Adhyaya 48
Srishti KhandaAdhyaya 48194 Verses

Adhyaya 48

Right Conduct, Offenses Against Brāhmaṇas, Truthfulness, and the Greatness of the Cow (Go-Māhātmya)

第48章开篇讲述一位堕落的再生族人,沦为旃陀罗,前来求见迦叶波。迦叶波为其开示赎罪之法:诵持伽耶特丽(Gāyatrī)、行持念诵(japa)与火供(homa)、守持月行斋等誓戒(Cāndrāyaṇa)、在哈利(Hari)圣日禁食、于圣地(tīrtha)沐浴,并恒常忆念哈利;由此恢复婆罗门之位,得生天界。 继而在那罗陀与梵天(Brahmā)的问答中,详陈轻慢或伤害婆罗门的业报:堕入罗罗婆、摩诃罗罗婆、塔帕那、昆毗波迦等地狱,并招致诸病,含麻风等分类,以及诸种不净之规。又辨明“杀婆罗门罪”(brahmahatyā)及其例外,如诛杀凶暴侵害者(ātatāyin)。 随后广说法(dharma)中正当生计:拾穗(uñcha)、教授与司祭,以及困厄时的贸易;并以真实为至上德行,规定经商与农作的伦理界限。章末归于“牛之大功德”(Go-Māhātmya):牛与吠陀、火神同具宇宙尊位,pañcagavya等仪轨用法与真言,日常触牛之福德,以及布施母牛与公牛的殊胜果报。

Shlokas

Verse 1

ब्रह्मोवाच । अतः परं तु विप्रर्षे चांडालपतितो द्विजः । प्रलप्य च बहून्शोकान्जगाम कश्यपं मुनिम्

梵天曰:其后,噫,婆罗门中之最胜者,那位再生者堕入旃陀罗之境,长久哀叹,怀诸多忧苦,遂往迦叶牟尼处。

Verse 2

गत्वोवाच मुनिश्रेष्ठ वदास्माकं हितं वचः । यथा पापाद्विमुच्येहं मुनिश्रेष्ठ तथा कुरु

他前往而白曰:“大牟尼中之最胜者,请为我等宣说利益之言;大牟尼中之最胜者,愿作方便,使我于此生即得脱离罪业。”

Verse 3

तमुवाच महातेजा ईषद्धास्यः समंततः । कश्यप उवाच । संदर्शनाच्च म्लेच्छानामुपशांतोसि वै स्वयम्

于是那大威光之仙者微微含笑而告之:迦叶曰:“诚然,仅因见到诸弥勒叉,你自身便已寂静安定。”

Verse 4

गायत्र्याश्च जपैर्होमैर्व्रतैश्चांद्रायणदिभिः । स्मर नित्यं हरेः पादमुपोष्य हरिवासरम्

以诵持伽耶特丽(Gāyatrī)、以持咒(japa)、以火供、并以如月行斋(Cāndrāyaṇa)等誓戒,恒常忆念哈利(Hari)莲足——在哈利的圣日守斋。

Verse 5

अहर्निशं हरेर्ध्यानं प्रणामं कुरु तं प्रभुम् । तीर्थस्नानेन मंत्रेण पंकस्यांतं गमिष्यसि

昼夜观想哈利,并向那位主宰顶礼。于圣地渡口(tīrtha)依正法持诵真言而沐浴,你将抵达罪苦泥淖的尽头。

Verse 6

ततः पापक्षयादेव ब्राह्मणत्वं च लप्स्यसे । व्रतैर्वृषाधिकैर्मोक्षं नाशयन्कल्मषं द्विज

随后,唯因罪业消尽,你将得获婆罗门之位。以充满正法之誓戒,灭除垢染而证解脱,噢二次生者。

Verse 7

मुनेस्तस्य वचः श्रुत्वा कृतकृत्योऽभवत्तदा । पुण्यं स विविधं कृत्वापुनर्ब्रह्मत्वमाप्तवान्

闻听那位牟尼之言,他当时自觉所当作已成。行种种福德善业之后,他复得婆罗门之位。

Verse 8

ततस्तप्त्वा तपस्तीव्रंस्वर्लोकं चिरमभ्यगात् । सद्वृत्तस्याखिलं पापं क्षयं याति दिने दिने

随后,他修行严峻苦行,得至天界(Svarga),久住其间。行持端正之人,一切罪垢日日消减。

Verse 9

असद्वृत्तस्य पुण्यं हि क्षयं यात्यंजनोपमम् । अनाचाराद्धतो विप्र आचारात्सुरतां व्रजेत्

确实,行恶行者的福德会消尽,如同眼药 añjana(安阇那)用久即尽。因失正行,婆罗门便败坏;因守正行,他可达诸天(deva)之境。

Verse 10

ततः कंठगतैः प्राणैराचारं कुरुते द्विजः । कर्मणा मनसांगेन सदाचारं सदा कुरु

因此,即便生命之气已上至喉间,二次生者(dvija)仍当力守正行。以行为、以心念、以身之诸肢——恒常修习善行。

Verse 11

कश्यपस्योपदेशेन स विनीतोऽभवद्द्विजः । आचारं तु पुनः कृत्वा तपस्तप्तत्वा दिवं गतः

因迦叶波(Kaśyapa)的教诲,那位二次生者变得谦和而自律。重新奉行正行,并修行苦行(tapas)之后,他升往天界。

Verse 12

अनाचारी हतो विप्रः स्वर्गलोकेषु गर्हितः । आचारं तु पुनः कृत्वा सुरलोके महीयते

无正行的婆罗门必致败亡,甚至在诸天世界也受谴责;而当他重新奉行正行时,便在天神(deva)之界受尊崇。

Verse 13

नारद उवाच । प्राप्नुवंति गतिं लोकाः पूजयित्वा द्विजोत्तमान् । द्विजानां पीडनं कृत्वा गतिं गच्छति कां प्रभो

那罗陀(Nārada)说:众人礼敬最上等的二次生者(婆罗门),便得吉祥归趣。可是,主啊,若加害二次生者,他将趋向何等去处?

Verse 14

ब्रह्मोवाच । क्षुधा संतप्तदेहानां ब्राह्मणानां महात्मनाम् । नार्चयेच्छक्तितो भक्त्या स याति नरकं नरः

梵天说:若有人明明有能力,却不以虔敬供养礼敬那些因饥饿而受苦的伟大婆罗门,此人必堕地狱。

Verse 15

परुषेण क्रोशयित्वा क्रोधाद्यस्तु विसर्जयेत् । स याति नरकं घोरं महारौरवकृच्छ्रकम्

因愤怒等情绪而以粗恶言语使他人哭泣者,将赴可怖之地狱,受“摩诃劳罗婆”(Mahāraurava)的严酷苦报。

Verse 16

सन्निवृत्तस्ततः कीटाद्यन्त्यजातिषु जायते । ततो रोगी दरिद्रस्तु क्षुधया परिपीडितः

既已背离正行,他便转生为虫等卑下之类;其后又成多病贫困之人,为饥饿所逼迫。

Verse 17

नावमन्येत्ततो विप्रं क्षुधया गृहमागतम् । न ददामीति यो ब्रूयाद्देवाग्निब्राह्मणेषु सः

因此,不可轻慢那因饥饿而来到家中的婆罗门。凡说“我不施与”的人,即得罪诸天、圣火与婆罗门。

Verse 18

तिर्यग्योनिशतं गत्वा चांडाल्यमुपगच्छति । पादमुद्यम्य यो विप्रं हंति गां पितरौ गुरुम्

若有人抬脚踢打婆罗门——或杀牛,或弑父母,或害师长——在经历数百次畜生之胎的转生之后,终将堕为旃陀罗(贱民、被弃者)之身。

Verse 19

रौरवे नियतो वासस्तस्य नास्तीह निष्कृतिः । यदि पुण्याद्भवेज्जन्म स एव पंगुतां व्रजेत्

在罗罗婆(Raurava)地狱中,他的住处已被定下;于此他无有赎罪之路。纵使因些许福德得再生,也仍将堕于跛行之苦。

Verse 20

अतिदीनो विषादी च दुःखशोकाभिपीडितः । एवं जन्मत्रयं प्राप्य भवेत्तस्य च निष्कृतिः

极其凄苦、心怀沮丧,并为痛苦与忧悲所逼迫;如此经历三次生身之后,方得其赎罪与解脱。

Verse 21

मुष्टिचपेटकीलैश्च हन्याद्विप्रं तु यः पुमान् । तापने रौरवे घोरे कल्पांतं सोपि तिष्ठति

