伽提罗木(khadira)制成,并镶配白银。

Verse 91

रत्निमात्रं परिश्लक्ष्णं हस्ताकाराग्रमुत्तमम् । उदपात्राणि कांस्यस्य मेक्षणं च समित्कुशम्

又当备一器具,光滑精致,长一肘拃(ratni),其端如手形而殊妙;并备青铜盛水器;以及一柄勺、柴薪与库沙草(kuśa)。

Verse 92

तिलपात्राणि सद्वासो गंधधूपानुलेपनम् । आहरेदपसव्यं च सर्वं दक्षिणतः शनैः

应携来盛满芝麻之器,并备善衣、香料、熏香与涂香膏;且当在右侧缓步而行,以逆时针之仪(apasavya)将这一切奉至。

Verse 93

एवमासाद्य तत्सर्वं भवनस्योत्तरेंतरे । गोमयेनानुलिप्तायां गोमूत्रेण च मंडलम्

如是取得并安置诸物于屋内北侧之处——先以牛粪涂抹其地——并以牛尿画作仪式之圆坛(曼荼罗)。

Verse 94

साक्षताभिः सपुष्पाभिरद्भिः सव्यापसव्यवत् । विप्राणां क्षालयेत्पादावभिवंद्य पुनःपुनः

以掺入完整米粒与花的净水,应为婆罗门洗足,恭敬地由左向右行绕,并一再顶礼致敬。

Verse 95

आसनेषूपविष्टेषु दर्भवत्सु विधानतः । उपस्पृष्टोदकान्विप्रानुपवेश्यानुमंत्रयेत्

当婆罗门依仪则端坐于铺有达婆草之座,并已行触水净身之礼后,应再安置其就位于仪式中,并为其诵持相应的真言。

Verse 96

द्वौ दैवे पितृकृत्ये त्रीनेकैकं चोभयत्र वा । भोजयेदीश्वरोपीह न कुर्याद्विस्तरं बुधः

行供神之礼,当供养二位婆罗门;行祭祖之礼,当供养三位;或两礼各供一位。即便有能力的家主亦当止于此数——智者不应铺张炫示。

Verse 97

दैवपूर्वं निवेद्याथ विप्रानर्घादिना बुधैः । अग्नौ कुर्यादनुज्ञातो विप्रैर्विप्रो यथाविधि

先当如法奉告并奉献于诸天神力;继而智者以阿尔伽等供品恭敬礼敬婆罗门。随后得婆罗门许可,由一位婆罗门依仪轨于圣火中行火供。

Verse 98

स्वगृह्योक्तेन विधिना काले कृत्वा समंततः । अग्नीषोममयाभ्यां तु कुर्यादाप्यायनं बुधः

于适当之时,依自家《家祭经》(Gṛhya-sūtra)所教之法,周遍四方完成仪式后,智者应以阿耆尼与苏摩所成之供献,行“阿毗耶耶那”(āpyāyana)之充盈复益礼。

Verse 99

दक्षिणाग्नौ प्रणीतेन स एवाग्निर्द्विजोत्तमः । यज्ञोपवीतान्निर्वर्त्य ततः पर्युक्षणादिकम्

当此火被引至南方圣火(dakṣiṇāgni)时,正是这同一之火——噢,最胜的再生者——应当用来圆满圣绳(yajñopavīta)之仪;其后当行洒净(paryukṣaṇa)及诸随行法。

Verse 100

प्राचीनावीतिना कार्यमेतत्सर्वं विजानता । लब्ध्वा तस्माद्विशेषेण पिंडान्कुर्वीत चोदकं

通晓诸仪者,应以圣绳作前垂式(prācīnāvīta)而行此一切;因此,得其所当得之时与具足之物,尤当备办团食供(piṇḍa)及相随之水供。

Verse 101

दद्यादुदकपात्रैस्तु सलिलं सव्यपाणिना । दद्यात्सर्वं प्रयत्नेन दमयुक्तो विमत्सरः

以盛水之器,当以左手献水;并当竭诚尽力而施与一切,持戒自制,远离嫉妒。

Verse 102

विधाय रेखां यत्नेन निर्वपेदवनेजनं । दक्षिणाभिमुखः कुर्यात्ततो दर्भान्निधाय वै

先谨慎画出一道界线,继而安置净化之供;面向南方而行之,然后铺置达尔婆草(darbha)。

Verse 103

निधाय पिंडमेकैकं सर्वं दर्भोपरिक्रमात् । निर्वपेदथ दर्भेषु नामगोत्रानुकीर्तनैः

将每一团食供(piṇḍa)逐一安置,并以库沙草(kuśa)环绕其周后,当置于库沙草上而奉献,同时称诵其名与氏族(gotra)。

Verse 104

तेषु दर्भेषु तं हस्तं विमृज्याल्लेपभागिनां । तथैव च जपं कुर्यात्पुनः प्रत्यवनेजनम्

