Adhyaya 82
Srishti KhandaAdhyaya 8246 Verses

Adhyaya 82

Description of the Worship of the Planets

应毗湿摩之请,普罗萨底阐述安抚诸“行星神”(graha)的法门,先着重讲述布陀(Budha,水星),继而将同一仪轨范式推广至古鲁(Bṛhaspati,木星)、婆尔伽婆/舒克罗(Śukra,金星)、沙尼(土星)、罗睺与计都。章中详列曼荼罗的形制(箭形、五边形、人形、圆形/旗幡形),并规定相应的彩粉、香料、花供、衣物等供具。 又特别指出在不利的星曜时期,应施行针对性的布施(dāna),如宝石、金属、谷物乃至牲畜等。文中收录对布陀、婆罗诃斯波底、舒克罗、沙尼与罗睺的简短赞颂式祈请(stuti),并列出诸graha咒语的起首句。结尾宣示此教法能生功德,近于毗湿奴信仰之道;并强调在迦梨时代,布施尤以“赐无畏”(abhaya)为至上之责。

Shlokas

Verse 1

भीष्म उवाच । श्रुतं सूर्यस्य चंद्रस्य भौमस्यापि प्रपूजनं । बुधस्य सोमसूनोश्च पूजनं कथयाधुना

毗湿摩说:我已听闻对太阳、月亮以及婆乌摩(火星)的如法供奉;如今请为我宣说对布陀(水星)——月神苏摩之子——的礼拜之法。

Verse 2

पुलस्त्य उवाच । तारागर्भसमुद्भूतो बुधश्चंद्रकुमारकः । सौम्यः क्रूरो ग्रहो ज्ञेयः शुभाशुभप्रदो नृणां

普拉斯提亚说:布陀(水星)由多罗之胎而生,为月神之子。应知此曜或温和或严厉,能赐人吉祥亦能降下不祥之果报。

Verse 3

शराकारं मंडलं तु बुधस्य परिकीर्तितं । हरिन्मणिसमैर्वर्णैश्चूर्णैः कुर्यात्तु मंडलं

布陀(水星)的曼荼罗被称为箭形。应以如绿宝石般的翠绿色粉末,绘制其曼荼罗。

Verse 4

पूजयेत्तत्र गंधाद्यैः पुष्पैर्धूपैस्सुशोभनैः । दानं च विधिवत्कुर्याद्दशारिष्टे च गोचरे

于彼处当以香等供品、以花与精制妙香而行礼拜;并应依仪轨如法布施,尤当十种烦恼之星曜影响在行运中发动之时。

Verse 5

कर्पूराश्चैव मुद्गाश्च हरिद्वस्त्रं हरिन्मणिः । सुवर्णं च यथाशक्ति दद्याद्बोधनतुष्टये

当供奉龙脑香与绿豆,黄色衣服与绿色宝石;并依己力奉献黄金,以令启悟之仪(或师)欢喜满足。

Verse 6

सोमपुत्र महाप्राज्ञ वेदवेदांगपारग । नमस्ते ग्रहमध्यस्थ प्रसन्नो भव मे सदा

噢,苏摩之子,大智者,通达吠陀及诸支分;稽首礼敬汝——居于诸行星之中者,愿汝恒常赐我慈恩。

Verse 7

इति स्तुत्वा महाराज बुधं भक्त्या समाहितः । प्राप्नुयान्निखिलान्कामान्सोमसूनुप्रसादतः

如是,噢大王,若以虔敬与专注之心赞颂布陀(水星),则由苏摩之子之恩,能成就一切所愿。

Verse 8

गुरोश्च पूजनं प्रोक्तं पट्टसाकारमंडले । पीतवर्णैः सुनिष्पन्नैश्चूर्णैराजन्सुशोभनैः

已宣说应在布坛(paṭṭa)上布置成曼荼罗而礼敬上师;噢国王,当以精制的黄色粉末庄严其间,形相美好而吉祥。

Verse 9

पीतैर्गंधयुतैः पुष्पैर्वस्त्रैर्हेम्ना च पूजयेत् । दशागोचरयोर्दौष्ट्ये दानं दद्याच्च शक्तितः