凡以拳、掌掴或利器击打婆罗门者,亦将住于可怖的“炙热”(Tāpana)与罗罗婆(Raurava)诸地狱,直至劫尽。

Verse 22

अथ जन्म समासाद्य कुक्कुरः क्रूरचंडकः । अंत्यजातिषु जातोपि दरिद्रः कुक्षिशूलवान्

随后得此生身,他化为犬,凶残而暴烈;即便生于最下贱之族,仍贫困不堪,并受腹绞之痛所折磨。

Verse 23

पादमुद्यच्छते वा यस्तस्य पादे शिलीपदः । खंजो वा मंदजंघो वा खण्डपादो भवेन्नरः

若有人抬脚欲踢打,其足便染象皮肿;此人或成跛者,或两胫羸弱,甚至足部残缺。

Verse 24

पक्षवातेन चांगानि प्रकंपंते सदैव हि । मातरं पितरं विप्रं स्नातकं च तपस्विनम्

因瘫痪之业,他的肢体恒常颤抖。此乃伤害或轻慢母亲与父亲、婆罗门、已完成圣学与圣浴的snātaka,以及苦行仙者之人所招之果报。

Verse 25

हत्वा गुरुगणं क्रोधात्कुंभीपाके चिरं भवेत् । उषित्वा चैव जायेत कीटजातिषु तत्परम्

若因嗔怒而杀害众多师长,必久住于Kumbhīpāka地狱;既受其苦之后,又将转生于虫类之中,执著于那卑下之境。

Verse 26

विरुद्धं परुषं वाक्यं यो वदेद्धि द्विजातिषु । अष्टौ कुष्ठाः प्रजायंते तस्य देहे दृढं सुत

凡在二次生者(dvija)之间说出乖违而粗恶之语者,其身必坚固生起八种麻风,噢坚毅之子。

Verse 27

विचर्चिकाथ दद्रूश्च मंडलः शुक्ति सिध्मकौ । कालकुष्ठस्तथा शुक्लस्तरुणश्चातिदारुणः

又有vicarcikā、dadru、maṇḍala、śukti与sidhmaka;亦有kālakuṣṭha、śukla与taruṇa——皆为极其可怖的皮肤恶疾。

Verse 28

ततो भिषक्प्रयोगे च पापात्पुण्यं पलायते । अपुण्याज्जलरेखेव तेनैव निधनं व्रजेत्

于是,在此等罪业之中若又求医施治,因那罪过,福德(puṇya)便逃散,如水上画线顷刻消失;并由此罪本身而趋于败亡。

Verse 29

एषां मध्ये महाकुष्ठास्त्रय एव प्रकीर्तिताः । कालकुष्ठस्तथा शुक्लस्तरुणश्चातिदारुणः

在这些之中,有三种被称为大麻风:黑麻风、白麻风,以及名为“taruṇa”的一类——极其可怖。

Verse 30

महापातकभावानां ज्ञानात्संसर्गतोपि वा । अतिपातकिनामेव त्रयो देहे भवंति वै

即使明知而与犯大罪者相交,乃至仅仅接触,也确有三种过患在极重罪者之身中生起。

Verse 31

संसर्गात्सहसंबंधाद्रोगः संचरते नृणाम् । दूरात्परित्यजेद्धीरः स्पृष्ट्वा स्नानं समाचरेत्

因接触与亲近往来,疾病在人间流行。故明智者当远离;若已触及,当如法沐浴以净。

Verse 32

पतितं कुष्ठसंयुक्तं चांडालं च गवाशिनम् । श्वानं रजस्वलां भिल्लं स्पृष्ट्वा स्नानं समाचरेत्

触及堕落者(patita)、麻风患者、旃陀罗(caṇḍāla)、食牛者、狗、经期女子或毗罗族人(Bhilla)之后,当如法行净浴。

Verse 33

दुरितस्यानुरूपेण देहे कुष्ठा व्यवस्थिताः । इहलोके परत्रैवाप्यत्र नास्ति तु संशयः

随其罪业相应,麻风便在身中安立:此世与彼世皆然;对此毫无疑惑。

Verse 34

न्यायेनोपार्जितां वृत्तिं ब्रह्मस्वं हरते तु यः । अक्षयं नरकं प्राप्य पुनर्जन्म न विद्यते

凡夺取以正道所得之生计、即属婆罗门之财者,必堕入不坏之地狱;此后于彼更无再生可得。

Verse 35

पिशुनो यस्तु विप्राणां रंध्रान्वेषणतत्परः । तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचेलो जलमाविशेत्

凡诽谤者,专意搜寻婆罗门之过失;见到他,或甚至触及之后,当仍着衣入水,以求净除。

Verse 36

ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम् । विक्रमेण तु भुंजानो दशपूर्वान्दशापरान्

属婆罗门之财,若因偏爱与私情而受用,焚烧其族系至第七代;若以强夺而受用,则毁灭前十代与后十代。

Verse 37

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौत्रकम्

人们说毒并非真正之“毒”;所谓“毒”,乃是被妄取的婆罗门之财。毒只杀一人,而侵夺婆罗门之资财,却连同其子与孙一并毁灭。

Verse 38

मोहाच्च मातरं गत्वा ब्राह्मणीं च गुरोस्त्रियम् । पतित्वा रौरवे घोरे पुनरुत्पत्तिदुर्लभः

为迷妄所驱,若亲近自身之母,亦亲近师长之婆罗门妻(婆罗门女);堕入可怖的罗罗婆地狱后,再得投生极其难得。

Verse 39

पतंति पितरस्तस्य कुंभीपाकेथ तापने । अवीचिकालसूत्रे च महारौरवरौरवे

他的祖先堕入地狱——俱毗波迦(Kumbhīpāka)与炽烧(Tāpana),亦堕入无间(Avīcī)、时绳(Kālasūtra)、大号哭(Mahāraurava)与号哭(Raurava)。

Verse 40

कदाचिदपि वा तेषां निष्कृतिं नानुमेनिरे । प्राणं हत्वा द्विजातीनां स्वयं यात्यपुनर्भवम्

他们从不承认此等罪行尚有任何赎罪之法。若夺去二次生者(dvija)之命,便自招无归之境,沉沦不可回转。

Verse 41

पतंति पुरुषास्तस्य रौरवे च सहस्रशः । नारद उवाच । सर्वेषामेव विप्राणां वधे च पातकं समम्

那人的随从成千上万堕入号哭地狱(Raurava)。那罗陀(Nārada)说:“对一切婆罗门而言,杀害他们所招之罪,皆同一无二。”

Verse 42

विषमं वा कुतस्तिष्ठेत्तत्त्वतो वक्तुमर्हसि । ब्रह्मोवाच । हत्वा विप्रं ध्रुवं पुत्र पातकं यदुदाहृतम्

“那么,业报的不平等究竟何在?请依真实而说。”梵天(Brahmā)答曰:“吾子,杀害婆罗门,确为必定之罪,经典如是宣说。”

Verse 43

लभते ब्रह्महा घोरं वक्तव्यं चापरं शृणु । लक्षकोटिसहस्राणां ब्राह्मणानां वधं भजेत्

杀害婆罗门者,必招可怖之罪;且再听当说之语:其罪如同杀了数以百千计的俱胝(crore)婆罗门一般沉重。

Verse 44

वेदशास्त्रयुतं हत्वा श्रोत्रियं विजितेंद्रियम् । विप्रं च वैष्णवं हत्वा तस्माद्दशगुणोत्तरम्

若杀害具足吠陀与论典、能制御诸根的诵吠陀者(śrotriya),又杀害毗湿奴信奉者的婆罗门,则其罪业据说比彼更增十倍。

Verse 45

स्ववंशान्पातयित्वा तु पुनर्जन्म न विंदते । त्रिवेदं स्नातकं हत्वा वधस्यांतं न विन्दते

