Adhyaya 45
Srishti KhandaAdhyaya 45197 Verses

Adhyaya 45

Narasiṃha’s Greatness and the Slaying of Hiraṇyakaśipu (Boon, Portents, and Cosmic Restoration)

毗湿摩请问普罗娑底耶:希兰尼亚迦湿布之死、那罗辛哈的伟大,以及其灭罪之力。普罗娑底耶叙述这位阿修罗以极端苦行感动梵天,梵天降临并赐予层层复杂的恩赐,使其自以为无懈可击,几近与宇宙秩序同一。 诸天神畏惧其祸患,却又不愿梵天之言失信,遂请求合乎法(dharma)的解决之道。梵天安慰他们:毗湿奴必在适当之时终结此魔。希兰尼亚迦湿布随后压迫圣贤,征服三界。 诸天神归依毗湿奴;主赐无畏,并示现超越常理的那罗辛哈之相。经文铺陈宝饰王庭、随从军阵与种种宇宙征兆;大战中,兵器与幻力(māyā)皆失效。那罗辛哈摧灭阿修罗众,诛杀暴君,恢复宇宙安定;诸神以辨识性的赞颂称主即梵天、鲁陀罗、因陀罗、祭祀与至上《往世书》。

Shlokas

Verse 1

भीष्म उवाच । इदानीं श्रोतुमिच्छामि हिरण्यकशिपोर्वधम् । नरसिंहस्य माहात्म्यं तथा पापविनाशनम्

毗湿摩说道:如今我愿聆听诛灭希兰尼亚迦湿布之事——那罗辛哈的伟大威德,以及同样能摧毁罪业的功德。

Verse 2

पुलस्त्य उवाच । पुरा कृतयुगे राजन्हिरण्यकशिपुः प्रभुः । दैत्यानामादिपुरुषश्चकार सुमहत्तपः

普拉斯提耶说道:在久远的往昔,于克利多劫,哦大王,强盛的希兰尼亚迦湿布——诸代提耶的元始领袖——修行了极其宏大的苦行。

Verse 3

दशवर्षसहस्राणि दशवर्षशतानि च । जलवासी समभवत्स्नानमौनधृतव्रतः

他在水中居住一万年,又加十个百年,持守誓愿——恒常行沐浴之仪,并守持默然之戒。

Verse 4

वृतः शमदमाभ्यां च ब्रह्मचर्येण चैव हि । ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च

具足寂静与自制,又安住于梵行,他确实以苦行与戒律的严持,使梵天欢喜。

Verse 5

ततः स्वयंभूर्भगवान्स्वयमागत्य तत्र हि । विमानेनार्कवर्णेन हंसयुक्तेन भास्वता

于是自生的主(梵天)亲自来到那里,乘着光辉的天车而至——色如旭日,灿然照耀,由天鹅牵引。

Verse 6

आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्सह । रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः

与阿底提耶(Āditya)、婆苏(Vasu)、萨底耶(Sādhya)及摩鲁特(Marut)同在——并与诸天神众同聚——又与鲁陀罗(Rudra)、普遍扶持宇宙的神力,以及夜叉(Yakṣa)、罗刹(Rākṣasa)与蛇族众生(Pannaga)同列。

Verse 7

दिग्भिश्चैव विदिग्भिश्च नदीभिः सागरैस्तथा । नक्षत्रैश्च मुहूर्तैश्च खचरैश्च महाग्रहैः

——由诸方与诸隅方,由江河与大海;由星宿(nakṣatra)与时分(muhūrta),并由行于天际的光曜与诸大行星所环绕。

Verse 8

देवैर्ब्रह्मर्षिभिः सार्द्धं सिद्धैः सप्तर्षिभिस्तथा । राजर्षिभिः पुण्यकृद्भिर्गंधर्वाप्सरसांगणैः

与诸天神同在,与梵仙(Brahmarṣi)同在;与成就者(Siddha)及七圣仙(Saptarṣi)亦同在;与王仙(rājārṣi)、行善积德者,以及乾闼婆(Gandharva)与阿普萨拉(Apsaras)之众同列。

Verse 9

चराचरगुरुः श्रीमान्वृतः सर्वैर्दिवौकसैः । ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत्

于是梵天(Brahmā)——一切动与不动之师,受诸天众敬礼,且为知梵(Brahman)者之最胜——便以如下言辞对那达伊提耶(Daitya)说道。

Verse 10

प्रीतोस्मि तव भक्तस्य तपसाऽनेन सुव्रत । वरं वरय भद्रं ते यथेष्टं काममाप्नुहि

我因你这般苦行而欢喜,吾之信徒,汝持善誓者。择取一愿吧——愿吉祥归于你;成就你心所欲之愿。

Verse 11

हिरण्यकशिपुरुवाच । न देवासुरगंधर्वा न यक्षोरगराक्षसाः । न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम

希兰尼亚卡希普说道:“诸天、阿修罗与乾闼婆,夜叉、龙蛇与罗刹,以及人类与毗舍遮,都不能杀我;噢,诸神中最尊者。”

Verse 12

ऋषयो मानवाः शापैर्न शपेयुः पितामह । यदि मे भगवान्प्रीतो वर एष वृतो मया

“噢,祖父(毗多摩诃)啊,若蒙至福的主垂悦于我,我愿择此恩赐:愿诸仙与世人不能以其诅咒而施咒。”

Verse 13

न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा । न शुष्केण न चार्द्रेण न स्याच्चान्येन मे वधः

“我的死不由刀刃与兵器而来,不由山岳或树木而至;不由干者,不由湿者——亦不由任何他物致我于死。”

Verse 14

भवेयमहमेवार्कः सोमो वायुर्हुताशनः । सलिलं चांतरिक्षं च नक्षत्राणि दिशो दश

“愿我自身成为太阳、月亮、风与火;亦成为诸水、虚空、群星,以及十方。”

Verse 15

अहं क्रोधश्च कामश्च वरुणो वासवो यमः । धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः

“我亦是忿怒与欲望;我即伐楼那、婆娑婆(因陀罗)与阎摩;我即檀那陀(俱毗罗)、财富之主,亦为夜叉,并为金普鲁沙之王。”

Verse 16

ब्रह्मोवाच । एष दिव्यो वरस्तात मया दत्तस्तवाद्भुतः । सर्वकामप्रदो वत्स प्राप्स्यसि त्वं न संशयः

梵天说道:“亲爱的孩子,这奇妙而神圣的恩赐由我赐予你。它能成就一切所愿,我的儿子;你必定得之——毫无疑虑。”

Verse 17

एवमुक्त्वा स भगवान्जगामाकाशमेव हि । वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम्

说罢,至福的主确实升入虚空,前往毗罗阇的梵天居所——梵天之座——为众多梵仙所侍奉。

Verse 18

ततो देवाश्च गंधर्वा ऋषिभिः सह चारणाः । वरप्रदानं श्रुत्वैवं पितामहमुपस्थिताः

随后,诸天、乾闼婆与迦罗那众,连同诸仙人,听闻此般赐福之后,便前来觐见毗多摩诃(梵天)。

Verse 19

देवा ऊचुः । वरप्रदानाद्भगवन्वधिष्यति स नोऽसुरः । तत्प्रसादश्च भगवन्वधोप्यस्य विचिंत्यताम्

诸天说道:“至福的主啊,由于所赐之恩,那阿修罗将杀害我们。因此,主啊,请思量:既如何诛灭他,又如何保全你的恩许与赐福之不失。”

Verse 20

भगवान्सर्वभूतानामादिकर्त्ता स्वयंप्रभुः । स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिः परः

至福的主乃一切众生之本初造作主,自光自明,独立自在;亦为供奉诸天之havya与奉献祖灵之kavya之创制者。祂超越一切,其本性即未显之普拉克里蒂(Prakṛti)。

Verse 21

सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः । आश्वासयामास तदा सुशीतैर्वचनांबुभिः

听闻那利益诸世界之言后,神圣的生主(Prajāpati)当即以如清凉甘泉般的言语加以抚慰。

Verse 22

अवश्यं त्रिदशानेन प्राप्तव्यं तपसः फलं । तपसोऽन्तेऽस्य भगवान्वधं विष्णुः करिष्यति

