Adhyaya 44
Srishti KhandaAdhyaya 44218 Verses

Adhyaya 44

Umā’s Austerity, Kauśikī’s Manifestation, and Skanda’s Birth Leading to Tāraka’s Defeat

第44章以湿婆与帕尔瓦蒂的一段激烈对话开篇:因一句涉及肤色的称呼“克利什那”(Kṛṣṇā),乌玛心生愤怒,并反省诽谤之过,遂立誓修行苦行(tapas),以证得“高丽”(Gaurī)之清净光辉。 其间穿插守门者毗罗迦(Vīraka)相关情节:一位阿修罗(Daitya)化作乌玛欲入见湿婆,却因缺少身体标记而露馅,被当场诛灭。随后在梵天(Brahmā)的调停与乌玛苦行之力下,她的黑暗外壳被抛却,化现为考希姬/旃提迦(Kauśikī/Caṇḍikā),乘狮受命,承担神圣使命。 叙事继而转向斯甘达(Skanda)经由火神阿耆尼(Agni)与昴宿女神(Kṛttikā)而诞生、受灌顶加持,并在大战中由库玛罗(Kumāra)斩杀塔罗迦(Tāraka)。章末功德颂(phalaśruti)宣说:虔诚诵听者将得名声、富足与无畏。

Shlokas

Verse 1

शर्व उवाच । शरीरे मम तन्वंगि सिते भास्यसितद्युतिः । भुजंगी वा सिता शुभ्रे संश्लिष्टा चंदनेतरौ

舍尔瓦(湿婆)说道:“纤肢的佳人啊,在我身上——虽呈幽暗之辉——却有一抹洁白光明闪耀。皎洁的你啊,仿佛一条白蛇紧紧缠抱,如檀香膏贴附于他物之上。”

Verse 2

चंद्रातपेन संपृक्ता रुधिराम्बरसंवृता । रजनी वा सिते पक्षे दृष्टिदोषं ददासि मे

你沾染月华,又披着血红衣裳——你可是明半月之夜?你令我目光迷乱,生出眩惑之障。

Verse 3

इत्युक्ता गिरिजा तेन मुक्तकंठा पिनाकिनम् । उवाच कोपरक्ताक्षी भ्रुकुटी विकृतानना

被他如此言及,吉丽迦便放开嗓音对持弓者(湿婆)说道:她怒目泛红,眉峰紧蹙,面容因嗔而变。

Verse 4

देव्युवाच । स्वकृतेन जनः सर्वो जाड्येन परिभूयते । अवश्यमर्थी प्राप्नोति खंडनं शशिमंडन

女神说道:众生皆因自作之业而为昏钝所覆。为贫乏所驱者,必定遭遇毁灭,噢 Śaśimaṇḍana,额饰月轮之主。

Verse 5

तपोभिर्दीर्घचरितैर्या त्वां प्रार्थितवत्यहं । तस्या मेनि यतस्त्वेष ह्यवमानः पदे पदे

我曾以苦行与长久誓行祈求于你——因此,噢 Meni,这竟使她步步受辱。

Verse 6

नैवास्मि कुटिला शर्व विषमा न च धूर्जटे । सविषस्त्वं जगत्ख्यातो व्यक्तदोषाकराश्रयः

我并非狡诈,噢 Śarva;也并非刻薄,噢 Dhūrjaṭi。倒是你,世间皆称你“含毒”,显然是过失之矿的归依处。

Verse 7

त्वं हि मुष्णासि दशनान्नेत्रहंता भगस्य च । आदित्यस्त्वां विजानाति भगवान्द्वादशात्मकः

你确实夺去牙齿,又毁坏 Bhaga 之眼。那具十二重形相的圣者 Āditya 之主,识得你本来面目。

Verse 8

मूर्ध्नि शूलं जनयसि स्वैर्दोषैर्मामधिक्षिपन् । यस्त्वं मामात्थकृष्णेति महाकालोसि विश्रुतः

你在我头顶引起刺痛,却以你自己的过失来责我。你曾唤我“Kṛṣṇa”,而你以 Mahākāla 之名闻于世。

Verse 9

यास्याम्यहं परित्यक्तुमात्मानं तपसा गिरिम् । जीवंत्या न मया कृत्यं धूर्तेन परिभूतया

我将前往苦行之山,舍弃此身性命。既被无赖欺骗并受辱,我活着已无所作为。

Verse 10

कापालिकेन क्षुद्रेण श्मशाने नित्यवासिना । भूत्या विलिप्त स्वांगेन मातृमध्यस्थ चारिणा

——被卑劣的迦波利迦所为;他常住火葬场,遍身涂灰,在诸母神(Mātṛkā)之间游行。

Verse 11

निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं हरः । उवाचानिष्टसंभ्रांतः प्रचलेनेंदुमौलिना

哈罗听见她那被愤怒磨利的话语,心生不悦而震动,月冠之首微颤,遂开口说道。

Verse 12

शर्व उवाच । अगात्मजासि गिरिजे नाहं निंदापरस्तव । चाटूक्तिबुध्या तु मया कृत उन्मादसंश्रयः

舍婆说道:噢,吉丽阇,你是山之女;我并非责难于你。只是我以为那不过是戏谑的赞语,才说出使迷狂得以依附之言(即致生迷妄)。

Verse 13

विकल्पः स्वस्थचित्ते तु गिरिजे न मम क्रमात् । यद्येवं कुपिता भीरु तत्तवाहं न वै पुनः

噢,吉丽阇,当心念安住时,我的行持中便无疑虑之分。若你如此动怒,怯柔者啊,那么我决不再对你说那样的话。

Verse 14

नर्मवादी भविष्यामि जहि कोपं शुचिस्मिते । शिरसा प्रणतेनैष रचितस्ते मयांजलि

我将以柔和之语相告——请息怒,清净微笑者。俯首致敬,我以合掌(añjali)向你奉上虔诚的供献。

Verse 15

नि हीनो ह्यपमानेन निंदिते नैति विक्रियाम् । असतां तु सतां न स्यान्मर्मस्पृष्टो नरः किल

高贵之人不因侮辱而减损,也不因诽谤而动摇;然而在恶人之中,纵是善者亦难保如初——触及隐痛之处,人确会有所反应。

Verse 16

अनेकैश्चाटुभिर्देवी देवेन प्रतिबोधिता । कोपं तीव्रं न तत्याज सती मर्मणि घट्टिता

纵然天神以诸多柔和奉承之语劝慰安抚女神,萨蒂仍未舍弃炽烈之怒,因为她被触及了情感最深的核心。

Verse 17

अवष्टब्धमथाच्छिद्य वासः शंकरपाणिना । विपर्यस्तालकावेगाद्गन्तुमैच्छच्च शैलजा

随后,香羯罗之手将她那被紧紧按住的衣裳撕裂;山之女神因骤然之力而发丝凌乱,便欲离去。

Verse 18

तस्या व्रजंत्याः कोपेन पुनराह पुरांतकः । सत्यं सर्वैरवयवैस्तनोषि सदृशां पितुः

当她怒而离去时,普兰塔卡又说道:“诚然,你的每一肢体都显出你父亲的相貌与气质。”

Verse 19

हिमाचलस्य शृंगस्थमेव जालाकुलं मनः । तथा दुरवगाह्येभ्यो गहनो हि तवाशयः

正如心念立于喜马拉雅之巅,便如罗网般纠缠;同样,你的意旨实在幽深,连那些本就难以测度者也难以窥其底蕴。

Verse 20

काठिन्यमश्मसारेभ्यो वनेभ्यो बहुलां गता । कुटिलत्वं निम्नगाभ्यो दुःसेव्यत्वं हिमादपि

她从岩石取其坚硬,从森林取其稠密,从江河取其曲折,甚至从白雪取其难以亲近之性。

Verse 21

संक्रांतं सर्वमेवैतत्तन्वंगि हिमभूधरात् । इत्युक्ता सा पुनः प्राह गिरिशं शैलकन्यका

“纤柔之身啊,这一切确已从雪山(喜马拉雅)传来。”如是被告知后,那山之女便又对吉利沙(湿婆)开口说道。

Verse 22

कोपकंपितमूर्द्धा सा प्रस्फुरद्दशनच्छदा । उमोवाच । स्यात्सर्वं दोषदानेन निंदायां गुणिनो बलात्