应将那只沾触残余膏泥或不净之物的手,在达婆草上拭净;随后依同样方式继续诵持咒念,并再次行净洗之礼。

Verse 105

जलयुक्तं नमस्कृत्य गंधधूपार्चनादिभिः । एवमावाह्य तत्सर्वं वेदमंत्रैर्यथोदितैः

以水致敬而礼拜,并以香料、熏香、供奉等诸供养,如是依所规定,以吠陀真言召请一切。

Verse 106

एकाग्नरेकएवाद्भिर्निर्वपेद्दर्विकां तथा । ततः कृत्वा नरो दद्यात्पितृभ्यस्तु कुशान्बुधः

唯以一火,并以水相佐,当以勺依法行供献。其后既毕,智者当以拘舍草奉献于祖灵(Pitṛ)。

Verse 107

ततः पिंडादिकं कुर्यादावाहनविसर्जनम् । ततो गृहीत्वा पिंडेभ्यो मात्राः सर्वाः क्रमेण तु

随后当行以团食供(piṇḍa)为首的诸仪,并作召请与送遣。其后从诸团食中依次取分,当按次第供献或分施一切应有之量。

Verse 108

तानेव विप्रान्प्रथममाशयित्वा च मानवः । वर्णयन्भोजयेदन्नमिष्टं पूर्तं च सर्वदा

先令那些婆罗门就座,然后此人应常以食物供养他们:既有祭祀所献之供(iṣṭa),亦有公益布施之供(pūrta),并恭敬称赞其德行。

Verse 109

वर्जयेत्क्रोधपरतां स्मरन्नारायणं हरिम् । तृप्तान्ज्ञात्वा पुनः कुर्याद्विकिरं सार्ववर्णिकं

忆念那罗延(Nārāyaṇa)与哈利(Hari),当远离嗔怒之驱使。确认众人皆已满足之后,应再度将供食平等分施于一切阶层。

Verse 110

विधृत्य सोदकं त्वन्नं सतिलं प्रक्षिपेद्भुवि । आचांतेषु पुनर्दद्याज्जलं पुष्पाक्षतोदकम्

取以水与芝麻调和之食,投撒于地。随后行阿遮摩那(ācamana)净饮之礼,再次奉献掺有花与整粒米的净水。

Verse 111

स्वधावाचनकं सर्वं पिंडोपरि समाचरेत् । देवाद्यंतं प्रकुर्वीत श्राद्धनाशोन्यथा भवेत्

当于祭团(piṇḍa,亡灵食团)之上,完整诵念“斯瓦达”(Svadhā)诸式。应自诸神起,依次至终;否则施罗达(śrāddha)之仪将被毁坏。

Verse 112

विसृज्य विप्रान्प्रणतस्तेषां कृत्वा प्रदक्षिणम् । दक्षिणांदिशमाकांक्षन्पितॄनुद्दिश्य मानवः

恭敬辞别婆罗门,向其顶礼并右绕行礼后,此人面向南方,心念诸祖灵(Pitṛ),而行其仪。

Verse 113

दातारो नोभिवर्द्धंतां वेदाः सन्ततिरेव च । श्रद्धा च नो मा व्यगमद्बहुदेयं च नोस्त्विति

愿施主增盛,愿我等所奉持之吠陀兴隆,愿家族血脉绵延不绝。愿信心永不离散,愿我等常有丰厚可施——如是祈愿。

Verse 114

अन्नं च नो बहुभवेदतिथींश्च लभेमहि । याचितारश्च नः संतु मा च याचिष्म कंचन

愿我们粮食丰足,亦得迎接宾客;愿常有人向我们求取,而我们永不向任何人乞求。

Verse 115

एतदग्निमतः प्रोक्तमन्वाहार्यं तु पार्वणं । यथेंदुसंक्षये तद्वदन्यत्रापि निगद्यते

此乃通晓圣火之权威所宣说:anvāhārya 供献即为 pārvana 之仪。正如在月亏之时所规定,亦复如是,被说为在他处亦当施行。

Verse 116

पिंडांस्तु गोजविप्रेभ्यो दद्यादग्नौ जलेपि वा । वप्रांते वाथ विकिरेदापोभिरथ वापयेत्

