Adhyaya 65
Srishti KhandaAdhyaya 65127 Verses

Adhyaya 65

The Slaying of the Kālakeyas and the Greatness of Vināyaka Worship

《莲华往世书》1.65章先以仪轨教诲赞颂毗那夜迦(Vināyaka,伽内沙/Heramba):在Nāndīmukha等仪式中应先礼敬,咒语加持祭祀之罐,并将Heramba安置或刻写于显眼之处,以成就事业、护佑安稳、增长学识、招致富足,并远离诸苦。又说毗那夜迦在Lauhitya河(卢希底耶)南岸的Vanitā处显为林伽;于彼处行瞻礼(darśana)、触礼(sparśa)与绕行(pradakṣiṇā),能得净化、升天与长久安乐。 继而转入神话危机:诸天因忽略对伽内沙的供奉而遭败北。湿婆(Tripurāri/Śambhu)指示他们先敬拜伽那帕提;毗那夜迦赐予胜利,并令其前往毗湿奴。哈利/那罗延遂统摄诸天对抗希兰尼亚克沙(Hiraṇyākṣa)之军,展开宏大战阵,终至迦拉凯耶(Kālakeya)统帅陨落,昭示“先除障碍,后得凯旋”的法则。

Shlokas

Verse 1

व्यास उवाच । नांदीमुखेषु सर्वेषु पूजयेद्यो गणाधिपम् । तस्य सर्वो भवेद्वश्यः पुण्यं भवति चाक्षयम्

毗耶娑说:凡于一切那难提穆迦(Nāndīmukha)仪轨中礼敬群主伽那提婆(象头神伽内沙)者,万事皆顺从于他,其功德亦成不坏。

Verse 2

गणानां त्वेति मंत्रेण सर्वयज्ञघटेषु च । सर्वसिद्धिमवाप्नोति स्वर्गं मोक्षं लभेन्नरः

以诵念以“gaṇānāṃ tve”起首之真言,并将其加持于一切祭祀所用之仪式圣罐者,能得诸般成就,并获天界与解脱(mokṣa)。

Verse 3

मृण्मये प्रतिमायां च चित्रे चाथ दृषण्मये । द्वारदारुणि पात्रे च हेरंबं लेखयेद्बुधः

智者当于泥塑像上、画卷中、石面上,并于木门与器皿之上,绘写或镌刻赫兰巴(Heramba,即伽内沙)。

Verse 4

अन्यस्मिन्नपि देशे तु सततं दृष्टिगोचरे । स्थापयित्वा तु हेरंबं शक्त्या यः पूजयेद्बुधः

纵在异乡,若智者将赫兰巴(伽内沙)安置于常在目光所及之处,并随己力以虔敬供奉礼拜,

Verse 5

तस्य कार्याणि सिद्ध्यंति दयितानि समंततः । न विघ्नं जायते किंचित्त्रैलोक्यं वशमानयेत्

则其所爱所愿之诸事,四方皆得成就;毫无障碍生起——并能使三界归于其摄持。

Verse 6

विद्यार्थी लभते विद्यां वेदशास्त्रसमुद्भवाम् । अन्यां च शिल्पिविद्यां च विजयां स्वर्गदायिनीम्

求学者得由《吠陀》与《论典》(Śāstra)所生之学;亦得诸般知识——技艺与工巧——带来胜利,并赐予天界之福。

Verse 7

धनार्थी विपुलं वित्तं कन्यां साध्वीं मनोरमाम् । ऐश्वर्यं धर्मसाध्यं च तनयं कुलमोक्षदम्

求财者得丰厚资财;亦可得贤淑可爱之女为妻;得由正法(dharma)所成之富贵;并得一子,能解脱家族之系缚。

Verse 8

न रोगैः पीड्यते कश्चिन्न ग्रहैः प्रेतयोनिभिः । शृंगिभिर्नापि रक्षोभिर्विद्युद्भिर्वनतस्करैः

无人为疾病所逼迫——亦不为凶恶星曜所扰,不为鬼类之灵所侵;不为有角之怪所害,不为罗刹(rākṣasa)所伤,不为雷电所击,亦不为林中盗贼所劫。

Verse 9

न राजा कुप्यति गृहे न च मारी प्रवर्तते । न दौर्भिक्ष्यं न दौर्बल्यं पूजयित्वा विनायकम्

礼敬毗那夜迦(Vināyaka)之人,君王不怒其家;疫疠不流行;饥馑不生,衰弱之苦亦不起。

Verse 10

अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि । सर्वविघ्नछिदे तस्मै गणाधिपतये नमः

敬礼于众伽那之主(Gaṇādhipati):诸天亦为成就所愿而礼拜之;彼能斩断一切障碍。

Verse 11

मंत्रश्चायं ॐ नमो गणपतये । नारायणप्रियैः पुष्पैरन्यैश्चापि सुगंधिभिः । मोदकैः फलमूलैश्च द्रव्यैः कालोद्भवैस्तथा

此即真言:“唵,敬礼伽那钵底(Gaṇapati)。”当以那罗延(Nārāyaṇa)所喜之花及诸般芬芳之花供养,又以摩陀迦(modaka)甜团、果品与根茎,并以随时令而生之供物如法奉献。

Verse 12

दधिदुग्धैः प्रियैर्वाद्यैरपि धूपसुगंधिभिः । पूजयेद्गणपं यस्तु सर्वसिद्धिमवाप्नुयात्