必定要由这位三十三天神之一得享苦行之果;待其苦行终了,至福的主毗湿奴(Viṣṇu)将使其命尽。

Verse 23

तच्छ्रुत्वा विबुधा वाक्यं सर्वे पंकजजाननात् । स्वानि स्थानानि दिव्यानि विप्रजग्मुर्मुदान्विताः

听到那位莲华面者所说之语,诸天众神皆心怀欢喜,返回各自的天界宫处。

Verse 24

लब्धमात्रे वरे सोथ प्रजास्सर्वा अबाधत । हिरण्यकशिपुर्दैत्यो वरदानेन गर्वितः

他一得赐福(boon),便开始压迫一切臣民;阿修罗希兰尼亚迦湿布(Hiraṇyakaśipu)因得此恩赐而骄矜自大。

Verse 25

आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान् । सत्यधर्मपरान्दान्तान्धर्षयामास दानवः

在诸修行林(āśrama)中,那罗刹(dānava)骚扰诸位大德牟尼:以誓戒著称,奉持真实与法(dharma),且自制清净。

Verse 26

देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः । त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः

他战胜了遍住三界的诸天,伟大的阿修罗使三界尽归其掌控,那达那婆竟居于天界。

Verse 27

यदा वरमदोत्सिक्तश्चोदितः कालधर्मिणा । यज्ञियानकरोद्दैत्यानयज्ञीयांश्च दैवतान्

当他因所得恩赐而傲醉,又被时间既定之法所驱使,便使达底耶族堪受祭祀(yajña),而令诸天不堪受祭。

Verse 28

तथा दैत्याश्च साध्याश्च विश्वे च वसवस्तथा । रुद्रा देवगणा यक्षा देवद्विजमहर्षयः

同样还有:达底耶、萨底耶,毗湿毗天与婆苏;鲁陀罗、诸神众、夜叉,以及天裔圣贤与大牟尼。

Verse 29

शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् । देवदेवं यज्ञमयं वासुदेवं सनातनम्

他们前往依止大力的毗湿奴——无依者之归依、至上的庇护——那永恒的诸神之神婆苏提婆,亦即祭祀(yajña)之化身。

Verse 30

देवा ऊचुः । नारायण महाभाग देवास्त्वां शरणं गताः । त्रायस्व जहि दैत्येंद्रं हिरण्यकशिपुं प्रभो

诸天说道:“大福德的那罗延啊,我们诸神已归依于你。求你救护我们,主宰啊——诛灭达底耶之王希兰尼亚迦湿布。”

Verse 31

त्वं हि नः परमोदाता त्वं हि नः परमो गुरुः । त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तमः

诚然,唯你是我们至上的施予者;诚然,唯你是我们最高的导师。诚然,唯你是我们至上的神祇——诸天之最胜者,即使在梵天等众神之中亦然。

Verse 32

विष्णुरुवाच । भयं त्यजद्ध्वममरा अभयं वो ददाम्यहम् । तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम्

毗湿奴说道:“舍弃恐惧吧,不死者们;我赐予你们无畏。如此,诸天啊,速速重返三界之天。”

Verse 33

एनं हि सगणं दैत्यं वरदानेन गर्वितम् । अवध्यममरेंद्राणां दानवेंद्रं निहन्म्यहम्

诚然,我将诛灭此达伊提耶及其党羽——这位达那婆之王,因得赐福而骄矜自满,甚至被诸天之主视为不可杀者。

Verse 34

एवमुक्त्वा तु भगवान्विश्वपो विष्णुरव्ययः । हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः

说罢,世间的护持者、不可朽坏的毗湿奴——圣者哈利、至上自在天——便前往希兰尼亚迦湿布的居处。

Verse 35

तेजसा भास्काराकारः शशीकांत्येव चापरः । नरस्य कृत्वार्धतनुं सिंहस्यार्द्धतनुं तथा

其光辉如日之形,又以另一相显现月之清辉;他造就半身为人,亦复半身为狮。

Verse 36

नारसिंहेन वपुषा पाणिं संगृह्य पाणिना । ततो ददर्श विस्तीर्णां दिव्यां रम्यां मनोरमाम्

他化作那罗辛哈之身,以手握住她的手;随即见到一处广大、神圣、秀丽而极其悦目的境界。

Verse 37

सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम् । विस्तीर्णां योजनशतं शतमध्यर्द्धमायताम्

那金光灿然、具足一切所欲安乐的希兰尼亚卡希布议事殿,宽一百由旬,长一百五十由旬。

Verse 38

वैहायसीं कामगमां पंचयोजनमुच्छ्रिताम् । जराशोकक्षमापेतां निष्प्रकम्प्यां शिवां सुखाम्

其殿凌空而行、随意往来,高达五由旬;远离衰老、忧苦与疲惫,安稳不动,吉祥而充满安乐。

Verse 39

वेश्मासनवतीं रम्यां ज्वलंतीमिव तेजसा । अंतःसलिलसंयुक्तां विहितां विश्वकर्मणा

那可爱之所,具楼阁与宝座,光辉炽然如焰;内有清水相连,乃毗湿瓦羯摩所造。

Verse 40

दिव्यवर्णमयैर्वृक्षैः फलपुष्पप्रदैर्युताम् । नीलपीतासितश्यामैः श्वेतैर्लोहितकैरपि

其间点缀着种种妙色之树,结实开花:或青、或黄、或黝暗、或黑青、或白,亦有赤红。

Verse 41

अवदातैस्तथा गुल्मै रक्तमंजरिधारिभिः । सिताभ्रघनसंकाशां प्लवंतीं च ददर्श सः

随后他看见她,周围环绕着洁白明亮的灌木,枝头垂挂着红色花簇;她宛如浓密的白云团,仿佛在空中漂浮。

Verse 42

रश्मिमती स्वभावेन दिव्यगंधमनोरमा । सुसुखा न च दुःखा सा न शीता न च घर्मदा

凭其本性,罗湿弥摩底(Raśmimatī)芬芳可爱,散发神圣之香。她极其安适——不忧苦,不寒冷,也不炽热。

Verse 43

न क्षुत्पिपासे ग्लानिं वा प्राप्यतां प्राप्नुवंति ते । नानरूपैरुपकृता सुचित्रैश्च सुभास्वरैः

他们不受饥渴之苦,也不陷于疲惫。以种种方式被照料,陈设奇妙,变化多姿而光彩照人。

Verse 44

अतिचंद्रातिसूर्याति शिखिकान्ति स्वयंप्रभा । दीप्यते नाकपृष्ठस्था भासयंती विभासुरा

她的光辉胜过明月,甚至胜过太阳;如烈火般炽然,自体放光;在天界之巅熠熠生辉,灿然照耀四方。

Verse 45

सर्वे चकाशिरे तस्यां मुदिताश्चैव मानुषाः । रसवच्च प्रभूतं च भक्ष्यभोज्यान्नमुत्तमं

在那处,众人皆因欢喜而容光焕发;又有上等饮食丰盛充足,滋味醇美,佳肴与餐食无尽。

Verse 46

पुण्यगंधास्रजश्चापि नित्यकालफला द्रुमाः । उष्णे शीतानि तोयानि शीते चोष्णानि संति वै

亦有散发圣香的花鬘,并有四时常结果的树木。炎热之时,水清凉;寒冷之时,水确然温暖。

Verse 47

पुष्पिताग्रान्महाशाखान्प्रवालांकुरधारिणः । लतावितानसंछन्नान्कल्पानैक्षिष्ठ स प्रभुः

彼主观见如意的劫波树:巨枝繁茂,梢头开花,含嫩芽新叶,并为藤蔓的华盖所覆。

Verse 48

गंधवंति च पुष्पाणि रसवंति फलानि च । तानि शीतानि चोष्णानि तत्रतत्र सरांसि च

有芬芳之花与甘润多汁之果;其间各处又有湖泊,有的清凉,有的温暖。

Verse 49

अपश्यद्भूपतीर्थानि सभायां तस्य स प्रभुः । नलिनैः पुंडरीकैश्च शतपत्रैः सुगंधिभिः

彼主在其会堂中观见王者之圣渡处(tīrtha),以莲华庄严:青莲、白莲,以及芬芳的百瓣莲。

Verse 50

रक्तैः कुवलयैश्चैव कल्हारैरुत्पलैस्तथा । नानाश्चर्यसमोपेतैः पुष्पैरन्यैश्च सुप्रियैः