然而,使自家族系堕落者不得再得后生;而杀害通晓三吠陀的沐浴毕业者(snātaka)者,也寻不到那杀业之终尽。

Verse 46

श्रोत्रियं च सदाचारं तीर्थमंत्रप्रपूतकम् । ईदृशं ब्राह्मणं हन्तुः पापस्यांतो न विद्यते

凡杀害如此之婆罗门者——通吠陀、守正行、由圣地仪轨与真言所净——其罪无有终尽。

Verse 47

अपकारं समुद्दिश्य द्विजः प्राणान्परित्यजेत् । दृश्यते येन चान्येन ब्रह्महा स भवेन्नरः

若一位再生者(dvija)怀着加害之意而舍命,且为他人所见,则此人即成“杀婆罗门者”(brahmahā)。

Verse 48

वचोभिः परुषैर्वृत्तैः पीडितस्ताडितो द्विजः । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातिनम्

若一位再生者(dvija)因粗恶之言与残酷之行而受折磨、受打击,心系某人而舍命,则那人被称为“杀婆罗门者”(brahma-hantā)。

Verse 49

ऋषयो मुनयो देवाः सर्वे ब्रह्मविदस्तथा । देशानां पार्थिवानां च स च वध्यो भवेदिह

诸圣仙、牟尼,乃至诸天神——皆为梵(Brahman)之知者——宣说:在诸国之君与诸王之中,如此之人于此世确当受诛。

Verse 50

अतो ब्रह्मवधं प्राप्य पितृभिः सह पच्यते । प्रायोपवेशकं विप्रं बुधः संमानयेद्ध्रुवम्

因此,既造作杀婆罗门之罪,他将与祖先一同在地狱受煎熬。智者必当恭敬行 prāyopaveśa(绝食至死之誓)的婆罗门。

Verse 51

दोषैश्चापि विनिर्मुक्तमुद्दिश्य प्राणमुत्सृजेत् । स प्रलिप्तो वधैर्घोरैर्न तु यं परिकीर्तयेत्

纵使他怀着欲离诸过的心而舍弃生命,此人既被可怖的杀业所染,亦不应被称颂赞扬。

Verse 52

आत्मघातं द्रुमारोहं कोटरै रूपजीविनं । यः कुर्यादात्मनोघातं स्ववंशे ब्रह्महा भवेत्

凡自取毁灭者——或自残,或登树求死,或入树洞等穴而亡、却以异形延续其生——此人于自家族系中成为杀婆罗门者。

Verse 53

भ्रूणं च घातयेद्यस्तु शिशुं वा आतुरं गुरुम् । ब्रह्महा स्वयमेव स्यान्न तु यं परिकीर्तयेत्

凡杀胎儿,或杀幼子,或杀病苦之师者,此人自成杀婆罗门者;不应以尊称称扬。

Verse 54

मारयेच्च सगोत्रं वा ब्राह्मणं ब्राह्मणाधमः । तस्यैव तद्भवेत्पापं न तु यं परिकीर्त्तयेत्

即使卑劣的婆罗门杀害同族的婆罗门,此业罪也唯归于行凶者自身,并不落在他所称引、所呼唤其名之人身上。

Verse 55

पीडयित्वा द्विजं शूद्रः स्वकार्यं चापि साधयेत् । तत्रापापे च शूद्रस्य पातकं नान्यथा भवेत्

若首陀罗逼迫一位再生者而达成自身目的,而此举对首陀罗被判为无罪,则除此之外并不生起任何罪过。

Verse 56

तात्कालिक वधं हत्वा हंतारमाततायिनं । न च हंता च तत्पापैर्लिप्यते द्विजसत्तम

当场诛杀凶恶的暴行者(ātatāyin)之后,行诛者不为此举之罪所染——噢,最胜的再生者。

Verse 57

आततायिनमायांतमपि वेदांतगं रणे । जिघांसंतं जिघांसेच्च न तेन ब्रह्महा भवेत्

即便来犯者前来攻击,纵然他通达吠檀多,在战斗中也可杀那欲杀人者;因此并不成为杀婆罗门者。

Verse 58

अग्निदो गरदश्चैव धनहारी च सुप्तघः । क्षेत्रदारापहारी च षडेते ह्याततायिनः

纵火者、下毒者、劫夺财物者、杀害熟睡之人者、侵夺田地者、掳夺他人妻者——此六类确称为 ātatāyin(暴行侵害者)。

Verse 59

खलो राजवधोद्योगी पितॄणां च वधे रतः । अनुयायी नृपो राज्ञश्चत्वारश्चाततायिनः

那企图弑君的恶人、乐于杀害尊长(父亲/祖先)者、国王的追随者,以及国王本人——此四者皆应视为侵害者(ātatāyin)。

Verse 60

तत्क्षणान्न मृतं विप्रं पुनर्हंतुं न युज्यते । पुर्नहत्वा वधं घोरं ज्ञानात्प्राप्नोति निश्चितं

若在当下那一刻婆罗门尚未死去,便不应再加一击;若仍再杀一次,必定招致可怖的屠戮之罪,此乃圣智教诲所明示。

Verse 61

लोके विप्रसमो नास्ति पूजनीयो जगद्गुरुः । हत्वा तं यद्भवेत्पापं तत्परं च न विद्यते

世间无人可与婆罗门比肩;他当受敬奉,如同世间之师。杀害他所生之罪——再无更大的罪过。

Verse 62

देववत्पूजनीयोसौ देवासुरगणैर्नरैः । ब्राह्मणस्य समो नास्ति त्रिषु लोकेषु निश्चितं

他应当如神明般受诸天(deva)、阿修罗(asura)之众及人类敬奉;确然无疑,在三界之中无人可与婆罗门等同。

Verse 63

नारद उवाच । कां वृत्तिं समुपाश्रित्य जीवितव्यं द्विजेन हि । अपानेन सुरश्रेष्ठ तत्वतो वक्तुमर्हसि

那罗陀说道:“再生者(婆罗门)应依何种生计以维持生命?噢,诸神之最胜者,请如实、依真理为我宣说。”

Verse 64

ब्रह्मोवाच । अयाचिता च या भिक्षा प्रशस्ता सा प्रकीर्तिता । उञ्छवृत्तिस्ततो भद्रा सुभद्रा सर्ववृत्तिषु

梵天说道:不求而得的施食,被宣说为可赞。故以拾取遗落穗粒而活(uñcha)为吉祥——实为一切生计中最为吉祥者。

Verse 65

यामाश्रित्य मुनिश्रेष्ठा गच्छंति ब्रह्मणः पदम् । दक्षिणा यज्ञशेषाणां ग्राह्या यज्ञगतेन हि

依凭此等神圣之行,最胜的牟尼得至梵天之境。确然,达克希那(dakṣiṇā,祭礼酬施)应从祭祀所余中受取,因为此乃由仪轨本身所许可。

Verse 66

पाठनं याजनं कृत्वा ग्रहीतव्यं धनं द्विजैः । पाठयित्वा पठित्वा च कृत्वा स्वस्त्ययनं शुभं

既行教授之业,又为祭祀主持(yājana)之后,二次生者应受取资财为酬。既教人诵习,又自诵吠陀,并当行吉祥的“svastyayana”安泰祈福之仪。

Verse 67

ब्राह्मणानामिदं जीव्यं शिष्टा वृत्तिः प्रतिग्रहः । शास्त्रोपजीविनो धन्या धन्या वृक्षोपजीविनः

此乃婆罗门应有之生计:受取布施之业,为贤者所许可。依诸论典(śāstra)而活者有福;依树木之产而活者亦有福。

Verse 68

धन्या वृक्षलताजीव्या वाटीसस्योपजीविनः । अन्न जंतु वधे पापं तस्य दोषोपशांतये

依树木藤蔓而生者有福,依园圃之产而食者亦有福;因为为食而杀害众生即有罪,此等饮食乃为息灭其过咎。

Verse 69

नवधान्यानि शस्तानि विप्रेभ्यः संप्रदापयेत् । न चेत्प्राणिवधे ह्यत्र क्षीयंते चायुषो ध्रुवं

应当如法将九种谷物及相称的供养奉献给婆罗门;否则,在此因伤害众生之故,寿命必定减损。

Verse 70

तस्माद्दद्यात्सुबहूनि पितृदेवद्विजातिषु । अभावात्क्षत्त्रियावृत्तिर्ब्राह्मणैरूपजीव्यते