她因愤怒而头颅颤动,唇齿间微微战栗;乌玛说道:“在诽谤之事上,凭真正具德者之力,一切终将反归于诋毁者,化作他自身的过失。”

Verse 23

तवापि दुष्टसंपर्कात्संक्रांतं सर्वमेव हि । व्यालेभ्योनेकजिह्वत्वं भस्मनोऽस्नेहवृत्तिता

确实,由于与恶人相交,一切也会传染到你:从蛇而来多舌之相,从灰烬而来无油润之性,唯余干枯。

Verse 24

हृत्कालुष्यं शशांकोत्थं दुर्बाधत्वं विषादपि । किं चात्र बहुनोक्तेन अलं वाचां श्रमेण ते

它能涤除心中垢染,疗治由月所生之疾,亦能除最顽固的病患与忧郁。此处何必多言?够了——莫再以言辞劳累自己。

Verse 25

श्मशानवासान्निर्भीस्त्वं नग्नत्वात्तवनत्रपा । निर्घृणत्वं कपालित्वाद्दया ते विगता चिरम्

因你居于火葬场,故无所畏惧;因你裸身而行,故不知羞惭。因你持戴骷髅,遂成冷酷无情——你的慈悲早已久远消逝。

Verse 26

इत्युक्त्वा मंदिरात्तस्मान्निर्जगाम हिमाद्रिजा । तस्यां व्रजंत्यां देवेश्यां गणैः किलकिलाकृता

言毕,喜马山之女喜摩陀梨迦(帕尔瓦蒂)遂离开那座殿宇。当天界女主前行之时,诸伽那发出喧腾欢呼之声。

Verse 27

क्व मातर्गच्छसीत्युक्त्वा रुदद्भिर्धावितं पुनः । विष्टभ्य चरणौ देव्या वीरको बाष्पगद्गदः

他哭着再次追上前去,说:“母亲,你要往哪里去?”随即,毗罗迦泣不成声,紧紧抱住女神的双足不放。

Verse 28

प्रोवाच मातः किन्न्वेतत्क्व यासि कुपितातुरा । अहं त्वामनुयास्यामि व्रजंतीं स्नेहवर्जिताम्

他说:“母亲,这是怎么了?你因愤怒而烦乱,要往哪里去?即便你离去时不带眷爱,我也要追随你而行。”

Verse 29

नोचेत्पतिष्ये शिखराद्गिरेरस्य त्वयोज्झितः । उन्नम्यवदनं देवी दक्षिणेन तु पाणिना

“若不然,被你弃绝,我必从此山之巅坠落。”于是女神以右手托起他的面容。

Verse 30

उवाच वीरकं माता त्वं शोकं पुत्र मा कृथाः । शैलाग्रात्पतितुं नैव न च गंतुं मया सह

母亲对毗罗迦说道:“我儿,莫要忧伤。我既不从山巅跃下,也不与你同去。”

Verse 31

युक्तं ते पुत्र गच्छामि येन कार्येण तच्छृणु । कृष्णेत्युक्ता हरेणाहं स्तंभितास्म्यवमानिता

“我儿,我当离去——且听我必须离去的缘由。哈利呼我‘黑姬(Kṛṣṇā)’之时,我惊愕凝住,心觉受辱。”

Verse 32

साहं तपः करिष्यामि येन गौरीत्वमाप्नुयाम् । एष स्त्रीलंपटो देवो यातायां मय्यनंतरम्

因此我将修行苦行,以得成高丽(Gaurī)之境。此神沉溺女色,待我离去之后,必将追随而来。

Verse 33

द्वाररक्षा त्वया कार्या नित्यं रन्ध्रान्ववेक्षणम् । यथा न काचित्प्रविशेद्योषित्तत्र हरांतिकम्

你当守护门扉,恒常察看一切缝隙与孔隙,使任何女子不得进入彼处,不得近至哈罗(Hara)之密处。

Verse 34

दृष्ट्वा परस्त्रियं चापि वदेथा मम पुत्रक । शीघ्रमेव करिष्यामि यथायुक्तमनंतरम्

若你见到他人之妻,也当告知于我,吾子;我将立刻依正法行当行之事,随即而为。

Verse 35

एवमस्त्विति देवेशीं वीरकोवाच सांप्रतम् । मातुराज्ञामृताहार प्लावितांगो गतज्वरः

“如是。”毗罗迦当时对那位天女说道。依母命受甘露般的滋养沐浴,其身充盈生气,热病尽退。

Verse 36

जगाम रक्षां स द्रष्टुं प्रणिपत्य तु मातरम् । देवी चापश्यदायांतीं सखीं मातुर्विभूषिताम्

他向母亲顶礼叩拜后,便去见罗刹娑(Rakṣā)。女神随即看见一位友人走来,佩戴着其母的饰物而华美。

Verse 37

कुसुमामोहिनीं नाम तस्य शैलस्य देवताम् । सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा

那座山有一位山神,名为“花迷者”(Kusumāmohinī)。她见到山之女,亦因深情而心神摇动。

Verse 38

क्व पुत्रि गच्छसीत्युच्चैरालिग्योवाच देवता । सा तस्याः सर्वमाचख्यौ शंकरात्कोपकारणम्

女神拥抱着她,高声说道:“女儿,你往何处去?”于是她将一切尽告——释迦罗(Śaṅkara)发怒之因。

Verse 39

पुनश्चोवाचगिरिजा देवतां मातृसंमिताम् । उमोवाच । नित्यं शैलाधिराजस्य देवतात्वमनिंदिते

吉丽迦再度对那位如母般的女神说道。乌玛说:“无瑕者啊,群山之王恒常具足神圣之性。”

Verse 40

सर्वतः सन्निधानं ते मनसातीव वत्सला । अतस्तु ते प्रवक्ष्यामि यद्विधेयं त्वयांबिके

你的临在遍及四方,你心中又极其慈爱。因此,母亲安毗迦啊,我如今要告诉你当行之事。

Verse 41

अन्यस्त्रीसंप्रवेशस्तु त्वया रक्ष्यः प्रयत्नतः । सरहस्ये प्रयत्नेन निषेव्यः सततं गिरौ

你当竭力谨慎,守护自身,莫与他人之妻相牵缠。并当以恳切之功,常在山中幽隐秘密之处修持其行。

Verse 42

पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयानघे । ततोहं संविधास्यामि यत्क्षमं तदनंतरम्

当执持毗那迦者(湿婆)进入之时,无瑕者啊,你当转达我的话。随后我将立刻安排一切合宜且可行之事。

Verse 43

इत्युक्ता तां तथेत्युक्त्त्वा जगाम सा गिरिं शुभा । उमापि पितुरुद्यानं जगामाद्रिसुताद्भुतम्

她既受此言,便答道:“如是。”那位吉祥者遂往山中而去。乌玛亦即那奇妙的山之女儿,前往父亲的园林。

Verse 44

अंतरिक्षं समाविश्य मेघमालाविलप्रभम् । भूषणानि ततो न्यस्य वृक्षवल्कलधारिणी

她进入空中,光辉灿然,如云鬘般铺展;继而卸下诸般饰物,披上树皮所制的衣裳。

Verse 45

ग्रीष्मे पंचाग्निसंतप्ता वर्षासु च जलोषिता । वन्याहारा निराहारा शुष्कस्थंडिलशायिनी

夏时她忍受五火之炙;雨季她任由雨水浸透。或食林野之物,或持斋绝食;她卧于干燥裸地之上而眠。

Verse 46

एवं साधयती तत्र तपः सा च व्यवस्थिता । ज्ञात्वा गतां गिरिसुतां दैत्यस्तत्रांतरे बली

她就这样在那里修持苦行,志愿坚定不移。其间,那强大的阿修罗得知山之女已至此处,便在这段时日里赶来。

Verse 47

अंधकस्य सुतो हृष्टः पितुर्वधमनुस्मरन् । देवान्सर्वान्विजित्याजौ बकभ्राता रणोत्कटः

安陀迦之子因追忆其父被诛而欢喜振奋,在战场上征服诸天;他乃婆迦之兄,战阵凶猛,威势骇人。

Verse 48

आडिर्नामांतरप्रेक्षीसततंचंद्रमौलिनः । आजगामामररिपुः पुरं त्रिपुरघातिनः

名为阿底者,常伺可乘之机,作为诸天之敌,来到月冠之主——摧毁三城者——的城邑。

Verse 49

स तत्रागत्य ददृशे वीरकं द्वार्यवस्थितम् । विचिंत्य सोपि च वरं दत्तं कमलयोनिना

他到达那里,看见毗罗迦(Vīraka)立于门前。沉思之际,他也忆起莲华所生者(梵天 Brahmā)所赐的恩赐。

Verse 50

हते किलांधके दैत्ये गिरिशेनासुरद्विषा । आडिश्चकार विपुलं तपः परमदारुणम्

当恶魔安陀迦(Andhaka)确已被吉利沙(Girīśa,湿婆 Śiva)——阿修罗之敌——所诛,阿底(Āḍi)便修行广大苦行,极其严酷。

Verse 51

समागत्याब्रवीद्ब्रह्मा तपसा परितोषितः । किमाडे दानवश्रेष्ठ तपसा प्राप्तुमिच्छसि

梵天(Brahmā)因其苦行而欢喜,前来开口道:“噢,阿陀(Āḍa),诸达那婆(Dānava)之最,你欲以苦行求得何物?”