又以赤色库瓦拉雅莲,并以迦罗诃罗与优钵罗诸莲,以及其他极可爱、具种种奇妙德相之花而庄严。

Verse 51

कारंडवैश्चक्रवाकैः सारसैः कुररैरपि । विमलस्फटिकाभानि पांडुरच्छदनैर्द्विजैः

有karandava鸭、chakravaka雁、sarasa鹤,乃至kurara鹗等羽色淡白之鸟;其景其水,宛如无瑕净澈的水晶。

Verse 52

बहुहंसोपगीतानि सारसानां रुतानि च । गंधयुक्ता लतास्तत्र पुष्पमंजरिधारिणीः

彼处众多hamsa天鹅清歌相和,亦闻sarasa鹤之鸣;芬芳藤蔓遍在,缀满花簇花穗。

Verse 53

दृष्टवान्भगवान्हृष्टः खदिरान्वेतसार्जुनान् । चूतानिम्बानागवृक्षाः कदंबा बकुला धवाः

世尊见之欢喜:khadira、vetasa与arjuna诸树,芒果与楝树,nāga树,以及kadamba、bakula、dhava等,尽入眼前。

Verse 54

प्रियंगवः पाटलाख्याः शाल्मल्यस्स हरिद्रवाः । शालास्तालास्तमालाश्च चंपकाश्च मनोरमाः

又有priyaṅgu树、名为pāṭala者、śālmali与haridrava;并有śāla、tāla、tamāla,以及清丽可爱的campaka。

Verse 55

तथैवान्ये व्यराजंत सभायां पुष्पिता द्रुमाः । एलाक कुभकंकोल लवली कर्णपूरकाः

同样, सभा会堂之中,诸多开花之树灿然生辉:ela(豆蔻)、kubhaka、kankola、lavalī与karṇapūraka。

Verse 56

मधुकाः कोविदाराश्च बहुतालसमुच्छ्रयाः । अंजनाशोकपर्णासा बहवश्चित्रका द्रुमाः

其间有摩度迦树与拘毗陀罗树,亦有许多高耸的棕榈;又有阿阇那树、枝叶繁茂的阿输迦树,以及众多斑斓多姿的林木。

Verse 57

वरुणाश्च पलाशाश्चा पनसास्सह चंदनैः । नीलास्सुमनसश्चैव नीपाश्चाश्वत्थतिंदुकाः

又有伐楼那树、波罗舍树与菠萝蜜树,并有芬芳的檀香;亦有开蓝花的尼罗树、馥郁的苏摩那娑树,以及尼婆树、神圣的阿湿婆他(圣榕)与丁杜迦树。

Verse 58

पारिजाताश्च तरवो मल्लिका भद्रदारवः । अटरूषाः पीलूकाश्च तथा चैवैलवालुकाः

亦有波利阇多树、茉莉(摩利迦),吉祥之材的婆陀罗达罗婆树,阿吒卢沙草木、毗卢树,并且还有伊罗婆罗地区的沙地旷野。

Verse 59

मंदारकाः कुरवका पुन्नागाः कुटजास्तथा । रक्ताः कुरवकाश्चैव नीलाश्चागरुभिः सह

其间有曼陀罗树、俱罗婆迦草木、芬那伽树与苦吒阇树;并有赤色的俱罗婆迦与蓝色花朵,且伴以沉香(阿伽卢)。

Verse 60

किंशुकाश्चैव भव्याश्च दाडिमा बीजपूरकाः । कालेयका दुकूलाश्च हिंगवस्तैलवर्त्तिकाः

又有金舒迦树、婆毗耶草木、石榴与香橼;并有迦梨耶迦等芬芳之物、细软的杜俱罗衣料、兴伽(阿魏),以及供灯用的油浸灯芯。

Verse 61

खर्जूरा नालिकेराश्च हरीतक मधूककाः । सप्तपर्णाश्च बिल्वाश्च सयावाश्च शरावताः

有海枣椰树与椰子树;又有诃梨勒(harītakī)与摩度迦(madhūka)之树;七叶树(saptaparṇa)与毕罗树(bilva);并有萨雅瓦(sayāva)与舍罗伐塔(śarāvatā)——皆被列举。

Verse 62

असनाश्च तमालाश्च नानागुल्मसमावृताः । लताश्च विविधाकाराः पुष्पपत्रफलोपगाः

有阿娑那(asana)与多摩罗(tamāla)之树,四周环绕着种种灌木;又有形态各异的藤蔓,具足花、叶与果。

Verse 63

एते चान्ये च बहवस्तत्र काननजा द्रुमाः । नानापुष्पफलोपेता व्यराजंत समंततः

此等以及许多其他林中所生之树皆在其处;具足种种花与果,四方辉映,灿然可观。

Verse 64

चकोराः शतपत्राश्च मत्तकोकिलशारिकाः । पुष्पितान्पुष्पिताग्रांश्च संपतंति महाद्रुमान्

恰科罗鸟(chakora)、百瓣鸟(śatapatra),以及沉醉欢鸣的杜鹃与八哥,纷纷飞落于大树之上——那大树繁花盛开,树梢亦尽是花冠。

Verse 65

रक्तपीतारुणास्तत्र पादपाग्रगताः खगाः । परस्परमवैक्षंत प्रहृष्टा जीवजीविकाः

其处,红、黄与赤褐色的群鸟栖于树梢;欢喜自在,各以其生计而活,彼此相望。

Verse 66

तस्यां सभायां दैत्येंद्रो हिरण्यकशिपुस्तदा । आसीन आसने चित्रे दशनल्वे प्रमाणतः

在那议会大殿中,代提耶之主希兰尼亚卡希普当时端坐于华丽精雕的宝座上,其尺度广达十肘。

Verse 67

दिवाकरनिभे दिव्ये दिव्यास्तरणसंस्तृते । हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुंडलः

在那神圣殿堂中,光辉如日,铺陈天界帷覆;代提耶希兰尼亚卡希普端坐其间,耳环灼灼放光。

Verse 68

उपचेरुर्महादैत्या हिरण्यकशिपुं तदा । दिव्यतालानि गीतानि जगुर्गंधर्वसत्तमाः

于是强大的代提耶众侍奉希兰尼亚卡希普;而最上等的乾闼婆以神圣节拍歌唱天界之歌。

Verse 69

विश्वाची सहजन्या च प्रम्लोचेति च पूजिता । दिव्याथ सौरभेयी च समीची पुंजिकस्थला

毗湿婆知、娑诃阇尼耶与受敬的普罗摩罗迦;又有天女迪维娅、娑罗婆黑伊、娑弥知与本吉迦斯塔拉。

Verse 70

मिश्रकेशी च रंभा च चित्रभा श्रुतिविभ्रमा । चारुनेत्रा घृताची च मेनका चोर्वशी तथा

又有弥湿罗计湿伊与蓝婆、质多罗婆与闻声迷幻;佳目女与酥陀知,并且还有美那迦与乌尔婆湿伊。

Verse 71

एतास्सहस्रशश्चान्या नृत्यगीतविशारदाः । उपातिष्ठंत राजानं हिरण्यकशिपुं प्रभुम्

又有千千万万善于舞蹈与歌咏的女子,侍立于王前——主宰希兰尼亚迦湿布(Hiraṇyakaśipu)。

Verse 72

उपासते दितेः पुत्राः सर्वे लब्धवरास्तथा । बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः

狄蒂(Diti)之诸子皆礼拜于他,同得恩赐;其间亦有婆利(Bali)、毗罗遮那(Virocana)与那罗迦(Naraka),大地之子。

Verse 73

प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः । सुरहन्ता दुःखकर्ता समनास्सुमतिस्तथा

其间有普罗诃罗陀(Prahlāda)、毗钵罗质底(Vipracitti)与伽毗湿吒(Gaviṣṭha)这大阿修罗;又有苏罗汉塔(Surahantā)、杜赫迦迦尔塔(Duḥkhakartā),以及萨摩那(Samanā)与苏摩提(Sumati)。

Verse 74

घटोदरो महापार्श्वः क्रथनः पिठरस्तथा । विश्वरूपस्वरूपश्च विश्वकायो महाबलः

他名为伽陀多罗(Ghaṭodara)、广胁者摩诃波尔湿婆(Mahāpārśva)、克罗陀那(Krathana)与毗吒罗(Piṭhara);其性本具普遍之相,身为宇宙之体,力大无穷。