因此,应当丰厚布施于祖灵、诸天与二次生者;因为若无适当资助,刹帝利应有的生计反而会由婆罗门来维持。

Verse 71

न्याययुद्धेषु योद्धव्यं चरेद्वीरव्रतं शुभम् । स तया च द्विजो वृत्या यद्धनं लभते नृपात्

唯当在正义之战中出征,并奉行吉祥的勇士誓戒。凡二次生者以此职业与行持从国王处所得之财——皆为正当。

Verse 72

पितृयज्ञादिदानेषु मेध्यं तद्धनमुच्यते । समभ्यसेद्धनुर्विद्यां वेदयुक्तां सदानघः

用于祖先祭(pitṛyajña)、诸祭祀及其他布施之财,称为“清净”。而常无罪垢者亦应勤修弓术之学,并依于吠陀之教。

Verse 73

शक्तिकुंतगदाखड्ग परिघाणां समंततः । अश्वारोहं गजारोहमैंद्रजालममानकं

四面皆有执矛、持钺、握棍、佩剑与铁杖之士;又有骑马者与乘象者——景象惊人,宛如因陀罗之幻术。

Verse 74

रथभूमिगतं युद्धं युक्तं सर्वत्र कारयेत् । द्विज देव ध्रुवाणां च स्त्रीणां वृत्तं तपस्विनाम्

应当使战争——无论在战车上或在地面——处处依正法而行;并当护持婆罗门、诸天、坚守正法者、妇女与苦行者的正当行持。

Verse 75

साधु साध्वी गुरूणां च नृपाणां रक्षणाद्ध्रुवम् । यत्पुण्यं लभ्यते शूरैः कथं तद्ब्रह्मवादिभिः

确实,国王护持善人、贞洁妇女与灵性导师,必得福德(puṇya)。然而,宣说梵(Brahman)之人、修观者,又如何获得同等福德呢?

Verse 76

सर्वपापक्षयं कृत्वा सोक्षयं स्वर्गमश्नुते । सम्मुखे न्याययुद्धे च पतंति ब्राह्मणा रणे

灭尽一切罪业之后,他得生天界,远离衰败。并且在当面而战的正义之战中,婆罗门也可能在战场上陨落。

Verse 77

ते व्रजंति परं स्थानं न गम्यं ब्रह्मवादिनां । धर्मयुद्धस्य यद्वृत्तं शृणु पुण्यं यथार्थतः

他们前往至上的住处——连阐释梵(Brahman)者亦难以抵达。如今请如实聆听那场正法之战的经过,其功德与真义。

Verse 78

संमुखेन प्रयुध्यंते न च गच्छंति कातरं । न भग्नं पृष्ठतो घ्नंति निःशस्त्रं प्रपलायितम्

他们当面交战,不趋于怯懦;不击杀背转而逃的败者,也不加害于弃械逃命之人。

Verse 79

अयुध्यमानं भीरुं च पतितं गतकल्मषं । असच्छूद्रं स्तुतिप्रीतमाहवे शरणागतम्

即使是不参战者、怯懦者、已跌落者、罪垢已尽者——乃至卑下的首陀罗、喜闻赞颂者——若在战阵中前来求庇护,也应收纳并护持之。

Verse 80

हत्वा च नरकं यांति दुर्वृत्ता जयकांक्षिणः । एषा च क्षत्त्रिया वृत्तिः सदाचारैस्तु गीयते

品行邪恶而贪求胜利者,杀戮之后便堕入地狱。此乃刹帝利之业,如守持善行者所宣说。

Verse 81

यामाश्रित्य दिवं यांति सर्वक्षत्रियकुंजराः । धर्मयुद्धे शुभो मृत्युः संमुखे क्षत्त्रियस्य च

依凭此理,一切刹帝利中如象般雄伟的勇士皆得升天。在正法之战中,死亡为吉祥——尤以刹帝利当面迎受者为然。

Verse 82

अत्र पूतो भवेत्सोपि सर्वपापैः प्रमुच्यते । स तिष्ठेत्स्वर्गलोके च प्रासादे रत्नभूषिते

在此处,即便那人也得净化,解脱一切罪业;并住于天界,在宝饰庄严的宫殿之中。

Verse 83

जांबूनदमयस्तंभे रत्नभूषितभूतले । इष्टद्रव्यैः सुसंपूर्णे दिव्यवस्त्रोपशोभिते

其柱以阎浮那陀金铸成,地面以珍宝庄严——陈设充满所喜之供品,并以天衣妙服增辉。

Verse 84

पुरतः कल्पवृक्षाश्च तिष्ठंति सर्वदायिनः । वापीकूपतटाकाद्यैरुद्यानैरुपशोभिते

前方矗立着如意的劫波树(kalpavṛkṣa),能赐予一切所求;此处又以园林与诸般水泽装点得庄严秀美——阶井、井、池塘等一应俱全。

Verse 85

यौवनाढ्याश्च सेवंते तं देवपुरकन्यकाः । तस्याग्रतो मुदा नित्यं नृत्यंत्यप्सरसां गणाः

天城的少女们,满具青春之美,侍奉于他;在他面前,众阿普萨拉(Apsaras)欢喜不绝,常常起舞。

Verse 86

गीतं गायंति गंधर्वा देवाश्च स्तुतिपाठकाः । एवं क्रमेण कल्पांते सार्वभौमो भवेन्नृपः

乾闼婆(Gandharva)歌唱妙曲,诸天诵读赞颂之偈;如是循序而行,至劫(kalpa)尽之时,国王便成转轮圣王,统御四方。

Verse 87

सर्वभोगैककर्ता च नीरुङ्मन्मथविग्रहः । तस्य पत्न्यः प्ररूपाढ्याः सदैव यौवनान्विताः

唯他一人赐予诸般享乐,其身无病,宛如爱神摩摩他(Manmatha)之化身;他的妻子们容色丰美,恒常具足青春。

Verse 88

धर्मशीलाः सुताः शुभ्राः समृद्धाः पितृसंमताः । एवं क्रमेण भुंजंति सप्तजन्मसु क्षत्रियाः

其子嗣持守正法(dharma),清净光明,富足兴盛,并为祖灵所悦纳;如是循序,刹帝利得享福乐,历经七生。

Verse 89

अन्यायेन तु योद्धारस्तिष्ठंति नरके चिरम् । एवं च क्षत्रिया वृत्तिर्ब्राह्मणैरुपजीव्यते

以不义而战的武士,将久住地狱。由此,刹帝利的生计与行持,得由婆罗门所扶持并加以引导。

Verse 90

वैश्यैः शूद्रैस्तथान्यैश्च अंत्यजैर्म्लेच्छजातिभिः । ये च योधाः प्रयुध्यंते न्याययुद्धेन सर्वदा

又有吠舍、首陀罗及其他人——乃至被称为安底阇者与生于弥勒叉族类者——其中亦有武士,恒常依正法之战则而战。

Verse 91

तेपि यांति परं स्थानं सर्वे वर्णा द्विजातयः । न शूरो यो द्विजो भीरुरस्त्रशस्त्रविवर्जितः

他们亦得至上之所——一切诸姓中之再生者皆然。然若有再生者不勇、怯懦而无兵刃,则被讥为不堪武士之职。

Verse 92

विपत्तौ वैश्यवृतिं च कारयेद्द्विजसत्तमः । वैश्यवृत्तिं वणिग्भावं कृषिं चैव तथापरैः

逢于灾厄之时,诸再生者中之最胜者,亦可从事吠舍之业;而吠舍之业,据他教所说,即为经商与耕作。

Verse 94

कारयेत्कृषिवाणिज्यं विप्रकर्म न च त्यजेत् । वणिग्भावान्मृषात्युक्तौ दुर्गतिं प्राप्नुयाद्द्विजः । आर्द्रद्रव्यं परित्यज्य ब्राह्मणो लभते शिवम् । समुत्पाद्य ततो वृत्तिं दद्याद्विप्राय सर्वशः

可令从事耕作与贸易,然不可舍弃婆罗门之本职。若再生者因商贾之性而妄语,则堕于困厄之境。舍弃以不正之途所得之财,婆罗门得获吉祥。继而既成其生计,当尽皆施与婆罗门。

Verse 95

पितृयज्ञे तथा चाग्नौ जुहुयाद्विधिवद्द्विजः । तुलेऽसत्यं न कर्त्तव्यं तुलाधर्मप्रतिष्ठिता