当将米团(piṇḍa)施与牛、诸兽及婆罗门;或投于火中,亦可投于水中。或散于高地堤岸之缘,或以水使之溶解。

Verse 117

पत्नीं तु मध्यमं पिंडं प्राशयेद्विनयान्विताम् । आधत्त पितरो गर्भं पुत्रसंतानवर्द्धनं

当令具谦恭端庄之妻食其中间之米团。于是祖灵(Pitṛ)赐予受胎,使子嗣与家系增长昌盛。

Verse 118

तावन्निर्वापणं तिष्ठेद्यावद्विप्रा विसर्जिताः । वैश्वदेवं ततः कुर्यान्निवृत्तः पितृकर्मणः

当令 nirvāpaṇa 供物安置不动,直至婆罗门被恭敬送别。继而,既已完成祖先之事,当行 Vaiśvadeva 供献。

Verse 119

इष्टैः सह ततः शांतो भुंजीत पितृसेवितम् । पुनर्भोजनमध्वानं यानमायासमैथुनम्

随后,当心神安宁时,应与亲爱之人一同享用供奉于祖灵(Pitṛ,先祖)的食物。其后应避免再次进食、远行、乘车出行、剧烈劳作以及房事。

Verse 120

श्राद्धकृच्छ्राद्धभुग्यो वा सर्वमेतद्विवर्जयेत् । स्वाध्यायं कलहं चैव दिवास्वप्नं च सर्वदा

无论是在举行施罗陀(Śrāddha)仪轨,还是在享用施罗陀供食,都应避开这一切禁行;并且常应戒除诵读吠陀(svādhyāya)、争吵以及白昼睡眠。

Verse 121

अनेन विधिना श्राद्धं त्रिवर्गस्येह निर्वपेत् । कन्या कुंभ वृषस्थेर्के कृष्णपक्षेषु सर्वदा

依此所定仪则,应在此举行能成就人生三义(法、利、欲)的施罗陀(śrāddha);并应常在黑半月(kṛṣṇa-pakṣa)之时,当太阳行至处女(Kanyā)、宝瓶(Kumbha)或金牛(Vṛṣa)诸宫而行。

Verse 122

यत्रयत्र प्रदातव्यं सपिंडीकरणात्मकम् । तत्रानेन विधानेन देयमग्निमता सदा

凡应施与与“同团合祖”(sapiṇḍīkaraṇa)仪式相关之供献之处,皆应恒常依此仪则,由守持圣火者而施与。

Verse 123

अतः परं प्रवक्ष्यामि ब्रह्मणा यदुदीरितम् । श्राद्धं साधारणं नाम भुक्तिमुक्तिफलप्रदम्

现在我将宣说梵天(Brahmā)所宣示者:名为“通行”(sādhāraṇa)的施罗陀(śrāddha)之仪,能赐予世间受用与解脱二者之果。

Verse 124

अयने विषुवे चैव अमावस्यार्कसंक्रमे । अमावस्याष्टका कृष्णपक्ष पंचदशीषु च

在至日与分日之时,在新月日(阿摩婆娑耶 amāvasyā),在太阳进入新的黄道宫(rāśi)之际,在阿湿多迦(Aṣṭakā)仪轨之日,以及在黑半月第十五日——(这些时刻尤为重要)。

Verse 125

आर्द्रा मघा रोहिणीषु द्रव्यब्राह्मणसंगमे । गजच्छायाव्यतीपाते विष्टिवैधृतिवासरे

在阿尔德拉(Ārdrā)、摩伽(Maghā)与罗希尼(Rohiṇī)等宿之时;在财物与婆罗门相遇之际;在名为“象影”(Gaja-chāyā)与“维耶提帕塔”(Vyatīpāta)的凶时;以及逢“毗湿底”(Viṣṭi,亦称Bhadrā)与“外陀诃利底”(Vaidhṛti)之日——(皆被视为不宜行吉事)。

Verse 126

वैशाखस्य तृतीयायां नवमीकार्तिकस्य च । पंचदशी तु माघस्य नभस्ये च त्रयोदशी

在毗舍佉月(Vaiśākha)第三日,在迦尔提迦月(Kārtika)第九日,在摩伽月(Māgha)第十五日,以及在那婆斯月(Nabhas)第十三日——(这些是所规定的圣日)。