Verse 75

दशग्रीवश्च वाली च मेघवासा महासुरः । घटाभो विटरूपश्च ज्वलनश्चेंद्रतापनः

亦有十首者达沙格利瓦(Daśagrīva,罗波那 Rāvaṇa)、婆利(Vālī)、大阿修罗梅伽婆萨(Meghavāsā)、伽吒婆(Ghaṭābha)、毗吒卢波(Viṭarūpa)、阇伐罗那(Jvalana)与因陀罗达帕那(Indratāpana)。

Verse 76

दैत्यदानवसंघास्ते सर्वे ज्वलितकुंडलाः । स्रग्विणो वर्मिणः सर्वे सर्वे च चरितव्रताः

那些提提族(Daitya)与达那婆(Dānava)的军团,皆佩戴炽焰般的耳环;皆披花鬘、着甲胄,皆坚守所立之誓愿。

Verse 77

सर्वे लब्धवराः शूरास्सर्वे विहितमृत्यवः । एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम्

众皆为得赐福佑的英勇之士;众之死唯系于所定之条件。此等以及更多诸众,皆奉事其主——希兰尼亚迦湿布(Hiraṇyakaśipu)。

Verse 78

उपासते महात्मानं सर्वे दिव्यपरिच्छदाः । विमानैर्विविधाकारैर्भ्राजमानैरिवाग्निभिः

众皆身着天衣、佩以神饰,礼敬那位大心者;乘诸般形相之毗摩那(vimāna)而来,辉耀如火焰。

Verse 79

महेन्द्रवपुषः सर्वे विचित्रांगदबाहवः । भूषितांगा दितेः पुत्रास्तमुपासत सर्वतः

提提(Diti)之诸子,皆具如因陀罗(Indra)之形貌,臂戴奇妙臂钏,身披华饰,从四面八方礼拜于他。

Verse 80

ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः । न श्रुतं नैव दृष्टं च कस्यापि भुवनत्रये

那位大心者、号称“提提族之狮”的威德权势,如此无比;于三界之中,未曾有人闻其比拟,亦未曾有人见其同类。

Verse 81

रजतकनकचित्रवेदिकायां परिकृतरत्नविचित्रवीथिकायाम् । स ददर्श मृगाधिपः सभायां सुरुचिर जालगवाक्षशोभितायाम्

在那殿堂中,台座以白银与黄金巧妙镶嵌,廊道又以奇珍异宝精致点缀;兽中王看见一座华美的议会之厅,玲珑的格窗使其更显庄严秀丽。

Verse 82

कनकवलयहारभूषितांगं दितितनयं स मृगाधिपो ददर्श । दिवसकरकरप्रभं ज्वलंतं दितिजसहस्रशतैर्निषेव्यमाणम्

兽中王看见狄提之子,肢体佩戴金镯与金项链;他如日光之辉炽然闪耀,并有成百的达那婆(Dānava)勇士侍立随从。

Verse 83

ततो दृष्ट्वा महाभागं कालचक्रमिवागतम् । नारसिंहवपुश्छन्नं भस्मच्छन्नमिवानलम्

随后,他见到那至为尊贵者,宛如时间之轮亲自现前;披覆那罗辛诃之形,如同烈火被灰烬所掩。

Verse 84

हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान् । दिव्येन वपुषा सिंहमपश्यद्देवमागतम्

勇武的希兰尼亚迦湿布之子普罗诃罗陀,看见那位天神降临,以狮子之形示现,具足神圣的妙身。

Verse 85

तं दृष्ट्वा रुक्मशैलाभमपूर्वां तनुमाश्रितम् । विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः

见到他取了前所未有之身,宛如金色大山一般,所有达那婆众尽皆惊愕,希兰尼亚迦湿布亦复如是。

Verse 86

प्रह्लाद उवाच । महाराज महाबाहो दैत्यानामादिसंभव । न श्रुतं नैव मे दृष्टं नारसिंहमिदं वपुः

普罗诃罗陀说道:大王啊,臂力无双者,诸代提耶之始祖——我从未听闻,也从未见过这般那罗辛诃之形。

Verse 87

अव्यक्तं परमं दिव्यं किमिदं रूपमागतम् । दैत्यांतकरणं घोरं शंसतीव मनो मम

无相、至上而神圣——这显现的形体究竟为何?我心仿佛预感到一股可怖之力,将使代提耶走向终灭。

Verse 88

अस्य देवाः शरीरस्थाः सागराः सरितस्तथा । हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः

在祂身中安住诸天神,也有大海与诸河;并有喜马梵山、帕里亚特拉山,以及其余诸族系之山。

Verse 89

चंद्रमास्सहनक्षत्रैरादित्या रश्मिभिः सह । धनदो वरुणश्चैव यमः शक्रः शचीपतिः

月神与众星宿同在,诸阿底提耶与其光芒同在;财主库毗罗、伐楼那、阎摩,以及释迦——即舍契之主因陀罗——亦皆在其中。

Verse 90

मरुतो देवगंधर्वा ऋषयश्च तपोधनाः । नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः

风神众(摩鲁特)、天界乾闼婆,以及以苦行为财的圣仙;龙族、夜叉、毗舍遮,并具可怖威力的罗刹,皆在其中。

Verse 91

ब्रह्मा देवाः पशुपतिर्ललाटस्था भ्रमंति हि । स्थावराणि च सर्वाणि जंगमानि तथैव च

诚然,梵天、诸天与住于额上的帕舒帕提不断游行;一切众生亦复如是,或静止不动,或行走活动。

Verse 92

भवांश्च सहितोस्माभिः सर्वैर्दैत्यगणैर्वृतः । विमानशतसंकीर्णा सर्वा या भवतः सभा

你亦与我们同在,被一切代提耶众围绕;而你的整个会堂,挤满了成百的毗摩那——空中神车。

Verse 93

सर्वं त्रिभुवनं राजन्लोकधर्मश्च शाश्वतः । दृश्यते नरसिंहेस्मिंस्तथेदं निखिलं जगत्

大王啊,在此那罗辛哈之中,可见三界全体与诸世界永恒之法;同样,这整个宇宙亦尽现其中。

Verse 94

प्रजापतिश्चात्र मनुर्महात्मा ग्रहाश्च योगाश्च मही नभश्च । उत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यं च तपो दमश्च

此处亦有生主(Prajāpati)与大魂摩奴(Manu);诸行星与诸瑜伽;大地与苍穹;灾异之时;坚忍与慧思;爱恋;真实;苦行(tapas)与自制(dama)。

Verse 95

सनत्कुमारश्च महानुभावो विश्वे च देवा ॠषयश्च सर्वे । क्रोधश्च कामश्च तथैव हर्षो दर्पश्च मोहः पितरश्च सर्वे

彼处有大威德的善达迦摩罗(Sanatkumāra)、毗湿维天众(Viśvedevas)与一切仙人;亦有忿怒、欲望与欢喜;骄慢与迷妄;并有一切祖灵(Pitṛ)——这一切皆摄在其中。

Verse 96

प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुः । उवाच दानवान्सर्वान्गणांश्च सगणाधिपः

听闻普罗诃罗陀(Prahlāda)之言后,主宰希兰尼亚迦湿布(Hiraṇyakaśipu)便对一切达那婆(Dānava)及聚集的众军团,连同其首领而宣告。

Verse 97

मृगेंद्रो गृह्यतामेष अपूर्वां तनुमास्थितः । यदि वा संशयः कश्चिद्वध्यतां वनगोचरः

“擒住这兽中之王吧——他现出前所未有之身。若仍有一丝疑虑,就将这林中行者诛杀。”

Verse 98

ते दानवगणास्सर्वे मृगेंद्रं भीमविक्रमम् । परिक्षिपंतो मुदितास्त्रासयामासुरोजसा

诸达那婆(Dānava)之众皆欢喜,环绕那勇猛可怖之狮;凭恃蛮力,竞相威吓他。

Verse 99

सिंहनादं विमुच्याथ नरसिंहो महाबलः । बभंज तां सभां सर्वां व्यादितास्य इवांतकः

于是大力的那罗辛哈(Narasiṃha)发出狮吼,震裂并摧毁整座议殿,宛如张口的安多迦(Antaka,死神)降临。

Verse 100

सभायां भज्यमानायां हिरण्यकशिपुः स्वयम् । चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः

