
The Crushing of the Traipuras (Gaṇeśa’s Battle with Tripura’s Son)
第74章叙述天神与阿修罗之间的惨烈大战,其核心是象头神伽内沙(毗那夜迦/赫兰巴)迎战特里普拉之子(特莱普里/特里普拉难陀那)。阿修罗宣称要为父之死复仇,伽内沙则以义理与神圣法则回应:被诛之祖先曾违逆诸天福祉,破坏正法秩序。 战斗迅速升级为密集的兵刃与神箭对射——箭矢、斧钺、刀剑、钉锤交错纷飞——伽内沙屡次化解攻势,并击倒诸多魔军勇将。特莱普里受创后被救活,又乘象再战,横扫天军阵列,迫使诸天转而投靠伽内沙求护。 高潮处双方互相重创,文中以猛兽相搏作象征描绘;最终阿修罗与其战象一同坠落。圣贤称赞此胜,诸天欢庆,而更广阔的战事仍在继续。
Verse 1
व्यास उवाच । चतुर्भिस्तुरगैर्जुष्टं रथं सूर्यसमप्रभं । त्रैपुरिः संरुरोहाथाब्रवीद्वाक्यं गणाधिपं
毗耶娑曰:特莱普利登上由四马驾驭、光辉如日的战车,继而对伽那之主(Gaṇādhipa)发言。
Verse 2
पिता मे निहतः पित्रा तव यस्माद्गणाधिप । तस्मात्त्वामद्य विशिखैर्नयामि यमसादनं
因我之父为汝父所杀,噫,伽那之主!故我今日必以利箭送汝往阎摩之居。
Verse 3
ततस्तमब्रवीद्देवो गणेशस्त्रिपुरात्मजं । तव तातेन दुष्टेन सुराणामहितं पुरा
于是天神伽内沙对特里普拉之子说道:“从前,你那邪恶的父亲曾违逆诸天之福祉。”
Verse 4
कृतं कर्ममहत्पापं श्रुतं नो जनकेन हि । पापकर्मरतं दुष्टं ज्ञात्वा ज्ञानबलेन च
我们确已从父亲那里听闻:一桩大罪业已造作;并以辨识之力知其为恶,沉溺于罪行……
Verse 5
अवधीत्तं शरैकेन पितरं ते बलेन च । पंकात्प्रतारितो मोहात्प्रेषितो यममंदिरं
他以一箭便杀了你的父亲,亦凭强力而为;随后迷乱之中,被从泥淖中拖出,送往阎摩之居所。
Verse 6
त्वां चाहं तत्पथं दैत्य प्रेषयामि क्षणादिह । उक्तवंतं महाप्राज्ञं सुराणां च गणाधिपं
你也一样,哦阿修罗族的达伊提亚,我此刻就要把你送上同一条道路——我这般宣告者:大智者,亦为诸天众军之主。
Verse 7
विव्याध दशभिस्तीक्ष्णैः कालानलसमप्रभैः । ततः शरसहस्रैस्तु दैत्यं विव्याध साहसात्
他以十支锐箭贯穿其身,光焰如时劫毁灭之火;继而又以无畏之势,以千箭再度射穿那魔。
Verse 8
यमदंडसमैर्बाणैः क्षुरप्रैश्च शिलीमुखैः । कंकपत्रैर्महातीक्ष्णैर्वज्रानलसमप्रभैः
以如阎摩之杖般可怖的箭矢——刃如剃刀的利箭与“尸利目迦”(śilīmukha)之箭——又有极其锋锐的“康迦钵怛罗”(kaṅkapatra)飞矢,光焰炽盛,宛如雷霆与烈火。
Verse 9
विचकर्त शरांश्चास्य लंबोदरः सुरार्चितः । पुनर्विव्याध विशिखैः सहसाभि दुरोपमैः
而为诸天所礼敬的兰波达罗(Laṃbodara)斩断了他的箭矢;继而又迅疾地以千百无比、不可抗拒的利箭再度贯穿其身。
Verse 10
शरैरर्दितसर्वांगो मूर्च्छितस्त्वपतद्भुवि । ततो भद्रश्च सौभद्रो भीषणो निर्जरांतकः
他周身为箭所穿、为箭所击,遂昏厥倒地。其后,婆陀罗(Bhadra)、娑乌婆陀罗(Saubhadra)、毗沙那(Bhīṣaṇa)与尼尔阇罗安多迦(Nirjarāntaka)相继现前而进。
Verse 11
