
The Five Great Sacrifices: Supremacy of Honoring Parents, Pativrata Dharma, Truthfulness, and Śrāddha
毗湿摩请问普罗萨底:世间公认的最高功德为何。普罗萨底转述毗耶娑对诸婆罗门弟子所说的“五大祭”:敬奉并侍奉父母(妻子亦当敬事其夫)、守持平等心、不背弃朋友、以及专一归依并奉爱圣主哈利/毗湿奴。 本章强调,事亲之功胜过诸祭祀与朝圣。婆罗门那罗多摩因自负与“鹤之事件”而受警策,遂寻至牟迦——虽生为旃陀罗,却以至诚奉养父母而行如婆罗门。毗湿奴化身示现,引导其依次观摩诸范例:守贞顺夫之善妇舒婆、以真实与无偏著称的商人图罗陀罗、以及能制伏欲望并忍受诽谤的萨阇那陀罗哈迦。 随后又宣说祖先祭(Pitṛ-yajña)与施食追荐(śrāddha)、日月食时的功德、丧葬之责与赎罪法门。终归一旨:敬父母为通往哈利圣境的稳当正道。
Verse 1
भीष्म उवाच । यत्पुण्यमधिकं लोके सर्वदा सर्वसंमतम् । तद्वदस्वेच्छया विप्र यत्कृतं पूर्वपूर्वकैः
毗湿摩说道:婆罗门啊,请随意开示:在世间何种功德最为殊胜,恒常且为众人所共许;又是哪一种为最古老的先祖所奉行。
Verse 2
पुलस्त्य उवाच । एकदा तु द्विजाः सर्वे व्यासशिष्यास्सहादरात् । व्यासं प्रणम्य पप्रच्छु धर्मं मां च यथा भवान्
普罗萨提耶说道:曾有一次,诸位二次生者——毗耶娑的弟子们——恭敬礼拜毗耶娑,询问他关于达摩以及关于我之事,正如你如今所问。
Verse 3
द्विजा ऊचुः । पुण्यात्पुण्यतमं लोके सर्वधर्मेषु चोत्तमम् । किं कृत्वा मानवा स्वर्गं भुंजते चाक्षयं वद
二次生者们说道:“在世间一切功德之中、在诸法之中,何者最为上胜?人们行何事而得享天界,福报无尽?请为我等宣说。”
Verse 4
लभ्यं चाकष्टकं शुद्धं वर्णानां मर्त्यवासिनाम् । गुरूणां च लघूनां च साध्यमेकं क्रतुं वद
请宣说一种清净之仪:于人间诸姓诸类皆可得、无须艰苦;无论尊贵卑微,皆能成就而行。
Verse 5
यद्यत्कृत्वा च देवानां पूज्यो नाके भवेन्नरः । तत्तद्वद च नो ब्रह्मन्प्रसादी भव धर्मतः
婆罗门啊,请告诉我们:人当行何等事业,方能在天界为诸天所礼敬。愿你慈悲垂允,依达摩而说。
Verse 6
व्यास उवाच । पंचाख्यानं वदिष्यामि शृणुध्वं तत्र पूर्वतः । पंचानामेककं कृत्वा विंदेन्मोक्षं दिवं यशः
毗耶娑说:“我将宣说五重的圣传,请先专心聆听。若能将五者归一(于行持中融会其义),便得解脱、天界与声名。”
Verse 7
पित्रोरर्चाऽथ पत्युश्च साम्यं सर्वजनेषु च । मित्राद्रोहो विष्णुभक्तिरेते पंच महामखाः
敬奉父母与夫君;对一切众生平等无偏;不背弃朋友;并以虔诚归依毗湿奴——此即五大祭(mahāyajña)。
Verse 8
प्राक्पित्रोरर्चया विप्रा यद्धर्मं साधयेन्नरः । न तत्क्रतुशतैरेव तीर्थयात्रादिभिर्भुवि
婆罗门啊,人若先敬拜父母而成就的功德(dharma),在世间纵使行百种祭祀,或作朝圣等诸行,也不能获得同等之果。
Verse 9
पिता धर्मः पिता स्वर्गः पिता हि परमं तपः । पितरि प्रीतिमापन्ने प्रीयंते सर्वदेवताः
父即是法;父即是天;父实为至上的苦行(tapas)。父亲欢喜,则诸天神皆欢喜。
Verse 10
पितरो यस्य तृप्यंति सेवया च गुणेन च । तस्य भागीरथी स्नानमहन्यहनि वर्तते
若有人以恭敬侍奉与善德行持使祖先满足,则对他而言,在婆伽罗提河(恒河)沐浴之功,宛如日日成就。
Verse 11
सर्वतीर्थमयी माता सर्वदेवमयः पिता । मातरं पितरं चैव यस्तु कुर्यात्प्रदक्षिणम्
母亲具足一切圣地(tīrtha),父亲具足一切诸神。凡绕行(pradakṣiṇā)礼敬父母者,实即如同绕行一切圣地与神明,真诚尊奉父母。
Verse 12
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा । जानुनी च करौ यस्य पित्रोः प्रणमतः शिरः
由他而言,大地连同七大洲,仿佛已被绕行一周;因为他向父母顶礼时,双膝与双手触地,头亦俯伏于恭敬之中。
Verse 13
निपतंति पृथिव्यां च सोक्षयं लभते दिवं । तयोश्चरणयोर्यावद्रजश्चिह्नानि मस्तके
俯伏于地而礼敬者,得至不坏的天界;只要那双足(父母之足)的尘迹印痕仍留在其头顶之上。
Verse 14
प्रतीके च विलग्नानि तावत्पूतः सुतस्तयोः । पादारविंदसलिलं यः पित्रोः पिबते सुतः
只要他恒常依止为父母所行之仪轨与奉事,那父母之子便得清净;尤其是那饮受父母莲足净水之子。
Verse 15
तस्य पापक्षयं याति जन्मकोटिशतार्जितं । धन्योसौ मानवो लोके पूतोसौ सर्वकल्मषात्
对他而言,百千万亿生所积之罪业皆趋灭尽。此人在世间实为有福,已从一切垢染中得以清净。
Verse 16
विनायकत्वमाप्नोति जन्मनैकेन मानवः । पितरौ लंघयेद्यस्तु वचोभिः पुरुषाधमः
若有人以言语越礼、冒犯父母,身为人中下劣者,则仅此一生便成“毗那夜迦”(Vināyaka,造障者)。
Verse 17
निरये च वसेत्तावद्यावदाभूतसंप्लवं । पित्रोरनर्चनं कृत्वा भुंक्ते यस्तु सुताधमः
那卑劣之子若未先礼敬供奉父母便进食,必住于地狱,直至众生大劫坏灭、宇宙溶解之时。
Verse 18
क्रिमिकूपेथ नरके कल्पांतमुपतिष्ठति । रोगिणं चापि वृद्धं च पितरं वृत्तिकर्शितम्
随后,他堕入名为“克里米库帕”(Krimikūpa)的地狱,直至一劫终尽——凡使父亲受苦者,不论其病弱或年迈,且因生计匮乏而形容枯槁。
Verse 19
विकलं नेत्रकर्णाभ्यां त्यक्त्वा गच्छेच्च रौरवम् । अंत्यजातिषु म्लेच्छेषु चांडालेष्वपि जायते
若弃舍那眼盲耳聋的残疾者,必堕入名为“劳罗婆”(Raurava)的地狱;并将再生于最下贱之类,生于蛮族(mleccha)、贱民,乃至旃陀罗(Caṇḍāla)之中。
Verse 20
पित्रोरपोषणं कृत्वा सर्वपुण्यक्षयो भवेत् । नाराध्य पितरौ पुत्रस्तीर्थदेवान्भजन्नपि
若不奉养父母,使其失于照护与资助,则一切所积福德尽皆毁灭。纵使为人子者礼拜诸圣地(tīrtha)与诸天神,若不敬奉父母,亦不得真实功德。
Verse 21
तयोर्न फलमाप्नोति कीटवद्रमते महीम् । कथयामि पुरावृत्तं विप्राः शृणुत यत्नतः