当议殿崩裂之际,希兰尼亚迦湿布(Hiraṇyakaśipu)亲自出手,怒目翻腾,向那狮子掷出诸般兵器。

Verse 101

सर्वास्त्राणामथ श्रेष्ठं दंडमस्त्रं सुदारुणम् । कालचक्रं तथा घोरं विष्णुचक्रं तथापरं

随后他又述说诸般兵器中最为殊胜者:极其凶烈的“杖”之武器(Daṇḍa);可怖的“时间之轮”(Kālacakra);以及毗湿奴至上的神轮——苏达尔沙那轮(Sudarśana-cakra)。

Verse 102

पैतामहं महात्युग्रं त्रैलोक्यनिर्मितं महत् । विचित्रामशनिं चैव शुष्काद्रं चाशनिद्वयम्

“(我见到)梵天之器——Paitāmaha——极其凶猛而伟大,广大无边,为三界所造;并有奇妙的雷霆(aśani)、名为‘枯山’者,以及一对雷霆之器。”

Verse 103

रौद्रं तथोग्रशूलं च कंकालं मुसलं तथा । अस्त्रं ब्रह्मशिरश्चैव ब्राह्ममस्त्रं तथैव च

“又有罗陀罗之器(Raudra),以及凶猛的三叉戟之器(Ugraśūla);还有Kaṅkāla、木槌之器(Musala);并有名为Brahmaśiras之器,以及Brāhma之器。”

Verse 104

नारायणास्त्रमैंद्रं च आग्नेयं शैशिरं तथा । वायव्यं मथनं चैव कपालमथ किंकरम्

又有那罗延之器(Nārāyaṇa-astra)、因陀罗之器、阿耆尼之器,以及同样的Śaiśira之器;伐由之器、搅拌之器(Mathana),并且还有Kapāla之器,随后亦有Kiṅkara之器。

Verse 105

तथा प्रतिहतां शक्तिं क्रौंचमस्त्रं तथैव च । मोहनं शोषणं चैव संतापनविलापने

同样还有那被抵御的名为“Śakti”的飞矢,以及Krauñca之器;并且还有迷惑之法(Mohana)、枯竭之法(Śoṣaṇa),以及使人受苦、引发哀号的诸般威力。

Verse 106

कंपनं शातनं चैव महास्त्रं चैव रोधनम् । कालमुद्गरमक्षोभ्यं तापनं च महाबलम्

“Kampana(震荡者)、Śātana(粉碎者)、Mahāstra(大圣兵)与 Rodhana(阻遏者);Kālamudgara(时之槌)、Akṣobhya(不可动摇者)、Tāpana(灼烧者)——皆具大神力。”

Verse 107

संवर्तनं मोहनं च तथा मायाधरं वरम् । गान्धर्वमस्त्रं दयितमसिरत्नं च नंदकम्

“(他执起)Saṃvartana、Mohana,以及殊胜的 Māyādhara;又取心爱的 Gāndharva 之兵,并那如宝珠般的宝剑 Nandaka。”

Verse 108

प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम् । अस्त्रं पाशुपतं चैव यस्या प्रतिहता गतिः

催眠之 Prasvāpana 兵、摧碎之 Pramathana 兵、最胜的 Vāruṇa 兵,乃至 Pāśupata 兵——在她面前,这些兵器的去势皆被遏止,尽归无效。

Verse 109

एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदा । असृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुतिम्

于是,Hiraṇyakaśipu 将这些天界神兵掷向 Narasiṁha——犹如供物投入炽燃烈火之中。

Verse 110

अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुरोत्तमः । विवस्वान्घर्मसमये हिमवंतमिवांशुभिः

以炽燃的兵刃,阿修罗之魁笼罩那狮子;如同炎暑之时,太阳以光芒覆照喜马梵山。

Verse 111

स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः । क्षणेनाप्लावयत्सर्वं मैनाकमिव सागरः

那由忿怒之风所生、如海般浩瀚的代提耶军势,刹那间淹没一切,犹如大海吞覆(山)摩那迦。

Verse 112

प्रासैः पाशैश्च खड्गैश्च गदाभिर्मुसलैस्तथा । वज्रैरशनिभिश्चैव बहुशाखैर्महाद्रुमैः

他们以长矛与套索,以利剑,又以钉头槌与棍棒;并以金刚雷霆与闪电,以及枝繁叶茂的巨树为兵器。

Verse 113

मुद्गरैः कूटपाशैश्च शिलोलूखलपर्वतैः । शतघ्नीभिश्च दीप्ताभिर्दंडैरपि सुदारुणैः

又以大槌、绳套与罗网;以岩石、石臼与群山;以炽燃的“杀百”(śataghnī)兵器,以及极其残酷的杖棍。

Verse 114

ते दानवाः पाशगृहीतहस्ता महेंद्रतुल्याशनितुल्य वेगाः । समंततोभ्युद्यतबाहुकायाः स्थिताः सशीर्षा इव नागपोताः

那些手执套索的达那婆,迅疾如因陀罗、快若霹雳,四面环立,举臂待发,宛如幼蛇昂首,张起其冠。

Verse 115

सुवर्णमालाकुलभूषितांगाः सुतीक्ष्णदंष्ट्राकुलवक्त्रगर्ताः । स्फुरत्प्रभास्ते च सशृंगदेहाश्चीनांशुका भांति यथैव हंसाः

他们通身以金鬘庄严,面孔间布满极锐之獠牙;光辉闪烁。其身有角,又披中国丝绸,竟宛如天鹅一般显现。

Verse 116

सोसृजद्दानवो मायामग्निं वायुं समीरितम् । तमिंद्रस्तोयदैः सार्धं सहस्राक्षो महाद्युतिः

于是,达那婆施放幻力(māyā),鼓动烈火与狂风。千眼、光辉的因陀罗与载雨之云同来对抗。

Verse 117

महता तोयवर्षेण शमयमास पावकम् । तस्यां प्रतिहतायां तु मायायां युधि दानवः

他以滂沱大雨浇灭了烈火。然而当那幻计(māyā)在战场上被挫败时,达那婆随即……

Verse 118

असृजद्घोरसंकाशं तमस्तीव्रं समंततः । तमसा संवृते लोके दैत्येष्वात्तायुधेषु च

他又四面释放出凶相可怖、极其浓烈的黑暗。世界被黑暗笼罩之时,诸达底耶亦举起兵刃而立。

Verse 119

स्वतेजसा परिवृतो दिवाकर इवोद्गतः । त्रिशिखां भ्रुकुटीमस्य ददृशुर्दानवा रणे

他被自身光辉所环绕,升起如同旭日。战场上,达那婆们看见他眉间紧蹙,宛若三峰之怒。

Verse 120

ललाटस्थां त्रिकूटस्थां गंगां त्रिपथगामिव । ततः सर्वासु मायासु हतासु दितिनंदनाः

他看见恒河女神(Gaṅgā)安住于额间、立于特利库塔(Trikūṭa),宛如循三途而流的圣河。随后,当他们的一切幻术(māyā)尽被摧毁,底提之子便被诛灭。

Verse 121

हिरण्यकशिपुं दैत्या विषण्णाश्शरणं ययुः । ततः प्रज्वलितः क्रोधात्प्रदहन्निव तेजसा

诸大底耶众心怀沮丧,前往希兰尼亚迦湿布处求庇护。随即他因忿怒而炽燃,光威迸发,仿佛以自身光辉焚尽万有。

Verse 122

तस्मिन्क्रुद्धे तु दैत्येंद्रे तमोभूतमभूज्जगत् । आवहः प्रवहश्चैव विवहोथ समीरणः

然而当大底耶之主震怒之时,整个世界化作幽暗;于是诸风兴起——阿瓦诃、钵罗瓦诃、毗瓦诃与娑弥罗那,开始吹拂。

Verse 123

परावहस्संवहश्च उद्वहश्च महाबलः । तथा परिवहः श्रीमानुत्पातभयशंसिनः

又有帕罗瓦诃、桑瓦诃与优德瓦诃,皆具大力;并有光耀的帕利瓦诃,宣示灾厄将临的可怖征兆。

Verse 124

इत्येवं क्षुभिताः सप्त मरुतो गगनेचराः । ये ग्रहास्सर्वलोकस्य क्षये प्रादुर्भवंति हि