凡以酪与乳、以悦耳之乐音、以芬芳之熏香供养伽那婆(Gaṇeśa)者,必于一切所作之事中获得圆满成就。

Verse 13

विशेषात्तस्य लिंगे तु यो ददाति वसुप्रियम् । पूजोपकरणं वस्त्रं सर्वं लक्षगुणं भवेत्

尤为殊胜者:若有人向彼灵伽奉献所爱之珍贵之物——财宝、供养之具或衣服——则一切所献功德皆增至十万倍。

Verse 14

देशे च भारते वर्षे वनिता पूर्वसन्निधौ । लौहित्यदक्षिणे तीरे लिंगरूपो विनायकः

又于婆罗多之地(印度),在瓦尼塔(Vanitā)——近于古老圣迹之前——于劳希底耶(Lauhitya)河之南岸,毗那夜迦(Vināyaka)以灵伽之相安住。

Verse 15

हरगौरीसमादेशाद्देवानां संमतेन च । स्थितो लोकप्रशांत्यर्थं सर्वविघ्नविनाशनात्

奉哈罗(Hara)与高丽(Gaurī)之命,并得诸天同许,他为世间安宁而驻立于此——以灭尽一切障碍者之威德。

Verse 16

पूजयित्वा तु तं देवं शक्तितो द्रव्यसंचयैः । विनायकत्वमाप्नोति वेदशास्त्रार्थपारगः

以自身所能,聚集供品礼敬彼神者,得成“毗那夜迦”(Vināyaka)之位,并通达吠陀与诸论典(śāstra)之义。

Verse 17

सकृत्प्रदक्षिणं कृत्वा दृष्ट्वा स्पृष्ट्वा तु मानवः । अक्षयं लभते स्वर्गं सदा देवैः प्रपूज्यते

仅行一次右绕(pradakṣiṇā),又得瞻礼并触及彼圣处(或圣物)者,便得不坏之天界,恒为诸天所敬。

Verse 18

संसर्गिणां च म्लेछानां गत्यर्थं सुतपस्विनाम् । पुत्रार्थं सर्वलोकानां तत्र शंभुर्विनायकः

彼处,商婆(Śambhu),亦名毗那夜迦(Vināyaka),为与“弥勒叉”(mleccha)相交者赐予更高归趣;为大苦行者作利益;并为诸世界众生成就求子之愿。

Verse 19

कृत्वाभिषेकं लौहित्ये स्पृशेद्यस्तु गणाधिपम् । सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः

在娄希底耶(Lauhitya)行灌顶沐浴(abhiṣeka)之后,凡触及群主(Gaṇādhipa)者,必脱离七生所积之罪;对此毫无疑虑。

Verse 20

न वैधव्यं न कार्पण्यं न शोकं न तु मत्सरम् । विनायकं समासाद्य जन्मजन्मनि संलभेत्

归依并亲近毗那夜迦(Vināyaka)者,生生世世不遭寡居、不受贫乏、不染忧悲、亦无嫉妒。

Verse 21

पुनः सिद्धिः पुनर्भोग्यं पुनः कीर्तिः पुनर्बलम् । पूजयित्वा तु गणपं नरस्य नात्र संशयः

再得成就,再享福乐,再获名声,再增力量——礼敬伽那帕(象头神伽内沙)者,必得此诸果;对此毫无疑惑。

Verse 22

अस्य पूजामकृत्वा च सर्वाभीष्टं विनश्यति । तत्र देवाश्च सुप्रीता ब्रह्मविष्णुहरादयः

若不行此供奉,一切所愿皆将毁坏。于彼处,诸天——梵天、毗湿奴、哈罗(湿婆)等——皆大欢喜。

Verse 23

मघोनो गणपस्याथ पूजाविरहितस्य च । अथासुरैर्महावीर्यैर्हिरण्याक्षमुखै रणे

于是,由于摩伽梵(因陀罗)之伽那之主被弃而不受礼敬,勇力无比的阿修罗——以希兰尼亚克沙为首——在战阵中推进。

Verse 24

मघवा तु जितो वीर्याद्धिरण्याक्षेण वै तदा । ततस्सुराश्च निर्वीर्या यावद्वर्षशतं पुरा

当时,摩伽婆(因陀罗)确被希兰尼亚克沙之威力所制伏。其后,诸天尽失神力——在往昔长达百年。

Verse 25

दैवासुरे महायुद्धे सुराणां च पराजयः । ततो देवाधिदेवे तु शिवे देवैर्निवेदितम्

在天神与阿修罗的大决战中,诸天遭受败北。于是众神将此事禀告于湿婆——诸神之主。

Verse 26

भगवन्नसुरैर्नो हि जितं राज्यं गता मखाः । एतस्मिन्नंतरे शंभुर्देवान्वचनमब्रवीत्

“噢,主啊,阿修罗确已征服我们的国土;我们的祭祀也已断绝。就在此时,商布(Śambhu)对诸天说了这些话。”

Verse 27

हेरंबाय वरो दत्त उमया प्रीतया मया । पूजया ते परा सिद्धिर्देवादीनां भवत्विति

“我因与乌玛(Umā)同喜而赐予赫然巴(Heraṁba)一项恩赐:‘凭对你的礼拜,愿诸天及一切众生获得至上的成就。’”