Verse 52

ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे । ब्रह्मोवाच । जातानामिह संसारे विना मृत्युं न युज्यते

那罗刹(Daitya)对梵天说:“我愿选择不死。”梵天答曰:“凡在此世出生者,不可能离开死亡而存在。”

Verse 53

यतस्ततोपि दैत्येंद्र मृत्युः प्राप्यश्शरीरिभिः । इत्युक्तो दैत्यसिंहस्तु प्रोवाचांबुजसंभवम्

“噢,诸代底耶(Daitya)之主,无论如何,具身之众终必遭逢死亡。”闻此言,那代底耶之狮便对莲华所生者(梵天 Brahmā)答道。

Verse 54

रूपस्यपरिवर्तो मे यदा स्यात्पद्मसंभव । तदा मृत्युर्मम भवेदन्यथा त्वमरोस्म्यहम्

噢,莲华所生者(梵天)啊,若有一日我的形相发生变易,死亡便将临到我;否则,我本是不死之身。

Verse 55

इत्युक्तस्तु तदोवाच तुष्टः कमलसंभवः । यदा द्वितीयो रूपस्य विवर्त्तस्ते भविष्यति

如此被问,莲华所生者心生欢喜,便说道:“当你形相的第二次变转到来之时……”

Verse 56

तदा ते भविता मृत्युरन्यथा न भविष्यति । इत्युक्तोमरतां मेने दैत्यसूनुर्महाबलः

“那时你的死亡必定发生,绝无他途。”听罢此言,那大力的阿修罗之子便自以为不死。

Verse 57

तस्मिन्काले त्वसंस्मृत्य तद्वधोपायमात्मनः । प्रतिहर्तुर्दृष्टिपथे वीरकस्याभवंस्तदा

当时,他们忘却了致其身亡之法,便进入了护卫者毗罗迦(Vīraka)的视野之中。

Verse 58

भुजंगरूपी रंध्रेण प्रविवेश दृशःपथम् । परिहृत्य गणेशस्य दानवो रौद्रदुर्जयः

那罗陀罗难胜的魔罗化作蛇形,从一处缝隙潜入,进入视线之中,并躲过了象头神伽内沙(Gaṇeśa)。

Verse 59

अलक्षितो गणेशेन प्रविश्याथ परां तनुम् । भुजंगरूपं संत्यज्य जग्राहाथ महासुरः

他未被伽内沙察觉,那大阿修罗便潜入其中,化现更高之身;舍弃蛇形,另取一具雄伟强健的躯体。

Verse 60

उमारूपं रमयितुं गिरिशं मूढचेतनः । कृत्वा मायामयं रूपमप्रतर्क्यं मनोहरम्

他心智迷乱,欲以乌玛之形取悦吉利沙,便造作一具幻化之身——妖娆迷人,摄心夺魄,非理智所能测度。

Verse 61

सर्वैरवयवैः पूर्णं सर्वाभिज्ञानबृंहितम् । कृत्वा भगांतरे दंतं दैत्यो वज्रमयं दृढम्

他使其诸肢具足,并以种种技艺与知识加以坚固;那达伊提亚又铸成一枚坚硬如金刚的獠牙,欲嵌入齿间的缺隙。

Verse 62

तीक्ष्णाग्रं बुद्धिमोहेन गिरिशं हंतुमुद्यतः । कृत्वोमारूपसंस्थानं गतो दैत्यो हरांतिकम्

他执锐利尖兵,心为迷惑所蔽,起意欲杀吉利沙;遂取乌玛之形貌仪态,前往哈拉面前。

Verse 63

पापो रम्याकृतिश्चित्र भूषणांबरसंयुतः । तं दृष्ट्वा गिरिशस्तुष्टस्तमालिंग्य महासुरम्

彼名“罪恶”(Pāpa),却形容妍美,佩戴奇妙饰物与衣裳;吉利沙见那大阿修罗,心生欢喜,遂将其拥抱。

Verse 64

मन्यमानो गिरिसुतां सर्वैरवयवांतरैः । अपृच्छत्साधुभावं ते गिरिपुत्रि न कृत्रिमम्

他认定你在一切形貌与诸般特征上皆为山之女,便问你:噢,山之女啊,你那真实的善德为何?毫无矫饰与伪装。

Verse 65

या त्वं मदाशयं ज्ञात्वा प्राप्तेह वरवर्णिनी । त्वया विरहितं शून्यं मम स्थानं जगत्त्रयम्

噢,容色姝丽的女子,既已洞悉我心之所愿而来到此处;若离了你,我的居所——乃至三界——都觉空寂。

Verse 66

प्राप्ता प्रसन्नवदने युक्तमेवंविधं त्वयि । इत्युक्तो दानवेंद्रस्तु तं बभाषे स्मितं शनैः

他面容安宁,说道:“如此行止,确实与你相称。”被这样说后,达那婆之主便含着微笑,缓缓作答。

Verse 67

स चाबुध्यदभिज्ञानैः प्राह त्रिपुरघातिनम् । दैत्य उवाच । यातास्मि तपसः कामाद्वरं लब्धुं हिमाचलम्

他凭诸般征兆认出了他,便对摧毁三城者开口。那魔族说道:“为求修行苦行(tapas)并获得恩赐,我来到喜马拉雅山。”

Verse 68

रतिश्च तत्र मेनाभूत्ततः प्राप्ता त्वदंतिकम् । इत्युक्तः शंकरः शंकां चित्ते प्राप्तो विचारयन्

“在那里,罗提(Rati)于我前显现;从那里她来到你近旁。”听罢此言,商羯罗心中生起疑虑,便开始思量。

Verse 69

हृदयेन समाधाय देवः प्रहसिताननः । कुपिता कुपितं बुद्ध्वा प्रकृत्या च दृढव्रता

神收摄于心,面含微笑而开口。她却因嗔怒,认定他亦嗔怒;其性本坚,誓愿不移。

Verse 70

अप्राप्तकामा संप्राप्ता किमेतत्संविजानती । इति चिंत्य हरस्तस्या अभिज्ञानं विचारयन्

诃罗思忖:“未得所愿者今已至,此为何意?她又明白了什么?”于是他反复思量,察看可资辨认的征兆。

Verse 71

नापश्यद्वामपार्श्वे तु तदंकं पद्मलक्षणम् । लोम्नामावर्तरचितं ततो देवः पिनाकधृक्

于是执持毗那迦之湿婆,在左侧并未见到那莲华之相的印记——由毛发旋涡般的排列所成。

Verse 72

बुद्ध्वा तां दानवीं मायामाकारं गूहयंस्ततः । मेढ्रदंष्ट्रास्त्रमादाय दानवं तमसादयत्

识破那是达那婆的魔幻之术,他遂隐蔽自身形相;执起名为“梅陀诃檀什特罗阿斯特罗”的神兵,击倒那达那婆。

Verse 73

न चाबुध्यत तद्वृत्तं वीरको द्वाररक्षकः । कुसुमामोदिनं दृष्ट्वा स्त्रीरूपं दानवेश्वरम्

然而守门者毗罗迦并不知其经过;见达那婆之主现为女身,花香馥郁,便未能识破其中真相。

Verse 74

दूतेन मारुतेनाशु बोधिता हिमशैलजा । श्रुत्वा वायुमुखाद्देवी क्रोधरक्ताविलेक्षणा

风作为使者迅速传报,喜马拉雅之女从伐由(Vāyu)亲口听闻此事;女神双目因愤怒而蒙翳,血红如染。

Verse 75

अपश्यद्वीरकं पुत्रं हृदयेनैव दूयता । देव्युवाच । मातरं मां परित्यज्य यस्मात्त्वं स्नेहविक्लवाम्