如是,七位躁动的摩楼多在空中驰行——他们正是那“攫取者”(graha)——确实在诸世界毁灭之时显现。

Verse 125

ते सर्वे गगने हृष्टाव्यचरंश्च यथासुखम् । अयोगतश्चाप्यचरद्योगं निशि निशाचरः

他们众皆欢喜,随意在空中往来。那夜行之魔,虽非真正持戒修行,也在夜里行持一种似是而非的“瑜伽”。

Verse 126

सग्रहः सह नक्षत्रैस्तारापतिररिंदम । विवर्णतां च भगवान्गतो दिवि दिवाकरः

连同诸行星与诸星宿,群星之主——月神苏摩,噢降伏仇敌者——也变得苍白;在天界,受敬的日神亦失其光色。

Verse 127

कृष्णः कबंधश्च तदा लक्ष्यते सुमहान्दिवि । असृजच्चासितां सूर्यो धूमवत्तां विभावसुः

其时,苍穹中显现一具巨大黑色无首之形。日神倾泻出黯黑如烟之翳,炽然如火。

Verse 128

गगनस्थश्च भगवानभीक्ष्णं परिविष्यते । सप्तधूमनिभा घोराः सूर्यादि विसमुत्थिताः

而那吉祥的主宰立于虚空,屡屡被环绕。自日神及诸光明体中,升起七种可怖、如烟之相。

Verse 129

सोमस्य गगनस्थस्य ग्रहास्तिष्ठंति शृंङ्गगाः । वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती

当苏摩(月神)安住于天穹时,诸行星立于其双角之上;其左其右,分别是 शुक्र(维纳斯)与布里哈斯帕提(木星)。

Verse 130

शनैश्चरो लोहितांगो लोहितांगसमद्युतिः । समं समधिरोहंत सर्वे वै गगनेचराः

沙奈施遮罗(土星)肢体赤红,放射与其赤色相同的光辉;而诸天行者(诸行星)确然一齐升起于苍穹。

Verse 131

शृंगाणि शनकैर्घोरा युगांता वर्त्तन ग्रहाः । चंद्रमाश्च सनक्षत्रो ग्रहैः सह तमोनुदः

可怖的征兆渐次升起:在劫末主宰时轮运转的凶厉诸曜(graha)。月亮亦与众星宿同在,连同诸行星,化为驱散黑暗者。

Verse 132

चराचरविनाशाय रोहिणीं नाभ्यनंदत । गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते

为毁灭一切动与不动之物,罗希尼(Rohiṇī)并不欢喜。月亮被罗睺(Rāhu)攫住,又遭坠落的流星击打。

Verse 133

उल्काः प्रज्वलिताश्चंद्रे व्यचरंत यथासुखम् । देवानामधिपो देवः सोप्यवर्षत शोणितम्

炽燃的流星在月旁任意游走;甚至那位众天之主的神,也降下血雨。

Verse 134

अपतद्गगनादुल्का विद्युद्रूपा महास्वना । अकाले च द्रुमास्सर्वे पुष्प्यंति च फलंति च

一颗流星自天而坠,形如闪电,声若巨雷;并且在非时之际,诸树尽皆开花结果。

Verse 135

लताश्च सफलाः सर्वा या आहुर्दैत्यनाशिकाः । फले फलान्यजायंत पुष्पे पुष्पं तथैव च

又有一切藤蔓——被称为“摧灭达伊提亚(Daitya)者”——皆成丰实:果中复生果,花中亦更出花。

Verse 136

उन्मीलंति निमीलंति हसंति प्ररुदंति च । विक्रोशंति च गंभीरं धूमायंते ज्वलंति च

他们时而睁眼、时而闭目;时而欢笑、亦复啼泣。他们以低沉之声呼号;腾起烟雾,复又炽然燃烧。

Verse 137

प्रतिमास्सर्वदेवानां कथयंत्यो महद्भयम् । आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः

诸天神像宣告着大恐惧;而林野之兽与家畜相杂,禽与兽同聚一处。

Verse 138

चुक्रुशुर्भैरवं तत्र मृगयुद्ध उपस्थिते । नद्यश्च प्रतिकूलानि वहंति कलुषोदकाः

彼处,群兽之战将起之时,他们发出可怖的哀号;诸河亦逆其常流,挟带浑浊之水而行。

Verse 139

न प्राकाशंत च दिशो रक्तरेणुसमाकुलाः । वानस्पत्या न पूज्यंते पूजनार्हाः कथंचन

四方不复光明,尽为赤尘所蔽。诸树本应受敬礼供奉,却竟全然不被礼敬。

Verse 140

वायुवेगेन हन्यंते भज्यंते प्रणमंति च । तथा च सर्वभूतानां छाया न परिवर्त्तते

为风势所击,万物被摧打、被折断、被迫俯伏;然而一切众生之影,却并不变易。

Verse 141

अपरेण गते सूर्ये सलोकानां युगक्षये । तदा हिरण्यकशिपोर्दैत्यस्योपरिवेश्मनः

当太阳移向西方之际,诸世界之劫期将尽之时,于是——在魔王希兰尼亚迦希布(Hiraṇyakaśipu)上层宫殿之上——随后的事便发生了。

Verse 142

भांडागारायुधागारे निविष्टमभवन्मधु । असुराणां विनाशाय सुराणां विजयाय च

摩度(Madhu)进入库藏与兵器库,为的是毁灭阿修罗,成就天神(Deva)之胜利。

Verse 143

दृश्यंते विविधोत्पाता घोराघोरनिदर्शनाः । एते चान्ये च बहवो घोररूपाः समुत्थिताः

可见种种异兆——其征示或可怖、或不尽可怖。此等以及许多其他形相骇人的征兆,皆已兴起。

Verse 144

दैत्येंद्रस्य विनाशाय दृश्यंते रणशंसिनः । मेदिन्यां कंपमानायां दैत्येंद्रेण महात्मनः

为毁灭代提耶之主,预示战斗的征兆显现;而当那伟大的代提耶王前行时,大地自身亦为之震颤。

Verse 145

महीधरा नागगणा निपेतुरमितौजसः । विषज्वालाकुलैर्वक्त्रैर्विमुंचंतो हुताशनम्

强大的蛇众,负载大地之重,威力无量,纷纷坠落——从满布毒焰的口中喷吐出烈火。

Verse 146

चतुःशीर्षाः पंचशीर्षाः सप्तशीर्षाश्च पन्नगाः । वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ

有四首、五首与七首之蛇;诸那伽之中,有婆苏吉(Vāsuki)、多叉迦(Takṣaka),以及迦尔科塔迦(Karkoṭaka)与达那姆阇耶(Dhanaṃjaya)。

Verse 147

एलामुखः कालियश्च महापद्मश्च वीर्यवान् । सहस्रशीर्षश्शुद्धांगो हेमतालध्वजः प्रभुः

伊拉穆卡(Elāmukha)、迦利耶(Kāliya)与威力雄盛的摩诃莲华(Mahāpadma);肢体清净的千首者(Sahasraśīrṣa);以及主宰赫摩塔罗幢(Hematāladhvaja)——皆为其名。

Verse 148

शेषोनंतो महानागो ह्यप्रकंप्यश्च कंपिताः । दीप्यंतेंतर्जलस्थानि पृथिवीविवराणि वै

无尽大那伽舍沙(Śeṣa)——自身不可动摇——却令万物震颤;而大地之内、位于水下的裂隙与空穴,亦确然炽然发光。

Verse 149

सप्तदैत्येंद्रकोपेन कंपितानि समंततः । नानातेजोधराश्चापि पातालतलचारिणः

因七位阿修罗王(Daitya-lords)之忿怒,四方尽皆震动;而行于波多罗(Pātāla)诸层的众生,负载种种火焰光辉者,也同样陷入动荡。

Verse 150

पाताले सहसा क्षुब्धे दुष्प्रकंप्याः प्रकंपिताः । हिरण्यकशिपुर्दैत्यस्तदा संस्पृष्टवान्महीम्

