Adhyaya 53
Srishti KhandaAdhyaya 5377 Verses

Adhyaya 53

Narrative of the Śūdra’s Renunciation of Greed (with the Tulādhāra Greatness Prelude)

第53章开篇,一位婆罗门(dvija)请求听闻图拉达拉(Tulādhāra)的完整生平与功德。世尊开示:真实(satya)与不贪(无贪欲)是衡量法(dharma)最沉重的尺度,胜过累积无数盛大祭祀(yajña);并以宇宙安住之理及由提施提罗、婆利、哈利施旃陀罗等圣王为例加以证明。 随后转入训诫故事:一位首陀罗(Śūdra)虽贫困,却坚决不偷盗;当他被以“拾得”的衣物与暗藏的财宝试探时,仍能克制贪心。他洞见财富易生束缚、迷妄与世间恐惧,遂舍离执著。 诸天赞叹其德;试炼他的苦行者显现为毗湿奴(Viṣṇu),赐其升天之福。章末再申图拉达拉无与伦比的真实,并以果报偈(phalaśruti)宣说:闻读此章能灭罪,得如祭祀之果。

Shlokas

Verse 1

द्विज उवाच । तुलाधारस्य चरितं प्रभावमतुलं प्रभो । वक्तुमर्हस्यशेषेण यदि मय्यस्त्यनुग्रहः

婆罗门说道:“主啊,若你垂怜于我,请为我详尽宣说秤持者图拉达拉(Tulādhāra)的生平事迹,以及他无比的威德与力量。”

Verse 2

श्रीभगवानुवाच । सत्यभावादलोभाच्च दद्याद्यो वै त्वमत्सरात् । नित्यं यज्ञशतं तस्य सुनिष्पन्नं सुदक्षिणम्

世尊曰:若人以真实之心布施,离贪而无嫉,其施福德,等同于恒常圆满成就百次祭祀(yajña),并具足应有的祭资(dakṣiṇā)。

Verse 3

सत्येनोदयते सूरो वाति वातस्तथैव च । न लंघयेत्समुद्रस्तु वेलां कूर्मो धरां तथा

因真实,太阳升起;亦因真实,清风吹行;大海不越其岸线,龟神亦不舍其所负之大地。

Verse 4

सत्येन लोकास्तिष्ठंति सर्वे च वसुधाधराः । सत्याद्भ्रष्टोथ यः सत्वोप्यधोवासी भवेद्ध्रुवम्

唯以真实,诸世界得以安住,连诸持地者亦能坚立;若有人背离真实,纵具德行,亦必堕为下界之住者。

Verse 5

सत्यवाचिरतोथस्तु सत्यकार्यरतः सदा । सशरीरेण स्वर्लोकमागत्याच्युततां व्रजेत्

然喜乐于真实之语、恒常奉行真实之行者,得以此身抵达天界,遂证不坠不坏之境。

Verse 6

सत्येन मुनयः सर्वे मां च गत्वा स्थिरं गताः । सत्याद्युधिष्ठिरो राजा सशरीरो दिवं गतः

凭真实,诸牟尼皆至于我,得证安住不动之境;凭真实,尤提士提罗王亦以此身升入天界。

Verse 7

सर्वशत्रुगणं जित्वा लोको धर्मेण पालितः । अकरोच्च मखं शुद्धं राजसूयं सुदुर्लभम्

他征服了一切敌军之后,以正法(dharma)护持人民;继而举行清净而极其稀有的王祭——罗阇苏耶(Rājasūya)。

Verse 8

चतुरशीतिसहस्राणि ब्राह्मणानां च नित्यशः । भोजयेद्रुक्मपात्रेषु राजोपकरणेषु च

他每日应供养八万四千位婆罗门,以金器盛食,并备以王者之资具而奉献。

Verse 9

भोजयित्वोपकरणांस्तेभ्यो दत्वा विसर्जयेत् । यदभीष्टं द्विजातीनामतोन्यद्दापयेद्धनम्

既已供食并赐予所需之物,当恭敬送别;随后还应依诸二生者(dvija)所愿,再施财物为更进一步的布施。

Verse 10

अदरिद्रं ततो ज्ञात्वा द्विजव्यूहं परित्यजेत् । तथैव स्नातकानां तु सहस्राणि तु षोडश । नित्यं संभोजयेद्राजा सत्येनैव विमत्सरः