应以黄色芬芳之花、衣服与黄金而礼敬供养。若十轮之中两段不利之期败坏或相违,当随己力而行布施。

Verse 10

चणकद्विदलं चैव पीतवस्त्रं सुवर्णकं । पुष्यरागं तु विप्राय दद्याच्चारिष्टशांतये

为息除灾厄,应施与婆罗门:劈开的鹰嘴豆、黄色衣服、黄金,以及一枚普什亚拉伽宝(黄蓝宝石)。

Verse 11

बृहस्पते सुराचार्य सर्वशास्त्रविशारद । दानेनानेन संतुष्टो भव सौम्यो ममाधुना

噢布里哈斯帕提,诸天之师,通达一切圣典者;愿你以此供施而欢喜,今当慈和垂怜于我。

Verse 12

एवं कृते तु राजेंद्र स्वानुकूलो भवेद्गुरुः । सर्वान्कामानवाप्नोति नरो गुरुसमर्चनात्

如此行之,噢诸王之最,师尊便转为顺意护佑。人以如法礼敬师尊,便能获得一切所愿之果。

Verse 13

भार्गवस्यापि वक्ष्यामि पूजनं नृपतेधुना । यत्कृत्वा सर्वकामाप्तिः सम्यक्पुंसां प्रजायते

噢大王,我今亦将宣说对婆尔伽瓦的礼拜供养;若如法修行,众人便能圆满成就一切所愿。

Verse 14

पंचकोणं समुद्दिष्टं मंडलं भार्गवस्य तु । चूर्णकैः श्वेतवर्णैश्च विधिना सुधिया कृतं

为婆伽婆(帕罗修罗摩)所规定的五角曼荼罗,智者依正法仪轨,以白色粉末如法制成。

Verse 15

श्वेतगंधैश्च पुष्पैश्च वस्त्रैश्चापि सितैस्तथा । पूजयेद्भार्गवं भक्त्या नरः श्रद्धासमन्वितः

以清白芬芳之香、以花与白衣供奉;具足信心之人,当以虔敬礼拜婆伽婆。

Verse 16

रौप्यं च दक्षिणादानं यथाशक्ति प्रकीर्तितं । दशाद्यरिष्टे चोत्पन्ने सितमश्वं प्रदापयेत्

以银为达克希那(祭礼酬谢)之施,随力而行。若出现以“达沙”(不祥运期)为始的凶厄,当布施一匹白马为供献。

Verse 17

तंडुलाः श्वेतवस्त्रं च रौप्यं चंदनमेव च । कर्पूरं च सुगंधाढ्यं देयं दानं द्विजातये

米、白布、银、檀香与馥郁之龙脑香(樟脑)——当以此为布施,施与二生者(婆罗门)。

Verse 18

भृगुपुत्र महाभाग दानवानां पुरोहित । दानेनानेन संतुष्टो भव सर्वासुरार्चित

噫,婆利古之尊贵之子、达那婆之祭司——愿你因这布施而欢喜;你为一切阿修罗所敬奉。

Verse 19

इति मंत्रं समुच्चार्य दद्याद्दानं यथोदितं । तस्य तुष्टो भवत्याशु भार्गवः कुरुनंदन

如是诵毕真言,当依所说而行布施。由此婆伽婆(帕罗修罗摩)迅速欢喜满足——噢,俱卢族之欢悦者。

Verse 20

शनैश्चरस्य पूजार्थं मंडलं च नराकृति । कृत्वा चूर्णैः कृष्णवर्णैः पूजयेत्तत्र भक्तितः

为礼敬善尼施遮罗(土星神),当作一人形曼荼罗;并以黑色粉末,于彼处以虔敬而供奉。

Verse 21

कृष्णैर्गन्धैश्च पुष्पैश्च वस्त्रैश्चापि तथाविधैः । लोहं च दक्षिणादानं पिण्याकं च तिलस्य च

以深色香料、花与同类色衣供养,并以铁作达克希那(供师之礼);又当施以芝麻饼与芝麻。

Verse 22

दानं शनैश्चरारिष्टे कृष्णां गां कृष्णवस्त्रकं । सुवर्णं च यथाशक्ति दद्यान्नीलमणिं तथा

若遭善尼施遮罗(土星神)所致之厄,当行布施:黑牛一头、黑衣一件,并随力施金;亦当施以蓝宝之类的青色宝石。

Verse 23

सूर्यसूनो महाभाग छायापुत्र महाबल । अधोदृष्टे भव शने प्रसन्नोऽस्मात्प्रदानतः

噢,太阳之吉祥子,影(Chāyā)之大力之子,强威的沙尼啊——愿你垂目下视;因这供献而赐我等慈恩。

Verse 24

एवं स्तुत्वा शनिं भक्त्या यश्च दद्याद्द्विजातये । स्वानुकूलो भवेत्तस्य शनिः पापे च गोचरे