当波多罗(Pātāla)骤然翻涌动荡之时,连难以撼动者亦开始战栗;其时,阿修罗希兰耶迦希布(Hiraṇyakaśipu)触及并压迫大地。

Verse 151

संदष्टौष्ठपुटः क्रुद्धो वराह इव पूर्वजः । गंगा भागीरथी चैव कौशिकी सरयूरपि

那位先祖震怒,紧咬双唇,形貌如野猪;又有诸河:恒河(Gaṅgā)、婆伽罗提河(Bhāgīrathī)、拘尸迦河(Kauśikī)与娑罗瑜河(Sarayū)。

Verse 152

यमुना चाथ कावेरी कृष्णवेणी च निम्नगा । तुंगभद्रा महावेगा नदी गोदावरी तथा

又有亚穆那河(Yamunā),以及迦维梨河(Kāverī)、黑韦尼河(Kṛṣṇaveṇī)与尼姆那伽河(Nimnagā);并有急流雄浑的通伽跋陀罗河(Tuṅgabhadrā),以及戈达瓦里河(Godāvarī)。

Verse 153

चर्मण्वती च सिंधुश्च तथा नदनदीपतिः । मेलकप्रभवश्चैव शोणो मणिनिभोदकः

又有查尔曼瓦蒂河(Carmanvatī)与信度河(Sindhu),以及诸河与溪流之主;并有源出梅拉迦(Melaka)之河,还有水色如宝珠般闪耀的赭那河(Śoṇa)。

Verse 154

नर्मदा च शुभस्रोतास्तथा वेत्रवती नदी । गोमती गोकुलाकीर्णा तथा पूर्वा सरस्वती

并有讷尔摩陀河(Narmadā)、吉祥之流(Śubhasrotā),以及韦特拉瓦蒂河(Vetravatī);又有遍布牧人聚落之瞿摩提河(Gomatī),并有古老的萨拉斯瓦蒂河(Sarasvatī)。

Verse 155

महाकालमहीचैव तमसा पुष्पवाहिनी । जंबूद्वीपं रत्नवच्च सर्वरत्नोपशोभितम्

又有摩诃迦罗(Mahākāla)与摩诃(Mahī),并有携花而流的多摩萨河(Tamasā);还有阎浮提(Jambūdvīpa),宛如宝聚,饰以一切珍贵宝石。

Verse 156

सुवर्णपुटकं चैव सुवर्णाकरमंडितम् । महानदश्च लौहित्यश्शैलः कांचनशोभितः

又有苏伐尔那普塔卡(Suvarṇapuṭaka),以金矿为饰;又有大河摩诃那达(Mahānadā);以及劳希底耶山(Lauhitya),金辉灿然。

Verse 157

पत्तनं कोशकाराणां कशं च रजताकरम् । मगधाश्च महाग्रामाः पुण्ड्रा उग्रास्तथैव च

又有养蚕结茧者之城,又有迦沙(Kaśa)——银矿之地;并有摩揭陀(Magadha)诸大村落,以及旁陀罗(Puṇḍra)与乌伽罗(Ugra)诸族。

Verse 158

स्रुघ्ना मल्ला विदेहाश्च मालवाः काशि कोसलाः । भवनं वैनतेयस्य दैत्येंद्रेणाभिकंपितम्

斯鲁格那(Srughna)、摩罗(Malla)、毗提诃(Videha)、摩罗婆(Malava)、迦尸(Kāśī)与拘萨罗(Kosala)——诸国尽皆震动;连毗那底耶之居所(Vainateya,迦楼罗)亦为代底耶之主所撼。

Verse 159

कैलासशिखराकारं यत्कृतं विश्वकर्मणा । रत्नतोयो महाभीमो लौहित्यो नाम सागरः

有一大海名为劳希底耶(Lauhitya)——形如凯拉萨(Kailāsa)之峰,由毗湿瓦羯摩(Viśvakarman)所造;其水若宝,广大而令人敬畏。

Verse 160

उदयश्च महाशैल उच्छ्रितः शतयोजनम् । सवर्णवेदिकः श्रीमान्मेघपंक्तिनिषेवितः

又有大山优陀耶(Udaya),高耸百由旬——庄严华美,层台同色,常有云列成行来依止。

Verse 161

भ्राजमानोर्कसदृशैर्जातरूपमयैर्द्रुमैः । सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः

那里因树木而辉耀,宛如灿日,仿佛由黄金铸成:娑罗树、塔罗椰树、檀摩罗林,以及盛开花朵的迦尔尼迦罗树。

Verse 162

अयोमुखश्च विख्यातः सर्वतो धातुमंडितः । तमालवनगंधश्च पर्वतो मलयः शुभः

阿由穆迦山声名远播,四方皆以矿石装点;而吉祥的摩罗耶山因遍布檀摩罗树林而芬芳馥郁。

Verse 163

सुराष्ट्राश्च सबाह्लीकाश्शूद्राभीरास्तथैव च । भोजाः पांड्याश्च वंगाश्च कलिंगास्ताम्रलिप्तकाः

又有苏罗湿吒之民与婆诃利迦人;同样有首陀罗与阿毗罗;以及婆阇、般荼耶、旁伽、迦陵伽,并达摩罗利补多之众。

Verse 164

तथैव पौंड्राः शुभ्राश्च वामचूडास्सकेरलाः । क्षोभितास्तेन दैत्येन देवाश्चाप्सरसां गणाः

同样,旁荼罗人、输婆罗人、婆摩绰荼人、以及羯罗罗人——连同诸天的众军与天女阿普萨拉的群队——都被那魔族搅动而不安。

Verse 165

अगस्त्यभवनं चैव यदगस्त्यकृतं पुरा । सिद्धचारणसंघैश्च विप्रकीर्णं मनोहरम्

又有阿伽斯提耶的住处——昔日由阿伽斯提耶亲自建立的道场——清雅可爱,遍布悉达与恰罗那的众群。

Verse 166

विचित्रनानाविहगं सपुष्पितमहाद्रुमम् । जातरूपमयैः शृंगैरप्सरोगणसेवितम्

其中充满奇妙多样的飞鸟;大树繁花盛开为饰,峰巅皆由黄金铸成,并有众多阿普萨拉(天女)侍奉环绕。

Verse 167

गिरिः पुष्पितकश्चैव लक्ष्मीवान्प्रियदर्शनः । उत्थितः सागरं भित्वा विश्रामश्चंद्रसूर्ययोः

一座山岳——花开繁盛、福泽具足、悦目可观——破海而起,遂成为月与日的安憩之所。

Verse 168

रराज स महाशृंगैर्गगनं विलिखन्निव । चंद्रसूर्यांशुसंकाशैः सागरांबुसमावृतैः

它光辉灿然——巍峨群峰仿佛划破苍穹——其辉如月日之光,并为大海之水所环抱。

Verse 169

विद्युत्त्वान्पर्वतः श्रीमानायतः शतयोजनम् । विद्युतां यत्र संपाता निपात्यंते नगोत्तमे

有一座名为“Vidyuttvān(电辉)”的庄严山岳,绵延百由旬;在那最胜之山上,成群闪电可见坠落击打。

Verse 170

ऋषभः पर्वतश्चैव श्रीमानृषभसंस्थितः । कुंजरः पर्वतः श्रीमानगस्त्यस्य गृहं शुभम्

又有名为“Ṛṣabha(瑞沙婆)”的吉祥光耀之山,Ṛṣabha安住其上;而光辉的“Kuñjara(昆阇罗)”山,则是圣者阿迦斯提耶的福德居所。

Verse 171

विमलाख्या च दुर्द्धर्षा सर्पाणां मालती पुरी । तथा भोगवती चापि दैत्येंद्रेणाभिकंपिता

难以攻取的毗摩罗迦(Vimalākhyā),以及蛇族之城摩罗底(Mālatī),又有薄伽伐底(Bhogavatī),皆为代底耶之主所震动。

Verse 172

महासेनगिरिश्चैव पारियात्रश्च पर्वतः । चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः

又有摩诃军山(Mahāsena)与波利耶多罗山(Pāriyātra);并有诸山之最的恰克罗梵山(Cakravān),以及婆罗诃山(Vārāha)。

Verse 173

प्राग्ज्योतिषपुरं चापि जातरूपमयं शुभम् । यस्मिन्नुवास दुष्टात्मा नरको नाम दानवः

又有吉祥的普罗伽焦底沙城(Prāgjyotiṣa),通体由黄金铸成;其中居住着名为那罗迦(Naraka)的恶心阿修罗。

Verse 174

मेघश्च पर्वतश्रेष्ठो मेघगंभीरनिस्स्वनः । षष्टिस्तत्र सहस्राणि पर्वतानां विशांपते

名为梅伽(Megha)的山为群山之首,回响着如云雷般深沉的轰鸣。彼处,噢民众之主,有六万座山岳。

Verse 175

तरुणादित्यसंकाशो मेरुश्चैव महान्गिरिः । यक्षराक्षसगंधर्वैर्नित्यं सेवितकंदरः

伟大的须弥山(Meru)如初升的少年太阳般辉耀;其洞窟与幽谷常为夜叉(Yakṣa)、罗刹(Rākṣasa)与乾闼婆(Gandharva)所往来。

Verse 176

हेमगर्भो महासेनस्तथा मेघसखो गिरिः । कैलासश्चैव शैलेंद्रो दानवेंद्रेण कंपितः

赫摩伽婆(Hemagarbha)、摩诃军(Mahāsena)与名为梅伽萨迦(Meghasakha)之山,连同群山之主凯拉萨(Kailāsa),皆为达那婆(Dānava)之王所震动。

Verse 177

हेमपुष्करसञ्छन्नं तेन वैखानसं सरः । कंपितं मानसं चैव हंसकारंडवाकुलम्

因此,覆满金色莲华的毗迦那娑(Vaikhānasa)之湖被搅动;曼那娑(Mānasa)之湖亦战栗,群集天鹅(hamsa)与迦兰陀婆(kāraṇḍava)之鸟。

Verse 178

त्रिशृंगः पर्वतश्रेष्ठः कुमारी च सरिद्वरा । तुषारचयसंच्छन्नो मंदरश्चापि पर्वतः

三峰(Triśṛṅga)为群山之最胜,俱摩梨(Kumārī)为诸河之上妙;曼陀罗(Mandara)亦为一山,遍覆层层积雪。

Verse 179

उशीरबीजश्च गिरिर्भद्रप्रस्थस्तथाद्रिराट् । प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः

又有乌湿罗毗阇(Uśīrabīja)之山、跋陀罗普拉萨他(Bhadraprastha)与阿地利罗吒(Adriraṭ);亦有生主之山(Prajāpatigiri),以及补湿迦罗(Puṣkara)之山。

Verse 180

देवाभः पर्वतश्चैव तथा वै वालुकागिरिः । क्रौंचः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः

亦有天辉(Devābha)之山、瓦卢迦吉利(Vālukāgiri);鸠吒(Krauñca)、七仙之岩(Saptarṣi-śaila),以及名为烟色(Dhūmravarṇa)之山。

Verse 181

एते चान्ये च गिरयो देशा जनपदास्तथा । नद्यः ससागराः सर्वाः दानवेनाभिकंपिताः

这些以及其他许多山岳、国土与人居之地,连同一切江河与大海,都被那达那婆(Dānava)所震动。

Verse 182

कपिलश्च महीपुत्रो व्याघ्रवांश्च प्रकंपितः । खेचराश्च निशापुत्राः पातालतलवासिनः

迦毗罗(Kapila)——大地之子——与毗耶伽罗(Vyāghra)之族亦被震撼;诸天行者(Khecara)、夜之子,以及住于地下界帕塔拉(Pātāla)者也同样动摇。

Verse 183

गणस्तथापरो रौद्रो मेघनामांकुशायुधः । ऊर्द्ध्वगो भीमवेगश्च सर्व एतेभिकंपिताः

又有另一队众,凶猛忿怒,名为“云”(Megha),以钩策为兵;并有乌尔德瓦伽(Ūrdhvaga)与毗摩维伽(Bhīmavega)。此等皆为震惧而颤动。

Verse 184

गदी शूली करालश्च हिरण्यकशिपुस्तथा । जीमूतघननिर्घोषो जीमूत इव वेगवान्

他执钉锤与长矛,形貌狰狞——如同希兰尼亚迦湿布(Hiraṇyakaśipu)——其声轰鸣如密集雷云,迅疾亦如飞云。

Verse 185

देवारिर्दितिजो दृप्तो नृसिंहं समुपाद्रवत् । स तु तेन ततस्तीक्ष्णैर्मृगेंद्रेण महानखैः

那傲慢的达那婆,诸天(deva)之敌,猛然扑向那罗辛诃(Narasiṁha)。而狮中王以其锋利巨爪击中他。

Verse 186

तदोंकारसहायेन विदार्य निहतो युधि । मही च कालश्च शशीनभश्च ग्रहास्स सूर्याश्च दिशश्च सर्वाः

凭借神圣音节“唵”(Oṁ)之助,他在战场上被刺穿而毙;大地、时间、月亮、苍穹、诸行星、太阳以及一切方位皆为之震动。

Verse 187

नद्यश्च शैलाश्च महार्णवाश्च गताः प्रसादं दितिपुत्रनाशात् । ततः प्रमुदिता देवा ऋषयश्च तपोधनाः

因狄蒂之子被诛,江河、群山乃至大海都得安宁。于是诸天(deva)与苦行功德深厚的圣仙(ṛṣi)欢喜踊跃。

Verse 188

तुष्टुवुर्नामभिर्दिव्यैरादिदेवं सनातनम् । यत्त्वया विधृतं देव नारसिंहमिदं वपुः

他们以诸天妙名赞颂永恒的本初天神(Ādideva),说道:“噢,神啊,正是你摄受了这纳罗辛哈(人狮)之身。”

Verse 189

एतदेवार्चयिष्यंति परापरविदो जनाः । ब्रह्मोवाच । भवान्ब्रह्मा च रुद्रश्च महेंद्रो देवसत्तमः

凡通达至高与世间两种真实者,唯当礼敬此一。梵天(Brahmā)说道:“你即是梵天、鲁陀罗(Rudra)与摩诃因陀罗(Mahendra),诸天中最胜者。”

Verse 190

भवान्कर्त्ता विकर्त्ता च लोकानां प्रभवोऽव्ययः । परां च सिद्धिं च परं च सत्वं परं रहस्यं परमं हविश्च

你是创造者亦是转化者,是诸世界不朽的本源。你是至上的成就与最高的清净,是至上的奥秘,也是至上的祭祀供献(havis)。

Verse 191

परं च धर्मं परमं यशश्च त्वामाहुरग्र्यं परमं पुराणम् । परं च सत्यं परमं तपश्च परं पवित्रं परमं च मार्गं

众人宣说:你是至上的法(Dharma)与最高的荣誉,是最尊最胜的《普拉那》(Purāṇa)。你亦是至上的真理与最高的苦行(tapas),是最伟大的净化者,也是最高的道路。

Verse 192

परं च यज्ञं परमं च होत्रं त्वामाहुरग्य्रं परमं पुराणम् । परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम्

众人宣说:你是至上的祭祀(yajña)与最高的供献;称你为最尊、至上的《普拉那》(Purāṇa)。你是至上的身与至上的梵(Brahman);你是最高的瑜伽与最崇高的圣言。

Verse 193

परं रहस्यं परमां गतिं च त्वामाहुरग्य्रं परमं पुराणम् । एवमुक्त्वा तु भगवान्सर्वलोकपितामहः

众人宣说:你是至上的奥秘与最高的归宿,是最尊最伟大的《普拉那》(Purāṇa)。如是说罢,诸世界之祖父、可敬的梵天(Brahmā)……

Verse 194

स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः । ततो नदत्सु तूर्येषु नृत्यंतीष्वप्सरःसु च

赞颂那罗延(Nārāyaṇa)之后,主宰前往梵界(Brahmaloka)。随后,在乐器轰鸣回响之中、天女阿普萨拉(Apsaras)翩然起舞之际,(景象展开)。

Verse 195

क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः । नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमान्

哈利(Hari)、至上的自在主,前往乳海的北岸;那光辉的神明安住(化现)为那罗辛哈(Narasiṃha)之身,灿然大放光明。

Verse 196

पौराणं रूपमास्थाय प्रययौ गरडध्वजः । अष्टचक्रेण यानेन भूतियुक्तेन भास्वता

世尊化现为《往世书》之相,旗标饰以迦楼罗,乘八轮吉祥光耀之乘舆而行。

Verse 197

अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः

其性为未显之原质(Prakṛti)的主宰,归还于自身的本住之处。