她见到儿子毗罗迦(Vīraka),心中顿生灼痛。女神说道:“既然你在我被慈爱所牵、情意难抑之时,竟舍弃了我——你的母亲……”

Verse 76

विहितावसरः स्त्रीणां शंकरस्य रहोविधौ । तस्मात्ते मानुषे रूक्षा जडा हृदयवर्जिता

在商羯罗(Śaṅkara)的秘密仪轨中,妇女被规定了应尽之分;因此在人间,她们被说成严厉、迟钝,且缺少柔软之心。

Verse 77

गणेशाकारसदृशी शिला माता भविष्यति । निमित्त एष विख्यातो वीरकस्य सुतादरात्

一块形似象头神伽内沙(Gaṇeśa)的石头将成为“母亲”。此征兆广为人知,源自毗罗迦之子的虔敬礼奉。

Verse 78

संभवे प्रक्रमे चैव विचित्राख्या न संशयः । एवमुत्सृष्टशापायां गिरिपुत्र्यामनंतरं

在“桑婆婆”(Sambhava)的记述与诸事进程之中,毫无疑问它被称为“毗奇特罗迦耶”(Vicitrākhyā)。于是,当那山所生的少女一脱离诅咒之后,立刻……

Verse 79

निर्जगाम मुखात्क्रोधः सिंहरूपी महाबलः । स तु सिंहः करालास्यः सटाजटिलकंधरः

从他口中迸出忿怒,化作一头大力雄狮。那狮子巨口狰狞张开,颈项粗壮,鬃毛纠结如乱发。

Verse 80

ऊर्ध्वप्रोद्भूतलांगूलो दंष्ट्रोत्कटमुखावटः । व्यादितास्यो लंबजिह्वः क्षामः कुक्षिबलादिषु

它尾巴高高竖起,獠牙外突使口面更显可怖;巨口大张,长舌下垂。它形容枯槁——腹部、气力以及诸般都已衰竭。

Verse 81

अस्यास्ये वर्तितुं देवी व्यवस्थितवती तदा । ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः

于是女神决意守在它的口边;而那位具四面之圣主(梵天),洞悉她心中所念,便随其意而应对。

Verse 82

आजगामाश्रमपदं संपदामाश्रयं यतः । आगम्योवाच देवेशो गिरिजां स्पष्टया गिरा

他来到那座隐修院之地,乃福泽所依之所。抵达之后,诸天之主以清晰之言对吉丽迦(帕尔瓦蒂)说道。

Verse 83

ब्रह्मोवाच । किं पुनः प्राप्तुकामासि किमलभ्यं ददामि ते । विरम्यतामतिक्लेशात्तपसोस्मान्मदाज्ञया

梵天说道:“你还想求得什么?有何不可得之物,是我不能赐予你的?依我之命,止息这般过度艰苦的苦行吧。”

Verse 84

तच्छ्रुत्वोवाचगिरिजा गुरोर्गौरवयंत्रितं । वाक्यं वाचाहरोद्गीर्णवर्णनिर्गमवांछितं

听闻此言,吉丽迦(帕尔瓦蒂)欲开口;然因对师尊的敬畏而受拘束,声音似将哽咽,却仍渴望让字句与音节流出。

Verse 85

देव्युवाच । तपसा दुष्करेणाप्तः पतिर्वै शंकरो मया । समां श्यामलवर्णेति बहुशः प्रोक्तवान्रहः

女神说道:“我以艰难严酷的苦行得到了商羯罗为夫。他屡次在私下对我说:‘你肤色黝黑,我的爱者。’”

Verse 86

तस्मादहं कांचनाभवर्णा तन्नामसंयुता । भर्तुर्भूतपतेरंगमेकतो निर्विषं भवेत्

因此,我将以金色光辉、并具此名,使我夫君——众生之主(Bhūtapati)——身体的一部分脱离毒害。

Verse 87

तस्यास्तद्भाषितं श्रुत्वा प्रोवाच जगदीश्वरः । एवं भव त्वं भूयश्च भर्तुर्देहार्द्धचारिणी

宇宙之主听了她的话,答道:“如是成就。自今以后,你当成为与夫君共分半身者。”

Verse 88

ततस्तत्याजतां कृष्णां फुल्लनीलोत्पलत्वचं । त्वक्च साप्यभवद्भीमा घंटाहस्तात्रिलोचना

于是她褪去那如盛放青莲般的黝黑之肤;而那层皮肤竟化作可怖之灵——三目具足,手执铃铛。

Verse 89

नानाभरणसंपूर्णा पीतकौशेयधारिणी । तामब्रवीत्ततो ब्रह्मा देवीं नीलांबुजत्विषं

女神佩戴诸多宝饰,身披黄色绢衣,光辉如青莲;于是梵天开口对她说道。

Verse 90

निशे भूधरजा देह संपर्का त्वं मदाज्ञया । संप्राप्ता कृतकृत्यत्वमेकानंशा पुरो ह्यसि

噢夜之女——山岳所生者——奉我之命,你已与一具身躯相接。你已得成事之位;你确是一分之力,立于我前。

Verse 91

य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने । स तेस्तु वाहनं देवि केतौ चास्तु महाबलः

噢容颜殊妙的女神,此狮由女神之忿怒而生——愿他为你之乘骑,噢提毗;并愿计都亦具大力。

Verse 92

गच्छ विंध्याचलं तत्र सुरकार्यं करिष्यसि । पंचालो नाम यक्षोयं यक्षलक्षपदानुगः

“前往温陀耶山;在那里你将成就诸天之事。此处这位夜叉名为般遮罗,乃夜叉之主财宝天王(俱毗罗)随从之列。”

Verse 93

दत्तस्ते किंकरो देवि मया मायाशतैर्युतः । इत्युक्त्वा कौशिकी देवी विंध्यशैलं जगाम ह

“噢女神,我赐你此侍从,由我赋予百般神通幻力。”言毕,憍尸迦女神便前往温陀耶山。

Verse 94

उमापि प्राप्तसंकल्पा जगाम गिरिशांतिकं । प्रविशंतीं तु तां द्वारादपहृत्य समाहितः

乌玛亦已立定誓愿,前往吉利沙(湿婆)处;正当她欲入门时,他心神自持、安定沉着,将她从门槛处拉回。

Verse 95

रुरोध वीरको देवीं हेमवेत्रलताधरः । तामुवाच च कोपेन रूपे तु व्यभिचारिणीं

毗罗迦执持金杖,拦住女神;继而怒而对她说道:“你这形貌不贞之者!”

Verse 96

प्रयोजनं न तेत्रास्ति गच्छ यावन्न भक्ष्यसे । देव्यारूपधरो दैत्यो देवं वंचितुमागतः

你在此毫无所求——速去,免得被吞噬。一个阿修罗化作女神之形,前来欺诳天神。

Verse 97

प्रविष्टो न च दृष्टोसौ स च देवेन घातितः । घातिते चाहमाज्ञप्तो नीलकंठेन कोपिना

他虽潜入却未被看见,终被天神所诛。其既被杀后,我奉暴怒的尼罗迦ṇṭha之命。

Verse 98

द्वारे त्वनवधानं ते यस्मात्पश्यामि वै ततः । भविष्यसि न मे द्वास्थो वर्षपूगाननेकशः

因我见你在门前疏忽大意,故你将于无数岁月之久不再为我守门。

Verse 99

अतस्ते नात्र दास्यामि प्रवेशं गम्यतां द्रुतम् । एकां मुक्त्वा गिरिसुतां मातरं स्नेहवत्सलाम्

因此,我不许你在此入内;速速离去。莫去扰动吉利苏塔之母——她慈爱柔和,满怀深情。

Verse 100

प्रवेशं लभते नान्या नारी कमललोचने । इत्युक्त्वा तु तदा देवी चिंतयामास चेतसा

“除你之外,别的女子不得入内,莲眼者啊。”说罢,女神便在心中沉思。

Verse 101

नारी नैव स दैतेयो वायुर्मे यामभाषत । वृथैव वीरकश्शप्तो मया क्रोधपरीतया

“他根本不是达伊提亚,他是个女子,”风神伐由对我说。“我被怒火所覆,徒然诅咒了维拉卡。”