在这两者之中,有一人不得其果;如虫一般,只贪恋尘土。我将讲述一段古老的往事——诸婆罗门啊,请用心聆听。
Verse 22
यं श्रुत्वा न पुनर्मोहं प्रयास्यथ पुनर्भुवि । पुरासीच्च द्विजः कश्चिन्नरोत्तम इति स्मृतः
听闻此事,你们在此世将不再陷入迷妄。很久以前,有一位婆罗门,名号传为“那罗多摩”。
Verse 23
स्वपितरावनादृत्य गतोसौ तीर्थसेवया । ततः सर्वाणि तीर्थानि गच्छतो ब्राह्मणस्य च
他不顾自己的父母,离家去奉行朝礼诸圣渡口(tīrtha)。此后,那位婆罗门遍行诸 tīrtha,继续他的巡礼。
Verse 24
आकाशे स्नानचेलानि प्रशुष्यंति दिने दिने । अहंकारोऽविशत्तस्य मानसे ब्राह्मणस्य च
日复一日,他的沐浴之衣在空中风干;而傲慢也侵入了那位婆罗门的心中。
Verse 25
मत्समो नास्ति वै कश्चित्पुण्यकर्मा महायशाः । इत्युक्ते चानने तस्य अहदच्च बकस्तदा
“确实无人能与我相比——我行诸功德,名声显赫。”他话音方落,那鹤便啄击他的面庞。
Verse 26
क्रोधाच्चैवेरितस्तस्य स शशाप द्विजो बकम् । पपात च बकः पृथ्व्यां स भस्मीभूतविग्रहः
那位婆罗门因嗔怒所驱,诅咒了鹤。鹤坠落大地,形体化为灰烬。
Verse 27
भीर्द्विजेंद्रं महामोहः प्राविशच्चांतकर्मणि । ततः पापाच्च विप्रस्य चेलं खं च न गच्छति
随后因恐惧,巨大的迷妄侵入这位最尊贵的婆罗门,正当行终末仪轨之时。由于那罪业,他的衣布未能升入虚空。
Verse 28
विषादमगमत्सद्यस्ततः खं तमुवाच ह । गच्छ बाडव चांडालं मूकं परमधार्मिकम्
他立刻陷入沮丧。于是“虚空神”迦对他说:“去见跋陀婆旃陀罗——虽哑,却至为正法。”
Verse 29
तत्र धर्मं च जानीषे क्षेमं ते तद्वचो भवेत् । खाच्च तद्वचनं श्रुत्वा गतोसौ मूकमंदिरम्
在那里你将知晓正法,那番教诲必为你带来安泰。Khā听罢此言,便前往牟迦之庙。
Verse 30
शुश्रूषंतं च पितरौ सर्वारंभान्ददर्श सः । ददतं शीतकाले च सम्यगुष्णं जलं तयोः
他看见那人以恭敬之心事奉双亲,凡事亲力亲为;在寒冷时节,又为他们奉上温热适宜之水。
Verse 31
तैलतापनतांबूलं तथा तूलवतीं पटीम् । नित्याशनं च मिष्टान्नं दुग्धखंडं तथैव च
亦当供奉以油与温热香辛调制之槟榔,棉絮充填之布衣(或覆帛),每日饮食,甘美甜食,以及同样的乳酪凝乳之甜品。
Verse 32
दापयंतं वसंते च मधुमालां सुगंधिकां । अन्यानि यानि भोग्यानि कृत्यानि विविधानि च
又于春时,令他人奉献芬芳的蜜花花鬘;并随其所宜,供上其他一切可悦之供品,以及应行的种种仪式之业。
Verse 33
उष्णे चावीजयत्सोपि नित्यं च पितरावपि । ततस्तयोः प्रचर्यां च कृत्वा भुंक्तेथ सर्वदा
即便炎热之时,他亦常常为他们扇风;并且每日侍奉其父母。随后,既尽其奉事之礼,便恒常进食。
Verse 34
श्रमस्य वारणं कुर्यात्संतापस्य तथैव च । एभिः पुण्यैः स्थितो विष्णुस्तस्य गेहोदरे चिरम्
当遮止疲劳,亦当消除忧苦;由此诸般功德,毗湿奴得以久住于其家宅之中,安然建立。
Verse 35
अंतरिक्षे च क्रीडंतमाधारस्तंभवर्जिते । तस्यापि भवने नित्यं स्थितं त्रिभुवनेश्वरं
又见三界之主恒住于其自性之宫殿,在虚空中嬉游;彼之境界无有任何支柱可依。
Verse 36
विप्ररूपधरं कांतं नान्यैर्भूतं च सत्परम् । तेजोमयं महासत्वं शोभयंतं च मंदिरं
他化现为婆罗门之形,光辉俊美,迥异于诸有情,德行至上;由纯净光明所成,具大灵力,照耀并庄严了圣殿。
Verse 37
दृष्ट्वा विस्मयमापन्नो विप्रः प्रोवाच मूककम् । विप्र उवाच । आसन्नं च ममागच्छ त्वयैवेच्छामि शाश्वतं
婆罗门见此,惊异充满,便对那哑者开口。婆罗门曰:“近前来;我唯愿你一人,直到永恒。”
Verse 38
हितं मे सर्वलोकानां तत्वतो वक्तुमर्हसि । मूक उवाच । पित्रोरर्चां करोम्यद्य कथमायामि तेंतिकं
“你当如实告诉我,何者对一切世界有益。”牟迦答曰:“今日我正行父母之祭祀供养;如此我怎能近你身旁?”
Verse 39
अर्चयित्वा तु पितरौ कृत्यं ते करवाणि वै । तिष्ठ मे द्वारदेशे च आतिथ्यं ते करोम्यहम्
待我礼敬供养双亲之后,必定为你尽当尽之事。请暂立于我门前,我将以礼相待,奉上款待。
Verse 40
इत्युक्ते चैव चांडाले चुकोप ब्राह्मणस्तदा । ब्राह्मणं मां परित्यज्य किं कार्यमधिकं तव
旃陀罗如此说罢,婆罗门便勃然大怒:“舍我这婆罗门而去,你还有什么更大的事要做?”
Verse 41
मूक उवाच । किं कुप्यसि वृथा विप्र न बकोहं तवाधुना । कोपस्सिद्ध्यति ते तावद्बकेनान्यत्र किंचन
哑者说道:“婆罗门啊,你为何徒然发怒?如今我已非你所见之鹤。你的嗔怒终不得成;若要发作,且移向他处。”
Verse 42
गगने स्नानशाटी ते न शुष्यति न तिष्ठति । वचनं खात्ततः श्रुत्वा मद्गृहं चागतो भवान्
在空中,你的沐浴之布既不干,也不安稳停住。听了那鸟所说的话,你便来到我家。
Verse 43
तिष्ठ तिष्ठ वदिष्यामि नोचेद्गच्छ पतिव्रतां । तां च दृष्ट्वा द्विजश्रेष्ठ दयितं ते फलिष्यति
“且住,且住——我将告知于你;不然,就去那位贞顺守誓的妻子(pativrata)处。见到她后,婆罗门中最胜者啊,你所珍爱的愿望必得圆满。”
Verse 44
ततस्तस्यगृहाद्विष्णुर्द्विजरूपधरो विभुः । विनिस्सृत्य द्विजं प्राह गेहं तस्याः प्रयाम्यहं
于是,具大神力的毗湿奴(Viṣṇu)化作婆罗门之形,从那人的家中出来,对那婆罗门说道:“我将前往她的家。”
Verse 45
स विमृश्य द्विजश्रेष्ठस्तेन सार्धं चचाल ह । गच्छंतं तमुवाचेदं हरिं विप्रेति विस्मितः
那位最胜的二次生者沉思片刻,便与他同行出发。哈利(Hari)将要离去时,惊讶的婆罗门如此对他说道:
Verse 46
किर्थं च त्वया विप्र चांडालस्य गृहोदरे । सदा संस्थीयते तात योषाजनवृते मुदा
为何你这位婆罗门啊,尊者,你总是住在旃陀罗的屋内,欢喜地被家中妇女围绕?
