
The Origin and Worship of Bhauma (Mars/Lohitāṅga)
《莲华往世书》PP.1.81 以探问罗希塔昂伽/婆乌摩(火星)的起源开篇,说明其令人敬畏的威力,并追问为何神圣的行星神(graha)有时显得严酷。叙事随即转入安陀迦(Andhaka)之事:此阿修罗因毗湿奴的赐福而强盛,击败诸天,诸天遂往求梵天(Vidhi/Dhātā)指示。 因迷妄、欲念与围绕帕尔瓦蒂的越礼之举,安陀迦被引入与湿婆的冲突。难陀因(Nandin)擒住舒克罗(Śukra,婆伽瓦),湿婆将其吞入体内,使宇宙之战更趋激烈。最终安陀迦被降伏,并转化为一位侍从神众(gaṇa,名为Bhṛṅgīriṭi),彰显往世书将敌对化为奉事的主题。 湿婆安抚诸天后,放出精种;胚胎坠于大地而成婆乌摩——虽由地而生,却是哈罗(Hara)的一分,故火星之烈与湿婆之威相连。章末开示禳解之礼:于星期二与月相第四日(tithi)修供,以红色供品与三角形坛城(maṇḍala)奉祀,可得聪慧、财富与吉祥成就。
Verse 1
वैशंपायन उवाच । उद्भवं लोहितांगस्य संतोषं तु जनेषु च । प्रभावं वैभवं तेजः श्रोतुमिच्छामि तत्त्वतः
毗舍婆耶那说道:我愿如实聆听罗希塔昂伽的起源,以及他在众人中所引发的满足,并他的威力、尊荣与光辉。
Verse 2
व्यास उवाच । हरांशसंभवो देवः कुजातः पृथिवीसुतः । सत्त्वस्थस्सत्वसंपूर्णश्शूरः शक्तिधरो भुवि
毗耶娑说道:那位神圣者由哈罗(湿婆)的一分而生;虽出身卑微,却为大地之子。安住于清净,具足善德,是大地上的英雄,执持威力者。
Verse 3
तीक्ष्णः क्रूरग्रहो देवो लोहितांगः प्रतापवान् । कुमारो रूपसंपन्नो विद्युत्पातमयः प्रभुः
罗希塔昂伽之神锐利而可畏,威势赫然;他年少而形貌端严,是那位主宰,其性如霹雳闪电之击。
Verse 4
अनेन भर्जिता दैत्याः क्रव्यादाय सुरद्विषः । दशायोगाच्च मनुजा उद्भिज्जाः पशुपक्षिणः
凭此威力,食肉而憎敌诸天的代提耶众被灼烧;又因十种缘分的和合,人类、植物所生之类、诸兽与群鸟相继出现。
Verse 5
वैशंपायन उवाच । शंभोरेष कथं जातः कथं जातो महीसुतः । ग्रहो देवः कथं क्रूर एतदिच्छामि वेदितुम्
毗舍婆耶那说道:“此者如何由商婆而生?大地之子如何诞生?又为何行星(伽罗诃)虽为神圣,却如此残酷?我愿知其缘由。”
Verse 6
कथमस्य भवेत्तुष्टिः सर्वलोकेषु सर्वदा । गुरो मय्याप्तभावे तु वद निस्संशयं मुखात्
他如何能在一切世界、于一切时常恒得满足?噢,古鲁——当我确已成为你所信任、所亲爱之人时——请你亲口直说,毫无疑惑地告知我。
Verse 7
व्यास उवाच । हिरण्याक्षकुले धीमानसुराणां च पार्थिवः । अंधकेति समाख्यातो दैत्यः सर्वसुरांतकृत्
毗耶娑说道:在希兰尼亚克沙的族系中,有一位睿智的阿修罗王,名闻为安达迦的代提耶——他曾使诸天尽遭毁灭。
Verse 8
जातो विष्णुवरादेव जातो विष्णुपराक्रमः । तेनैव निर्जिता देवास्सेन्द्राः क्रतुभुजः क्रमात्
他因毗湿奴之赐福而生,具足毗湿奴般的威勇。凭此力量,诸天连同因陀罗——享受祭祀供献者——也依次被他击败。
Verse 9
ततो देवा विधिं गत्वा वचनं चेदमब्रुवन् । अन्धकेनैव चास्माकं हृतं राज्यं सुखं मखः
于是诸天走近毗提(梵天),说道:“唯有安陀迦夺去了我们的国土,也夺去了我们的安乐与祭祀(yajña)之功德。”
Verse 10
तस्मात्तस्य वधोपाय उच्यतां तद्विधीयताम् । अथ धाताऽब्रवीद्वाक्यं देवानस्य च नैधनम्
“因此,当宣说诛杀他的办法,并令其付诸实行。”于是造物主达塔对诸天说出言辞——为此目的而无有差失。