Verse 102

अकार्यं क्रियते मूढैः प्रायः क्रोधसमन्वितैः । क्रोधेन नश्यते कीर्तिः क्रोधो हंति स्थितां श्रियम्

愚人多为嗔怒所驱,常行不当之事。嗔怒毁坏名声,嗔怒亦能击倒已稳固的福泽与昌盛。

Verse 103

अपरिच्छिन्नतत्वार्था पुत्रं शापितवत्यहं । विपरीतार्थबुद्धीनां सुलभो विपदागमः

我未能洞察真实本相,竟诅咒了自己的儿子;对那些见解颠倒、误取其义的人,灾厄最易降临。

Verse 104

संचिंत्यैवमुवाचेदं वीरकं प्रति शैलजा । सज्जलज्जाविकारेण वदनेनाम्बुजत्विषा

如是思惟已,雪山之女Śailajā(帕尔瓦蒂)对毗罗迦说道;她面容如莲华般光耀,因羞怯与端庄之情而更显柔和。

Verse 105

देव्युवाच । अहं वीरक ते माता न तेस्तु मनसो भ्रमः । शंकरस्यास्मि दयिता सुता तुहिनभूभृतः

女神曰:“毗罗迦啊,我是你的母亲,汝心勿起迷妄。我乃商羯罗之爱侣,亦是雪山之主(喜马王)之女。”

Verse 106

मम गात्रच्छविभ्रांत्या मा शंकां पुत्र धारय । तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना

吾子啊,莫因我肢体之光辉而生疑。此我之皎洁肤色,乃莲华所生者(梵天)欢喜时所赐。

Verse 107

मया शप्तोस्यविदिते वृत्तांते दैत्यनिर्मिते । ज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्थिते

当那由阿修罗族(代底耶)所构之事尚未为我所知时,我便降下诅咒;及至得知女子潜入之事,而商羯罗正隐秘独处,我方明白其缘由。

Verse 108

ननिवर्तयितुं शक्यः शापः किंतु ब्रवीमि ते । शीघ्रमेष्यसि मानुष्यात्सर्वकामसमन्वितः

此诅咒不可回转;然我告汝:汝将不久脱离人身之境,具足一切所愿之成就。

Verse 109

शिरसा तु ततो वंद्य मातरं पूर्णमानसः । उवाच साध्वीं पूर्णेन्दु द्युतिं तुहिनशैलजां

于是他俯首致敬,心神圆满安定,向那位贤德的圣母开口——喜马拉雅之女帕尔瓦蒂,光辉如满月之华。

Verse 110

वीरक उवाच । नतसुरासुरमौलिलसन्मणिप्रवरकांतिकरालिनखाङ्घ्रिके । नगसुते शरणागतवत्सले नवनमोवनतार्त्तिविनाशिनि

毗罗迦说道:噢山之女,你的足与锐甲在诸天与阿修罗俯首的冠顶上,因最上妙宝而放出殊胜光辉;噢怜悯护佑归依者者,我一次又一次顶礼于你——摧灭谦卑者苦恼的女神。

Verse 111

तपनमंडलमंडितकंधरे पृथुसुवर्णनगद्युतिहारिके । विषमभंगविषंगमभीषितो गिरिसुते भवतीमहमाश्रये

噢山之女,你的颈项饰以如日轮之环,佩戴广大金饰而光耀夺目;我惧于平衡的崩裂与离散之险,今唯归依于你。

Verse 112

जगतिकाप्रणताभिमता ददौ झटिति सिद्धिमृते भवतीं यथा । जगतिकां प्रणमेच्छशिशेखरो भुवनभृन्मुनयो भवतीं यथा

正如大地母神Jagatikā为礼拜者所爱,能迅速赐予成就;愿你亦如是,圣母。正如戴月者Śiśekhara(湿婆)渴望礼拜Jagatikā;同样,护持诸界的圣贤也渴望礼拜于你。

Verse 113

विमलयोगविनिर्मितदुर्जये सुतनुतुल्यमहेश्वरमंडली । विदलितांधकबांधवसंहतिः सुरवरैः प्रथमं त्वमभिष्टुता

噢不可战胜者,由清净瑜伽所成,难以征服;噢大自在天,其眷属如诸天之众——你摧裂了安陀迦亲族的聚集;因此,诸天中最尊者最先向你献上赞颂。

Verse 114

सितसटापटलोद्धतकंधराभवमहामृगराजरयस्थिता । विमलशक्तिमुखानलपिंगला यतभुजौघनिपिष्टमहासुरा

她乘坐迅疾的万兽之王——狮子,白鬃如盖使其颈项高昂;她色如金褐,宛若自无垢神力(Śakti)之口喷出的火焰,以克制而众多的臂力之压,碾碎了强大的阿修罗。

Verse 115

निगदिता भुवनैरतिचंडिकाजननिशुंभनिशुंभनिषूदिनी । प्रणतचिंतितदा भवदा नवप्रशमनैकरतिस्तरसा भुवि

诸世界皆宣称她为极其威猛的圣母——旃提迦(Caṇḍikā),诛灭商婆与尼商婆者;她赐予俯首礼拜者心中所求,施与安泰,并在大地上迅疾欢喜于唯一之业:平息新近生起的诸苦恼。

Verse 116

वियतिवायुपथे ज्वलनाकुलेवनितले तव देवि च यद्वपुः । तदजितेप्रतिमे प्रणमाम्यहं भुवनभाविनिते भववल्लभे

女神啊,你的本相安住于虚空、行风之道,以及火焰充盈的大地之上。无敌而无比者,我向你那形相顶礼——你是诸世界的维系者,亦是婆伐(Bhava,湿婆)所钟爱者。

Verse 117

जलधयो ललितोद्धतवीचयो हुतवहो द्युतिदग्धचराचरः । फणसहस्रभृतश्च भुजंगमास्त्वमभिधास्यसि मामभयंकरा

嬉戏而翻涌的海洋波涛;以光焰灼烧一切动与不动的火;以及负载千重蛇冠的诸龙蛇——你都将统御,赐无畏者啊;愿你使我无惧。

Verse 118

भगवति स्थिरभक्तजनाश्रये प्रतिगतो भवतीचरणाश्रयं । करणजातमिहास्तु ममाश्रवैतवविलासमुखानुभवास्यदम्

吉祥的女神啊,你是坚定奉者的归依处;我既已来到你莲足的庇护下,愿我在此的一切根器都专注于聆听,并亲证你神圣戏游(līlā)的种种显现。

Verse 119

सुप्रसन्ना ततो देवी वीरकस्येति संस्तुता । प्रविवेश शुभंभर्तुर्भुवनं भूधरात्मजा

于是女神心怀大悦,被赞颂为“毗罗迦之妻”,便进入其夫君的吉祥居所——那位出自群山的圣女。

Verse 120

द्वास्थोपि वीरको देवान्हरदर्शनकांक्षिणः । व्यसर्जयत्स्वकानेव गृहानादरपूर्वकं

毗罗迦虽守门而立,却恭敬地遣退那些渴望得见哈罗(湿婆)之诸天,令其各归本宫。

Verse 121

नास्त्यत्रावसरो देवा देव्याः सह वृषाकपिः । निभृतः क्रीडतीत्युक्ता ययुस्ते च यथागतं

“诸天啊,此处无你们的机缘;弗利沙迦毗(Vṛṣākapi)正与女神密室嬉游。”闻此言,他们遂循来路而返。

Verse 122

गते वर्षसहस्रे तु देवास्त्वरितमानसाः । ज्वलनं चोदयामासुर्ज्ञातुं शंकरचेष्टितं

千年既过,诸天心中焦灼急切,便催请阿耆尼(火神),欲探知商羯罗(湿婆)真实的意向与作为。

Verse 123

प्रविश्य पक्षिरंध्रेण शुकरूपी हुताशनः । ददर्श शयने सर्वं रतौ गिरिजया सह

火神护多舍那(Hutaśana)化作野猪,从鸟所出入的孔隙潜入;他看见床榻之上一切——(湿婆)与吉利迦(帕尔瓦蒂)正行爱乐。

Verse 124

ददर्श तं च देवेशो हुताशं शुकरूपिणं । तमुवाच महादेवः किंचित्कोपसमन्वितः

众神之主看见了他——火神胡塔沙化作野猪之形。于是大天尊摩诃提婆带着几分怒意对他说道。

Verse 125

शर्व उवाच । निषिक्तमर्धं देव्यां मे वीर्यं च शुकविग्रह । लज्जया विरतिश्चास्य त्वमर्धं पिब पावक