Verse 127

युगादयः स्मृता ह्येताः पितॄपक्षोपकारिकाः । तथा मन्वंतरादौ च देयं श्राद्धं विजानता

这些以诸劫(yuga)为始的时日,被忆念为有益于“祖灵半月”(Pitṛpakṣa)。同样,在一劫主期(manvantara)之初,通达者应当奉献施祖祭(śrāddha)。

Verse 128

अश्वयुङ्नवमी चैव द्वादशी कार्तिके तथा । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च

同样值得铭记的,还有阿湿婆瑜阇月(Āśvayuja)第九日,迦尔提迦月(Kārttika)第十二日,制多罗月(Caitra)第三日,以及婆陀罗钵陀月(Bhādrapada)第三日。

Verse 129

फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा । आषाढस्यापि दशमी माघमासस्य सप्तमी

在法尔古那月的新月日;同样在波沙月的第十一日(tithi);又在阿沙陀月的第十日;以及在摩伽月的第七日。

Verse 130

श्रावणे चाष्टमी कृष्णा तथाषाढी च पूर्णिमा । कार्तिकी फाल्गुनी चैवा ज्येष्ठे पंचदशी सिता

在室罗伐那月,为黑半月第八日;在阿沙陀月,为满月日;同样在迦尔提迦月与法尔古那月;而在阇耶师吒月,为白半月第十五日——这些即所指定的神圣月日。

Verse 131

मन्वंतरादयस्त्वेता दत्तस्याक्षयकारिकाः । पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः

这些以“摩奴劫(Manvantara)”等仪轨为首的修持,使所施之物成为不朽之果。于此,行者亦当恭谨地向祖灵(Pitṛ)供献掺有芝麻的清水。

Verse 132

श्राद्धं कृतं तेन समास्सहस्रं रहस्यमेतत्पितरो वदंति । वैशाख्यामुपवासेषु तथोत्सवमहालये

祖灵宣说此为密义:由此人所作之施,等同于成就千年之祭祖(Śrāddha);尤以毗舍迦月(Vaiśākha)的斋戒之期,以及欢庆的摩诃罗耶(Mahālaya)时为甚。

Verse 133

तीर्थायतनगोष्ठेषु द्वीपोद्यानगृहेषु च । विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता

明达之人应在圣地(tīrtha)、神圣处所与会堂之中,在岛屿、园林与居宅之内供行祭祖(śrāddha);尤当择其幽静且涂抹净洁之处而施。

Verse 134

विप्रान्पूर्वेपरेचाह्नि विनीतात्मानि मंत्रयेत् । शीलवृत्तगुणोपेतान्वयोरूपसमन्वितान्

于上午及下午,应请教自律端正的婆罗门——具足善行、正当生计与诸德,且心智成熟、仪容庄重。

Verse 135

द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र वा । भोजयेत्सुसमृद्धोपि न प्रकुर्वीत विस्तरम्

行供神之仪,当供养两位婆罗门;行祭祖之仪,当供养三位——或各供一位,或合并供一位亦可。纵然富足,也不应将斋宴铺张炫示。

Verse 136

विश्वेदेवान्यवैः पुष्पैरभ्यर्च्यासनपूर्वकं । पूरयेत्पात्रयुग्मं तु स्थाप्यं दर्भपवित्रके

先以大麦与花供奉毗湿维天众(Viśvedevas),并先献座位;随后当盛满一对器皿,置于已净化的库沙草(kuśa)之上,以为清净。

Verse 137

शन्नोदेवीत्यपः कुर्याद्यवोसीति यवानपि । गंधपुष्पैस्तु संपूज्य विश्वान्देवान्प्रतिन्यसेत्

诵“śaṃ no devīḥ”以加持净水;诵“yavosī”以加持大麦。继而以香与花恭敬供养,安置并召请毗湿维天众(Viśve-devas)。

Verse 138

विश्वेदेवास इत्याभ्यामावाह्य विकिरेद्यवान् । यवोसि धान्यराजस्त्वं वारुणो मधुमिश्रितः

以两句起首为“Viśvedevāsa…”的真言召请诸神后,当散撒大麦。(并诵:)“汝为大麦,谷物之王;汝为伐楼那之供品,和蜜而成。”

Verse 140

अभ्यर्च्य गंधाद्युत्सृज्य पितृयज्ञं समारभेत् । दर्भासनादि कृत्वादौ त्रीणि पात्राणि चार्चयेत्