Verse 28

अवजानाति यो मोहात्पुरुषस्तु महोत्सवे । न भवेत्तस्य सिद्धिश्च रणे चापि पराजयः

“若有人因迷妄而在这盛大的圣祭庆典中轻慢不敬,他将不得成就;即便在战场上也必遭败北。”

Verse 29

महामखेन युष्माभिः पूजा गणपतेः कृता । हेलया न कृता मोहात्तस्मात्प्राप्तः पराजयः

“你们以大祭行了对伽那帕提(Gaṇapati)的礼拜,并非出于轻慢而为;然而因迷妄之故,败北仍临到你们。”

Verse 30

शीघ्रं गच्छत वै पुण्यां गणपस्य महात्मनः । पूजां कुरुत धर्मज्ञा जयस्तूर्णं भविष्यति

“你们当速速前往大魂伽那帕(Gaṇapa)的圣地;行礼敬拜吧,诸位通达法(dharma)者——胜利必将迅速属于你们。”

Verse 31

ततो हरमुखाच्छ्रुत्वा वचः क्षेमपरं हितम् । प्रहृष्टा विबुधास्सर्वे गणपस्य पुरः स्थिताः

于是,诸天从湿婆亲口听闻那关乎安泰、利益众生的吉祥言辞,皆心生欢喜,立于伽那波——众伽那之主——之前。

Verse 32

देवा ऊचुः । गणाधिप नमस्तुभ्यं सर्वदेवैकपालक । स्वर्गभोगप्रद प्रीत्या हेरंब त्वां नताः स्म ह

诸天说道:“噢,伽那之主,向你顶礼;你是诸天唯一的守护者。噢,赫然婆,赐予天界(Svarga)福乐者,我们以虔敬向你俯伏。”

Verse 33

जयदं सर्वयुद्धेषु सिद्धिदं सर्वकर्मसु । महामायं महाकायं हेरंब त्वां नताः स्म ह

噢,赫然婆,赐一切战阵之胜、成就一切事业之悉地者;噢,大幻力(Mahāmāyā)、大身威德者——我们确已向你顶礼。

Verse 34

एकदंतं महाप्राज्ञं लंबतुंडं विनायकम् । देवं महर्षिदेवानांमिंद्रस्य च नताः स्म ह

他们向毗那夜迦神顶礼:独牙、至慧、长鼻;为大圣仙众所敬,亦为因陀罗所礼。

Verse 35

यत्ते पुरार्चनं यज्ञे न कृतं तत्क्षमस्व नः । सुराणां च गिरः श्रुत्वा गणपो वाक्यमब्रवीत्

“请宽恕我们:在祭祀(yajña)中,我们未先行供奉于你。”听罢诸天之言,伽那波开口答曰。

Verse 36

युष्माभिर्व्रियतां देवा वरो मत्तो हि वांच्छितः । ततः शक्रादयः सर्वे बृहस्पतिपुरोगमाः

“诸天啊,从我这里选择你们所愿的恩赐吧。于是众神——以释迦(因陀罗)为首,并由布里哈斯帕提引领——一齐上前。”

Verse 37

ऊचुर्गणपतिं देवा जयोस्माकं भवत्विति । देवानां वचनं श्रुत्वा गणेशो वाक्यमब्रवीत्

诸神对伽那帕提说道:“愿胜利属于我们。”听闻诸神之言,伽内沙随即答曰。

Verse 38

बाढमेव सुरश्रेष्ठा जयो वो भवतु द्रुतम् । ततो देवगणास्सर्वे हर्षनिर्भरमानसाः

“诚然如此,诸天中最胜者啊;愿胜利迅速降临于你们。”于是众天众心怀欢喜,喜悦充盈。

Verse 39

गणेशं पूजयामासुर्गंधसारैस्तु मण्डनैः । दिव्यधूपैः सुवस्त्रैश्च कुसुमैर्नन्दनोद्भवैः

他们以芬芳香精与庄严饰物供奉伽内沙,以天界妙香与华美衣裳,并以出自难陀那园林的花朵献礼。

Verse 40

पारिजातादिभिः पुष्पैरन्यैर्देवमनोहरैः । पूजितो गणपो देवैरुवाच सुरसत्तमान्

诸神以波利阇多等花及其他令天众欢悦之花供奉之后,伽那帕便对诸天中最尊胜者开口说道。

Verse 41

गच्छध्वं विबुधा देवं विष्णुमद्भुतसाहसम् । स विधास्यति वः कामं वांच्छितं च ततः सुराः

去吧,诸位睿智的天众,前往具奇妙英勇之力的毗湿奴尊。祂必成就你们的愿望,赐予你们所求;因此,诸天啊,当归依于祂。

Verse 42

स्वंस्वं रथं समारुह्य गतास्ते हरिमव्ययम् । पीतांबरं नमस्कृत्य ऊचुर्देवगणा मुदा

他们各自登上自己的战车,前往哈利——不朽的主。向身披黄衣的祂顶礼后,诸天众怀喜悦而开口陈辞。

Verse 43

हरात्मजं तु संप्राप्य पूजयित्वा गणाधिपम् । आगतास्त्वत्सकाशं वै महात्मन्नद्य केशव

我们已至哈拉之子处,礼敬了伽那之主伽那提婆;如今确已来到你面前,噢大心的凯沙瓦。

Verse 44

एतच्छ्रुत्वा तु देवानां वचनं हरिरव्ययः । यथातथ्यमुवाचेदं हनिष्ये दैत्यपुंगवान्

哈利——不朽者——听闻诸天之言,便如实宣告:“我将诛灭那最卓越的达伊提亚。”