स्वां स्वां गदां समादाय दुद्रुवुस्तं विनायकम् । युगपत्ते गदापातैर्निजघ्नुर्गणनायकम्
众人各执其钺槌之杵,奔向那位毗那夜迦(Vināyaka);并且同时以槌击齐下,击倒了伽那(Gaṇa)之主。
Verse 12
लाघवात्तु वृथा कृत्वा गदास्तेषां महाबलः । भद्रकस्य तु शीर्षे चाहनत्परशुना तदा
然而那大力者凭其迅捷,使他们的槌杖尽皆落空;随即他以斧钺击中婆陀罗迦(Bhadraka)之首。
Verse 13
सौभद्रस्योत्तमांगं च असिनाग्रे निपातितम् । भीषणस्य कुठारेण खड्गेन निर्जरांतकम्
索婆陀罗之首被剑锋斩落;而那可怖的“弑天者”,亦被斧与剑一并劈断。
Verse 14
पातयित्वा च हेरम्बो महागिरिसमांस्तदा । चतुरो गणमुख्यांश्च अन्यांश्चापातयद्द्विषः
其后,赫兰婆击倒了那些如大山般的勇者;而那敌者亦使四位最上首的伽那与其余众等倒地。
Verse 15
ततः संज्ञां समालभ्य त्रैपुरिश्चासुरोत्तमः । समारुह्य रथं स्वं च जघान सुरसत्तमम्
随后,那最卓越的阿修罗特赖普利苏醒过来,登上自己的战车,击倒了诸天中最尊胜者。
Verse 16
विशिखैरर्धचंद्रैश्च क्षुरप्रैर्भल्लकैस्तथा । तांस्तु चिच्छेद धर्मात्मा पुनर्विव्याध तं शरैः
以无倒钩之箭、半月形箭镞、如剃刀般锋利的飞矢与婆罗迦箭,那位持法之人将其尽皆斩断;继而又以箭矢再度贯穿彼敌。
Verse 17
चतुर्भिः सैंधवांश्चैव शरैकेन च सारथिम् । शरैः संपातयामास धरण्यां गणनायकान्
以四箭击倒信陀婆诸勇士,又以一箭射落御者;继而以箭雨使诸军之将领坠于大地。
Verse 18
लाघवात्तु रथं चान्यं गत्वा त्रिपुरनंदनः । विशिखैर्वज्रसंकाशैः संबिभेद गणाधिपम्
特里普拉南达纳动作敏捷,迅速换乘另一辆战车,用闪耀如雷电般的利箭射向群主。
Verse 19
रुधिरेणावसिक्तांगो रुषा घोर यमप्रभः । ललाटे च त्रिभिर्बाणैस्सप्तभिश्च स्तनांतरे
阎摩普拉巴全身浴血,怒气冲天,令人恐惧,他的额头中了三箭,胸口之间又中了七箭。
Verse 20
चतुर्भिर्नाभिदेशे च पंचभिर्मुष्टिमस्तके । संबिभेद महाक्रोधो बलिनं शंभुनंदनः
香波之子怒火中烧,重创那位强者——腹部受了四击,头部挨了五记重拳。
Verse 21
शरैरर्दितसर्वांगः स दैत्यो रणमूर्धनि । कश्मलं परमं गत्वा संपपात रथोपरि
那恶魔全身被利箭射穿,痛苦不堪,在激战正酣之时陷入极度迷乱,倒在了战车上。
Verse 22
ततः सूतेन धीरेण अपनीतो रणाजिरात् । विमुखं नाहनच्छूरो विनायकः सुरार्चितः
随后,受众神崇拜的维那雅卡被他那沉稳的御者带离了战场;然而这位英勇的英雄并没有因失败而背过脸去。
Verse 23
चिरात्संज्ञां समालभ्य यंतारं चाब्रवीद्वचः । गच्छ सूत रणे भीरुं विनायकं हरात्मजम्
过了许久,他才恢复知觉,对御者说道:“去吧,苏多,带来毗那夜迦——哈拉(湿婆)之子,那在战阵中畏惧者。”
Verse 24
ततो यंताब्रवीद्वाक्यं सत्यं पथ्यं च कोमलम् । हरात्मजशरान्सोढुं कस्समर्थो रणाजिरे
于是御者说出真实、善益而柔和的话:“在战场之上,谁能承受哈拉之子射来的箭矢?”