既已辨明诸二生者中谁并非贫乏,便当将那仅为聚众而来的婆罗门群体另置一旁。同样,国王应以真实无嫉之心,每日供养一万六千位斯那塔迦(snātaka)。

Verse 11

अतिष्ठंत गृहे पूर्वं चिरं तस्य जिगीषया । जितं तेन जगत्सर्वं प्राणानुग्रहकारणात्

往昔他久居家中,怀抱征服之志;而整个世界终为他所征服,只因他赢得了众生的欢心与慈恩。

Verse 12

सत्येन चासुरो राजा बलिरिंद्रो भविष्यति । पातालस्थस्य तस्यैव भूयस्तिष्ठामि वेश्मनि

凭借他的真实不欺,阿修罗王婆利将成为因陀罗;而我也将再次住在那位居于帕塔拉的婆利同一宫邸之中。

Verse 13

निरंतरं च तिष्ठामि स्वांते पुण्यैककर्मणः । यद्वा पुरा मया बद्धो दैत्ययोनेर्विमोक्षणात्

我恒常住于那位唯行功德之人的心中;又或者,因为久远以前我曾以誓愿受缚,为解救出身于达伊提亚族类者。

Verse 14

तलं चैवामरत्वं हि शक्रत्वं प्रददाम्यहम् । हरिश्चंद्रो नृपस्सत्यात्सवाहनपरिच्छदः

“我必赐予你塔拉界之国土,并赐不死之身与释迦罗(因陀罗)之王权。因其真实不欺,哈利施旃陀罗王将受尊崇,具足车乘与王者仪仗。”

Verse 15

स्वशरीरेण शुद्धेन सत्यलोके प्रतिष्ठितः । राजानो बहवश्चान्ये ये च सिद्धा महर्षयः

以自身清净之身安住于真谛界(萨提亚洛迦);其处亦有众多国王等人——诸成就者与大圣仙。

Verse 16

ज्ञानिनो यतयश्चैव सर्वे सत्येऽच्युताऽभवन् । तस्मात्सत्यरतो लोके संसारोद्धरणक्षमः

知者与苦行者皆然——众人因真实不欺而成不动摇。是故在此世间,乐住于真者,能令他人渡越轮回之缚。

Verse 17

तुलाधारो महात्मा वै सत्यवाक्ये प्रतिष्ठितः । लोके तत्सदृशो नास्ति सत्यवाक्यस्य कारणात्

图拉达拉确为大圣者,安住于真实之语。世间无人能与之比肩,皆因他恒守说真言之誓。

Verse 18

अश्वमेधसहस्रेण सत्यं तु तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते

若以天平衡量真实与千次马祭(Aśvamedha),真实更为沉重;确然,真实胜过千次马祭。

Verse 19

सर्वं सत्याद्भवेत्साध्यं सत्यो हि दुरतिक्रमः । सत्यवाक्येन सा धेनुर्बहुला स्वर्गगामिनी

一切所当成就者,皆可由真实而得;因为真实确难逾越。凭借一句真言,那头名为巴胡拉(Bahulā)的母牛得以升天。

Verse 20

सर्वं राष्ट्रं समाधाय पुनरावृत्तिदुर्लभा । तथायं सर्वदा साक्षी मृषा नास्ति कदाचन

既已使整个国度安定有序,如此机缘难得再临。确然,此者恒为见证;在其面前,虚妄从无一时存在。

Verse 21

बह्वर्घमल्पमर्घं च क्रयविक्रयणे सुधीः । सत्यवाक्यं प्रशस्तं च विशेषात्साक्षिणो भवेत्

在买卖交易之中,无论价高价低,智者尤应作证,以真实之语而具清誉。

Verse 22

साक्षिणः सत्यमुक्त्वा च अक्षयं स्वर्गमाययुः । वावदूकः सभां प्राप्य सत्यं वदति वाक्पतिः

诸证人既说真实,便得至不坏之天界。瓦瓦杜迦抵达会众之中,宣说真语——他乃言语之主。

Verse 23

स याति ब्रह्मणो गेहं यज्ञैरन्यैश्च दुर्लभम् । सभायां यो वदेत्सत्यमश्वमेधफलं लभेत्

他得至梵天(Brahmā)之居所,此境即使凭诸余祭祀亦难获得;而在会众中说真语者,得阿湿婆弥陀(Aśvamedha)之功德果报。

Verse 24

लोभाद्द्वेषान्मृषोक्त्वा च रौरवं नरकं व्रजेत् । सर्वसाक्षी तुलाधारो जनानां शूर एव च