Verse 47
हरिरुवाच । इदानीं मानसं शुद्धं न भूतं भवतो ध्रुवम् । पतिव्रतादिकं दृष्ट्वा पश्चाज्ज्ञास्यसि मां किल
诃利说道:“你的心识确实尚未清净。待你见证贞顺妻(pativratā)的行持与诸般德行之后,你必将于后真正认识我。”
Verse 48
विप्र उवाच । पतिव्रता च का तात किं वा तस्याश्श्रुतं महत् । येनाहं तत्र गच्छामि कारणं वद मे द्विज
婆罗门说道:“亲爱的,那位贞顺妻(pativratā)是谁?你又听闻了她怎样伟大的事迹?请告诉我,二次生者啊,我应前往那里的缘由。”
Verse 49
हरिरुवाच । नदीनां जाह्नवी श्रेष्ठा प्रमदानां पतिव्रता । मनुष्याणां प्रजापालो देवानां च जनार्दनः
诃利说道:“诸河之中,阇诃那毗(恒河)最胜;诸女之中,贞顺妻(pativratā)为首;人间之中,护民之君最尊;诸天之中,阇那尔达那(毗湿奴)至上。”
Verse 50
पतिव्रता च या नारि पत्युर्नित्यं हिते रता । कुलद्वयस्य पुरुषानुद्धरेत्सा शतं शतं
那位贞顺妻(pativratā)若恒常致力于丈夫之福祉,便能拔济两族之男子——百人又百人。
Verse 51
स्वर्गं भुनक्ति तावच्च यावदाभूतसंप्लवं । स्वर्गाद्भ्रष्टो भवेद्वास्याः सार्वभौमो नृपः पतिः
他享受天界之乐,直至宇宙大劫的溶灭。自天界堕落之后,他在世间成为普世的君王——为王,亦为夫。
Verse 52
अस्यैव महिषी भूत्वा सुखं विंदेदनंतरं । पुनः पुनः स्वर्गराज्यं तस्य तस्या न संशयः
成为这位君王的王后,她此后将得无间的安乐;并且一次又一次获得天界的王权——对此毫无疑问。
Verse 53
एवं जन्मशतं प्राप्य अंते मोक्षो भवेद्ध्रुवम् । विप्र उवाच । पतिव्रता भवेत्कावा तस्याः किं वा च लक्षणं
如此经历百次生世,最终必定获得解脱(mokṣa)。婆罗门说道:“究竟何者名为贞顺夫道者(pativratā)?她有何等相状?”
Verse 54
ब्रूहि मे द्विजशार्दूल यथा जानामि तत्त्वतः । हरिरुवाच । पुत्राच्छतगुणं स्नेहाद्राजानं च भयादथ
请告诉我,婆罗门中之雄狮,使我如实知晓真理。哈利(Hari)说道:对君王的情感,比对儿子的爱恋强百倍——然而那是由畏惧而生。
Verse 55
आराधयेत्पतिं शौरिं या पश्येत्सा पतिव्रता । कार्ये दासी रतौ वेश्या भोजने जननीसमा
凡敬奉其夫如同绍利(Śauri,即毗湿奴 Viṣṇu),并以此心观夫者,方是真正的贞顺夫道者(pativratā)。在事务上如侍女,在恩爱中如歌伎,在饮食照料上如慈母。
Verse 56
विपत्सु मंत्रिणी भर्तुः सा च भार्या पतिव्रता । भर्तुराज्ञां न लंघेद्या मनो वाक्कायकर्मभिः
在灾厄之时,她应作丈夫的谋辅;作为守夫之贞的贤妻(pativratā),不可违越夫命——于心、于言、于身行皆然。
Verse 57
भुक्ते पत्यौ सदा चात्ति सा च भार्या पतिव्रता । यस्यां यस्यांतु शय्यायां पतिः स्वपिति यत्नतः
丈夫用膳之后,她方才进食;如此之妻恒为守夫之贞的pativratā。丈夫谨慎择定何处为榻而眠,她亦在同一床榻安睡。
Verse 58
तत्र तत्र च साभर्तुरर्चां करोति नित्यशः । नैव मत्सरमायाति न कार्पण्यं न मानिनी
无论身在何处,她日日为夫而行礼敬供养。她不生嫉妒,不起吝啬卑狭之心,亦不自矜自傲。
Verse 59
मानेऽमाने समानं च या पश्येत्सा पतिव्रता । सुवेषं या नरं दृष्ट्वा भ्रातरं पितरं सुतं
视荣与辱为一者,方为真正的守夫之贞(pativratā);又见衣饰华美之男子,亦但作兄、作父、作子而观。
Verse 60
मन्यते च परं साध्वी सा च भार्या पतिव्रता । तां गच्छ द्विजशार्दूल वदकामं यथा तव
她被称为至善至贞之贤德者,亦是专心奉夫的妻。去见她吧,婆罗门中之虎啊;随你所愿,尽可言说。
Verse 61
तस्य पत्न्योऽष्ट तिष्ठंति तन्मध्ये वरवर्णिनी । रूपयौवनसंपन्ना दयायुक्ता यशस्विनी
他有八位妻子。其中有一位女子尤为殊妙:具足美貌与青春,心怀慈悲,名声远扬。
Verse 62
शुभा नामेति विख्याता गत्वा तां पृच्छ ते हितं । एवमुक्त्वा तु भगवांस्तत्रैवांतरधीयत
“她以‘Śubhā(吉祥者)’之名闻名。你去问她,何者对你有益。”说罢,世尊便在原地隐没不见。
Verse 63
तस्यैवादृश्यतां दृष्ट्वा विस्मितोभूद्द्विजस्तदा । स च साध्वीगृहं गत्वा पप्रच्छाथ पतिव्रतां
见他忽然隐形不现,那婆罗门大为惊异。随后他前往贞洁妇人的家中,询问那位守夫誓的贤妻。
Verse 64
अतिथेर्वचनंश्रुत्वागृहान्निःसृत्यसंभ्रमात् । दृष्ट्वा द्विजं सती तत्र द्वारदेशे स्थिताभवत्
听到来客之言,她慌忙从屋内奔出,心中惶然;见婆罗门立于其处,贤德的女子便站在门口。
Verse 65
तां च दृष्ट्वा द्विजश्रेष्ठ उवाच वचनं मुदा । प्रियं ममहितं ब्रूहि यथादृष्टं त्वमेव हि
见到她,那最尊贵的二次生者欢喜而言:“请如你所见,告诉我何者为我所爱、何者于我有益;唯有你亲眼见证。”
Verse 66
पतिव्रतोवाच । सांप्रतं पत्युरर्चास्ति न चास्माकं स्वतंत्रता । पश्चात्कार्यं करिष्यामि गृहाणातिथ्यमद्य वै
贞顺的妻子说道:“此刻我夫君正行礼拜供奉,我也无权自作主张。待事后我自当办理所需;今日还请受我款待。”
Verse 67
विप्र उवाच । मम देहे क्षुधा नास्ति पिपासाद्य न च श्रमः । अभीष्टं वद कल्याणि नोचेच्छापं ददामि ते
婆罗门说道:“我身中无饥、无渴、亦无劳乏。吉祥的夫人啊,说出你所愿;否则我将降下诅咒于你。”
Verse 68
तमुवाच तदा सापि न बकोहं द्विजोत्तम । गच्छ धर्मतुलाधारं पृच्छ तं ते हितं द्विज
她也对他说:“二生中最胜者啊,我并非鹤鸟。你去见法秤持者Dharmatūlādhāra,向他请问;婆罗门啊,他会告知于你何者为利。”
Verse 69
इत्युक्त्वा सा महाभागा प्रययौ च गृहोदरम् । तत्रापश्यद्द्विजो विप्रं यथा चांडालवेश्मनि
她如此说罢,便入了屋内深处。那位二生者在那里看见一位婆罗门,仿佛身处旃陀罗之居所。
Verse 70
विमृश्य विस्मयापन्नस्तेन सार्धं ययौ द्विजः । तिष्ठंतं च द्विजं तं च सोपश्यद्धृष्टमानसम्
他思量之后,心生惊异,便与他同行。随即他看见那位婆罗门立于其处,心神笃定,无所畏惧。
Verse 71
स चोवाच मुदा विप्रं दृष्ट्वा तं तां सतीं च सः । देशांतरे च यद्वृत्तं तया च कथितं किल
他见到那位婆罗门与那位贞善的女子,心生欢喜而开口;并且也叙述了他乡所发生之事,正如她确曾告诉他的那样。
Verse 72
कथं जानाति मद्वृत्तं चांडालोपि पतिव्रता । अतो मे विस्मयस्तात किमाश्चर्यं परं महत्
那位旃陀罗女子——虽为夫贞顺——怎能知晓我隐秘的行止?因此,亲爱的,我深感惊异;还有什么奇事能大过此事呢?