先行礼拜,继而将香料等物置于一旁,便应开始祖灵祭(pitṛ-yajña)。起初,铺设达尔婆草(darbha)之座等诸般准备后,当为三只器皿作净化加持并礼敬。

Verse 141

सपवित्राणि कृत्वादौ शन्नोदेवीत्यपः क्षिपेत् । तिलोसीति तिलान्कुर्याद्गन्धपुष्पादिकं पुनः

先备妥神圣的净化环(pavitra),诵“śaṃ no devīḥ”而洒净水;继而以“tilosī”之真言安置芝麻,又复供奉香、花等物。

Verse 142

पात्रं वनस्पतिमयं तथा पर्णमयं पुनः । राजतं वा प्रकुर्वीत तथा सागरसंभवम्

器皿可用植物之材制成,或再以叶片编作;亦可制为银器,亦可用海中所生之物制成。

Verse 143

सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते । रजतस्य कथा वापि दर्शनं दानमेव च

供奉祖灵(Pitṛ)之器,称为金、银、铜之器。诚然,即便谈及白银、得见白银,或以之行布施(dāna),亦自具功德。

Verse 144

राजतैर्भाजनैरेषां पितॄणां रजतान्वितैः । वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते

即使只是清水,若以信心用银器并以银饰庄严而供于祖灵(Pitṛ),亦能成就不坏不尽之功德。

Verse 145

अद्यापि पितृपात्रेषु पितॄणां राजतान्वितम् । शिवनेत्रोद्भवं यस्मादुत्तमं पितृवल्लभम्

直到今日,在供奉祖灵(Pitṛ)的供器中仍置入白银——据说白银出自湿婆(Śiva)之眼;因此被视为至上之物,尤为祖先所喜爱。

Verse 146

एवं पात्राणि संकल्प्य यथालाभं विमत्सरः । या दिव्येति पितुर्नाम गोत्रे दर्भान्करे न्यसेत्

如是,依所得而备置诸供器,心无嫉妒;当以库沙草(kuśa)置于手中,称诵父名与族姓(gotra),并以“yā divyā”作启请。

Verse 147

पितॄनावाहयिष्यामि तथेत्युक्तः स तैः पुनः । उशंतस्त्वा तथायन्तु ऋग्म्यामावाहयेत्पितॄन्

“我将召请祖灵(Pitṛ)。”他如是说;又蒙其再度指示:“愿他们怀善意而来至此处。”因此,应以《梨俱》(Ṛg)之偈召请诸Pitṛ。

Verse 148

या दिव्येत्यर्घ्यमुत्सृज्य दद्याद्गंधादिकं ततः । वस्त्रोत्तरं दर्भपूर्वं दत्वा संश्रयमादितः

以“yā divyā…”之咒献上阿尔伽水(arghya)之后,当再奉香等诸供。继而先铺达尔婆草(darbha),再献上衣,并自始至终以恭敬之心归依于此神圣仪轨。

Verse 149

पितृपात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत् । पितृभ्यः स्थानमसीति निधाय परिवेषयेत्

随后,将其置入供祖灵(Pitṛ)之器中,并把供物安放于北方。作意云:“此为Pitṛ之座。”然后依仪次第陈设供献。

Verse 150

तत्रापि पूर्वतः कुर्यादग्निकार्यं विमत्सरः । उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत्

于彼处亦然,应无嫉妒,先行与圣火相关之仪轨;继而以双手捧持供品,依礼分施供奉。

Verse 151

उशन्तस्त्वेति तं दर्भं पाणिभक्तं विशेषतः । गुणान्वितैश्च शाकाद्यैर्नानाभक्ष्यैस्तथैव च

口诵“愿汝欢喜”,他们以手亲奉那达婆草,尤为谨慎;并佐以具足功德之蔬菜等与种种食物。

Verse 152

अन्नं च सदधिक्षीरं गोघृतं शर्करान्वितं । मासं प्रीणाति वै सर्वान्पितॄनित्याह पद्मजः