两次生者应依正法仪轨,于祖先祭(pitṛyajña)及圣火中奉献供物;在称量之事上不可妄言欺诈,因为衡秤立基于达摩(dharma)。

Verse 96

छलभावं तुले कृत्वा नरकं प्रतिपद्यते । अतुलं चापि यद्द्रव्यं तत्र मिथ्या परित्यजेत्

在称量中行诈者堕入地狱。若某物本不应称量,也不可虚妄地把它当作已称量之物以行欺骗;当舍弃此等谎诈。

Verse 97

एवं मिथ्या न कर्त्तव्या मृषा पापप्रसूतिका । नास्ति सत्यात्परोधर्मो नानृतात्पातकं परम्

因此不可说虚妄;谎言生出罪业。没有比真实更高的法(dharma),也没有比不真实更大的罪过。

Verse 98

अतः सर्वेषु कार्येषु सत्यमेव विशिष्यते । अश्वमेधसहस्रं तु सत्यं च तुलया धृतम्

因此在一切事业中,唯有真实最为卓越。将一千次马祭(Aśvamedha)与真实同置于衡秤之上,真实竟胜过其重。

Verse 99

अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते । यो वदेत्सर्वकार्येषु सत्यं मिथ्या परित्यजेत्

真实之德,胜过一千次马祭(Aśvamedha)。当于一切事务中言说真实,舍弃虚妄。

Verse 100

स निस्तरति दुर्गाणि स्वर्गमक्षयमश्नुते । वाणिज्यं कारयेद्विप्रो मिथ्याऽवश्यं परित्यजेत्

他能渡过重重险难,得享不坏之天界。婆罗门亦可从事贸易,但必当断除虚妄与欺诳。

Verse 101

वृद्धिं च निक्षिपेत्तीर्थे स्वयं शेषं तु भोजयेत् । देहक्लेशात्तत्सहस्रगुणं भवति सर्वदा

当将余财奉献安置于神圣的 tīrtha 作为供养,而自身只食其所余。由于身躯所受的辛劳,此行之功德恒常增至千倍。

Verse 102

अर्थार्जनविधौ मर्त्या विशंति विषमे जले । कांतारमटवीं चैव श्वापदैः सेवितां तथा

为求财利,凡人踏入险恶之水;亦复闯入荒林旷野,那里常有猛兽出没。

Verse 103

गिरिं गिरिगुहां दुर्गां म्लेच्छानां शस्त्रपातिनाम् । गृहं प्रतिभयं स्थानं धनलोभात्समंततः

山岳、山洞或堡垒,也会因贪恋财物而化作险恶之居、可怖之所;四面皆是持兵击杀的 mleccha 之徒。

Verse 104

सुतदारान्परित्यज्य दूरं गच्छंति लोभिनः । स्कंधे भारं वहंत्यन्ये तर्यां चक्रे निपातनैः

贪婪之人舍弃儿子与妻子,远走他方。有的肩负重担;有的在鞭打之下被掀倒,跌入渡船或被摔到车轮旁。

Verse 105

क्षेपणीभिर्महादुःखैस्सदा प्राणव्ययेन च । अर्थस्य संचयः पुत्र प्राणात्प्रियतरो महान्

在恒常的巨大痛苦与生命本身的耗损之中,孩子啊,积聚财物竟变得比生命更可爱——甚至更为珍重。

Verse 106

एभिर्न्यायार्जितं वित्तं वणिग्भावेन यत्नतः । पितृदेवद्विजातिभ्यो दत्तं चाक्षयमश्नुते

以这些方式正当所得之财,凭勤勉与商贾之进取而得;若布施于祖先、诸天与二次生者(婆罗门等),便成无尽之福德。

Verse 107

एतौ दोषौ महांतौ च वाणिज्ये लाभकर्मणि । लोभानामपरित्यागो मृषा ग्राह्यश्च विक्रयः

以利为业的贸易有两大过失:不舍贪欲,以及以虚妄欺诳而行买卖。

Verse 108

एतौ दोषो परित्यज्य कुर्यादर्थार्जनं बुधः । अक्षयं लभते दानाद्वणिग्दोषैर्न लिप्यते

舍弃这两种过失,智者当求取财物;以布施得不坏之福德,亦不为商贾之过所染。

Verse 109

पुण्यकर्मरतो विप्रः कृषिं हि परिकारयेत् । वाहयेद्दिवसस्यार्धं बलीवर्दचतुष्टयम्

乐于行善业的婆罗门,应使人从事耕作;并令四头公牛成队,劳作半日。

Verse 110

अभावात्त्रितयं चैव अविश्रामं न कारयेत् । चारयेच्च तृणेऽच्छिन्नै चोरव्याघ्रविवर्जिते

若此三者有所缺失,便不可令牲畜不息而行;应使其在草未割、且无盗贼与猛虎之处安然放牧。

Verse 111

दद्याद्घासं यथेष्टं च नित्यमातर्पयेत्स्वयम् । गोष्ठं च कारयेत्तस्य किंचिद्विघ्नविवर्जितम्

应随其所需供给草料,并日日亲自照料使之饱足;又当为其建造牛舍,使其无有阻碍与扰乱。

Verse 112

सदा गोमयमूत्राभ्यां विघसैश्च विवर्जितम् । न मलं निक्षिपेद्गोष्ठे सर्वदेवनिकेतने

应常使牛舍——被视为诸神之居——远离牛粪、牛尿与残羹余屑;不可将污秽弃置于牛舍之中。

Verse 113

आत्मनः शयनीयस्य सदृशं कारयेद्बुधः । समं निर्वापयेद्यत्नाच्छीतवातरजस्तथा

智者应使其如同自家卧具一般,并当勤谨地平整、均匀降温,使寒冷、风与尘埃同样得以遮止。

Verse 114

प्राणस्य सदृशं पश्येद्गां च सामान्यविग्रहम् । अस्य देहे सुखंदुःखं तथा तस्यैव कल्पते

当观此牛如同自身之生命气息,具同一有身之性;此身所生之乐与苦,亦当了知同样临于彼身。

Verse 115

अनेन विधिना यस्तु कृषिकर्माणि कारयेत् । स च गोवाहनैर्दोषैर्न लिप्येत धनी भवेत्

若有人依此所规定之法令而令农事进行,则不为与牛与车乘相关之过所染,且必得富足。

Verse 116

दुर्बलं पीडयेद्यस्तु तथैव गदसंयुतम् । अतिबालातिवृद्धं च स गोहत्यां समालभेत्

凡欺压羸弱者,亦欺压患病者,并及极幼与极老者,此人便招致如同杀牛之罪。

Verse 117

विषमं वाहयेद्यस्तु दुर्बलं सबलं तथा । स गोहत्यासमं पापं प्राप्नोतीह न संशयः

若使羸弱之畜负载不平或过重,视弱如强者,于此必得与杀牛等同之罪,毫无疑问。

Verse 118

यो वाहयेद्विना सस्यं खादंतं गां निवारयेत् । मोहात्तृणं जलं वापि स गोहत्यासमं लभेत्

若无作物之需而驱使母牛劳作,或阻止母牛进食,或因迷妄而连草与水亦不给她者,便得与杀牛等同之罪。

Verse 119

संक्रांत्यां पौर्णमास्यां चामावास्यायां तथैव च । हलस्य वाहनात्पापं गवामयुतहत्यया

于桑克兰提之日、满月之日,以及新月之日,若以犁为乘具而行,其罪据说等同于杀害一万头牛之罪。

Verse 120

अमूषु पूजयेद्यस्तु सितैश्चित्रादिभिर्नरः । कज्जलैः कुसुमैस्तैलैः सोक्षयं स्वर्गमश्नुते

然而,若有人以洁白之供品,并以绘像等供养彼等圣相,又以眼膏、花与香油奉献礼拜,便得不坏之天界。

Verse 121

घासमुष्टिं परगवे यो ददाति सदाह्निकम् । सर्वपापक्षयस्यस्य स्वर्गं चाक्षयमश्नुते

凡每日献一把青草于他人之牛者,得诸罪消灭,亦享不坏之天界。

Verse 122

यथा विप्रस्तथा गौश्च द्वयोः पूजाफलं समम् । विचारे ब्राह्मणो मुख्यो नृणां गावः पशौ तथा