Verse 73
हरिउवाच । ज्ञायते कारणं तात सर्वेषां भूतभावनैः । अतिपुण्यात्सदाचाराद्यतस्त्वं विस्मयं गतः
诃利说道:“亲爱的,此因由一切护持众生者皆能明了。正因你大福德与正行,才会生起这般惊叹。”
Verse 74
किमुक्तश्च तया त्वं च वद तत्सांप्रतं मुने । विप्र उवाच । प्रष्टुं धर्मतुलाधारं सा च मां समुपादिशत्
“如今,圣者啊,请说:她说了什么,你又如何作答?”婆罗门答道:“她指示我前去询问那位支撑‘法之天平’的人。”
Verse 75
हरिरुवाच । आगच्छ मुनिशार्दूल अहं गच्छामि तं प्रति । गच्छंतं च हरिं प्राह तुलाधारः क्व तिष्ठति
诃利说道:“来吧,诸牟尼之虎,我要往他那里去。”当诃利将要启程时,图拉达拉对他说:“你要在哪里停驻、在哪里安住?”
Verse 76
हरिरुवाच । जनानां निकरो यत्र बहुद्रव्यसुविक्रये । विक्रीणाति च क्रीणाति तुलाधारस्ततस्ततः
诃利说道:“在那处地方,人群为买卖种种货物而聚集——在那里人们卖也买,秤与砝码在此处彼处设立……”
Verse 77
जनो यवान्रसं स्नेहं कूटमन्नस्य संचयं । सर्वं तस्य मुखादेव गृह्णाति च ददात्यपि
人唯凭其口而受取、亦凭其口而施与一切:大麦、诸味、脂膏(酥油或油),乃至所积藏的粮食。
Verse 78
सत्यं त्यक्त्वानृतं किंचित्प्राणांते समुपस्थिते । नोक्तं नरवरश्रेष्ठस्तेनधर्मतुलाधरः
即便死神临近,至善之人亦不舍真言,不肯吐出丝毫虚妄;因此他被称为执持法(Dharma)之衡者,守护正道之人。
Verse 79
इत्युक्ते तु तमद्राक्षीद्विक्रीणंतं रसान्बहून् । मलपंकधरं मर्त्यं दंतकुड्मलपंकिलम्
话音既落,他便看见那凡人正在贩卖多种汁液饮品;其身沾满污秽泥浆,牙齿与齿龈亦被垢染。
Verse 80
तत्र वस्तुधनोत्थां च भाषंतं विविधां गिरम् । वृतं बहुविधैर्मर्त्यैः स्त्रीभिः पुंभिश्च सर्वतः
在那里,他说着种种言辞,皆由货物与财利而起;四面又被各类凡人围绕,或女或男。
Verse 81
कथं कथमिति प्राह स तं मधुरया गिरा । धर्मस्य मे समुद्देशं वद प्राप्तोंऽतिकं हि ते
他一再说道:“如何?如何?”,以柔和甜美之声对他说:“请为我宣说达摩的纲要;我确已亲近于你。”
Verse 82
तुलाधार उवाच । यावज्जनाः प्रतिष्ठंति ममैव सन्निधौ द्विज । तावन्मे स्वस्थता नास्ति यावच्च रात्रियामकः
图拉达拉说:“噢,二次生者啊,只要众人仍在我面前停留,我便不得安宁与康泰——甚至连一更之夜也不能。”
Verse 83
तच्चोपदेशमादाय गच्छ धर्माकरं प्रति । बकस्य मरणे दोषं खे च वस्त्राविशोषणम्
领受那番教诲后,前往达摩迦罗处。(在那里你将知晓)因鹤之死所招致的过失,以及(关于)在露天之下晾晒衣物的规矩。
Verse 84
सर्वं तत्र च जानीषे सज्जनाद्रोहकं व्रज । तत्र तस्योपदेशेन तव कामः फलिष्यति
你将在那里知晓一切。前往善人不害者(Sajjanādrohaka)处;在那里,凭他的教导,你的愿望必将结果。
Verse 85
इत्युक्त्वा तुलाधारः करोति क्रयविक्रयौ । तथा तात गमिष्यामि सज्जनाद्रोहकं प्रति
说罢,图拉达拉便照常行其买卖。随后他说:“亲爱的孩子,我将前往善人不害者(Sajjanādrohaka)处。”
Verse 86
तुलाधारसमुद्देशान्न जानामि तदालयम् । हरिरुवाच । एह्यागच्छ गमिष्यामि त्वया सार्द्धं च तद्गृहम्
“我不知图拉达拉所在之处,也不知其居所。”诃利说道:“来吧——我们出发;我将与你同往他的家。”
Verse 87
अथ वर्त्मनि गच्छंतमुवाच ब्राह्मणो हरिं । विप्र उवाच । तुलाधारे च न स्नानं न देवपितृतर्पणम्
当诃利沿路前行时,一位婆罗门对他说道。婆罗门说:“在图拉达拉那里,既无沐浴之礼,也无向诸天与祖灵(pitṛ)奉献塔尔帕那(tarpaṇa)之供。”
Verse 88
मलदिग्धं च गात्रं तु सर्वं चेलमलक्षणम् । कथं जानाति मद्वृत्तं देशांतरसमुद्भवम्
我的身体沾满污秽,衣服也尽是尘垢之痕;又有谁能知晓我的经历——那是从遥远之地而起的呢?
Verse 89
अतो मे विस्मयस्तात सर्वं त्वं वद कारणम् । हरिरुवाच । सत्येन समभावेन जितं तेन जगत्त्रयम्
“因此,亲爱的,我深感惊异。请把一切缘由都告诉我。”诃利答道:“以真实不妄与平等之心,他征服了三界。”
Verse 90
तेनातृप्यंत पितरो देवा मुनिगणैः सह । भूतभव्य प्रवृत्तं च तेन जानाति धार्मिकः
由此,祖灵(Pitṛ)得以满足,诸天亦与众仙圣同受欢喜;并且由此,正法之人得知已往、将来,以及当下正在展开之事。
Verse 91
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् । विशेषे समभावस्य पुरुषस्यानघस्य च
没有比真实更高的法(dharma),也没有比虚妄更大的罪——尤其对那无垢之人,能以平等心对待一切者。
Verse 92
अरौ मित्रेप्युदासीने मनो यस्य समं व्रजेत् । सर्वपापक्षयस्तस्य विष्णुसायुज्यतां व्रजेत्
若其心对敌人、朋友与中立者皆一味平等,则其一切罪业尽灭,并得至毗湿奴(Viṣṇu)之“同一”(sāyujya)境。
Verse 93
एवं यो वर्तते नित्यं कुलकोटिं समुद्धरेत् । सत्यं दमः शमश्चैव धैर्यं स्थैर्यमलोभता
若有人日日如是而行,便能超拔其族中千万之众。真实、克制、寂静(心安)、坚忍、安住与无贪——皆为当修之德。
Verse 94
अनाश्चर्यमनालस्यं तस्मिन्सर्वं प्रतिष्ठितम् । तेन वै देवलोकस्य नरलोकस्य सर्वशः
在那境界中既无惊异亦无懈怠;万有皆依此而立。凭此,诸天(deva)之界与人间之界在一切方面得以维系。
Verse 95
वृत्तं जानाति धर्मज्ञस्तस्यदेहे स्थितो हरिः । लोके तस्य समो नास्ति समः सत्यार्जवेषु च
通达法义者了知正行;在其自身之躯中,哈利(Hari)安住。世间无人可与之比肩——尤以真实与正直为然。
Verse 96
स च धर्ममयः साक्षात्तेनैव धारितं जगत् । द्विज उवाच । ज्ञातं मे त्वत्प्रसादाच्च तुलाधारस्य कारणम्
而他确是真正的法(Dharma)之化身;唯由他,世界得以支撑。婆罗门说道:“蒙你恩德,我已明了秤持者图拉达拉(Tulādhāra)之缘由与真实因由。”
Verse 97
अद्रोहकस्य यद्वृत्तं तद्ब्रूहि त्वं यदीच्छसि । हरिरुवाच । पुरैव राजपुत्रस्य कुलस्त्रीनवयौवना
“若你愿意,请说说阿德罗哈卡(Adrohaka)的经历,他那一案究竟如何。”哈利(Hari)说道:“从前,在一位王子之家,有一位高贵的女子,方才步入青春……”
Verse 98
पत्नीव कामदेवस्य शचीव वासवस्य च । तस्य प्राणसमा भार्या सुन्दरी नाम सुन्दरी
她如爱神迦摩天(Kāma-deva)之妻,又如天帝婆娑婆(Vāsava,因陀罗)之妃舍脂(Śacī);与他性命等同的妻子名为孙达丽(Sundarī),诚然“美丽者”。
Verse 99
अकस्मात्पार्थिवस्यैव कार्ये गन्तुं समुद्यतः । मनसालोचितं तेन प्राणेभ्योपि गरीयसीम्
忽然间,他起身欲奉王命而行;因为他心中已作决断,有一事在他看来甚至重于性命。
Verse 100
कस्मिन्स्थाने स्थापयामि यतो रक्षा भवेद्ध्रुवम् । इत्यालोच्यैव सहसा त्वागतोस्य गृहं प्रति
“我应将它安置在何处,方能确得护佑?”——如此思量,他立刻匆匆赶向此人的家。
Verse 101
उक्तं च तादृशं वाक्यं श्रुत्वा स विस्मयंगतः । न तातस्ते न च भ्राता न चाहं तव बान्धवः
听到这样的话,他惊讶不已:“我既不是你的父亲,也不是你的兄弟,更不是你的亲族。”
Verse 102
पितृमातृकुलस्यैव तस्या न हि सुहृज्जनः । कथं च मद्गृहे तात स्थित्या स्वस्थो भविष्यसि
在她父族与母族之中,确无一位友善的护持者。那么,亲爱的孩子,你住在我家,怎能安然自在、得以平安?