Verse 45

श्रुत्वा वागमृतं देवा नारायणमुखाच्च्युतम् । हृष्टाश्च सुमुदाविष्टा द्रव्यैरिष्टैः समर्चयन्

诸神听到从那罗延口中流出的甘露般言语,欢喜踊跃,满怀大乐,以珍爱的供品恭敬供奉祂。

Verse 46

पुनर्विष्णुरुवाचेदं देवानिंद्रपुरोगमान् । स्वंस्वं बलं समाहृत्य सज्जी भवत विज्वराः

于是毗湿奴又对以因陀罗为首的诸天说道:“各自汇聚本有神力,整装待发,远离惶惧之热。”

Verse 47

हरिष्ये तान्दुराचारान्बलं चैव समंततः । अस्त्रवृंदं तु संगृह्य यूयं तिष्ठत निर्भयाः

“我将从四面擒拿那些恶行之徒及其军势。你们收拢诸般兵器,安住不惧,坚立不动。”

Verse 48

माधवस्य वचः श्रुत्वा प्रगताः सुरपुंगवाः । विमानानि समारुह्य सर्वे दिव्यास्त्रधारिणः

诸天中的翘楚听闻摩陀婆之言,便即启程;登上天界飞车(毗摩那),众皆执持神圣天兵而出发。

Verse 49

देवानां हर्षवाक्यानि दैत्यचारैः श्रुतानि वै । राजानं कथयामासुर्हिरण्याक्षं महाबलम्

确实,阿修罗(代底耶)之探子听见诸天欢喜之语,便前去禀告他们的王——大力的希兰尼亚克沙。

Verse 50

श्रुत्वा दैत्यपतिस्तत्र चुकोपाति महाबलः । सचिवांस्तु समाहूय क्रुद्धो वचनमब्रवीत्

他听闻此事,那位大力的代底耶之主当场震怒;召集群臣,怒而发言如下。

Verse 51

अधुनेंद्रादिदेवाश्च निखिलाः क्रूरबुद्धयः । माधवं च परीप्सन्तः शंभौ सर्वं न्यवेदयन्

于是诸天神——以因陀罗为首——怀着残酷之心,欲得摩陀婆(Mādhava),便将一切禀告于商布(湿婆)。

Verse 52

कथं जयं च लप्स्यामो दैत्यवृंदेतिदारुणे । त्रिपुरारिरुवाचेदं गणेशं यजतामराः

“我们如何才能战胜这极其可怖的魔众(代提耶)?”三城之敌特里普拉里(湿婆)如是说道,并对诸天神言:“当礼拜伽内沙。”

Verse 53

पूजयित्वा तु तं देवं जेष्यथासुरदानवान् । ततो देवगणैर्हृष्टैः पूजितो गणनायकः

“礼敬那位神祇之后,你们必能战胜阿修罗与达那婆。”于是诸天神众欢喜,礼拜伽那那耶迦(伽内沙),众伽那之主。

Verse 54

गणाधिपेन तुष्टेन क्रूरो दत्तो वरो महान् । जेष्यथाद्यासुरान्सर्वांस्ततो देवा मुदान्विताः

伽那之主伽那提婆(伽内沙)欢喜之时,赐予那位勇猛者一大恩赐:“你们将战胜一切原初的阿修罗。”于是诸天神充满喜悦。

Verse 55

हरिं निवेदयामासुरस्मद्वधपरीप्सवः । हरेर्बाढमुपश्रुत्य रथिनः शस्त्रपाणयः

他们渴望促成我们的被杀,便将此事禀告于诃利(Hari);而战车武士们手执兵刃,清楚听闻诃利之命后,遂即出发。

Verse 56

युद्धार्थमधितिष्ठंति निर्जरास्त्वभयामयि । यस्य या शक्तिरस्तीह देवाञ्जेतुं वदत्वलम्

噢,阿婆耶阿摩耶尼,诸不死者已就位备战。你们中凡有力量能在此战胜诸天者,当即宣告——莫再迟疑!

Verse 57

ततो राज्ञोवचः श्रुत्वा मधुर्वचनमब्रवीत् । जेष्यामि च हरिं राजन्सहायं मे नियोजय

于是,听罢国王之言,摩度柔声说道:“大王,我将战胜诃利(毗湿奴);请为我指派一位同盟相助。”

Verse 58

जिते नारायणे देवाः सभयास्त्रिदशा ध्रुवम् । तस्मान्नारायणोऽस्माकं भागः सर्वपुरंजयः

当那罗延得胜时,诸天——三十三天众——必定无所畏惧。因此,那罗延乃我等应得之分,征服一切城垒之胜者。

Verse 59

ततो धुंधुश्च सुंदश्च कालकेयो महाबलः । सहायश्च मधोस्तस्य जेष्यामो माधवं नृप

随后,敦度与孙陀,以及大力的迦罗迦耶——连同摩度的盟友——宣言道:“大王,我们必将征服摩达婆(毗湿奴)。”

Verse 60

सर्वदैत्यबले मुख्याश्चत्वारो दृढविक्रमाः । कालमृत्युसमा वीराः सर्वास्त्रविधिपारगाः