Verse 25
तस्मान्मोहगतस्त्वं च मयानीतः प्रभासुत । एतज्ज्ञात्वा त्विदानीं भो यद्युक्तं तद्विधीयताम्
因此,你陷入迷妄之中,我才将你带到此处,噢,普拉婆之子。如今既已明了,亲爱的啊——就当行那合乎正道之事。
Verse 26
एतस्मिन्नंतरे राज्ञा प्रेरितः कविसत्तमः । औषधादिप्रयोगेण गजः संज्ञामबोधयत्
其间,奉王命所促,那位诗中至胜者以药物等诸般疗治,使大象复苏,觉知重现。
Verse 27
अकारयच्छतगुण प्राणं च जयमादिशत् । प्राग्जलं मंत्रितं दत्वा रुरोधास्याङ्गकव्रणान्
他令其生命之气增盛百倍,并宣示胜利;继而先赐以诵咒加持之净水,便封合其身与四肢的一切创口。
Verse 28
स गजो दशनैरेव स्फोटयामास वै गिरिम् । एवं शतसहस्राणि सैन्यानि सैन्यपालकान्
那头大象仅凭象牙便击碎山岳;同样地,它也摧毁了数十万军队及其统帅。
Verse 29
पातयामास समितौ गजः परमदुर्जयः । स दैत्यस्तस्य पृष्ठस्थः शरैः कालानलप्रभैः
在战场上,那头最难战胜的大象将他击倒;然而那位立于象背的阿修罗,以如时劫与宇宙毁灭之火般炽烈的箭矢攻袭敌军。
Verse 30
हत्वा त्वपातयच्चोर्व्यां मुख्यमुख्यान्सुराधिपान् । शरैस्तस्य तदा देवा यमदंडसमप्रभैः
将他们杀戮之后,他把诸天之中最尊最胜的主宰掷落大地;于是诸天以如阎摩之杖般炽耀的箭矢射向他。
Verse 31
निपतंति महावीर्या रुधिरौघपरिप्लुताः । यस्मिन्यस्मिंश्च मार्गे तु स दैत्यः सगजो गतः
那些大勇士纷纷倒下,浸没在血流的洪涛中;而那魔众与其大象所行之路,无论哪一条,处处皆是尸骸散落。
Verse 32
तत्र तत्र चकाराशु भीषणं संचितं शरैः । गजेन पातिताः केचिद्गजारोहेण चापरे
他在此处彼处迅疾发动可怖的攻势,箭雨密集如织;有的被大象踏倒,有的则被乘象者所击杀。
Verse 33
वेगेन भ्रमणेनैव सुराः केचित्प्रतापिताः । एवं सुरगणाध्यक्षाः शस्त्रास्त्रैर्विविधैश्च तम्
仅凭他迅疾回旋的身法,便有一些天神被灼烧而受苦。于是诸天军众之统领以种种兵器与飞射之矢齐齐攻向他。
Verse 34
सगजं युद्धनिर्भीता निजघ्नुर्बहुभिः शरैः । तथापि तद्गजं योद्धुं न शक्तास्ते महाबलाः
他们虽在战阵中无所畏惧,仍以无数箭矢射击那大象及其乘者;然而纵有巨力,也不能与那象交战并将其降伏。
Verse 35
क्षिप्रं तांस्तु गजो दंतैस्त्रैपुरोऽपातयच्छरैः । न गता ये धरण्यां च देवा जर्जरविग्रहाः
刹那之间,象王特赖普拉以象牙与飞掷之矢将他们击倒。那些身躯破碎的天神,尚未坠落于大地。