Verse 103
एतस्मिन्नन्तरे तेन चोक्तं वाक्यं यथोचितम् । लोके त्वत्सदृशो नास्ति धर्मज्ञो विजितेन्द्रियः
其间,他说出合乎礼法的言辞:“世间无人如你——通达法(dharma),并已降伏诸根。”
Verse 104
स चाह तं च सर्वज्ञं वक्तुं नार्हसि दूषणम् । त्रैलोक्यमोहिनीं भार्यां कः पुमान्रक्षितुं क्षमः
他又说:“你不应责难那位全知者。因为世间哪一个男子能守护一位足以迷惑三界的妻子呢?”
Verse 105
राजपुत्र उवाच । धरण्यां परिविज्ञाय त्वागतोहं तवान्तिकम् । एषा तिष्ठतु तेऽगारे व्रजामि निजमन्दिरम्
王子说道:“我遍寻大地而来至你面前。让她留在你家中;我将回到自己的宫殿。”
Verse 106
इत्युक्ते स पुनः प्राह नगरेऽस्मिन्प्रशोभने । बहुकामुक संपूर्णे कथं रक्षा भवेत्स्त्रियाः
此言既出,他又说道:“在这座华美的城中,充满许多纵欲之人,女子的护持当如何得以成就?”
Verse 107
स चोवाच पुनस्तं च कुरु रक्षां व्रजाम्यहम् । गृहस्थस्सङ्कटादाह धर्मस्य राजपुत्रकम्
他又对他说:“你当设下护卫;我将离去。”那居家之人于危难中,对那位王子——法之子——诉说道。
Verse 108
करोम्यनुचितं कार्यं स्वदास्यमुचितं हितम् । सदा चैवेदृशी भार्या स्थातव्या मद्गृहे पितः
我行不当之事,却弃置应行且有益之事——我本分的侍奉。故而,父亲啊,如此的妻子应当常住我家。
Verse 109
अरक्षारक्षणे देव वदाभीष्टं कुरु प्रियम् । मम तल्पे मया सार्धं शयानं भार्यया सह
噢天神,在护与不护之事上,请说出所欲之意,行那可喜之事。(我见)他与我同卧我床,并与其妻同在。
Verse 110
मन्यसे दैवतं स्वं चेत्तिष्ठेन्नोचेत्तु गच्छतु । क्षणं विमृश्य तं प्राह राजपुत्रः पुनस्तदा
“若你以自己所奉之神为至上,便留下;若不然,就离去。”王子稍作思量,便于彼时又对他说道。
Verse 111
बाढमेतद्वचस्तात यथाभीष्टं तथा कुरु । ततो भार्यां जगादाथ अस्य वाक्याच्छिवाशिवम्
“就这样吧,亲爱的——照你所愿去做。”随后,他应其言而对妻子开口,所说之语既有吉祥亦有不祥之兆。
Verse 112
कर्तव्यं च न ते दोष आज्ञया मम सुंदरि । एतदुक्त्वा गतः सोपि भूपतेः शासनात्पितुः
“此事当行,你不会因此受过,我的美人,因为这是奉我之命。”说罢,他也离去,遵从其父王的诏令。
Verse 113
अनंतरं क्षपायां च यदुक्तं च तथाकृतम् । योषितोर्मध्यगः सोपि नित्यं स्वपिति धार्मिकः
其后,夜间亦然,所言皆如其行;而那位正直之人,卧于两女之间,仍常常沉睡。
Verse 114
धर्मान्न चलते सोपि स्वभार्यापरभार्ययोः । संस्पर्शात्स्वस्त्रियश्चास्य कामाभिलषितं मनः
他在对待己妻与他人妻之事上亦不偏离正法;然而因自家妇人的触碰,他的心仍被欲念所搅动。
Verse 115
तस्याः संसर्गतश्चैव दुहितैव प्रमन्यते । स्तनौ तस्यास्तु पृष्ठे च लगन्तौ च पुनःपुनः
因与他亲近相处,她竟被视作他的亲生女儿;而她的双乳却一次又一次贴附在他的背上。
Verse 116
बालकस्येव पुत्रस्य स्तनौ मातुः समन्यते । तस्या अंगानि चांगेषु लगंति च पुनःपुनः
就像小孩依偎在母亲怀里一样,他一次又一次地将自己的肢体紧紧贴着她的肢体。
Verse 117
ततो मातुस्सुतस्येव सोमन्यत दिने दिने । तस्य योषासुसंसर्गो निवृत्तस्त्वभवत्ततः
于是,日复一日,他变得像母亲面前的孩子一样顺从;从此以后,他断绝了与女子的交往。
Verse 118
एवं संवत्सरस्यार्द्धे तत्पतिश्चागतः पुरं । अपृच्छत्तं च लोकेषु तस्या वृत्तमथोदितम्
就这样过了半年,她的丈夫来到了城里。他在人群中打听她的消息,人们便讲述了她的故事。
Verse 119
केचिद्भद्रं बोधयन्तो युवानोपि सुविस्मिताः । केचिदाहुस्त्वया दत्ता तया सार्द्धं स्वपित्यसौ
一些年轻人试图叫醒巴德拉时感到非常惊讶。另一些人说:“他是你送给她的,所以他和她睡在一起。”
Verse 120
स्त्रीपुंसोरेकसंसर्गात्शांतता तु कथं भवेत् । तस्यां यस्याभिलाषोस्ति न पृष्टस्स वदेद्युवा
男女如此亲密接触,怎能产生宁静?心中对她怀有欲望的年轻人,即使未被询问也会开口。
Verse 121
लोकानां कुश्रुतिर्वार्ता तेन पुण्यबलाच्छ्रुता । जनापवादमोक्षार्थं बुद्धिस्तस्याभवच्छुभा
凭借自身福德之力,他听闻众人间流传的恶名闲言与谣诼;为求脱离世人讥责,一念吉祥的决断在他心中生起。
Verse 122
दारूणि स्वयमाहृत्याजिज्वलत्स महानलम् । एतस्मिन्नंतरे तात राजपुत्रः प्रतापवान्
他亲自取来柴薪,点燃了熊熊大火。就在此时,亲爱的啊,一位英勇有威的王子来到。
Verse 123
आगमत्तद्गृहं सद्यः सोपश्यत्तं च योषितम् । प्रोत्फुल्लवदनां नारीं प्रविषादगतं नरं
他立刻前往那所宅邸;在那里,他见到那女子面容欣悦绽放,而那男子却沉入深深的忧苦之中。
Verse 124
अनयोर्मानसं ज्ञात्वा राजपुत्रोवदद्वचः । किं न संभाषसे मां च मित्रकं चिरमागतम्
王子洞悉二人心境,便开口说道:“为何不与我交谈?我这位久别而来的朋友。”
Verse 125
अब्रवीत्सोपि धर्मात्मा राजपुत्रमनष्टधीः । यत्कृतं दुष्करं कर्म मया त्वद्धितकारणात्
随后,那位持法之人、心智澄明者对王子说道:“我所行这难行之事,皆为你的利益与安泰。”
Verse 126
सर्वं व्यर्थमहं मन्ये जनानां च प्रवादतः । अद्य वह्निमहं यास्ये प्रपश्यंतु नरास्सुराः
我以为一切皆成虚妄,只因世人诽谤之言。今日我将投入火中——愿人类与诸天(天神)共同见证。
Verse 127
इत्युक्त्वा स महाभागः प्रविवेश हुताशनम् । विशतस्तस्य वह्नौ न कुसुमं चिकुरालये
说罢,那位大福德者便步入火焰。入于烈焰之时,连发辫上的一朵花也未被灼焦。
Verse 128
नांगमस्यानलोधाक्षीन्न च वस्त्रं न कुंतलम् । खे च देवा मुदा सर्वेसाधुसाध्विति चाब्रुवन्
她的肢体未被火灼,她的双眼亦未受伤;衣裳与发丝皆无损。空中诸天欢喜齐声称赞:“善哉!善哉!”