如敬奉婆罗门,亦当敬奉母牛;礼拜二者之果报等同。然而细加衡量,婆罗门为人中最胜,牛为畜类最胜。

Verse 123

नारद उवाच । विप्रो ब्रह्ममुखे जातः कथितो मे त्वयानघ । कथं गोभिः समो नाथ विस्मयो मे विधे ध्रुवम्

那罗陀言:“无垢者啊,你曾告我婆罗门生自梵天之口。既如此,主啊,他怎会与诸牛等同?造物主啊,此事实令我惊异。”

Verse 124

ब्रह्मोवाच । शृणु चात्र यथातथ्यं ब्राह्मणानां गवां यथा । एकपिंडक्रियैक्यं तु पुरुषैर्निर्मितं पुरा

梵天曰:“汝当听此如实之理,关于婆罗门与诸牛之事。往昔人们立下此一同一之法:以同一份供亡者之饭团(pinda)与同一套仪轨,成就共同之连结。”

Verse 125

पुरा ब्रह्ममुखोद्भूतं कूटं तेजोमयं महत् । चतुर्भागप्रजातं तद्वेदोग्निर्गौर्द्विजस्तथा

在远古之时,从梵天(Brahmā)之口涌现出一团伟大而炽盛、凝聚的光辉(tejas)。此光分为四分,由此生出《吠陀》、阿耆尼(火神)、圣牛,以及再生者(婆罗门)。

Verse 126

प्राक्तेजः संभवो वेदो वह्निरेव तथैव च । परतो गौस्तथा विप्रो जातश्चैव पृथक्पृथक्

由原初的光辉(tejas)而生的是《吠陀》,同样也生出阿耆尼(Agni)。其后,圣牛与婆罗门亦各自诞生——各别而出,各自分明。

Verse 127

तत्र सृष्टा मया चादौ वेदाश्चत्वार एकशः । स्थित्यर्थं सर्वलोकानां भुवनानां समंततः

在那里,于最初之时,我将四部《吠陀》作为一体而造,为了维系一切世界、诸界诸域,遍于四方。

Verse 128

अग्निर्हव्यानि भुंजीत देवहेतोस्तथा द्विजः । आज्यं गोप्रभवं विद्धि तस्मादेते प्रसूतकाः

阿耆尼为诸天(deva)而享受祭献之供品;同样,再生者(婆罗门)亦分受所献之物。应知酥油(ghee)出自圣牛;因此这些被称为“prasūtaka”,由她所生、由她所出。

Verse 129

न संति यदि लोकेषु चत्वारोमी महत्तराः । तदाखिलं च भुवनं नष्टं स्थावरजंगमम्

若诸世界中不存在这四位伟大者,则整个宇宙——无论不动者与动者——都将毁灭。

Verse 130

एभिर्धृताः सदा लोकाः प्रतिष्ठंति स्वभावतः । स्वभावो ब्रह्मरूपोसावेते ब्रह्ममयाः स्मृताः

凭借这些,诸世界恒常得以维系,并依其自性而安住。此自性即是梵(Brahman)之形;因此诸界被忆念为遍满于梵。

Verse 131

तस्माद्गौः पूजनीयोसौ विप्र देवासुरैरपि । उदारः सर्वकार्येषु जातस्तथ्यो गुणाकरः

因此,婆罗门啊,那头母牛应受礼敬——即便诸天与阿修罗亦然。她于一切事业皆慷慨施与,确然生为施惠者,乃功德之藏。

Verse 132

सर्वदेवमयः साक्षात्सर्वसत्वानुकंपकः । अस्य कार्यं मया सृष्टं पुरैव पोषणं प्रति

他确然是诸神的直接化现,并怜悯一切众生。早在往昔,我便为成就滋养与护持(世间)之目的,创造了他此一职分。

Verse 133

अतएव मया दत्तं वरं चातिसुशोभनम् । एकजन्मनि ते मोक्षस्तवास्त्विति विनिश्चितम्

因此,我赐予你这极其殊胜光耀的恩赐:已然决定,你将在一生之内获得解脱(mokṣa)。

Verse 134

अत्रैव ये मृता गावस्त्वागच्छंति ममालयम् । पापस्य कणमात्रं तु तेषां देहेन तिष्ठति

凡在此处死去的母牛,皆来至我的居所;其身上连一微尘之罪也不复停留。

Verse 135

देवी गौर्धेनुका देवाश्चादिदेवी त्रिशक्तिका । प्रसादाद्यस्य यज्ञानां प्रभवो हि विनिश्चितः

她即女神——满愿之母牛(Dhenu),亦是诸天(deva)的总集,具三种神力的本初女神;唯由她的恩赐,祭祀(yajña)的兴起方得确定。

Verse 136

गवां सर्वपवित्राणि पुनंति सकलं जगत् । मूत्रं गोर्गोमयं क्षीरं दधिसर्पिस्तथैव च

牛所出的一切至净之物,能净化整个世界:牛尿、牛粪、牛乳、酸乳(凝乳),以及酥油(ghee)。

Verse 137

अमीषां भक्षणे पापं न तिष्ठति कलेवरे । तस्माद्घृतं दधि क्षीरं नित्यं खादंति धार्मिकाः

食用这些,罪垢不住于身。故持法之人常食酥油、酸乳与牛乳。

Verse 138

विशिष्टं सर्वद्रव्येषु गव्यमिष्टं परं शुभम् । यस्यास्ये भोजनं नास्ति तस्य मूर्तिस्तु पूतिका

在一切物质之中,牛所出者被视为最殊胜、最可爱、最吉祥。然而口中无食之人,其形体也不过是臭秽。

Verse 139

अन्नाद्यं पंचरात्रेण सप्तरात्रेण वै पयः । दधि विंशतिरात्रेण घृतं स्यान्मासमेककम्

熟食可保五夜而可食;牛乳确可保七夜。酸乳可保二十夜,而酥油则可保满一月。

Verse 140

अगव्यैर्यस्तु भुंक्ते वै मासमेकं निरंतरम् । भोजने तस्य मर्त्यस्य प्रेताः खादंति चैव हि

然而,若有人连续整整一月食用以非牛之物所制之食;在那凡人的餐食中,亡灵之“普雷塔”(preta)确实同来分食而啖。

Verse 141

परमान्नं परं शुद्धं स्विन्नं चातपतण्डुलैः । भुक्त्वा तु यत्कृतं पुण्यं कोटिकोटिगुणं भवेत्

若人食用至为清净之食,名为“帕拉曼那”(paramānna),以日晒之米蒸熟而成,则由此所生功德,便增广为千万亿倍。

Verse 142

अन्यच्चापि च यद्द्रव्यं हविष्यं शास्त्रनिर्मितम् । तद्भुक्तवा यत्कृतं कर्म सर्वं लक्षगुणं भवेत्

又复,凡诸经典所制定为“哈维夏”(haviṣya)之供献之物;若人食之,则其时所作一切行持,皆增为十万倍。

Verse 143

निरामिषं च यत्किंचित्तस्माद्यद्यत्फलं लभेत् । तस्माद्गौः सर्वकार्येषु शस्त एको युगेयुगे

凡由任何不害之行、亦即素食之戒所能得之果报;因此,唯有母牛在一切事业中、于每一时代每一劫中,皆受称赞。

Verse 144

सर्वदा सर्वकामेषु धर्मकामार्थमोक्षदः । नारद उवाच । केषु किं वा प्रयोगेण परं पुण्यं प्रकीर्तितं

于一切时、一切所愿之事,此法能赐予法(dharma)、欲(kāma)、利(artha)与解脱(mokṣa)。那罗陀(Nārada)曰:“于何等事物,或以何种施行之法,宣说为最上功德?”