Verse 36
शरण्यं गणपं जग्मुर्भीतास्ते वेदनातुराः । देवानां कदनं दृष्ट्वा गणाधीशः प्रतापवान्
他们惊惧而痛楚难当,便投奔赐予庇护的伽那帕。见诸天神遭屠戮,威德具足的伽那之主——象头神伽内沙——遂有所行动。
Verse 37
स गजं ताडयामास वज्रानलसमैः शरैः । स गजो वेगसंरुद्धः शरेण च समुत्थितः
他以如雷霆、似烈焰的箭矢击打那大象。大象的冲势被其威力所遏,又被箭贯穿而被迫昂起,仿佛受创而立。
Verse 38
अथोतौ द्वौ शरैरेव बिभिदाते परस्परम् । उभौ तौ नर्दमानौ च अन्योन्यं जयमैच्छताम्
于是那二者以箭矢互相贯穿;长声咆哮,彼此皆求胜利,欲压倒对方。
Verse 39
शोणितैर्लिप्तसर्वांगौ वीरमुख्यौ सुरासुरौ । अथाखुं स गजो मत्तो बिभेद दशनैः स्वकैः
二者通身尽染鲜血——为天众与阿修罗中最卓越的勇士。随后那狂醉的巨象以自身獠牙将鼠撕裂。
Verse 40
आखुनाभिद्रुतो नागो घोरयुद्धं तयोः परम् । अधोर्ध्वं संविभागे च चतुर्भिर्युद्धमद्भुतम्
被獴追逐,巨蛇与之投入极其可怖的争斗。上下分位交错之际,此战奇绝,宛如四面皆在交锋。
Verse 41
सशब्दं तुमुलं युद्धं सर्वलोकभयंकरम् । दशनैर्दशनैरेव शरैरेव शरोत्तमैः
随即爆发雷鸣般喧腾的战斗,令诸世界皆惧——以牙对牙,以最上之箭对箭相击。
Verse 42
तद्घोरमभवद्युद्धं देवदानवसंगरे । आखुको भेदयांचक्रे महानांगं महाबलम्
于是天众与檀那婆交锋之中,恐怖的战斗骤然兴起。阿库迦以大力击打,劈裂了强大的摩诃那伽。
Verse 43
पर्शुना पृष्ठवंशाग्रे स्थित्वा तेनाहनत्पुनः । दैत्यस्य दशनद्वारे हृदिस्कंधेथ लाघवात्
他立于魔众脊骨之前,又以斧再击——迅疾无比——直取齿门之隙,落在其心与肩上。
Verse 44
सगजः स पपातोर्व्यां गतासुर्लोहितं वमन् । शशंसुर्मुनयो देवास्साधुसाध्विति चाब्रुवत्
他与其战象一同坠地;气息已绝,口中呕出鲜血。诸牟尼称赞此举,诸天亦齐声道:“善哉!善哉!”
Verse 45
अत्रान्येस्त्रैरमोघैश्च दैत्यानाजघ्नुराहवे । यावत्तु सेनयोर्नैव जययुद्धं समापयेत्
于是他们又以其他无不中的神兵,在战阵中击杀诸达伊提亚;只要两军尚未终结这场争胜之战。
Verse 74
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे त्रैपुरिविमर्दोनाम चतुस्सप्ततितमोऽध्यायः
至此,《吉祥莲华往世书》第一部《创世品》中名为“Traipurī-vimardana(摧灭三城者)”的第七十四章圆满。