Verse 129
अपतन्पुष्पवर्षाणि तस्य मूर्ध्नि समंततः । यैर्यैश्च दुष्कृतं वाक्यं गदितं तावुभौ प्रति
花雨从四方落在他头顶之上——正是那些先前对他们二人说出刻薄不义之语的人所献。
Verse 130
तेषां मुखे प्रजायंते कुष्ठानि विविधानि च । तत्रागत्य च देवाश्च वह्नेराकृष्यतं मुदा
从他们口中生出种种麻风与诸般皮肤恶疾。随后诸天降临,欢喜地将他们从火中牵引而出。
Verse 131
अपूजयन्सुपुष्पैश्च मुनयो विस्मयं गताः । सर्वैर्मुनिवरैरेवं मनुष्यैर्विविधैस्तदा
于是诸牟尼满怀惊异,以最妙之花供奉礼拜;当时一切最胜的仙人亦如是,连同各类众人一同致敬。
Verse 132
अर्च्यते तु महातेजाः स च सर्वानपूजयत् । सज्जनाद्रोहकं नाम कृतं देवासुरैर्नृभिः
那位大威光者受人如法供养礼敬,而他亦回敬众人。然诸天、阿修罗与人类却造作了名为“sajjanādrohaka”的事——对善人之背叛。
Verse 133
तस्य पादरजः पूता सस्यपूर्णा धराभवत् । सुराश्चाहुश्च तं तत्र भार्या ते संप्रगृह्यताम्
因其足尘而得净化,大地遂五谷丰登。于是诸天与诸仙在彼处对他说:“当如法再纳受你的妻子。”
Verse 134
एतस्य सदृशो लोके न भूतो न भविष्यति । नास्तीति सांप्रतं पृथ्व्यां कामलोभाजितः पुमान्
世间未曾有与他相似者,亦终不复有。诚然,如今大地之上,再无男子如此为欲望与贪婪所制伏。
Verse 135
देवासुरमनुष्याणां रक्षसां मृगपक्षिणाम् । कीटादीनां च सर्वेषां काम एष सुदुर्जयः
对于诸天、阿修罗、人类、罗刹,以及走兽飞禽——乃至一切众生,自昆虫等起——此欲(kāma)实为极难降伏。
Verse 136
कामाल्लोभात्तथाक्रोधान्नित्यं सत्त्वेषु जायते । संसारबंधकः कामो ह्यकामो न क्वचिद्भवेत्
由欲望、由贪婪,亦由嗔怒,它在众生之中恒常生起。欲为系缚轮回(saṃsāra)之绳索;而在世间有为之境,离欲之相终难得见。
Verse 137
अनेनैव जितं सर्वं भुवनानि चतुर्दश । अमुष्य हृदये नित्यं वासुदेवो मुदास्थितः
唯凭此一法,尽皆得胜——十四世界悉被征服。于其心中,婆苏提婆(Vāsudeva)恒常安住,住于喜悦。
Verse 138
एवं स्पृष्ट्वाथ दृष्ट्वा तं मनुष्याः सर्वकल्मषात् । पूयंते ह्यनघाश्चैव लभंते चाक्षयां दिवम्
如是,触之而后观之,人们便从一切罪垢中得以清净;成为无瑕之人,亦得证不坏之天界。
Verse 139
एवमुक्त्वा गता देवा विमानैश्च दिवं मुदा । मनुष्याः प्रययुस्तुष्टा दंपती स्वगृहं तथा
如是言毕,诸天乘天车欢喜升天而去;众人心满意足,各自散去;那对夫妇亦回到自家宅第。
Verse 140
दिव्यं चक्षुस्तदा तस्य चासीद्देवान्स पश्यति । त्रैलोक्यस्य च वार्त्तां च जानाति लीलया भृशम्
其时他得天眼神视;能见诸天,并且轻而易举、尽皆了知三界之事。
Verse 141
ततस्तस्य च वीथ्यां च दृष्टस्तेन सहैव सः । स पप्रच्छ मुदा तं च धर्मोद्देशं हितं वद
随后,就在那条街上,人们看见他与那人同在。怀着喜悦他问道:“请为我宣说一则有益的法(dharma)教诲。”
Verse 142
सज्जनाद्रोह उवाच । गच्छ बाडव धर्मज्ञ वैष्णवं पुरुषोत्तमम् । तं च दृष्ट्वा त्वभीष्टं ते सांप्रतं च फलिष्यति
Sajjanādroha 说道:“去吧,噢 Bāḍava——通晓法者——前往至上的毗湿奴信徒(Vaiṣṇava),人中最胜者。见到他,你所愿之事当下便会结果。”
Verse 143
बकस्य निधनं यद्वा वस्त्रस्याशोषणं तथा । जानीषे चापरो यश्च कामस्तेऽस्ति हृदिस्थितः
无论是鹤之死,或是衣裳之干,你都知晓;你也知晓那另一个欲望,隐伏而住在你心中。
Verse 144
एतच्छ्रुत्वा तु वचनमागतो वैष्णवं प्रति । विष्णुरूपद्विजेनैव सार्द्धं तेन मुदा ययौ
听了这些话,他便前往那位毗湿奴信徒(Vaiṣṇava)处;并与那位化作毗湿奴形相的婆罗门一同欢喜而行。
Verse 145
अपश्यत्पुरुषं शुद्धं ज्वलंतं च पुरःस्थितम् । सर्वलक्षणसंपूर्णं दीप्यमानं स्वतेजसा
他看见一位清净之圣者,炽然光耀,立于面前;具足一切吉祥相,凭自身光辉而灿然照耀。
Verse 146
अब्रवीत्स च धर्मात्मा ध्यानस्थं च हरेः प्रियम् । वदनो यद्यद्वृत्तं वै दूरात्त्वां चागतो ह्यहम्
于是那位具正法之心者对哈利所钟爱、安住禅定者说道:“请如实告知所发生的一切;我从远方特来见你。”
Verse 147
वैष्णव उवाच । प्रसन्नस्ते सुरश्रेष्ठो दानवारीश्वरः सदा । दृष्ट्वा त्वां च मनोऽस्माकं हृष्यतीवाधुना द्विज
毗湿奴信徒说道:“那位达那婆之主、诸天中最尊胜者,常常喜悦于你。如今见到你,我们的心也极其欢欣,婆罗门啊。”
Verse 148
कल्याणं चातुलं तेद्य फलिष्यति मनोरथः । सुरवर्त्मनि ते नित्यं चेलं शुष्यति नान्यथा
无与伦比的吉祥将临于你,今日你所珍爱的愿望必将结果。在诸天之道上,你的衣裳将恒常干爽——决无他变。
Verse 149
दृष्ट्वा देवं सुरश्रेष्ठं मम गेहे हरिं स्थितम् । इत्युक्ते वैष्णवेनाथ स तु तं पुनब्रवीत्
见到哈利——神中之神、诸天最胜者——立于我家中,毗湿奴信徒如此说道;言毕,那位尊者又再度对他说。
Verse 150
क्वासौ विष्णुः स्थितो नित्यं दर्शयाद्य प्रसादतः । वैष्णव उवाच । अस्मिन्देवगृहे रम्ये प्रविश्य परमेश्वरम्
“那位永恒安住的毗湿奴在何处?愿凭你的恩慈,今日示现于我。”毗湿奴信徒答道:“进入这座庄严美妙的神殿,便可瞻仰至上主宰。”
Verse 151
तं दृष्ट्वा किल्बिषाद्धोरान्मुच्यसे जन्मबंधानत् । तस्य तद्वचनं श्रुत्वा प्रविश्य सदनं प्रति
“只要瞻仰他,你便能从可怖的罪业中解脱,并脱离轮回生死的束缚。”听了他这番话后,他便进入了居所。
Verse 152
अपश्यत्तं द्विजं विष्णुं तिष्ठंतं पद्मतल्पके । शिरसैव प्रवंद्याथ जग्राह चरणौ मुदा