以饭食并酪与乳、牛酥与糖相和,如是供养一月,实能令一切祖灵(Pitṛ)满足;莲生者(梵天)如是宣说。

Verse 153

द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनाथ पंच वै

以鱼肉供养,可得二月之满足;以鹿肉则三月;以羊肉则四月;以鸟肉则五个月,诚然如此。

Verse 154

वाराहस्य तु मांसेन षण्मासं तृप्तिरुत्तमा । सप्तलोहस्य मांसेन तथाष्टावाजकेन तु

以野猪之肉供献,可得六个月之上妙满足(祖灵);以“七金属者”(saptalohā)之肉亦然;而以ājaka之肉则可得八个月之满足。

Verse 155

पृषतस्य तु मांसेन तृप्तिर्मासान्नवैव तु । दशमासांश्च तृप्यंते वराहमहिषामिषैः

食用斑鹿(pṛṣata)之肉,满足可延九个月;食用野猪与水牛之肉,满足可延十个月。

Verse 156

शशकूर्मयोस्तु मांसेन मासानेकादशैव तु । संवत्सरं तु गव्येन पयसा पायसेन वा

食兔或龟之肉,(赎罪之效)为十一月;若受用牛之所出——乳,或乳饭(pāyasa),则延满一整年。

Verse 157

सौकरेण तु तृप्यंते मासान्पंचदशैव तु । वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी

食野猪之肉,满足可延十五个月;食 vārdhrīṇasa 之肉,满足可延十二年。

Verse 158

कालशाकेन चानंत्यं खड्गमांसेन चैव हि । यत्किंचिन्मधुना मिश्रं गोक्षीरं दधिपायसम्

同样,食 kālaśāka 之菜与犀牛之肉,招致无尽之罪;又凡与蜜相杂之物——牛乳与酪煮之饭(乳酪甜食)——亦复如是。

Verse 159

दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः । स्वाध्यायं श्रावयेत्पित्र्यं पुराणान्यखिलानि च

诸 Pitṛ(祖灵、古老之神祇)宣说:“如法所施之供献,永不毁坏。”故当为彼等诵读与祖先相应之吠陀学业,并亦令一切《往世书》皆得宣诵。

Verse 160

ब्रह्मविष्ण्वर्करुद्राणां स्तवानि विविधानि च । इंद्रेशसोमसूक्तानि पावमानीश्च शक्तितः

并有对梵天、毗湿奴、太阳神与鲁陀罗的种种赞颂;亦有奉献于因陀罗、伊沙与苏摩的《苏克塔》,以及《帕瓦玛尼》净化赞歌——各各随其本有威力与灵验。

Verse 161

बृहद्रथंतरं तत्र ज्येष्ठसामाथ रौरवं । तथैव शांतिकाध्यायं मधुब्राह्मणमेव च

在那里诵读《布里哈德拉坦塔拉》、〈耶什塔娑曼〉与〈饶罗婆〉;同样也诵《寂静(Śānti)章》,并诵《摩度·婆罗门那》。

Verse 162

मण्डलब्राह्मणं तद्वत्प्रीतिकारि च यत्पुनः । विप्राणामात्मनश्चापि तत्सर्वं समुदीरयेत्

同样,应当如法宣诵这一切——关于曼荼罗与婆罗门之仪——以及凡能更增欢喜者,既令婆罗门欢悦,亦令自身欢悦。

Verse 163

भारताध्ययनं कार्यं पितॄणां परमप्रियं । भुक्तवत्सु च विप्रेषु भोज्यतोयादिकं नृप

大王啊,应当诵习《婆罗多》(Bhārata),因为它最为祖灵(Pitṛ)所爱。待婆罗门用食毕,当以食物、清水等作供施,以圆满其仪。

Verse 164

सार्ववर्णिकमन्नाद्यमानयेत्सावधारणं । समुत्सृजेद्भुक्तवतामग्रतो विकिरान्भुवि

应当谨慎备来适合一切阶层的食物等资具;众人食毕之后,当恭敬地留置其余,并在已食者面前将部分撒散于地。

Verse 165

अग्निदग्धाश्च ये जीवा येप्यदग्धाः कुले मम । भूमौ दत्तेन तृप्यंतु तृप्ता यांतु परां गतिं

愿我族系中的众生——被火焚尽者与未被焚者——因置于大地之供养而得满足;既已满足,愿其证得至上境界。

Verse 166

येषां न माता न पिता न बंधुर्न चापि मित्रं न तथान्नमस्ति । तत्तॄप्तयेन्नं भुवि दत्तमेतत्पयातु योगाय यतो यतस्ते

对于既无母亦无父、无亲无友、同样无食可依者:愿此置于大地之食,随处抵达他们所在,使其得饱足,得以维系与安宁。

Verse 167

असंस्कृतप्रमीतानां त्यागिनां कुलभागिनां । उछिष्टभागधेयानां दर्भेषु विकिरासनं

将食之余分散撒于库沙草上,此法为:未受诸行(saṃskāra)而亡者、出离者、按家族权利应得份者,以及其应得之分唯为残余者而设。

Verse 168

तृप्तान्ज्ञात्वोदकं दद्यात्सकृद्विकिरणे तथा । विप्रलिप्तमहीपृष्टे गोशकृन्मूत्रवारिणा