Verse 11
नास्ति विष्णुवरादेव पीयूषस्य च भक्षणात् । किंतु तस्यासुरत्वस्य यथा परिभवो ध्रुवम्
仅凭吞食不死甘露,并非就得到了毗湿奴的真实恩赐;相反,确然的是:与其阿修罗本性相称的羞辱与败落。
Verse 12
कुर्वे लोकहितार्थाय श्रद्धां कामसमन्विताम् । विचिकित्सा तु तत्रैव सर्वास्त्रीरतिगच्छति
“为诸世间之利益,我以信心而行此事,却又夹杂欲念;然而就在此处,疑惑生起,转而成为完全以女子为中心的情欲执著。”
Verse 13
त्यक्त्वैकां पार्वतीं दुर्गां न तस्य मानसं स्थिरम् । ततः क्रुद्धो जगत्स्वामी तं च वैरूप्यतां नयेत्
他舍弃了唯一的帕尔瓦蒂——杜尔迦——其心便不再安定。于是世界之主震怒,也使他陷入丑陋与形体的残缺。
Verse 14
ततोऽसुरत्वं संत्यज्य गणस्तस्य भविष्यति । एवमुक्त्वा प्रजाध्यक्षः श्रद्धां कामसमन्विताम्
“于是他将舍弃阿修罗之性,成为其眷属之一。”说罢,众生之主(Prajāpati)对随同爱神迦摩(Kāma)而来的信心女神 Śraddhā 说道。
Verse 15
विचिकित्सां स्वमायां च प्रेषयामास तं प्रति । ततो विचेष्टितः कामाद्योषान्वेषणतत्परः
他遣出“疑惑”与自身的迷惑之力(摩耶)去对付他。随后,他被欲望搅动而躁动不安,一心追逐寻觅女子。
Verse 16
स्वदारान्परयोषां च नापश्यद्विचिकित्सया । ततो मायाप्रयुक्तोसौ त्रैलोक्यं विचचार ह
因疑惑之故,他已不能分辨自己的妻子与他人之妻。随后在摩耶的驱使下,他游荡于三界之中。
Verse 17
दृष्टं च हिमवत्पृष्ठे स्त्रीरत्नं चातिशोभनं । दृष्ट्वा च पार्वतीं दैत्यः कामस्य वशगोऽभवत्
在喜马瓦特山的坡麓上,他看见一位女子中至为光耀的珍宝。见到帕尔瓦蒂(Pārvatī),那达伊提耶便落入迦摩(Kāma,欲爱)之掌控。
Verse 18
ज्ञानलोपात्ततो दुर्गां ग्रहीतुं तां स चेच्छति । उमा च कोटवीरूपं कृत्वा देहस्य चात्मनः
随后因智慧迷失,他竟想擒取杜尔迦(Durgā)。然而乌玛(Umā)在身与心皆化作科塔维(Koṭavī)之相,以此应对。
Verse 19
ईश्वरस्यांतिकस्था च ग्रहीतुं तां ससार सः । ततः कामविचेताश्च उन्मत्तीकृतचेतनः
她近在主前,他便冲上前欲将她擒住。随即欲念迷乱其心,神识恍若癫狂。
Verse 20
न जहाति शिवां धात्रीं पार्वतीं दैत्यपुंगवः । ततो ध्यानात्समागम्य मिलितः पार्वतीं धवः
那最强的达底耶并未放弃帕尔瓦蒂——吉祥而护持万有的女神。随后,主(湿婆)自禅定中出起,近前与帕尔瓦蒂相会。
Verse 21
दृष्ट्वा तं च स दैत्येन्द्रः प्रगतस्तु स्वमालयम् । सज्जीकृत्य स्वयोधांश्च शंभुं जेतुं समुत्सुकः
见到他之后,那达底耶之王便回到自己的宫所;整备麾下兵众,急欲征服商布(湿婆)。
Verse 22
गौरीमेव समानेतुं काममोहादचेतनः । एतच्छ्रुत्वा तु त्रिदशा गत्वा तं नंदिनेरिताः
被欲与迷惑所蔽,他神志昏沉,竟欲将高丽女神亲自掳去。诸天闻此,在难丁的催促下前往他处。
Verse 23
अकुर्वंश्च महद्युद्धं घोरं लोकभयंकरम् । दैत्यान्रणे मृतांस्तत्र दैत्याचार्यो ह्यजीवयत्
他们发动了一场大战,凶猛可怖,令诸世界战栗。其间,战场上死去的阿修罗,被达底耶之师复苏还生。