他看见那位“二次出生者”——毗湿奴——立于莲华之榻上。他仅以头顶俯伏致敬,继而欢喜地捧持主的双足。
Verse 153
प्रसादी भव देवेश न ज्ञातस्त्वं पुरा मया । इहामुत्र च देवेश तवाहं किंकरः प्रभो
愿你垂恩,诸天之主;从前我未能识得你。此世与彼世,诸天之主啊,我皆为你的仆从,至尊之主。
Verse 154
अनुग्रहश्च मे दृष्टो भवतो मधुसूदन । रूपं ते द्रष्टुमिच्छामि यदि चास्ति कृपा मयि
我已得见你的恩泽,摩杜苏达那啊。若你怜悯于我,我愿得见你的圣相。
Verse 155
विष्णुरुवाच । अस्ति मे त्वयि भूदेव प्रियत्वं च सदैव हि । स्नेहात्पुण्यवतामेव दर्शनं कारितं मया
毗湿奴说道:“噢,地神(受敬的婆罗门)啊,你恒常为我所爱。出于慈爱,我只赐予有福德者以此一见。”
Verse 156
दर्शनात्स्पर्शनाद्ध्यानात्कीर्तनाद्भाषणात्तथा । सकृत्पुण्यवतामेव स्वर्गं चाक्षयमश्नुते
仅仅以目睹、触碰、观想、歌咏赞颂,乃至开口称说它,有福德之人——纵使只一次——亦得不坏之天界。
Verse 157
नित्यमेव तु संसर्गात्सर्वपापक्षयो भवेत् । भुक्त्वा सुखमनंत च मद्देहे प्रविलीयते
确然,由于恒常与我相应(相亲近),一切罪业皆得灭尽;享受无量安乐之后,便融入我自身之体。
Verse 158
स्नात्वा च पुण्यतीर्थेषु दृष्ट्वा मां चैव सर्वतः । दृष्ट्वा पुण्यवतां देशान्मम देहे विलीयते
沐浴于诸圣地(tīrtha),又见我遍在一切;复观诸由贤德之人所净化的国土——(此等功德)融入我之身。
Verse 159
कथयित्वा कथां पुण्यां लोकानामग्रतः सदा । स चैव नरशार्दूल मद्देहे प्रविलीयते
若常在众人之前宣说此功德之故事,则此人——噫,人中之虎——便融入我自身之体。
Verse 160
उपोष्य वासरेस्माकं श्रुत्वा मच्चरितं ध्रुवम् । रात्रौ जागरणं कृत्वा मद्देहे प्रविलीयते
在我等之圣日守斋,并确实聆听我行迹之叙述;夜间守夜不眠者,便摄入并融于我之形体。
Verse 161
अत्यंतघोषणो नृत्यगीतवाद्यादिकैस्सदा । नामस्मरन्द्विजश्रेष्ठ मद्देहे प्रविलीयते
噢,最尊贵的再生者啊:那恒常高声欢呼,投入舞蹈、歌唱与乐器之中,并忆念圣名者,终将融入我自身之躯。
Verse 162
मद्भक्तस्तीर्थभूतश्च त्वमेव बकमारणात् । यत्पापं तस्य मोक्षाय सखे स्थित्वा उवाच ह
“你是我的奉献者;因你诛灭鹤形魔,你自身亦成了神圣的渡口(tīrtha)。为使那罪得解脱,朋友啊……”——他就这样站在那里说道。
Verse 163
गच्छ मूकं महात्मानं तीर्थं पुण्यवतां वरम् । मूकस्य दर्शनात्तात सर्वे दृष्टा महाजनाः
去往牟迦(Mūka)吧——那大心圣地的渡口,乃诸福德者圣处之最。亲爱的,只要一见牟迦,便如同已见一切大圣贤。
Verse 164
तेषां च दर्शनादेव तथा संभाषणान्मम । ममसंपर्कभावाच्च मद्गृहं चागतो भवान्
仅仅见到他们,又与我交谈——并因你与我相系相亲——你也来到了我的居所。
Verse 165
जन्मकोटिसहस्रेभ्यो यस्य पापक्षयो भवेत् । स मां पश्यति धर्मज्ञो यथा तेन प्रसन्नता
其人之罪业得以消尽——纵是历经千千万万亿次生死所积——便真实得见于我;那通达法(dharma)者见我,由此之见,我亦欢喜满足。
Verse 166
ममैवानुग्रहाद्वत्सअहंदृष्टस्त्वयानघ । तस्माद्वरं गृहाण त्वं यत्ते मनसि वर्तते
噢亲爱的孩子,噢无垢者——唯因我的恩典,你得以见我。故当受一愿:随你心中所念而求。
Verse 167
विप्र उवाच । अस्माकं सर्वथा नाथ मानसं त्वयि तिष्ठतु । त्वदृते सर्वलोकेश कदाचिन्न तु रोचताम्
婆罗门说道:“主啊,愿我之心时时安住于你。离了你,诸世界之主啊,愿我永不以任何事为悦。”
Verse 168
माधव उवाच । यस्मादेतादृशी बुद्धिः स्फुरते ते सदानघ । तस्मान्मत्सदृशान्भोगान्मद्गेहे संप्रलप्स्यसे
摩达婆说道:“既然如此智慧在你身上闪耀,恒常无垢者啊,因此你将享受如我一般的福乐,并住于我的居处。”
Verse 169
किंतु ते पितरौ पूजामाप्नुतो न त्वयानघ । पूजयित्वा तु पितरौ पश्चाद्यास्यसि मत्तनुम्
然而,无垢者啊,你的父母尚未得你供敬。先礼敬父母,然后你将来到我前,得至于我。
Verse 170
तयोर्निश्श्वासवातेन मन्युना च भृशं पुनः । तपः क्षरति ते नित्यं तस्मात्पूजय तौ द्विज
因他们呼吸之风,又因他们炽烈的忿怒,你的苦行之力日日流失;因此,二次生者啊,当礼敬供养他们二人。
Verse 171
मन्युर्निपतते यस्मिन्पुत्रे पित्रोश्च नित्यशः । तन्निरयं नाबाधेहं न धाता न च शंकरः
那位常常承受父母怒火的儿子——无人能为他免除那地狱:非达塔(梵天),亦非商羯罗(湿婆)。
Verse 172
तस्मात्त्वं पितरौ गच्छ कुरु पूजां प्रयत्नतः । ततस्त्वं हितयोरेव प्रसादान्मत्पदं व्रज
因此,你当去到父母跟前,竭诚敬奉礼拜。随后,凭那两位恩人之慈恩,你将抵达我的居所。
Verse 173
इत्युक्ते तु द्विजश्रेष्ठः पुनराह जगद्गुरुम् । प्रसन्नो यदि मे नाथ रूपं स्वं दर्शयाच्युत
言毕,那位最胜的再生者又对世间之师说道:“主啊,若你悦纳于我,请示现你自身之形,阿周陀啊。”
Verse 174
ततो द्विजप्रणयतः प्रसन्नहृदयो वशी । रूपं स्वं दर्शयामास ब्रह्मण्यो ब्रह्मकर्मणे
于是,出于对婆罗门的慈爱,那位自制者心怀欢悦,向那位奉行婆罗门仪轨者显现自身之相;他恒常护念婆罗门。
Verse 175
शंखचक्रगदापद्मधारणं पुरुषोत्तमम् । कारणं सर्वलोकस्य तेजसा पूरयज्जगत्
至上之人普鲁绍塔玛,执持海螺、神轮、宝杵与莲华;他是一切世界之因,以自身光辉充满宇宙。
Verse 176
प्रणम्य दंडवद्विप्र उवाच पुनरच्युतम् । अद्य मे सफलं जन्म अद्य मे चक्षुषी शिवे
那婆罗门如杖般俯伏顶礼,又对阿周陀说道:“今日我之出生已得其果;今日,吉祥者啊,我双眼蒙福。”
Verse 177
अद्य मे च करौ श्लाघ्यौ धन्योहं जगदीश्वर । अद्य मे पुरुषा यांति ब्रह्मलोकं सनातनम्