知宾客已得饱足后,当复供水;并同样为净化而洒水一次。在为婆罗门所涂抹整治之地,则以掺和牛粪与牛尿之水而行。

Verse 169

निधाय दर्भान्विधिवद्दक्षिणाग्रान्प्रयत्नतः । सर्ववर्णविधानेन पिंडांश्च पितृयज्ञवत्

依仪轨谨慎安置达尔婆草,使其尖端朝南;并当依一切所规定之法,制备米团(piṇḍa),如同祖灵祭(pitṛ-yajña)之仪。

Verse 170

अवनेजनपूर्वं तु नामगोत्रं तु मानवः । उक्त्वा पुष्पादिकं दत्वा कृत्वा प्रत्यवनेजनं

在行洗濯之仪之前,行者当先报出自己的姓名与族系;继而供献花等供品,然后作回洗之礼,以成终末的净浴。

Verse 171

ज्ञात्वापसव्यं सव्येन पाणिना त्रिः प्रदक्षिणं । पितृवन्मातृकं कार्यं विधिवद्दर्भपाणिना

既明了应以左向(apasavya)之法,当以左手行三匝绕行;母系祖先之祭亦当如父系祖先之礼,依仪轨而作,手持达婆草(darbha)。

Verse 172

दीपप्रज्वालनं तद्वत्कुर्यात्पुष्पार्चनं बुधः । तथा चांतेषु चाचम्य दद्याच्चापः सकृत्सकृत्

同样,智者当点燃明灯,并以花作供养礼拜;又在仪式的结尾诸段,行阿遮摩那(ācamana)啜水净身后,应再三奉献清水。

Verse 173

तथा पुष्पाक्षतान्पश्चादक्षय्योदकमेव च । सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम्

随后当供献花与完整米粒,并行“不竭之水”之供;又以芝麻相随,称说姓名与族系而作供养,并依己力施与达克希那(dakṣiṇā)供养之资。

Verse 174

गोभूहिरण्यवासांसि भव्यानि शयनानि च । दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च

当施与牛、田地、黄金、衣服与上等卧具;并将自己所珍爱或所愿之物,供施于婆罗门,为自身之福,亦为父亲之福。

Verse 175

वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमावहेत् । ततः स्वधावाचनकं विश्वेदेवेषु चोदकं

若于财物无欺诳,当令祖灵(Pitṛ,祖先)欢喜。随后诵念“svadhā”之召请,并向一切天众(Viśvedevas)奉献净水奠献。

Verse 176

दत्वाशीः प्रतिगृह्णीयाद्द्विजेभ्योपि यथा बुधः । अघोराः पितरः संतु संत्वित्युक्तः पुनर्द्विजैः

既已赐福,智者亦当受取诸二生者(dvija)所回赐之福。婆罗门复言:“愿诸祖灵(Pitṛ)不为可怖,常怀慈善;如是成就。”

Verse 177

गोत्रं तथा वर्द्धतां तु तथेत्युक्तश्च तैः पुनः । स्वस्तिवाचनकं कुर्यात्पिंडानुद्धृत्य भक्तितः

当他们复言:“如是;愿汝族姓增长。”彼即当以虔敬举起诸食团(piṇḍa,米团),并行吉祥祝诵(svastivācana)。

Verse 178

उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रविसर्जनम् । ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः

余食当留置,直至恭送婆罗门宾客离去。其后应献家宅供(gṛha-bali);此乃既定之法(dharma)。

Verse 179

उच्छेषणं भूमिगतमजिह्मस्याशठस्य च । दासवर्गस्य तत्पिंडं भागधेयं प्रचक्षते

由正直无欺之人将余食置于地上,此一口食即被宣说为仆役之众所应得的正当份额。

Verse 180

पितृभिर्निर्मितं पूर्वमेतदाप्यायनं सदा । अव्रतानामपुत्राणां स्त्रीणामपि नराधिप

大王,此恒常滋养之仪,昔由诸Pitṛ(祖灵、祖先之父)所立,为无誓戒者、无子者,乃至妇女亦得修行。

Verse 181

ततः स्थानाग्रतः स्थित्वा प्रतिगृह्यांबुपात्रिकां । वाजेवाजेति च जपन्कुशाग्रेण विसर्जयेत्