舍婆(湿婆)说道:“我力量的一半已注入女神;另一半——以精种之形——因羞惭与克制而被收摄。噢火神帕瓦卡,饮下那剩余的一半。”

Verse 126

यस्मात्तु त्वत्कृते विघ्नं तस्मात्त्वय्युपपद्यते । इत्युक्तः प्राञ्जलिर्वह्निरपिबद्वीर्यमाहितं

“既因你而起障碍,也当由你来化解。”火神瓦赫尼合掌受命,饮下那所安置的威力。

Verse 127

तेनाप्लुतास्ततो देवास्तन्मुखा ऋभवो यतः । विपाट्य जठरं तेषां वीर्यं माहेश्वरं ततः

于是诸神为那威力所淹没;而梨婆诸神工转向他们,继而—剖开其腹—从中取出那由摩诃提婆所生的威能。

Verse 128

निष्क्रांतं तप्तहेमाभं वितते शंकराश्रमे । तस्मिन्सरो महज्जातं विमलं बहुयोजनं

它显现而出——灿若熔金——在广阔的商羯罗道场之中;其处遂生一大湖,清净无垢,延展数多由旬。

Verse 129

प्रोत्फुल्लहेमकमलं नानाविहगनादितम् । तच्छ्रुत्वा तु सरो देवी जातं हेममहांबुजम्

有一朵盛放的金色莲华,众多飞鸟啼鸣环绕。天女(Devī)闻其声,便知湖中已生出一朵伟大的金莲。

Verse 130

जगाम कौतुकाविष्टा तत्सरः कनकांबुजम् । तत्र कृत्वा जलक्रीडां तदब्जकृतशेखरा

她心怀好奇,前往那满是金莲的湖泊。在那里她嬉戏于水中,并以那些莲花为己作顶髻华冠。

Verse 131

उपविष्टा ततस्तस्य तीरे देवी सखीवृता । पातुकामा च तत्तोयं स्वादुनिर्मलपंकजम्

随后天女(Devī)在侍女(sakhī)环绕下坐于岸边,渴望饮那湖水——甘美、澄净,且莲华遍布。

Verse 132

अपश्यत्कृत्तिकास्तास्स षडर्कद्युतिसन्निभाः । पद्मपत्रे तु तद्वारि गृहीत्वा प्रस्थिता गृहम्

他看见那些克利提迦(Kṛttikā),光辉宛如六日同耀;遂以莲叶盛取那水,启程归家。

Verse 133

हर्षात्सोवाच पास्यामि पद्मपत्रे स्थितं पयः । ततःस्ता ऊचुरखिलाः कृत्तिका हिमशैलजाम्

他欢喜地说:“我要看看那安住于莲叶上的乳汁。”于是诸位克利提迦(Kṛttikā)一同对喜马雪罗迦之女(Himāśailajā,喜马拉雅之女)开口。

Verse 134

कृत्तिका ऊचुः । दास्यामो दयिते गर्भे संभूतो यो भविष्यति । सोस्माकमपि पुत्रः स्यादस्मत्त्राता च वृत्तिमान्

Kṛttikā众女神说道:“亲爱的,我们愿将我们的护持奉献给那将从你胎中诞生的孩子。愿他也成为我们的儿子——我们的守护者,并具端正德行。”

Verse 135

त्रिषु लोकेषु विख्यातः सर्वेष्वपि शुभानने । इत्युक्तोवाच गिरिजा कथं मद्गात्रसंभवैः

“他在三界之中声名远扬——确实在一切之中皆然,”美颜者啊。听罢此言,Girijā(帕尔瓦蒂)说道:“若是从我自身之躯而生,怎会如此?”

Verse 136

सर्वैरवयवैर्युक्तो भवतीभ्यः सुतो भवेत् । ततस्तां कृत्तिका ऊचुर्विधास्यामोस्य वै वयम्

“由你们众人,将诞生一位儿子,诸肢具足、圆满无缺。”于是Kṛttikā众女神对她说:“确实,我们将为他作妥善的安排。”

Verse 137

उत्तमान्युत्तमांगानि यद्येवं तु भविष्यति । उक्ता वै शैलजा प्राह भवत्वेवमनिंदिताः

“若果真如此——令最殊胜的肢体成就至高之美,”被如此告知后,Śailajā说道:“就这样吧,诸位无瑕者。”

Verse 138

ततस्तु हर्षसंपूर्णा पद्मपत्रस्थितं पयः । तस्यै ददुस्तया चापि तत्पीतं क्रमशो जलम्

随后,她们满怀欢喜,将置于莲叶之上的乳汁献给她;而她也依次缓缓饮下那水一般的甘液。

Verse 139

पीते तु सलिले चैव तस्मिन्नेव क्षणे वरः । विपाट्य देव्याश्च ततो दक्षिणं कुक्षिमुद्गतः

水一饮尽,就在那一刹那,圣者撕开女神的右胁,从她的胎藏中显现而出。

Verse 140

निश्चक्रामाद्भुतो बालो रोगशोकविनाशनः । प्रभाकरकरव्रात प्रकारप्रकरप्रभुः

一位奇妙的婴孩出世——能摧灭疾病与忧苦——光辉如日轮万缕群光,乃多形多现之主。

Verse 141

गृहीतनिर्मलोदग्र शक्तिशूलांकुशोनलः । दीप्तो मारयितुं दैत्यानुत्थितः कनकच्छविः

他执持清净高胜之兵——长枪、三叉戟、钩棒与炽焰之火——金辉灿然而起,燃然欲诛诸代提耶。

Verse 142

एतस्मात्कारणादेव कुमारश्चापि सोभवत् । वामं विदार्य निष्क्रांतस्ततो देव्याः पुनः शिशुः

正因如此,他确成少年王子;继而劈开左胁而出——再一次,成为女神之婴。

Verse 143

स्कंदोथ वदनाद्वह्नेः शुभ्रात्षड्वदनोरिहा । कृत्तिकासलिलादेव शाखाभिः सविशेषतः

于是,斯甘达——由阿耆尼光明之口所生——在此化为六面;此事尤由克利提迦诸女之水流分支而成。

Verse 144

शाखाः शिवाः समाख्याताः षट्सुवक्त्रेषु विस्तृताः । यतस्ततो विशाखोसौ ख्यातो लोकेषु षण्मुखः

吉祥的诸支如是得名,遍布于六面之中;因此那位六面尊者在诸世界中以“毗舍迦”(Viśākha)而著称。

Verse 145

स्कंदो विशाखः षड्वक्त्रः कार्तिकेयश्च विश्रुतः । पक्षे चैत्रस्य बहुले पंचदश्यां महाबलौ

他以“军神斯坎达”、毗舍迦、六面者与“迦尔蒂凯亚”而闻名。于恰特罗月黑半月之第十五日(tithi),其威力无比。

Verse 146

संभूतावर्कसदृशौ विशाले शरकानने । सिते पक्षे तु पंचम्यां तथैतौ पावकानलौ

在广阔的芦苇林中,那二者如太阳般炽盛而生;于白半月第五日(tithi),他们确然化为火与焰。

Verse 147

बालकाभ्यां चकारैकं संध्यायामेव भूतये । तस्यामेव ततः षष्ठ्यामभिषिक्तो गुहः प्रभुः

为众生福祉,他在暮时与两位童子行一仪式;随后就在同一第六日(tithi),主宰古诃(Guha)受灌顶而安立。

Verse 148

सर्वैरमरसंघातैर्ब्रह्मोपेंद्रेंद्र भास्करैः । गंधमाल्यैः शुभैर्धूपैस्तथा क्रीडनकैरपि

由一切集会的天众——并与梵天、优宾陀罗(毗湿奴)、因陀罗及婆斯迦罗(太阳神)同在——又以吉祥香料、花鬘、圣香,以及供庆典与供奉之玩具等而敬献。

Verse 149

छत्रैश्चामरजालैश्च भूषणैश्च विलेपनैः । अभिषिक्तो विधानेन यथावत्षण्मुखः प्रभुः

以王伞与成簇拂尘(chāmara)为仪,以珠宝与芬芳涂香为饰,六面圣主(Ṣaṇmukha)依照所规定的法仪,如法受灌顶而被庄严加冕。

Verse 150

सुतामस्मै ददौ शक्रो देवसेनेति विश्रुताम् । पत्न्यर्थं देवदेवेशो ददौ विष्णुरथायुधम्