Verse 145

वद तत्सर्वलोकेश यथा जानामि तत्वतः । ब्रह्मोवाच । सकृत्प्रदक्षिणं कृत्वा गोधनं चाभिवंदयेत्

“请告诉我吧,诸世界之主,使我如实了知真理。”梵天说道:“绕行一周(右绕礼敬)之后,也应向牛群恭敬顶礼。”

Verse 146

सर्वपापैर्विनिर्मुक्तः स्वर्गं चाक्षयमश्नुते । सुराचार्यो यथा वंद्यः पूज्योसौ माधवो यथा

他脱离一切罪业,得至不坏之天界。正如诸天之师应受敬礼,他亦应受供奉礼拜——如同摩达婆(毗湿奴)本尊一般。

Verse 147

सप्तप्रदक्षिणं कृत्वा चैश्वर्यात्पाकशासनः । कल्य उत्थाय गोमध्ये पात्रं गृह्य सहोदकम्

行毕七次右绕礼敬后,具足王权的帕迦沙萨那(因陀罗)于黎明起身;立于牛群之中,他取起一只器皿,并携水在手。

Verse 148

निषिंचेद्यो गवां शृंगं मस्तकेनैव तज्जलम् । प्रतीच्छेत निराहारस्तस्य पुण्यं निबोधत

当知其功德:若有人以牛角倾注清水,使那水直接落于自己头顶,并且持斋不食,请听他所积聚的福德(puṇya)。

Verse 149

श्रूयंते यानि तीर्थानि त्रिषु लोकेषु नारद । सिद्धचारणयुक्तानि सेवितानि महर्षिभिः

那罗陀啊,三界之中所闻诸圣地(tīrtha),为悉达与恰罗那所常至,也同样为大圣仙(ṛṣi)所巡礼并敬奉。

Verse 150

अभिषेकस्समस्तेषां गवां शृंगोदकस्य च । प्रातरुत्थाय यो मर्त्यः स्पृशेद्गां च घृतं मधु

当为一切母牛行灌顶沐浴(abhisheka),亦当取用牛角所盛之水。凡人清晨起身,触礼母牛,并取用酥油与蜂蜜者,得积福德。

Verse 151

सर्षपांश्च प्रियंगूंश्च कल्मषात्प्रतिमुच्यते । घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः

以芥子与pri​​yaṅgu(香黍)作供养,便得解脱诸垢染。赐予酥油与乳汁之母牛,生于酥油,以酥油为本源,亦由酥油而显现。

Verse 152

घृतनद्यो घृतावर्तास्ता मे संतु सदा गृहे । घृतं मे सर्वगात्रेषु घृतं मे मनसि स्थितम्

愿酥油之河、酥油之旋涡,恒常在我家中。愿酥油遍满我一切肢体;愿酥油安住于我心。

Verse 153

गावो ममाग्रतो नित्यं गावः पृष्ठत एव च । गावश्च सर्वगात्रेषु गवांमध्ये वसाम्यहम्

母牛常在我前,母牛亦在我后。母牛遍在我诸肢体;我安住于母牛之中。

Verse 154

इत्याचम्य जपेन्मंत्रं सायंप्रातरिदं शुचिः । सर्वपापक्षयस्तस्य स्वर्लोके पूजितो भवेत्

如是行毕阿遮摩那(ācamana)后,清净之人当于晨夕诵此真言;其一切罪业皆得消灭,并在天界(Svarga-loka)受尊崇。

Verse 155

यथा गौश्च तथा विप्रो यथाविप्रस्तथा हरिः । हरिर्यथा तथा गंगा एतेन ह्यवृषाः स्मृताः

如同母牛,如同婆罗门;如同婆罗门,如同哈利(Hari)。哈利如何,恒河(Gaṅgā)亦如何——由此教诲,他们被忆念为“avṛṣāḥ”,即永不可加害者。

Verse 156

गावो बंधुर्मनुष्याणां मनुष्या बांधवा गवाम् । गौश्च यस्मिन्गृहे नास्ति तद्बंधुरहितं गृहम्

母牛是人类的亲族,人类亦是母牛的亲族。家中若无母牛,那家便如同失却亲眷的居所。

Verse 157

गोमुखे चाश्रिता वेदाः सषडंगपदक्रमाः । शृंगयोश्च स्थितौ नित्यं सहैव हरिकेशवौ

在母牛之口中安住诸《吠陀》,并具六支与词句次第之法;而在其双角之上,哈利与凯沙瓦(Keśava)恒常并立。

Verse 158

उदरेऽवस्थितः स्कंदः शीर्षे ब्रह्मा स्थितः सदा । वृषद्ध्वजो ललाटे च शृंगाग्र इंद्र एव च

其腹中安住斯甘达(Skanda);其首上常住梵天(Brahmā)。额上是持牛旗之主(湿婆,Śiva),而因陀罗(Indra)确在角尖之端。

Verse 159

कर्णयोरश्विनौ देवौ चक्षुषोश्शशिभास्करौ । दंतेषु गरुडो देवो जिह्वायां च सरस्वती

其双耳中是阿湿毗尼双神(Aśvin);其双眼中是月与日。其齿中是神圣的迦楼罗(Garuḍa),其舌上是辩才天女萨拉斯瓦蒂(Sarasvatī)。

Verse 160

अपाने सर्वतीर्थानि प्रस्रावे चैव जाह्नवी । ऋषयो रोमकूपेषु मुखतः पृष्ठतो यमः

在身体下行之道中具足一切圣地渡口(tīrtha);在精液之流中即是阇诃那毗河(Jāhnavī,恒河)。诸仙(ṛṣi)住于皮肤毛孔;前为口,后为阎摩(Yama),死亡之主。

Verse 161

धनदो वरुणश्चैव दक्षिणं पार्श्वमाश्रितौ । वामपार्श्वे स्थिता यक्षास्तेजस्वंतो महाबलाः

财宝之主俱毗罗(Kubera)与伐楼那(Varuṇa)驻守于右胁;左胁则立诸夜叉(Yakṣa),光辉炽盛,力大无比。

Verse 162

मुखमध्ये च गंधर्वा नासाग्रे पन्नगास्तथा । खुराणां पश्चिमे पार्श्वेऽप्सरसश्च समाश्रिताः

口之中央住有乾闼婆(Gandharva);鼻尖处亦有龙族那伽(Nāga)安住;而蹄之背后侧,则有天女阿普萨拉(Apsaras)驻立。

Verse 163

गोमये वसते लक्ष्मीर्गोमूत्रे सर्वमंगला । पादाग्रे खेचरा वेद्या हंभाशब्दे प्रजापतिः

牛粪中住有吉祥天女拉克什弥(Lakṣmī);牛尿中安住一切吉祥。蹄尖之前当知有空行天众(khecara);而在“haṃbhā”之声中,即是生主波罗阇钵底(Prajāpati)。

Verse 164

चत्वारः सागराः पूर्णा धेनूनां च स्तनेषु वै । गां च स्पृशति यो नित्यं स्नातो भवति नित्यशः

诚然,诸牛之乳房充满四大海洋。是故,日日触牛之人,便等同于日日沐浴而得清净。

Verse 165

अतो मर्त्यः प्रपुष्टैस्तु सर्वपापैः प्रमुच्यते । गवां रजः खुरोद्धूतं शिरसा यस्तु धारयेत्

因此,凡人若将牛蹄扬起的牛尘恭敬顶戴于头上,便能从一切罪业中解脱,纵使罪垢已深亦复如是。

Verse 166

स च तीर्थजले स्नातः सर्वपापैः प्रमुच्यते । नारद उवाच । गवां च दशवर्णानां कस्य दाने च किंफलम्

又若在圣地渡口(tīrtha)的圣水中沐浴,也能从一切罪业中解脱。那罗陀说道:“十种颜色的牛中,布施哪一种,能得何等果报(灵果)?”