Verse 24
एतद्वृत्तं तु कैलासे सर्वे चैव न्यवेदयन् । क्रोधाच्छंभुस्तदा वाक्यं नंदिनं निजगाद ह
众人把这一切经过都禀告于凯拉萨。于是商布(湿婆)因忿怒而起,对难丁说道如下之言。
Verse 25
गच्छ दैत्यालयं वीर द्रुतमेव ममाज्ञया । पश्यतां सर्वदैत्यानां दैत्येंद्रस्य च संसदि
“去吧,勇士!奉我之命速往阿修罗(代提耶)之居处,进入代提耶之王的议事殿,在众代提耶注视之下。”
Verse 26
गृहीत्वा चिकुरेऽत्यर्थं भार्गवं तं दुरात्मकम् । लब्ध्वा चास्मत्सकाशं वै विह्वलं चानय क्षणात्
“紧紧揪住那邪恶的婆伽婆(婆罗门裔)之发;擒获之后,立刻把他带到我面前——拖来此处,使其战栗无助。”
Verse 27
ततो नंदीश्वरः श्रीमान्पार्वतीपतिनेरितः । काव्यं तं कुंतले धृत्वा दैत्यानां पुरतो बलात्
于是,受帕尔瓦蒂之主(湿婆)驱使的尊贵难提湿伐罗,揪住迦毗耶的发髻,以力拖拽,将他拉到众代提耶面前。
Verse 28
आनयंतं च तं दैत्या जघ्नुः प्रहरणैः शरैः । न शेकुस्ते रुजां कर्तुं नंदिनो बलशालिनः
当他押解之时,代提耶们以兵刃与箭矢击打;然而他们无法令那力大无比的难丁感到丝毫痛楚。
Verse 29
देवानामग्रतो नंदी गृहीत्वा तं च कुंतले । हरस्य पुरतो हृष्टः सह तेन समाययौ
在诸天面前,难提(Nandī)揪住他的头发;随即欢喜地与他一同来到哈罗(湿婆)之前。
Verse 30
गृहीत्वा भार्गवं शंभुरसुराणां गुरुं रुषा । अगिलद्रौद्रमूर्तोऽसौ कालांतकसमः प्रभुः
愤怒的商婆(Śambhu)抓住婆伽婆(Śukra),阿修罗之师,便将其吞下;化现为可怖之相,那位主宰宛如末劫之迦罗(Kāla),终时的毁灭者。
Verse 31
ततो दैत्यपतिः क्रुद्धः सर्वसैन्यवृतो बली । दुद्राव शंकरं तत्र घोरैः प्रहरणादिभिः
随后,代底耶之主怒火炽盛,威力无比,率全军环绕,持诸般可怖兵器,直冲彼处的商羯罗(Śaṅkara)。
Verse 32
त्रिदशाश्च तथा क्रुद्धास्ततो विद्याधरादयः । प्रययुः समरं तत्र दैत्यानां च भृशं रुषा
于是诸天亦怒,与持明者(Vidyādhara)等众同赴彼处战场,怀着炽烈之忿,迎击代底耶众。
Verse 33
एतस्मिन्नंतरे घोरं युद्धं भीष्मं समुत्थितम् । देवदानवयोरेवं सर्वलोकभयंकरम्
其间,诸天与檀那婆(Dānava)之间骤起一场骇人而惨烈的大战,令一切世界皆生恐惧。
Verse 34
ततः प्रत्ययितास्त्रैश्च देवा निघ्नंति दानवान् । दनुजा निर्जरांस्तत्र विनिघ्नंति महाहवे
随后,诸天以咒力与精通所加持、威能确证的兵器击杀达那婆;而在那场大决战中,达奴之子亦反过来击倒不死的天神。
Verse 35
शातकुंभमयाङ्गैस्ते शरैर्वज्रसमानकैः । बिभिदू रत्नपुंखैश्च परस्परजयैषिणः
他们彼此争胜,遂以箭矢相贯:箭身纯金铸就,威势如金刚杵,箭杆又缀以宝石。
Verse 36
दीपयंति भृशं कांतैस्तद्गात्राणि नभांसि च । वीर्यवंतो महादैत्या न मोघैरस्त्रसंचयैः
他们光辉的身躯炽然燃耀,连诸天都被照亮;那些雄健勇猛的大底提耶,所聚之兵器绝非徒然无用。
Verse 37
हत्वा च पातयामासुः काश्यपाः सुरसत्तमाः । जगद्व्याप्तं महासैन्यं बलायुधसुसंवृतम्
将其诛灭之后,迦叶波族诸神——天众中最胜者——使那支遍满世界的浩大军势倾覆坠落,军中力量与兵器皆备。