随后,立于所定之处前,执持盛水之器,以库沙草尖端放流其水,并低声诵念:“vāje vāje”。

Verse 182

बहिः प्रदक्षिणं कुर्यात्पदान्यष्टावनुव्रजेत् । बंधुवर्गेण सहितः पुत्रभार्यासमन्वितः

当行外绕右旋(pradakṣiṇa),前行八步;并与亲族同往,偕同其子与妻。

Verse 183

निवृत्य प्रणिपत्याथ प्रयुज्याग्निं स मंत्रवित् । वैश्वदेवं प्रकुर्वीत नैत्यिकं बलिमेव च

复返之后,俯伏礼拜;通晓真言者当燃起圣火,并行Vaiśvadeva供献,亦作每日之bali供施。

Verse 184

ततस्तु वैश्वदेवांते सभृत्यसुतबांधवः । भुंजीतातिथिसंयुक्तः सर्वं पितृनिषेवितं

随后,既毕Vaiśvadeva供献,与仆从、子嗣、亲族同在,并与宾客共席;当先如法奉献一切于诸Pitṛ(祖灵),然后方可进食。

Verse 185

एतच्चानुपनीतोपि कुर्यात्सर्वेषु पर्वसु । श्राद्धं साधारणं नाम सर्वकामफलप्रदम् । भार्याविरहितोप्येतत्प्रवासस्थोपि भक्तिमान्

即使未受过入门圣线礼(upanayana)者,也应在一切圣日与节期(parvan)行此仪轨。此名为“通行”(sādhāraṇa)的施罗陀(śrāddha),能赐予一切所愿之果。即便无妻相伴,或远离家园寄居他乡,具信敬者亦当奉行不辍。

Verse 186

शूद्रोप्यमंत्रकं कुर्यादनेन विधिना नृप । तृतीयमाभ्युदयिकं वृद्धिश्राद्धं विधीयते

大王啊,即使首陀罗(Śūdra)亦可依此法而行,不诵真言。所规定的第三种是“阿毗优达耶迦”(ābhyudayika)——为兴盛、增益而作的施罗陀(śrāddha)。

Verse 187

उत्सवानंदसंस्कारे यज्ञोद्वाहादिमंगले । मातरः प्रथमं पूज्याः पितरस्तदनंतरं

在庆典与欢喜的诸般净礼(saṃskāra)中——如祭祀(yajña)、婚礼及其他吉祥仪式——应先礼敬诸母,继而礼敬诸父。

Verse 188

ततो मातामहा राजन्विश्वेदवास्तथैव च । प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः

随后,大王啊,先礼敬外祖父,亦同样礼敬毗湿维天众(Viśvedevā);以右绕行(pradakṣiṇa)之礼,并奉上凝乳(dadhi)、不碎净米(akṣata)、果品与清水为供。

Verse 189

प्राङ्मुखो निर्वपेत्पिंण्डान्पूर्वांश्चैव पुरातनान् । संपन्नमित्यभ्युदये दद्यादर्घं द्वयोर्द्वयोः

面向东方,应依古法向先祖奉献食团(piṇḍa)。在兴盛吉时,口诵“愿得成就”,当以阿尔伽供(arghya)两两奉献。

Verse 190

युग्मा द्विजातयः पूज्या वस्त्राकल्पांबरादिभिः । तिलकार्यं यवैः कार्यं तच्च सर्वानुपूर्वकं

应以成双的再生者(两次出生者)为受供之人,奉以衣服、饰物、衣裳等。关于芝麻的仪式当以大麦来行,并且一切都应依次第、循正序而作。

Verse 191

मंगल्यानि च सर्वाणि वाचयेद्द्विजपुंगवान् । एवं शूद्रोपि सामान्यं वृद्धिश्राद्धं च सर्वदा

应由最卓越的婆罗门诵读一切吉祥祝祷。如此,即便首陀罗也可恒常行一般的施食祭(śrāddha),并可行增益施食祭(vṛddhi-śrāddha),即于增长与兴盛之时所作之礼。

Verse 192

नमस्कारेण मंत्रेण कुर्याद्दानानि वै बुधः । दानं प्रधानं शूद्रस्य इत्याह भगवान्प्रभुः । दानेन सर्वकामाप्तिस्तस्य संजायते यतः

智者当以恭敬礼敬之真言相随而行布施。世尊宣说:对首陀罗而言,布施(dāna)为最上之法行;因为由布施,他便能成就一切所愿之果。