在一切大底耶军势之中,有四位为首,勇武坚固不可动摇;其英豪可比时与死,通达诸般兵器之法度与精要。

Verse 61

बलस्तत्राब्रवीद्वाक्यं यस्मिन्जय उपस्थितः । तं च जेष्यामि जिष्णुं च प्रतिज्ञा मे दृढा नृप

当时,巴拉罗摩在胜者耶耶面前说道:“我必战胜他,也必战胜吉什努;大王啊,我的誓愿坚定不移。”

Verse 62

नमुचिश्च मुचिश्चैव भ्रातरौ बलदर्पितौ । ऊचतुस्तौ नृपं ह्यावां जेष्यावो वै बलाद्बलौ

那牟支与牟支二兄弟,因力而骄,向国王说道:“确然如此,我们二人凭借强力,必以纯粹之力取胜。”

Verse 63

जम्भश्चैवाब्रवीद्वाक्यमिंद्रमिंद्रपुरोगमान् । जेष्यामि नात्र संदेहो दैत्या भवत विज्वराः

随后,阎婆对因陀罗及其所率众者说道:“我必定得胜,毫无疑虑。诸位代提耶啊,勿复忧惧。”

Verse 64

त्रिपुरश्चाब्रवीद्वाक्यं जेष्यामि च विनायकम् । तावदूचेऽथ सेनानीर्मयो देवांतको बली

特里普罗说道:“我将战胜毗那夜迦。”就在此时,统帅、强大的摩耶阿修罗——弑神者——也开口了。

Verse 65

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे कालकेयवधोनाम । पंचषष्टितमोऽध्यायः

至此,尊贵的《莲华往世书》第一部(创生品,Sṛṣṭikhaṇḍa)中名为“诛灭迦罗迦耶”的第六十五章圆满结束。

Verse 66

गत्वोवाच हिरण्याक्षं जिष्णुदूतोहमागतः । राज्यं त्यज स्ववाचा नः प्राणेषु यदि ते हितम्

他前往后对希兰尼亚克沙说道:“我乃吉什努(毗湿奴)的使者而来。若你以保全性命为福祉,就当依我等之言舍弃王国。”

Verse 67

न चेद्युध्यस्व मामद्य न वा गच्छ रसातलम् । ततः कोपादुवाचेदं नारदं मुनिसत्तमम्

“若你今日不与我交战,便下堕罗萨塔拉(地下界)!”随即他怒而对那罗陀——诸牟尼之最——说出此言。

Verse 68

अहिंस्यस्त्वं ब्राह्माणाद्य गच्छ तूर्णं ममाग्रतः । देवानां च विपत्तिं च कदनं निधनं पुरः

“婆罗门啊,你是不可加害之人。速速从我面前离去——前方乃诸天的灾厄、他们的苦难与毁灭。”

Verse 69

पश्य विप्र क्षणेनांतं प्राप्तं हरिहरादिकम् । एवमुक्त्वा स दैत्येंद्रो बलाध्यक्षमुवाच ह

“婆罗门啊,看吧——顷刻之间,因哈利、哈罗等而至的终局已临。”说罢,那位代提耶之主便对统军者开口。

Verse 70

सज्जीकृत्य बलं सर्वान्रथांश्चानयत द्रुतम् । दैत्यराजवचः श्रुत्वा बलाध्यक्षः समंततः

他整备诸军,又迅速调来战车;统军者听闻代提耶王之命,便从四方调动兵众,悉皆布列。

Verse 71

बलान्याहूय सहसा संत्रस्तास्तूर्णमागताः । कोटिकोटिसहस्राणि अक्षौहिण्यो बलानि च

诸军被骤然召集,众人惊惧,立刻赶至。其数多至万万亿千,且有整整一支支“阿刹乌希尼”(akṣauhiṇī)军团。

Verse 72

एकैकस्य च वीरस्य वाहनानि महांति च । स्यंदनानि विचित्राणि गजोष्ट्राश्वखरानपि

且每一位勇士皆备有宏大的乘具:华丽多姿的战车,并有大象、骆驼、骏马,乃至驴等坐骑。

Verse 73

सिंहव्याघ्रलुलायांश्च समारुह्य ययुस्तदा । वाद्यैः सर्वैश्च भूयिष्ठैः सिंहनादैर्भयानकैः

于是他们出发,骑乘狮、虎及诸般猛兽;四方乐器齐鸣,声势尤盛,又有骇人的狮吼般咆哮。

Verse 74

दिशस्तु पूरयामासुस्सिन्धुवेलाचला धराः । सर्वलोकाश्च वित्रेसुः समुद्राश्च चकंपिरे

四方尽被充塞;大地连同海滨群山一齐震荡起伏。诸世界皆战栗,连大海也为之摇动。

Verse 75

देवदुंदुभयो नेदुः सर्वदेवैः समीरिताः । वाद्यैश्च विविधैरन्यैर्वायुपूर्णैर्घनस्वनैः

天界神鼓轰然作响,为诸天神所击;又有种种乐器,充满风息,声沉而厚,也一同鸣响。

Verse 76

सर्वलोकाभयत्रस्ता ये च त्रैलोक्यवासिनः । भ्रष्टकामागताकाशं घोरं तीव्रं महाहवम्

诸世界一切众生,以及遍住三界者,皆为恐惧所震。可怖、猛烈、宏大的战斗骤然兴起,撼动长空,淹没一切欲念。

Verse 77

परिघैः पाशशूलैश्च खड्गयष्टिपरश्वधैः । शरैश्च निशितैर्घोरैर्जघ्नुरन्योन्यमाहवे

以铁杵、绳索与三叉戟,以剑、杖与战斧,又以可怖而锋利之箭,他们在战阵中彼此击杀。

Verse 78

शस्त्रास्त्रैर्बहुधामुक्तैर्दिशः सर्वा निरंतरम् । विगृहेषु धरण्यां च पर्वतेषु जलेषु च