帝释天(Śakra,因陀罗)将其女儿、名闻诸天的天军女神德婆军那(Devasenā)赐与他;又为成就婚配,诸神之主赐予毗湿奴车乘者(Viṣṇuratha)一件神圣兵器。

Verse 151

यक्षाणां दशलक्षाणि ददावस्य धनाधिपः । ददौ हुताशनस्तेजो ददौ वायुश्च वाहनम्

财富之主赐他一千万夜叉众;火神赐予炽盛光辉之威能,风神伐由(Vāyu)亦赐他一乘迅疾的车舆。

Verse 152

ददौ क्रीडनकं त्वष्टा कुक्कुटं कामरूपिणम् । एवं सुरास्तु ते सर्वे परिवारमनन्तकम्

工巧神特瓦什特里(Tvaṣṭṛ)赐他一件玩物——一只随欲变形的雄鸡。于是诸天神众皆成其无尽眷属,环侍左右。

Verse 153

ददुर्मुदितचेतस्काः स्कंदायादित्यवर्चसे । जानुभ्यामवनौ स्थित्वा सुरसंघास्तमस्तुवन्

诸神众心怀欢喜,向日光般辉耀的军神斯甘达(Skanda)奉献礼敬;他们双膝跪地,俯伏称颂赞叹。

Verse 154

स्तोत्रेणानेन वरदं षण्मुखं मुख्यशः सुराः । देवा ऊचुः । नमः कुमाराय महाप्रभाय स्कंदाय चास्कंदितदानवाय

诸天以此赞颂礼赞赐福的六面圣主。诸神曰:“礼敬鸠摩罗,至伟大威力者;礼敬斯甘陀,面对达那婆魔众从不退却者。”

Verse 155

नवार्कबिंबप्रतिमप्रभाव नमोस्तु गुह्याय गुहाय तुभ्यम् । नमोस्तु ते लोकभयापहाय नमोस्तु ते लोककृपापराय

礼敬汝,光辉如新升旭日之圆轮。礼敬汝——幽玄者、古诃,居于心窟之主。礼敬汝,能除诸世界之恐惧;礼敬汝,对诸世界至极慈悲者。

Verse 156

नमो विशालामललोचनाय नमो विशाखाय महाव्रताय । नमो नमस्तेस्तु रणोत्कटाय नमो मयूरोज्ज्वलवाहनाय

礼敬汝,具广大清净之眼者;礼敬毗舍佉,持守大誓愿者。再三礼敬汝,战阵中威烈者;礼敬汝,以光耀孔雀为乘者。

Verse 157

नमोस्तु केयूरधराय तुभ्यं नमो धृतोदग्रपताकिने ते । नमः प्रभावप्रणताय तेस्तु नमोऽस्तु घंटाधरधैर्यशालिने

礼敬汝,佩臂钏者;礼敬汝,执高幡旗者。礼敬汝,威光之前众皆俯伏者;礼敬汝,持铃而具大勇者。

Verse 158

कुमार उवाच । कं वः कामं प्रयच्छामि भवंतो ब्रूतनिर्वृताः । यद्यप्य साध्यं कृत्यं नो हृदये चिंतितं चिरम्

鸠摩罗曰:“我当赐汝等何愿?汝等既已满足,当如实言。久以来,我等心中思量一事,虽似难以成就。”

Verse 159

इत्युक्तास्तु सुरास्तेन प्रोचुः प्रणतमौलयः । सर्व एव महात्मानं गुहं मुदितमानसाः

他们被他如此告诫后,诸天神低首致敬而答;众神心怀欢喜,赞颂并称扬大心者古诃(Guha)。

Verse 160

दैत्येंद्रस्तारको नाम सर्वामरकुलांतकृत् । बलवान्दुर्जयस्तीक्ष्णो दुराचारोतिकोपनः

有一位名为塔拉卡(Tāraka)的达那婆之王,欲灭尽诸不死者之族;力大无比,难以征服,性情凶烈,行止邪恶,怒火尤甚。

Verse 161

तमेव जहि दुर्धर्षं दैत्यं सर्वविनाशनम् । उपस्थितः कृत्यशेषो ह्यस्माकं च भयावहः

请诛灭那不可侵犯、毁灭一切的魔王。因为那邪术祭作所余之祸如今已现前,对我们亦是可怖。

Verse 162

हिरण्यकशिपुश्चोग्रो ह्यवध्यो देवतागणैः । यज्ञघ्नः पापकर्मा वै येन ब्रह्मापि तापितः

凶猛的希兰尼亚迦湿布(Hiraṇyakaśipu)为诸天众神所不能杀。此人毁坏祭祀(yajña),作诸罪业,甚至使梵天(Brahmā)亦受煎迫。

Verse 163

एतौ हरस्व भद्रं ते तावकं च महाबलम् । एवमुक्तस्तथेत्युक्त्वा सर्वामरपदानुगः

“收下这些,愿你吉祥;并且领受你那无比的大力。”他被如此告知,便答道:“如是。”随后在诸天神众随从之下前行。

Verse 164

जगाम जगतांनाथस्तूयमानोमरेश्वरैः । तारकस्य वधार्थाय जगतां कंटकस्य च

诸世界之主在不死诸天之王的赞颂中启程,为诛灭塔罗迦——诸界之刺、诸世之患。

Verse 165

ततश्च प्रेषयामास शक्रो गूढसमाश्रयः । दूतं दानवसिंहस्य परुषाक्षरवादिनम्

随后,释迦(因陀罗)暗中行事,遣一使者前往;此人侍奉达那婆中的“狮子”,言辞本就粗厉。

Verse 166

स तु गत्वाब्रवीद्दैत्यमभयो भीमदर्शनम् । दूत उवाच । शक्रस्त्वामाह देवेशो दैत्यकेतुं दिवस्पतिः

他遂前往,对那无惧而形貌可怖的阿修罗说道。使者曰:“释迦,诸天之主、天界之王,告谕于汝,哦,戴提耶计都。”

Verse 167

तारकासुर तच्छक्त्या घटयस्व यथेच्छया । यज्जगज्ज्वलनोद्दीप्तं किल्बिषं च त्वया कृतम्

噢,塔罗迦阿修罗,以那同一神力随汝所愿使之归正;因汝所作之罪,已令整个世界如火焰般燃起。

Verse 168

तस्याहं सादकस्तेद्य राजास्मि भुवनत्रये । श्रुत्वैतदद्भुतं वाक्यं कोपसंरक्तलोचनः

“我乃其成办之人,且实为三界之王。”闻此惊异之语,他怒火炽盛,双目因忿而赤。

Verse 169

उवाच दूतं दुष्टात्मा नष्टप्रायविभूतिकः । तारक उवाच । दृष्टं ते पौरुषं शक्र शतशोथ महारणे

邪心的塔罗迦(Tāraka)几近丧尽威力,对使者说道:“噢,释迦罗(因陀罗),在那场大决战中,我已见过你的英勇——百次、千次。”

Verse 170

निस्त्रपत्वान्न ते शांतिर्विद्यते शक्र दुर्मते । एवमुक्ते गते दूते चिंतयामास दानवः

“因你无耻,噢释迦罗,安宁永不属于你,这恶念之人。”使者如此说罢离去,达那婆(Dānava)便沉思起来。

Verse 171

नालब्धसंश्रयः शक्रो वक्तुमेवमिहार्हति । जातः स्कंदोधुना शक्राज्ज्ञायते समुपाश्रयात्

释迦罗既未得依怙,便不配在此如此言说。因为如今斯甘陀(Skanda)已由释迦罗而生——从他对那依怙的凭依之相,即可得知。

Verse 172

निमित्तौघांस्तदा दुष्टान्सोपश्यन्नाशवेदिनः । पांसुवर्षमसृक्पातं गगनादवनीतले

当时,他们见到恶兆如潮,预感毁灭将至;只见尘土如雨,自天而降,血滴亦从虚空落在大地之上。

Verse 173

वामनेत्रप्रकंपं च वक्त्रशोषं मनोमयम् । स्वकानां वक्त्रपद्मानां म्लानतां च व्यलोकयत्

他又看见左眼颤动,面容生出由心而起的枯涩,并见自己族众那如莲华般的面庞也失却光泽、渐趋凋萎。

Verse 174

दुष्टांश्च प्राणिनो रौद्रान्सोपश्यद्दुष्टवादिनः । तदचिंत्यैव दितिजो न्यस्तचित्तोभवत्क्षणात्