如此以虔敬赞颂沙尼(Śani)之后,凡向二次生者(婆罗门)施赠供养者,沙尼便对其转为吉顺——即使沙尼行经不祥之过境(gochara)亦然。

Verse 25

राहोर्वर्णादिकं सर्वं शनिवन्मंडलं तथा । सूर्याकारं समुद्दिष्टं तत्र पूजार्कसूनुवत्

罗睺(Rāhu)的一切特征——从颜色等起——应依沙尼的坛城(maṇḍala)来制作;又说其形如太阳。在彼处,应以太阳之子沙尼的方式而行礼供奉。

Verse 26

गोमेदं सर्षपाश्चैव तिला माषाश्च कृष्णकाः । महिषी च तथा च्छागो दानं राहोः प्रकीर्तितम्

戈梅达迦宝石(gomedaka,榍石/黄玉髓类)、芥子、芝麻、黑豆(māṣa)与细小黑籽——并一头母水牛与一只山羊——被宣说为供奉罗睺所当施舍之物。

Verse 27

सिंहिकासुत दैत्येंद्र राहो चंद्रार्कमर्दन । भव तुष्टो महाभाग दानेनानेन सुव्रत

噫罗睺(Rāhu),辛希迦之子,达那婆之主,摧压月与日者;愿你以此供施而欢喜,噫具善誓之大福者。

Verse 28

केतोर्मंडलकं कुर्याद्ध्वजाकृतिसुशोभनम् । शनिवत्सकलं ज्ञेयं पूजावर्णादिकं नृप

当制作计都(Ketu)的圆形标志,以旗幡之形庄严装饰。大王啊,当知其一切——礼拜之仪、颜色等诸事——皆应如同供奉沙尼(Śani)一般而行。

Verse 29

सप्तधान्यं समुद्दिष्टं सस्वर्णं केतुदानकम् । एवं कृते स्वानुकूलौ भवेतां च नृणां नृप

经中规定应布施七种谷粮,并同施黄金与幢幡(ketu)之供。如此行之,王啊,诸力便对世人转为吉祥顺遂。

Verse 30

प्रदद्यातां धनं पुत्रान्सुखं सौभाग्यमेव च । आकृष्णेति रवेर्मंत्र इमं देवास्तथा विधोः

愿他们赐予财富、子嗣、安乐与真实的福运。此为罗毗(太阳)之真言,起于“ākṛṣṇe…”,而毗度(月亮)亦有诸天所传之咒。

Verse 31

अग्निर्मूर्धेति भौमस्य मंत्रो जप्येर्हणे तथा । उद्बुध्यस्वेतींदुसूनोर्बृहस्पते गुरोस्तथा

至于婆乌摩(火星),当于适时诵念以“agnir mūrdhā …”起首之咒;而对月之子布陀(水星),诵以“udbudhyasva …”起首之咒;同样也适用于师主布哩哈斯帕提(木星)。

Verse 32

अन्नात्परीति शुक्रस्य शन्नोदेवीरयं शनेः । कया न इति राहोश्च केतोः केतुमिति स्मृतः

“Annāt-parīti”被记为属于舒克罗(金星)之名;“Śanno devīḥ”则为沙尼(土星)之咒。罗睺用“Kayā naḥ”,而计都则忆为“Ketum”。

Verse 33

एते मंत्रास्समुद्दिष्टा ग्रहणां पूजने जपे । एवं कृते नृपश्रेष्ठानुकूला अखिला ग्रहाः

这些真言已为诸行星神力(graha)的礼敬与持诵(japa)而宣说。如此修行,王中之最啊,一切诸曜之力皆全然转为吉祥顺护。

Verse 34

भवंति पुंसां सततं यच्छंति च सुसंपदः । एतन्महाराज मया समस्तं तुभ्यं समुद्दिष्टमिहक्रमेण

它们常常为世人而生起,也赐予殊胜的福泽与昌盛。故大王,我已在此依次第将这一切圆满开示于你。

Verse 35

श्रुत्वा नरः सर्वश्रुतार्थसारमेतीश्वरस्यैव च सन्निधानम् । इदं पवित्रं यशसो निधानमिदं पितॄणामतिवल्लभं स्यात्