诸般兵刃与飞射之器以无数方式放出,四方十面无间充塞——在交战之处,在大地之上,在群山之间,亦在水域之中。

Verse 79

देवस्थाने तथाकाशे पर्वताग्रेषु सानुषु । गह्वरेषु महारण्ये तयोर्युद्धमवर्तत

在神圣之所,亦在旷远长空;在山巅与山坡;在洞窟与大林之中——二者之战如是奔涌不息。

Verse 80

पुष्कलादि घनानां च वर्षधारा जलं यथा । पतंत्यस्त्राणि सैन्येषु शतशोथ सहस्रशः

又如厚重云团倾注雨瀑之水,兵刃亦如雨坠落于诸军之上——先以百计,继而以千计。

Verse 81

केचित्पेतुः पृथिव्यां तु शरैः संभिन्नविग्रहाः । शक्तिभिर्मुसलैश्चान्ये छत्रशूलपरश्वधैः

有些人倒在大地上,身躯被箭矢撕裂;另一些人亦仆倒,遭长枪与棍棒击中,又被当作兵器的伞、三叉戟与战斧所伤。

Verse 82

पतिताः संमुखे शूरा युद्धेषु न्यायवर्तिनः । गच्छंति सुरसद्मानि स्वाम्यर्थे ये त्वभीरवः

凡勇士迎敌而倒、于战阵中守持正法者;那些为主君之义而无畏奋战的人,皆往诸天神之居处。

Verse 83

ये चान्ये कातराः पापा हंतारो विमुखान्रणे । अन्यायैर्ये च योद्धारस्ते यान्ति यममंदिरं

而那些怯懦的罪人——在战场上杀害背向而逃之人者——以及以不义手段作战的斗士,皆将前往阎摩之殿。

Verse 84

त्रिदिवस्था गजारोहाः सैन्धवस्थास्तथापरान् । रथस्थांश्च रथारोहाः पदगांश्च पदातयः

有些被安置于天界,乘象而行;另一些骑乘信度良马。有人立于战车之上为御者,有人徒步前进为步兵。

Verse 85

परस्परं विनिघ्नंति शूरा युद्धाभिकांक्षिणः । मुदिताः सत्वसंपन्ना धर्मिष्ठा बलसंवृताः

英勇之士渴望战斗,彼此击倒。其心欢悦,具足勇气,安住于正法,并以力量自持。

Verse 86

केषांचिद्वाहवश्छिन्ना मुसलैर्भिन्नमस्तकाः । केशाश्शिरांसि वस्त्राणि निपेतुर्धरणीतले

有些人的手臂被砍断,有些人的头颅被棍棒击碎。头发、断头和衣物纷纷落在地面上。

Verse 87

मध्यच्छिन्नास्तथा भिन्नाः पेतुरुर्व्यां महाबलाः । खड्गपातैस्तथा चोग्रैश्छ्रिन्नभिन्नाः परश्वधैः

那些强大的战士被从中间劈开或砍碎,倒在地上——被猛烈的剑击斩断粉碎,被战斧劈开。

Verse 88

गामेव पतिता धीरा दिव्यालंकारभूषिताः । प्रदीप्तोभूद्धरादेशो वीरैर्नागैर्हयै रथैः

他们——坚定不移且佩戴着神圣的饰物——倒在了大地上;整片土地因遍布英雄、大象、马匹和战车而光芒四射。

Verse 89

विविधाभरणैर्नष्टैः पताकाभिश्च केतुभिः । ततो वसुंधरा सर्वा सशैलवनकानना

随后,整个大地——连同其山脉、森林和树丛——失去了各种装饰、旗帜和军旗。

Verse 90

रुधिरौघप्लुता तत्र विबुधासुरयोर्युधि । क्रव्यादैर्बहुभिस्तत्र खादितो द्रव्यसंचयः

在那场神与阿修罗的战斗中,地面被血流淹没;在那许多食肉生物之中,积聚的财富(战利品)被吞噬殆尽。

Verse 91

लोहितं प्रचुरं पीतं रक्षोभिश्च वृकादिभिः । अन्यैर्महागणैरेव क्षतजं पवनान्वितम्

大量的血——赤与黄——被罗刹、群狼等以及其他大群众生饮下,并随风飘散。

Verse 92

खादितं प्रीतिमद्भिश्च फेरुगृध्रगणैर्मुदा । एतस्मिन्नंतरे सूरिः सुरपूज्यो बृहस्पतिः

它被豺群与秃鹫群欢喜地吞食。其间,诸天所敬奉的圣贤布里哈斯帕提现身而至。

Verse 93

मृतसंजीवनीविद्यां सुराणां संजजाप ह । विशल्यकरणीं दिव्यां ब्रह्मविद्यां महाबलां

他遂为诸天诵持“mṛtasaṃjīvanī-vidyā”起死回生之明咒,又诵神圣的“viśalyakaraṇī”除痛拔障之法,并宣说大力的“brahma-vidyā”——梵之真知。