因贪与嗔而妄语者,堕入罗柔婆(Raurava)地狱。他是万有之证者,执持衡秤(正法之衡)者,亦为众人中的勇士。

Verse 25

विशेषाल्लोभसंत्यागान्नाके निर्जरतां व्रजेत् । कश्चिच्छूद्रो महाभागो न लोभे वर्तते क्वचित्

尤以舍弃贪欲为胜,便于天界得不死之境。实在罕有那极其有福的首陀罗(Śūdra),在任何时候都不染贪心。

Verse 26

वृत्तिश्शाकेन दुःखेन तथा शिलोंछतो भृशम् । जर्जरं वस्त्रयुग्मं च करौ पात्रे च सर्वदा

他以蔬菜为生,困苦度日;又如拾取落穗之人般备受艰辛。唯有一双破旧衣裳,双手恒常捧持乞食之钵。

Verse 27

सदापि लाभविरहो न परस्वं गृहीतवान् । तस्य जिज्ञासयैवाहं गृहीत्वा वस्त्रयुग्मकम्

他虽常无所得,却从不取他人之物。为试验并了解他,我亲自取走了一双衣裳。

Verse 28

अवकोटे नदीतीरे स्थितस्संस्थाप्य सादरम् । स दृष्ट्वा वस्त्रयुग्मं तन्न लोभे कुरते मनः

他在阿瓦科塔河岸恭敬安住,见到一双衣裳;然而其心并未生起贪欲。

Verse 29

इतरस्य परिज्ञाय तत्क्षांत्या स्वगृहं ययौ । ततो विचिंतयित्वा तु हृदा स्वल्पमिति द्विज

他明了对方的处境,便以宽恕相待,回到自家。随后在心中省思道:“这不过是小事啊,婆罗门。”

Verse 30

उदुंबरं हेमगर्भं मया तत्रैव पातितम् । किंकरे च नदीतीरे विकोणे जनवर्जिते

就在那处,我使含藏“金胎”(宝藏)的优昙婆罗树坠落——落在金迦罗河岸一处僻静的弯曲之地,人迹罕至。

Verse 31

तस्य यातस्य देशे तु दृष्टं तेन तदद्भुतम् । अलं विधानमेतत्तु कृत्रिमं चोपलक्ष्यते

当他来到那片地方,便见到一件奇异之事;然而这般布置,看来只是人为的巧设。

Verse 32

ग्रहणे वाधुना चास्य अलोभं नष्टमेव मे । अस्यैव रक्षणे कष्टमहंकारपदं त्विदम्

在取受之时,乃至如今,我的无贪之心确已毁失。守护此物亦多艰难——这实是我慢之位。

Verse 33

यतो लोभस्ततो लाभो लाभाल्लोभः प्रवर्तते । लोभग्रस्तस्य पुंसश्च शाश्वतो निरयो भवेत्

有贪则有利;由利复增贪。为贪所缚之人,终得长久地狱之报。

Verse 34

यदि नो विगुणं वित्तं यदा वेश्मनि तिष्ठति । तदा मे दारपुत्राणामुन्मादो ह्युपपद्यते

若不善之财、染污之资留在我家中,则我之妻子儿女便遭狂乱与忧苦。

Verse 35

उन्मादात्कामसंजात विकारान्मतिविभ्रमः । भ्रमान्मोहोप्यहंकारः क्रोधलोभावतः परं

由狂乱生起欲所致诸变异;由变异而慧解迷乱。由迷乱而生痴惑,由痴惑而起我慢;其后更生嗔怒与贪欲。

Verse 36

एषां प्रचुरभावाच्च तपः क्षयं गमिष्यति । क्षीणे तपसि वर्तंते पंकाश्चित्तप्रमोहकाः

由此等过盛之故,苦行之力(tapas)将趋于衰损。苦行既衰,迷惑心识之泥淖般垢染便乘隙而住。

Verse 37

तैश्च शृंखलयोगैश्च बद्धो नैवोद्धृतिं व्रजेत् । एतद्विमृश्य शूद्रोऽसौ परित्यज्य गृहं गतः

被那些锁链与执著所缚,他终不能得解脱。思量至此,那位首陀罗舍弃家宅,毅然离去。

Verse 38

स्वस्था देवा मुदा तत्र साधुसाध्विति चाब्रुवन् । निर्ग्रंथिरूपमादाय तस्यांतिक गृहं तथा