Verse 38
नीतं क्षयं सुरैः सर्वैः शस्त्रैः प्रत्ययितैः क्षणात् । स्वयं च युध्यमानेन महादेवेन यत्नतः
顷刻之间,诸天以其威能确证的兵刃使他走向毁灭;而大天(摩诃提婆)亦亲自奋力投入战斗。
Verse 39
शूलोद्धृतोपि सुचिरमविनष्टोऽथ नम्रधीः । अन्धको गणतां नीत्वा कृतो भृंगीरिटिर्द्विज
虽被三叉戟贯穿,他久而不灭。随后心生谦卑,安陀迦被引入伽那之列,受封为“婆陵吉利提”,噢二次生者。
Verse 40
ततो देवान्समाभाष्य शुक्रमुद्गीर्णवान्शिवः । भूमौ निपतितो गर्भस्ततो भौम इति स्मृतः
随后,湿婆向诸天宣告,放出其精。那胎胚坠落大地,遂被称为“婆摩”(Bhauma),即“地所生者”。
Verse 41
शुक्रश्शिवं समाभाष्य गतो दैत्यान्मुदान्वितः । एवं भौमस्समुत्पन्नो हरांशो भूसमुद्भवः
舒克罗与湿婆言毕,欢喜前往代底耶众。于是婆摩诞生——乃哈罗(湿婆)之一分所现,自大地而出。
Verse 42
तस्य पूजा चतुर्थ्यां तु भौमवारे च सुव्रतैः । दशाद्यरिष्टे च तथा गोचरेऽनिष्टराशिगे
当以清净善誓者,于月之第四日及星期二修其供奉;亦当在诸如不利达沙等凶厄行运之时,以及行星过境显示不吉星座之际行之。
Verse 43
त्रिकोणे मंडले चैव रक्तपुष्पानुलेपनैः । एवं वै पूजितो भौमः प्रयच्छति मतिं धनम्
若于三角形曼荼罗中供奉婆摩(火星),并以红花涂饰礼敬,如是恭敬供养者,便赐予智慧与财富。
Verse 44
पुत्रान्सुखंयशश्चैवकिंभूयःश्रोतुमिच्छसि । व्यास उवाच । एतद्वः कथितं शिष्या धर्माख्यानं शुभावहम्
“子嗣、安乐与名声亦然——你们还想再听什么?”毗耶娑说道:“诸弟子啊,这吉祥、带来福祉的法(dharma)之传说,已为你们宣说。”
Verse 45
यच्छ्रुत्वा न पुनर्भूयो जायते म्रियतेपि वा । द्विजातीनां पुण्यदं च संसेव्यं च शुभेप्सुभिः
听闻此法者,不再复生,亦不再复死。它赐予二次出生者(dvija)功德,应为求吉祥者所奉行亲近。
Verse 46
यथासुखं च गच्छध्वं कृतकृत्या ममाज्ञया । ब्रह्मोवाच । एवं विश्राव्य भगवान्व्यासः सत्यवतीसुतः
梵天说道:“你们如今随意而行;依我之命,你们的使命已圆满。”如是宣告后,圣者毗耶娑——萨蒂雅伐蒂之子——便依言而行。
Verse 47
निर्णीय धर्मं विविधं शम्याप्रासमगात्सुत । त्वमपि श्रद्धया वत्स ज्ञात्वा तत्त्वं यथासुखम्
既已判明法(dharma)的种种形态,他便前往舍弥耶普罗娑,哦孩子。你亦当如是,亲爱的孩子——以信心了知真理——随心安住。
Verse 48
विहरस्व यथाकालं गायमानो हरिं मुदा । लोकान्धर्मं चोपदिशन्प्रीणयन्जगतां गुरुम्
当于适时而行,欢喜歌咏哈利(Hari);为众生宣示法(dharma),令诸世界之师欢悦。
Verse 49
पुलस्त्य उवाच । इत्युक्तः प्रययौ भूप नारदो गंधमादनम् । नारायणं मुनिवरं द्रष्टुं बदरिकाश्रमे
普拉斯提亚说:如是受命,王啊,那罗陀前往甘达摩陀那山,为在跋陀梨圣林的修行处瞻礼最胜牟尼那罗延。
Verse 81
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे भौमोत्पत्तिपूजनं नामैकाशीतितमोऽध्यायः
至此,尊贵的《莲华往世书》第一部《创生品》中,名为《婆乌摩的起源与礼拜》的第八十一章圆满结束。