Verse 94

ततो धन्वंतरिर्विद्वान्सुरवैद्यो मनोजवः । औषधैस्तत्प्रयोगैश्च रणे पर्यटते मुदा

于是,智者檀梵多利——诸天之医,行速如意——欢喜地巡行战场,携带药物及其施治之法。

Verse 95

तत्र देवाश्च जीवंति ये मृताश्च महाहवे । अव्रणा बलसंपन्नाः प्रयुध्यंति भृशं पुनः

在那里,即便在大战中阵亡的诸天也复得生命;无伤而具足威力,再次奋勇激战。

Verse 96

एवं शतसहस्रं तु गणं दैत्यस्य चोद्धतम् । पतितं पुण्ययोगाच्च शरैर्निर्भिन्नकंधरम्

于是,那傲慢的阿修罗军团——多达十万——因福德因缘之力而倒下,颈项被箭矢洞穿裂开。

Verse 97

ततस्तु जयशब्देन नंदंति सिद्धचारणाः । ऋषयः खेचराश्चान्ये ये चैवाप्सरसां गणाः

随后,随着“胜利!”的呼声,悉达与查罗那欢欣鼓舞;诸仙圣、空行众,以及天女阿普萨拉斯的群队也一同欢庆。

Verse 98

गीतिं गायंति गंधर्वाः शशंसुः परमर्षयः । अथ क्रुद्धो महातेजा दैत्यमुख्यो महाबलः

乾闼婆唱起清妙歌音,至上圣仙献上赞颂。于是,那大力的阿修罗首领,光焰炽盛,勃然大怒。

Verse 99

कालकेय इति ख्यातः सेनानीर्दैत्यपस्य च । स्यन्दनस्थो महावीर्यो धनुरादाय तत्र च

其中有一位名闻遐迩者,号为迦罗迦耶,是阿修罗王的统军将领;他立于战车之上,当场执起弓矢。

Verse 100

जघान सुरसंघांस्तान्नर्तयामास भूतले । निरंतरशरौघेण च्छादितं गगनं तदा

他击溃诸天神的军阵,使其在大地上踉跄倾倒;其时,苍穹被连绵不绝的箭雨所遮蔽。

Verse 101

निपतंति शराः सैन्ये कोटिकोटि सहस्रशः । निपतंति ततो देवाः संयुगेष्वनिवर्तिनः

箭矢如雨落在军阵之中,成百上千,乃至亿万亿万。随后诸天神亦投入战斗,在交锋中毫不退却。

Verse 102

रुधिरोद्गारिणस्सर्वे सिद्धगंधर्वकिन्नराः । विशिखैः पीडिता देवा निपेतुर्धरणीतले

诸悉达、乾闼婆与紧那罗皆吐血不止;诸天神亦被箭矢折磨,坠落在大地之上。

Verse 103

केचिच्छरशतैर्भिन्नास्सहस्रैरयुतैस्तथा । पेतुरुर्व्यां महावीर्या ये रणे सुरपुंगवाः

有的被百箭贯穿,又被千箭、万箭所中;那些大勇之士、诸天之最胜者,在战斗中倒在大地上。

Verse 104

व्यथिताश्चाभवन्सर्वे स्यंदनस्था दिवौकसः । शरैः प्रव्यथितास्ते तु स्थातुं शक्ता न संमुखे

一切天界众生端坐战车之上,皆生忧苦。被箭矢刺穿、痛楚难当,竟不能当面立于敌前。

Verse 105

तेनावगाहितं सैन्यं गजेनेव सरोवनम् । शरैस्तस्यार्दिता देवा वज्रानलसमप्रभैः

那人使军阵陷入混乱,犹如大象搅动湖泊。诸天神被其箭矢所伤,那箭光辉如雷霆与烈火,击中而受苦。

Verse 106

न शेकुः समरे स्थातुं मघवंतं ययुस्तदा । चित्ररथ इति ख्यातो देवश्शस्त्रभृतां वरः

他们无法在战场上与摩伽梵(因陀罗)对峙,便于当时退却。其间有名为“奇特罗罗陀”(Citraratha)者,素以诸天持兵之最胜而闻名。

Verse 107

ययौ स्यंदनमारुह्य युद्धं प्रति धनुर्धरः । अब्रवीद्वचनं सोपि सेनान्यं तु महासुरम्

那执弓的勇士登上战车,奔赴战阵;他也向那统军之将——伟大的阿修罗——说了几句话。

Verse 108

यथा हंसि महाशूर सुरसेनां मुदान्वितः । स त्वं प्रशंसनीयश्च शूरोसि सुरसंमतः

大勇士啊,既然你欢喜地击溃诸天之军,你确实堪受赞叹;你是勇者,为诸神所认可。

Verse 109

हिरण्याक्षप्रियं कर्म कृतं युद्धे त्वयाधुना । इदानीं मम बाणैश्च गच्छस्व यममंदिरम्

方才在战斗中,你做下了令希兰尼亚克沙(Hiraṇyākṣa)欢喜之事。如今当受我箭矢所击,前往阎摩之居所吧。

Verse 110

ततश्च कालकेयस्तु स्मितो वचनमब्रवीत् । पुरैव विजितो देव गणः सर्वः प्रलीलया

于是迦罗迦耶(Kālakeya)含笑说道:“从前诸天之众早已被征服,不过如同游戏一般。”