听闻此法,人便得至主宰亲临之境——乃一切所闻义理之精髓。此文清净,乃名声之宝藏,亦为祖灵(pitṛ)所极爱。

Verse 36

इदं च देवेष्वमृताय कल्पते पुण्यावहं पातकिनां च पुंसाम् । इति पठति यशस्यं यः शृणोतीह भक्त्या मधुमुरनकारेरर्चनं वाथ पश्येत्

此教于诸天中如甘露,亦能为罪人带来福德。凡以信敬诵读此赞,或在此聆听,乃至仅观见对诛灭Madhu与Mura者(毗湿奴)的供奉礼拜者,皆得名闻与吉祥之利。

Verse 37

मतिमपि च जनानां यो ददातींद्रलोके विधिशिवविबुधेन्द्रैः पूज्यते कल्पमेकम् । य इदं शृणुयान्नित्यमृषीणां चरितं शुभम्

又凡能赐予众生智慧者,于因陀罗天界受尊崇一整劫,为梵天、湿婆及诸天之主所礼敬。凡恒常聆听此诸仙(ṛṣi)善行之吉祥传记者,亦得如是功德。

Verse 38

विमुक्तस्सर्वपापेभ्यः स्वर्गलोके महीयते । तपः कृते प्रशंसंति त्रेतायां ज्ञानमेव च

脱离一切罪垢者,在天界受尊崇。于克利多(Kṛta)时代,人们称赞苦行(tapas);于特雷塔(Tretā)时代,则唯独称扬智慧之知。

Verse 39

द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे । सर्वेषामेव दानानामिदमेवैकमुत्तमम्

人们说,在兜婆罗时代,首要的宗教行持是祭祀(yajña);而在迦利时代,只有一项主要义务——布施(dāna)。在一切施与之中,唯此最为殊胜。

Verse 40

अभयं सर्वभूतानां नास्ति दानमतः परम् । दानं प्रधानं शूद्रस्य त्वित्याह भगवान्प्रभुः

赐予一切众生无畏——没有比这更高的施舍。因此,至上之主、至尊的主宰宣示:对首陀罗而言,布施(dāna)为最首要的本分。

Verse 41

दानेन सर्वकामाप्तिस्तस्य संजायते तपः । पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम्

由布施(dāna),一切愿求得以圆满;由此生起苦行之德(tapas)。它带来福德、清净、寿命增长,并能摧灭一切罪业。

Verse 42

पुराणमेतत्कथितं तीर्थश्राद्धानुवर्णनम् । शृणोति यः पठेद्वापि श्रीमान्संजायते नरः

如是宣说了此《往世书》,其中叙述与圣地(tīrtha)相应的祭祖仪轨(śrāddha)。凡聆听此经者,乃至诵读者,皆得富足吉祥。

Verse 43

सर्वपापविनिर्मुक्तः सलक्ष्मीकं हरिं लभेत् । इदं महाराज अगादि तुभ्यं पुण्यं महापातकनाशनं च

脱离一切罪垢者,得证与吉祥天女(Lakṣmī)同在的诃利(Hari)。此法,伟大的国王啊,已为你宣说——自具圣洁,并能摧毁最重之罪。

Verse 44

ब्रह्मार्करुद्रैश्च सुपूजितं च श्रोतव्यमेतत्प्रवदंति तज्ज्ञाः । सृष्टिखंडमिदं राजन्मया तुभ्यं प्रकीर्तितम्

此教诲至为尊崇,实为梵天、日神与鲁陀罗所礼敬。智者宣说:应当谛听。大王啊,我已如是为你宣讲此《创世品》(Sṛṣṭi-khaṇḍa)。

Verse 45

पुराणस्यादिभूतं च नवधा सृष्टि पौष्करम् । द्विजेभ्यः श्रावयेद्विद्वान्यश्च वै शृणुयात्पठेत् । कल्पकोटिशतं साग्रं ब्रह्मलोके स मोदते

此《普什迦罗》所说九重创世,为《往世书》之根本;凡有学者为二次生者诵说之,或有人聆听、读诵之者,皆于梵天界欢喜安乐,满一百俱胝劫之久。

Verse 82

इति श्रीपाद्मपुराणे सृष्टिखंडे पुराणावतारे ग्रहार्चनवर्णनंनाम द्व्यशीतितमोऽध्यायः

如是,在尊贵的《莲华往世书》(Padma Purāṇa)之《创世品》(Sṛṣṭi-khaṇḍa)中,于“往世书降临”之段落,题为《诸 ग्रह(行星)礼拜之描述》的第八十二章至此圆满。