在那里,诸天安然欢喜,齐声赞叹:“善哉!善哉!”随后,他们化作离系的苦行者之相,前往她近旁的一处人家。

Verse 39

गत्वाहं दैवसंवादमवदं भूतवर्तनम् । ततोभ्यासप्रसंगाच्च जनानां च परिप्लवात्

我到那里后,复述了神圣的对话,并叙说所发生之事。继而因反复议论不断,又因众人心神纷乱,此事遂更向前推进。

Verse 40

तस्य योषा तदागत्य पप्रच्छ दैवकारणम् । ततोहमवदं तस्य यद्वा चेतोगतं द्रुतम्

随后,他的妻子前来,询问其中的神圣缘由。于是我迅速将当下在心中浮现的一切告诉了她。

Verse 41

निभृतोथ निनादस्य कारणं कथितं मया । हृद्गतं पतिना तेद्य विधिना दत्तमज्ञवत्

那低沉之声的缘由,我已向你说明。今日,你的丈夫仿佛不自知地,依命运之安排,将一物赐予你;它已入你心中,并长久停驻。

Verse 42

परित्यक्तं महाभागे पुनर्नास्तीह ते वसु । यावज्जीवति दौर्विध्यं तस्य भोक्ता न संशयः

尊贵的夫人,你所舍弃的财物在此世已不再属于你。只要那不肖的不幸之人尚活着,他必将享用它——毫无疑问。

Verse 43

गच्छ मातर्गृहं शून्यमलब्धं तत्प्रपृच्छतम् । श्रुत्वा तद्वै शिवं सा च वचनं पत्युरंतिके

“去你母亲家;若见其空寂,且在那里一无所得,便就此询问他。”她听闻那确为吉祥之语,便在夫君身旁开口说道。

Verse 44

गत्वा प्रोवाच दुर्वृत्तं तच्छ्रुत्वा विस्मयं गतः । स विचिंत्य तया सार्धमागतोसौ ममांतिकम्

他前去后禀告那恶行;闻之,他大为惊异。继而思量一番,便与她一同来到我面前。

Verse 45

निभृतं मामुवाचेदं क्षपणत्वं च कीर्तय । क्षपणक उवाच । चाक्षुषं चिरसंशुद्धं हेलया तृणवत्कथम्

他私下对我说:“也请述说成为‘kṣapaṇaka’之境。”那kṣapaṇaka说道:“那久已清净的Cākṣuṣa时代,怎能被轻蔑得如同草芥?”

Verse 46

त्वया त्यक्तं यतस्तात नास्ति भाग्यमकंटकम् । ऐश्वर्यमतुलं शौर्यं शीर्यते भावुकं पुनः

既然你已舍弃它,亲爱的啊,便无有不带荆棘(不含忧患)的福分。纵然无比的权势与勇武,也会在那情感过盛、轻率之人身上再度凋萎。

Verse 47

स्वबंधूनां महद्दुःखमाजन्ममरणांतिकम् । द्रक्ष्यसे चात्मना नित्यं मृतानां या गतिर्ध्रुवम्

你将目睹自己亲族的巨大悲苦,自出生延续至死亡的终极;并且你将恒常亲见亡者所归的确定不移之宿命。

Verse 48

तस्मात्तद्गृह्यतां तूर्णं भुंक्ष्व भोग्यमकंटकम् । ऐश्वर्यमतुलं शौर्यं लोकानां विस्मयं वरम्

因此,速速取之。享受那无碍之乐:无与伦比的王权与英勇,在诸世界眼中堪称至上奇观。

Verse 49

शूद्र उवाच । न मे वित्ते स्पृहा चास्ति धनं संसार वागुरा । तद्विधौ पतितो मर्त्यो न पुनर्मोक्षकं व्रजेत्

首陀罗说道:“我对财富并无贪求。财物乃轮回(saṃsāra)之罗网。凡人一旦坠入追逐之网,便不复得达通向解脱(mokṣa)之道。”

Verse 50

शृणु वित्तस्य यद्दोषमिहलोके परत्र च । भयं चोराच्च ज्ञातिभ्यो राजभ्यस्तत्करादपि

且听财富之过患:在此世与彼世皆然。它带来恐惧——惧盗贼,惧亲族,惧君王,乃至惧其差役。

Verse 51

सर्वे जिघांसवो मर्त्याः पशुमत्स्यविविष्किराः । तथा धनवतां नित्यं कथमर्थास्सुखावहाः

一切凡人皆为杀欲所驱——屠戮走兽、鱼类与飞鸟。如此,财富对于拥有它的人,怎能真正且恒常地带来安乐?