Verse 111

इदानीं तु स्थितं युद्धे बलं सर्वं तु हेलया । यदि ते निधने प्रीतिरस्तीह सुरपुंगव

如今我方诸军已列阵待战,几如戏战一般。若你真在此乐于自取其死,噢诸天之最胜者,那就出来吧。

Verse 112

एभिस्त्वां निशितैर्बाणैर्नयामि यममंदिरम् । इत्युक्त्वा परमक्रुद्धो बाणमंतकसन्निभम्

“我将以这些锐箭送你往阎摩之宫。”言毕,他怒焰炽盛,执起一支宛如安多迦(死神)般的箭。

Verse 113

जघान समरे वीरस्त्रिभिश्चिच्छेद सोंबरे । पुनर्बाणांश्च समरे योजयित्वा द्रुतं रुषा

战阵之中,勇士一击而中;以三箭斩落娑翁婆罗。继而在同一交锋里,他迅疾含怒,再度搭上诸箭。

Verse 114

जघान प्रचुरान्दैत्यांस्तांश्चकर्त्त स लाघवात् । ततोन्योन्यं शरैस्तीक्ष्णैः कालानलसमप्रभैः

他迅疾击倒众多檀那婆,并以轻捷之势将其斩裂。随后双方以锐箭相互攻射,其光焰如同劫末时火、时间终焰一般。

Verse 115

युद्धे धनुष्मतां श्रेष्ठश्चिच्छेद भुवि वेगतः । तद्युद्धमभवद्देवदैत्ययोर्धर्मतो भृशम्

战斗中,诸弓手之最胜者迅疾将敌手击落于地。于是天神与阿修罗之间爆发了惨烈之战,且严守达摩之法而战。

Verse 116

द्रष्टुकामागताः पार्श्वमृषि देवाः सुरोरगाः । एवं शतसहस्राणि बाणानां विधृतानि च

诸神、圣贤、天人和蛇神渴望目睹这一幕,纷纷来到先知身旁;就这样,成千上万的箭矢也被挡住了。

Verse 117

अन्योन्यं समरे वीरौ विजयाय विरेजतुः । अथ क्रुद्धो महातेजा गंधर्वाणां पतिस्तदा

两位英雄在战斗中相互辉映,各自争取胜利。就在那时,强大且光芒四射的乾闼婆之主勃然大怒。

Verse 118

त्रिभिर्बिभेद बाणैश्च ललाटे हृदि पंचभिः । सप्तभिर्जठरे नाभौ बस्तौ तस्य स पंचभिः

他用三支箭射穿了他的额头,五支箭射中他的心脏,七支箭射中腹部和肚脐,五支箭射中他的膀胱。

Verse 119

शरैः संपातितो दैत्यो मुग्धः कश्मलतां गतः । शिथिलीकृतचापश्च लेभे संज्ञां चिराद्बली

那位阿修罗被乱箭射倒,神志不清,陷入混乱之中。他的弓松弛了;那位强者许久之后才恢复知觉。

Verse 120

मधुसंज्ञं त्रिभिर्बाणैस्स बिभेद सुरोत्तमम् । चकर्त्त धनुरस्त्रैश्च दैत्यराजस्य पश्यतः

他用三支箭射穿了众神之首——名为摩度(Madhu)的神,并用弓箭武器将他击倒,而阿修罗王在一旁看着。

Verse 121

ततो बाणसहस्रैस्तु कालांतकसमप्रभैः । बिभेद दैत्यसिंहं तु सुराणामुत्तमो बली

于是,巴利以千支箭矢,光焰如同迦罗——时间的终结者——射穿了群魔之狮;他乃诸天之中最卓越者。

Verse 122

हतचेताः स दैत्येंद्रो बहुशोणितसंस्रवः । विह्वलो बहुबाणार्तः शूलं जग्राह दानवः

那位代提耶之主心神崩裂,鲜血汩汩而流;被众箭所伤而昏乱痛楚,那达那婆遂执起三叉戟。

Verse 123

शूलहस्तस्य तस्यैव चतुर्भिस्तुरगान्शरैः । हत्वा च पातयामास त्रिभिर्यंतारमेव च

随即,他以四支箭射杀那持戟者的战马,又以三支箭将车夫也一并击倒。

Verse 124

जघान शूलमुर्वीष्ठस्ततो गंधर्वसत्तमम् । विचकर्त्त त्रिभिर्बाणैः शूलं चित्ररथो बली

于是,乌尔维什塔以长枪击倒那最胜的乾闼婆;而强大的奇多罗车,以三支箭将长枪击碎。

Verse 125

शूलं च नष्टकं दृष्ट्वा हतभोगमिवोरगम् । गृहीत्वा मुद्गरं घोरं प्रदुद्राव सुरं बली

见三叉戟已碎,犹如毒蛇失却獠牙,强大的巴利执起可怖的铁槌,奔袭那位天神。

Verse 126

स मुद्गरं समायातं दैत्यसेनाधिपं तदा । विचकर्त्त शिरो देहादर्धचंद्रेण संभ्रमात्

当时那持钉锤前冲的魔军统帅已至;他在战阵的急势中,以新月形之刃猛然斩下其首,使之与身分离。

Verse 127

स पपात महीपृष्ठे संचचाल वसुंधरा । ततो दैत्यगणाः सर्वे विमुखा विप्रदुद्रुवुः

他坠落在大地之上,连大地也为之震动。于是诸多达那婆众皆惊惧回首,仓皇奔逃。