今日我双手实堪称赞;我真有福,世间之主啊。今日我之众人将往永恒的梵天界(Brahmaloka)。
Verse 178
नंदंति बांधवा मेद्य त्वत्प्रसादाज्जनार्दन । इदानीं च प्रसिद्धा मे सर्वे चैव मनोरथाः
今日因你的恩典,我的亲族欢喜,阇那尔达那啊;而今我一切珍爱的愿望确已圆满。
Verse 179
किंतु मे विस्मयो नाथ मूकादि ज्ञानिनो भृशम् । कथं जानंति मद्वृत्तं देशांतरमुपस्थितम्
然而我甚为惊异,主啊:诸贤者——乃至哑者等——如何知晓我的经历?我明明是从异国而来。
Verse 180
तस्य गेहोदराकाशे स्थितो विप्रोतिशोभनः । तथा पतिव्रता गेहे तुलाधारशिरस्यपि
在他屋内的空旷处,站着一位光辉的婆罗门;同样,屋中还有一位守贞奉夫的贤妻(pativratā),仿佛显现在持秤者图拉达拉(Tulādhāra)的头顶之上。
Verse 181
तथा मित्राद्रोहकस्य त्वं च वैष्णवमंदिरे । अनुग्रहाच्च मे विप्र तत्त्वतो वक्तुमर्हसि
同样地,关于背叛朋友之人——以及关于毗湿奴信众(Vaiṣṇava)之寺院的事——出于对我的慈悲,婆罗门啊,请如实阐明真理。
Verse 182
श्रीभगवानुवाच । पित्रोर्भक्तः सदा मूकः पतिव्रता शुभा च सा । सत्यवादी तुलाधारः समः सर्वजनेषु च
世尊说道:“他敬奉父母,常守沉默;她是贤淑吉祥的贞妇,忠于夫君。他言语真实,心志坚定、平等安住,对一切众人皆无偏私。”
Verse 183
लोभकामजिदद्रोहो मद्भक्तो वैष्णवः स्मृतः । संप्रीतोहं गुणैरेषां तिष्ठाम्यावसथे मुदा
能降伏贪欲与情欲,不怀怨恨,并奉我为主者,被称为毗湿奴信徒(Vaiṣṇava)。我因其德行而欢喜,欣然住于他们的家中。
Verse 184
भारतीकमलाभ्यां च सहितो द्विजसत्तम । विप्र उवाच । महापातकिसंसर्गान्नराश्चैवातिपातकाः
最胜的二次生者啊,与婆罗底(Bhāratī)与迦摩罗(Kamalā)相伴时,那位婆罗门说道:“与大罪人相交,世人也会变得罪业深重。”
Verse 185
इति जल्पंति धर्मज्ञाः स्मृतिशास्त्रेषु सर्वदा । पुराणागमवेदेषु कथं त्वं तिष्ठसे गृहे
通达法(dharma)者在《忆念论》(Smṛti-śāstra)以及诸《往世书》(Purāṇa)、《阿含》(Āgama)与《吠陀》(Veda)中恒常宣说:“你怎能仍安住在家中?”
Verse 186
श्रीभगवानुवाच । कल्याणानां च सर्वेषां कर्त्ता मूको जगत्त्रये । वृत्तस्थो योपि चाण्डालस्तं देवा ब्राह्मणं विदुः
世尊曰:纵使一人天生为旃陀罗,若虽为哑者而能于三界行诸善业,安住正行,诸天亦认之为婆罗门。
Verse 187
मूकस्य सदृशो नास्ति लोकेषु पुण्यकर्मतः । पित्रोर्भक्तिपरे नित्यं जितं तेन जगत्त्रयम्
诸世界中,无人能及哑者之福德善行;恒以孝敬父母为奉爱者,由此便征服三界。
Verse 188
तयोर्भक्त्या त्वहं तुष्टः सर्वदेवगणैः सह । तिष्ठामि द्विजरूपेण तस्य गेहोदरे च खे
我因那二人之奉爱而欢喜,与诸天众同在;我化作二生者(婆罗门)之形,住于其家中,亦住于虚空天际。
Verse 189
तथा पतिव्रता गेहे तुलाधारस्य मंदिरे । अद्रोहकस्य भवने वैष्णवस्य च वेश्मनि
同样地,(我亦住于)贞顺持夫道之妻之家;住于图拉达罗之圣所;住于阿德罗哈迦之居;亦住于毗湿奴信徒(外师那婆)之家。
Verse 190
सदा तिष्ठामि धर्मज्ञ मुहूर्तं न त्यजाम्यहम् । तेन पश्यंति मां नित्यं ये त्वन्ये पापकृज्जनाः
“我恒常住此,噢知法者;我连一瞬(牟呼尔多)也不离去。因此那些造罪之人也常常得见于我。”
Verse 191
पुण्यत्वाच्च त्वया दृष्टो ममानुग्रहकारणात् । पित्रोर्भक्तिपरः शुद्धश्चांडालो देवतां गतः
由于你的功德,承我加持之因,你得以见此。那位旃陀罗——清净无染,敬奉父母——已证得天神之位。
Verse 193
तस्य वै मानसे नित्यं वर्तेऽहतभावनः । स तज्जानाति त्वद्वृत्तं तथा पतिव्रतादयः
他恒常住于那心性不受损伤、清净无染之人的心中。他知晓你的行持;诸位守贞奉夫的贤妇(pativratā)等亦同样知晓。
Verse 194
तेषां वृत्तं वदिष्यामि शृणु त्वं चानुपूर्वशः । यच्छ्रुत्वा सर्वथा मर्त्यो मुच्यते जन्मबंधनात्
我将依次宣说他们的事迹;你当谛听。因为听闻此事,凡夫于一切方面皆得解脱出生之系缚。
Verse 195
पितुर्मातुः परं तीर्थं देवदेवेषु नैव हि । पित्रोरर्चा कृता येन स एव पुरुषोत्तमः
父母乃至上圣地(tīrtha),诸天之中亦无更高者。凡礼敬供养父母之人,实为真“人中至上”(puruṣottama)。
Verse 196
पित्रोराज्ञा च देवस्य गुरोराज्ञा समं फलं । आराधनाद्दिवो राज्यं बाधया रौरवं व्रजेत्
顺从父母之命与顺从天主之命,其果报等同;顺从师长之命亦得同等之果。敬事供养则得天界王权;若加以压迫伤害,便堕入罗楼婆(Raurava)地狱。
Verse 197
स चास्माकं हृदिस्थोऽपि तस्याहं हृदये स्थितः । आवयोरंतरं नास्ति परत्रेह च मत्समः
虽祂住于我等心中,我亦住于彼之心。你我之间毫无间隔——此世与彼世皆然——且无人能与我等同。
Verse 198
मदग्रे मत्पुरे रम्ये सर्वैश्च बांधवैः सह । सभुंजीताक्षयं भोगमंते मयि च लीयते
在我面前,于我清妙之居,与诸亲眷同在,他享受不坏之乐;最终亦复融入于我。
Verse 199
अतएव हि मूकोसौ वार्त्तां त्रैलोक्यसंभवाम् । जानाति नरशार्दूल एष ते विस्मयः कुतः
因此,纵使他口不能言,也知三界所起之消息。噫,人中之虎,你的惊异从何而来?
Verse 200
द्विज उवाच । मोहादज्ञानतो वापि न कृत्वा पितुरर्चनं । ज्ञात्वा वा किं च कर्तव्यं सदसज्जगदीश्वर
婆罗门曰:“若因迷惑或无明,未曾奉行对父之礼敬;纵已知晓,亦当如何行持?噫,超越真与非真之宇宙主宰!”
Verse 201
श्रीभगवानुवाच । दिनैकं मासपक्षौ वा पक्षार्धं वाथ वत्सरं । पित्रोर्भक्तिः कृता येन स च गच्छेन्ममालयं
世尊曰:或一日,或一月与半月,或半半月,乃至一年;凡以恭敬之心奉事双亲者,亦得往生我之居处。