Verse 52

प्राणस्यांतकरो ह्यर्थस्साधको दुरितस्य च । कालादीनां प्रियं गेहं निदानं दुर्गतेः परम्

财富确实会断绝生命之息,也助长罪业;它是迦罗(时间)等所喜爱的居所,并且是导致悲惨命运的至上根因。

Verse 53

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे शूद्रस्यालोभाख्यानं नाम त्रिपंचाशत्तमोऽध्यायः

至此,在神圣的《莲华往世书》——第一部《创世品》(Sṛṣṭi-khaṇḍa)中——名为“首陀罗离贪之记”的第五十三章圆满结束。

Verse 54

धनेन तु विहीनस्य पुत्रदारोज्झितस्य च । कथं मित्रं कथं धर्मं दीनानां जन्मनः कथं

对于失却财富、又被儿子与妻子遗弃的人,怎会有朋友,怎会有达摩?对贫困者而言,连出生本身又有何用?

Verse 55

सत्वादिक्रतुकार्यं च पुष्करिण्युपकारकं । दानं नाकस्य सोपानं निःस्वस्य च न सिद्ध्यति

布施能扶持善性之业与诸般圣仪,也利益圣池与公共功德之作。施舍是通往天界的阶梯;然而对一无所有者,却难以成办。

Verse 56

व्रतकार्यस्य रक्षा च धर्मादिश्रवणं भृशम् । पितृयज्ञादितीर्थं च निर्वित्तस्य न सिद्ध्यति

对于无财之人,既难以守护誓戒之仪,也难以广闻达摩等教法,更难以成就如祭祖供献(pitṛ-yajña)与朝礼圣地(tīrtha)之类的圣行。

Verse 57

तथा रोगप्रतीकारः पथ्यमौषधसंचयं । रक्षणं विग्रहश्चैव शत्रूणां विजयो ध्रुवम्

同样,疾病可由适宜而良善的诸药汇集而得医治;亦有护持,乃至争战——由此对诸敌之胜利必定成就。

Verse 58

स्त्रीणां च जन्मना वार्ता वसुयोगेन लभ्यते । भूतभव्यप्रवृत्तानां सुकृतं दुष्कृतं च यत्

又,女子诸生之记述,由与诸婆苏(Vasus)相应而得;同样,也可知其行贯通过去与未来者之福业与罪业。

Verse 59

तस्माद्बहुधनं यस्य तस्य भोग्यं यदृच्छया । स्वर्गं वितरणादेव लप्स्यसे ह्यचिरादितः

是故,富有多财者,当仅受用随缘自至之物;唯以布施分施,你必不久便得生天。

Verse 60

शूद्र उवाच । अकामाच्च व्रतं सर्वमक्रोधात्तीर्थसेवनम् । दया जप्यसमा शुद्धं संतोषो धनमेव च

首陀罗曰:“一切誓戒,实由无欲而圆满;一切朝圣供奉,实由无嗔而成就。慈悲等同于持诵(japa);清净才是真正的‘洁净’;知足本身即是财富。”

Verse 61

अहिंसा परमा सिद्धिः शिलोंछवृत्तिरुत्तमा । शाकाहारः सुधातुल्य उपवासः परंतप

不害(ahiṃsā)为至上成就;以拾穗自给之“尸罗温阇”(śiloñcha)之行最为殊胜。蔬食如甘露,禁食——噬敌者啊——乃无上苦行。

Verse 62

संतोषो मे महाभोग्यं महादानं वराटकम् । मातृवत्परदाराश्च परद्रव्याणि लोष्ठवत्

知足是我至上的享乐;一枚小贝壳便是我最大的布施。他人之妻于我如母,他人之财于我如土块。

Verse 63

परदारा भुजंगाभाः सर्वयज्ञ इदं मम । तस्मादेनं न गृह्णामि सत्यं सत्यं गुणाकर

他人之妻于我如毒蛇;此乃我在一切祭仪中的誓愿。因此我不受她——真实,真实啊,德海之尊。

Verse 64

प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरं । इत्युक्ते तु नरश्रेष्ठ पुष्पवर्षं पपात ह