Verse 167

ब्रूहि तत्त्वं गुरुश्रेष्ठ परमेष्ठिन्प्रियं यदि । ब्रह्मोवाच । श्वेतां गां ब्राह्मणे दत्वा मानवश्चेश्वरो भवेत्

“若你为至上主所喜爱,至善导师啊,请告我真实义。”梵天答曰:“将白色之牛布施给婆罗门,人便可得尊贵与权势,成就主宰之福。”

Verse 168

प्रासादे वसते नित्यं भोगी च सुखमेधते । धूम्रा तु स्वर्गकांतार संसारे पापमोक्षिणी

她恒居高广宫殿,使享受者在安乐中兴盛;然名为“Dhūmrā”者,即便在天界亦如荒野,于世间流转中却能成为解脱罪垢之因。

Verse 169

अक्षयं कपिलादानं कृष्णां दत्वा न सीदति । पांडुरा दुर्लभा लोके गौरी च कुलनंदिनी

布施黄褐色(kapilā)之牛,其功德无尽;布施黑牛,则不堕忧苦。世间淡色之牛甚为稀有,正如高丽(Gaurī)亦为其族之欢喜与荣光。

Verse 170

रक्ताक्षी रूपकामस्य धनकामस्य नीलिका । एकां च कपिलां दत्वा सर्वपापैः प्रमुच्यते

红眼之牛罗多阿克希(Raktākṣī)成就容貌之愿,尼利迦(Nīlikā)成就财富之愿。即使布施一头黄褐色的迦毗罗牛(kapilā),亦能解脱一切罪业。

Verse 171

यत्तु बाल्यकृतं पापं यौवने वार्धके कृतम् । वाचाकृतं कर्मकृतं मनसा यत्प्रचिंतितं

凡在童年所造之罪,在青年或老年所作之过——或由言语而起,或由行为而成,乃至仅在心中思量之念——

Verse 172

अगम्यागमनं चैव मित्रद्रोहे च पातकम् । मानकूटं तुलाकूटं कन्यानृतं गवानृतम्

与不应亲近者行淫,以及背叛友人之罪;在量器上作伪、在秤重上作伪;欺骗处女之事,欺骗牛畜之事——

Verse 173

सर्वं च नाशयेत्क्षिप्रं कपिलां यः प्रयच्छति । दशयोजनविस्तीर्णा महापारा महानदी

凡能迅速布施一头迦毗罗黄褐牛者,便能立刻灭尽一切(罪)。有一条大河,宽十由旬,河岸广大无边。

Verse 174

नारा च जलकांतारे प्रसृते चोदकार्णवे । यावद्वत्सस्य द्वौ पादौ मुखं यावन्न जायते

在水之荒野中,当水的海洋漫延铺展之时——情形一直如此,直到小牛的两足显现,直到它的口尚未生成。

Verse 175

तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुंचति । सुवर्णशृंगीं वस्त्राढ्यां सर्वालंकारभूषिताम्

只要母牛尚未产下牛犊,就应当把她视作与大地等同——金色之角,衣饰华美,遍身庄严诸般璎珞。

Verse 176

ताम्रपृष्ठीं रौप्यखुरां तथा कांस्योपदोहनाम् । शोभितां गंधपुष्पैश्च सर्वालंकारभूषितां

其背如铜色,蹄若白银,挤乳之器为青铜;又以芬芳花鬘装点,遍身具足一切庄严。

Verse 177

ईदृशीं कपिलां दद्याद्द्विजातौ वेदपारगे । सर्वपापक्षयस्तस्य विष्णुलोकेऽच्युतो भवेत्

若将如此赭黄之“迦毗罗”(kapilā)母牛布施于通达吠陀的二生者(婆罗门),其一切罪业皆得消灭,并于毗湿奴之界成就不坏之身。

Verse 178

तस्यां तु दुह्यमानायां भूमौ पतंति बिंदवः । आरामादि विजायंते बहुपुष्पफलोत्तमाः

当那大地被挤乳之时,滴滴乳珠落于地面;由此生出园林等处,繁盛无比,具足上妙花果。

Verse 179

यत्र कामफला वृक्षा नद्यः पायसकर्दमाः । प्रासादाश्चापि सौवर्णास्तत्र गच्छंति गोप्रदाः

在那处,树木结出一切所愿之果;河流涌流乳粥,淤泥亦成甘乳;宫殿尽皆黄金所造——施牛之人,往生彼处。

Verse 180

दशधेनूश्च यो दद्यादेकं चैव धुरंधरं । समानं तु फलं प्रोक्तं ब्रह्मणा समुदाहृतम्

若有人布施十头乳牛,或仅布施一头强健负重之公牛——梵天已宣说,其所得的灵性功德同等无别。

Verse 181

एकं च दशभिर्दद्यात्सहस्राणां शतं फलम् । तस्यानुसारतो वेद्यं फलं नारद यत्नतः

若以十代一而行布施,其果报便成千千之中复增百倍。依此比例,哦那罗陀,当勤谨明了其功德之果。

Verse 182

पितॄनुद्दिश्य यः पुत्रो वृषं च मोक्षयेद्भुवि । पितरो विष्णुलोकेषु महीयंते यथेप्सितम्

那位儿子若念及祖先而在大地上放生一头公牛——其先祖便在毗湿奴诸界中得受尊崇,正如所愿。

Verse 183

चतस्रो वत्सतर्यश्च एकस्यैव वृषस्य च । मोक्ष्यंते सर्वतः पुत्र विधिरेष सनातनः

当放生四头小母牛与一头公牛,向四方皆然,哦孩子——此乃永恒之法度。

Verse 184

यावंति चैव रोमाणि तस्य तासां च सर्वशः । तावद्वर्षसहस्राणि स्वर्गं भुजंति मानवाः

其身上有多少毛发——总计一切毛发之数——人便享受天界多少千年。

Verse 185

लांगूलेन वृषो यच्च जलं चोत्क्षिपति ध्रुवं । तत्तोयं तु सहस्राब्दं पितॄणाममृतं भवेत्

凡公牛以其尾确然甩起、溅扬之水——彼水即成甘露(amṛta),为祖灵(Pitṛ)作千年之不死之饮。

Verse 186

खुरेण कर्षयेद्भूमिं ततो लोष्ठं च कर्दमः । पितृभ्यश्च स्वधा तत्र लक्षकोटिगुणं भवेत्

若以蹄耕刮大地,则土块与泥淖生起;于彼处,献予祖灵(Pitṛ)的“svadhā”供养,功德增至十万俱胝倍。

Verse 187

विद्यमाने च जनके यदि माता विनश्यति । चंदनेनांकिता धेनुस्तस्याः स्वर्गाय दीयते

若父尚在世而母先逝,当施舍一头以檀香膏作印记之母牛,使其得升天界。

Verse 188

दाता चैव पितॄणां च ऋणं चैव प्रमुंचति । अक्षयं लभते स्वर्गं पूजितो मघवा यथा

施与者亦能解除对祖灵(Pitṛ)所负之债;并得不坏之天界,如同摩伽婆(因陀罗)般受敬礼。

Verse 189

सर्वलक्षणसंयुक्ता तरुणा गौः पयस्विनी । समाप्रसूतिका भद्रा सा च गौः पृथिवी स्मृता

具足一切吉相,年少而乳丰——适时产犊,且蒙祝福——如是之牛,被忆念为大地本身。

Verse 190

तस्य दानेन मंत्रस्य पृथ्वीदानसमं फलं । शतक्रतुसमो मर्त्यः कुलमुद्धरते शतं

以布施此圣咒者,所得功德等同于布施整个大地。此人堪比释多迦罗图(因陀罗),并能拔济其族中百人。

Verse 191

गवां च हरणं कृत्वा मृते गोरथवत्सके । क्रिमिपूर्णे स कूपे च तिष्ठेदाभूतसंप्लवं

盗取牛者,当牛、车与犊皆已灭亡之时,必堕入满是虫蛆之井,直至众生的宇宙大劫坏灭。

Verse 192

गवां चैव वधं कृत्वा पितृभिः सह पच्यते । रौरवे नरके घोरे तावत्कालं प्रतिक्रिया

杀害牛者,将与其祖先一同在可怖的罗柔婆地狱中被煎煮;此即其在彼时长中的报应。

Verse 193

गोप्रचारप्रभग्नश्च षंडवाहनबंधनः । अक्षयं नरकं प्रायान्पुनर्जन्मनि जन्मनि

阻碍牛群放牧者,以及捆缚负重公牛者,将趋入不灭之地狱——生生世世,反复受报。

Verse 194

सकृच्च श्रावयेद्यस्तु कथां पुण्यतमामिमां । सर्वपापक्षयस्तस्य देवैश्च सह मोदते

然而,凡令此至圣之事迹得以听闻一次者,其一切罪业皆灭,并与诸天同享欢喜。

Verse 195

य इदं शृणुयाद्वापि परं पुण्यतमं महत् । सप्तजन्मकृतात्पापान्मुच्यते तत्क्षणेन हि

凡是仅仅聆听此至上、最神圣而伟大的教诲者,便在刹那间解脱七世所积之罪业。