“确实,与其洗去泥污,不如远远避开,不去触碰。”此言既出,哦人中最胜者,便有花雨纷纷而落。

Verse 65

मूर्ध्रिदेशे तनौ तस्य सर्वदेवेरितं द्विज । देवदुंदुभयो नेदुर्नृत्यंत्यप्सरसां गणाः

婆罗门啊,在他头顶之处——受诸天神推动——天鼓轰鸣,众阿普萨拉斯成群起舞。

Verse 66

जगुर्गंधर्वपतयो विमानं चापतद्दिवः । ऊचुर्देवगणास्तत्र विमानमिदमारुह

乾闼婆之主歌唱不绝,一辆天界飞车自天而降。其处诸神齐声说道:“登上此天车(vimāna)。”

Verse 67

सत्यलोकं समासाद्य भुंक्ष्व भोग्यं महेंद्रवत् । संख्या तेनापि वर्तेत भोग्यकालस्य धार्मिक

抵达真谛天(Satyaloka)后,当如大因陀罗(Mahendra)般享受应享之乐。贤善者啊,即便是他,也会计算受乐之时日长短。

Verse 68

इत्युक्तेषु च देवेषु शूद्रो वचनमब्रवीत् । कथं निर्ग्रंथकस्यास्य ज्ञानं चेष्टास्य भाषणम्

诸神如此说罢,首陀罗便道:“此人既无经卷(或无所有),怎会有如此见识、如此行持、如此言辞?”

Verse 69

किं वा हरिहरौ ब्रह्मा किं वा शक्रो बृहस्पतिः । किं वा मच्छलनादेव साक्षाद्धर्म इहागतः

这是哈利与哈罗吗?还是梵天(Brahmā)?或是帝释(Śakra)与布里哈斯帕提(Bṛhaspati)?抑或因我受骗,正法(Dharma)亲自降临于此?

Verse 70

इत्युक्ते क्षपणश्चासौ स्मितो वचनमब्रवीत् । विज्ञातुं चैव वो धर्ममहं विष्णुरिहागतः

话音既落,那位苦行者含笑说道:“正是我——毗湿奴(Viṣṇu)——来到此处,为要明了你们的法(dharma)。”

Verse 71

विमानेन दिवं गच्छ सकुटुंबो महामुने । मत्प्रसादाच्च युष्माकं सदैव नवयौवनम्

大圣牟尼啊,与家眷同乘天界飞车(vimāna)升往诸天。承我恩佑,你们将恒常得享更新之青春。

Verse 72

भविष्यति महाप्राज्ञ भाग्यानंत्यं प्रलप्स्यथ । दिव्याभरणसंयुक्ता दिव्यवस्त्रोपशोभिताः

噢,大智者,来世之时你将宣说无量福德——佩戴天界宝饰,身披天衣而光辉灿然。

Verse 73

गतास्ते सहसा नाकं सर्वैर्बंधुजनैर्वृताः । एवं द्विजवरश्रेष्ठ लोभत्यागाद्ययुर्दिवम्

他们迅速升往天界,众亲族环绕随行。如此,噢诸婆罗门中最胜者,由舍弃贪欲而得至天上之境。

Verse 74

तुलाधारस्तथाधीमान्सत्यधर्म प्रतिष्ठितः । ये न जानाति तद्वृत्तं देशांतरसमुद्भवम्

图拉达拉睿智非常,安住于真实与正法;然而人们不知其行传,因为此事发端于异国他乡。

Verse 75

तुलाधारसमो नास्ति सुरलोके प्रतिष्ठितः । तस्मात्त्वमपि भूदेव समं गत्वा दिवं व्रज

在诸天之界,无人能与图拉达拉等同而安立。故汝亦然,噢可敬者,与之齐等之后,当往天界而行。

Verse 76

य इदं शृणुयान्मर्त्यः सर्वधर्मप्रतिष्ठितः । जन्मजन्मार्जितं पापं तत्क्षणात्तस्य नश्यति

凡有凡人聆听此教,安住于一切正法者——其生生世世所积之罪,于彼时彼刻即得消灭。

Verse 77

सकृत्पठनमात्रेण सर्वयज्ञफलं लभेत् । लोकानां पुरतो विप्र देवानामर्च्यतां व्रजेत्

仅仅诵读一次,便能获得一切祭祀(yajña)之果报。婆罗门啊,他得以进入诸世界之前,并达到在诸天(deva)之中受礼敬的境地。