他看见邪恶而凶猛的众生,口出秽恶之言。思惟那不可思议的景象,达伊提亚刹那间内心降伏,心念顿然安定。

Verse 175

यावद्गजघटाघंटा घनत्काररवोत्कटाम् । तद्वत्तुरंगसंघातहेषोत्साहविभूषिताम्

那象颞之铃,发出浑厚而震响的叮当之声,所及之处皆可闻;同样,成群战马以昂扬嘶鸣与武勇之气为饰,其声所至亦复如是。

Verse 176

सैन्यैस्सेनान्तरोदग्र ध्वजराजैर्विराजिताम् । विमानैश्चाद्भुताकारैश्चलितामलचामरैः

其间军旅森然,队列之中高举王旗,巍然夺目;又有形制奇妙的空中车乘往来移动,洁白无瑕的拂尘(chāmara)摇曳飘扬。

Verse 177

विभूषणपिनद्धां च किन्नरोद्गीतनादिताम् । नाना नाकतरूत्फुल्ल कुसुमापीडधारिणीम्

又见她佩戴庄严饰物,回响着紧那罗(Kinnara)所歌之声;头戴花鬘冠冕,皆取自诸多天界妙树盛开的花朵。

Verse 178

विशोकास्त्रपरिस्फार चर्मनिर्मलदर्शिनीं । विद्युत्पुष्टद्युतिधरां नानावाद्यविनादिताम्

她光辉灿然:甲胄与兵器洁净无瑕,闪耀生辉,身相明净可观;其光如强盛之电,且有种种乐器之声回荡相随。

Verse 179

सेनां नाकसदां दैत्यः प्रासादस्थो व्यलोकयत् । सचिंतयामास तदा किंचिद्विभ्रांतमानसः

那魔王立于宫殿之上,遥望诸天神军;心神微乱之际,便开始沉思。

Verse 180

अपूर्वः को भवेद्योद्धा यो मया न विनिर्जितः । ततश्चिंताकुलो दैत्यः शुश्राव कटुकाक्षरम् । सिद्धवंदिभिरुद्घुष्टमिदं हृदयदारुणम्

“怎会有如此前所未有的勇士,竟未被我征服?”那时,忧惧缠身的阿修罗听见刺耳之言——由悉达与歌咏者高声宣告——凄厉而穿心。

Verse 181

जयातुलशक्तिदीधितिपंजरभुजदंडप्रचंडतर । रभससुरवदनकुमुदविकासनविलासनेत्र कुमारवर

愿胜利归于你,至善的童子王子库玛罗:双臂如雄杖,威猛难当,光辉灼然如炽光之笼;你嬉游的双眸,使诸天神的莲华面容迅速绽放。

Verse 182

जय दितिजकुलमहोदधि बडवानल मधुरमयूररथ सुरमकुट कोटि कुंचित चरण नखांकुर महासेन

愿胜利归于你,摩诃军神(Mahāsena):如海底之火,烘干广阔的阿修罗族海洋;乘坐鸣声清甜的孔雀战车;你的宝冠为众天神所颂;你微曲的双足,其甲尖光耀如新芽初生。

Verse 183

जय चलितललित चूडाकलापनवविमलकमल । दंडकांत दैत्येशवंश दुःसह दावानल

愿胜利归于你:你摇曳而娴雅的冠饰,如新生无垢之莲;噢,檀陀迦所钟爱者,你于魔王之族系,乃难当的林野烈火。

Verse 184

जय विशाखविभोजय बालसप्तवासर भुवनालिशोकशमन जय सकललोक दितिसुतधुरंधरनाशक स्कंद

胜利归于你,军荼(Skanda)——与毗舍佉(Viśākhā)相应之主!胜利归于你,行七日誓戒的少年,能息灭诸世界之忧苦!胜利归于你,摧破底提(Diti)之子中强横勇士者,护持一切世界者!

Verse 185

श्रुत्वैतत्तारकः सर्वमुद्घुष्टं देववंदिभिः । सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितं

塔罗迦(Tāraka)听见诸神颂赞者高声宣告这一切,便忆起梵天(Brahmā)之言:他的死期——将由区区一名少年之手所致——如今已迫近。

Verse 186

स्मृत्वा धर्मौघविध्वंसी सदा वीरपदानुगः । मंदिरान्निर्जगामाशु शोकग्रस्तेन चेतसा

忆及那摧灭不义洪流者,且恒常随行英雄之道,他便迅速走出殿宇,心神为忧伤所压。

Verse 187

कालनेमिमुखा दैत्याः संत्रस्ता भ्रांतचेतसः । स्वेष्वनीकेषु च तदा त्वरा विस्मितचेतसः

以迦罗内弥(Kālanemi)为首的代底耶(Daitya)众惊惧失措,心神迷乱;于是他们急忙奔回各自军阵,胸中尽是惊异。

Verse 188

हिरण्यकशिपुः प्राह दानवानां धुरंधरः । त्रपाकरं भवेन्मह्यं बालस्यास्य पलायनम्

丹那婆(Dānava)中最为卓绝的统领希兰耶迦湿布(Hiraṇyakaśipu)说道:“这孩子若逃走,于我将是奇耻大辱。”

Verse 189

यद्यहं हंतवे यामि सोपि वै कमलाश्रितः । हत्वाहं बालकं चैनं दुःस्पर्शः स्यामकारणं

若我前去杀他,他亦在莲华所生者(梵天)的护佑之下。若我杀了这孩子,我的触碰将成不净,遂招致耻辱之因。

Verse 190

यात धावत गृह्णीत योजयध्वं वरूथिनीम् । कुमारं तारको दृष्ट्वा बभाषे भीषणाकृतिः

“去!快跑!擒住他!整列诸军!”见到少年的库玛罗,形貌可怖的塔罗迦如此说道。

Verse 191

किं बाल योद्धुकामोसि क्रीडकंदुकलीलया । येनातपो निसृष्टस्ते सत्संगरविभाषक

孩子啊,你为何要争战,仿佛只是抛球嬉戏?如此一来,你的苦行已被你弃置——你这在善人众中高声言说者。

Verse 192

बालत्वादथ ते बुद्धिरेवं स्वल्पार्थदर्शिनी । कुमारोपि तमग्रस्थं बभाषे हर्षवत्तमं

于是因其稚幼,他们的见识便狭隘,只能见到些微;然而那少年库玛罗立于前方,却以极大的欢喜对他说道。

Verse 193

शृणु तारक शास्त्रार्थ इह नैव निरूप्यते । शस्त्रैरर्था न दृश्यंते समरे निर्भरं भये

听着,塔罗迦:经典(śāstra)的真义不在此处得以判定。战阵之中,恐惧汹涌难当,义理与旨趣皆不可见,唯有兵刃在前。

Verse 194

शिशुत्वं मावमंस्था मे शिशुः कष्टो भुजंगमः । दुष्प्रेक्षो भास्करो बालस्तथाहं दुर्जयः शिशुः

莫轻视我的幼年。幼蛇亦能致命;旭日虽在初升之时如同“年少”,却令人难以直视。同样,我虽为孩童,也难以战胜。

Verse 195

अल्पाक्षरो न मंत्रः किं सस्फुरो दैत्य दृश्यते । कुमारे प्रोक्तवत्येवं दैत्यश्चिक्षेप मुद्गरं

“字句如此短少,怎会是咒语?那魔族为何似在颤抖?”少女如是说道;随即那达伊提亚便掷出铁槌般的钉头槌。

Verse 196

कुमारस्तं निरासोग्रं चक्रेणामोघवर्चसा । ततश्चिक्षेप दैत्येंद्रो भिंदिपालमयोमयं

鸠摩罗以光辉不虚的神轮击退那凶猛攻势。随后,达伊提亚之主又掷出一柄铁制的bhindipāla(标枪)。

Verse 197

करेण तं च जग्राह कार्तिकेयोमरारिहा । गदां मुमोच दैत्याय समुत्थाय खरस्वनाम्

迦尔蒂凯亚——诸天之敌的诛灭者——以手将其擒住;继而挺身而起,伴随粗厉的咆哮,将钉头槌掷向那达伊提亚。

Verse 198

तया हतस्ततो दैत्यश्चकम्पेचलराडिव । मेने च दुर्जयं दैत्यस्तदाबालं सुदुःसहं

被她击中后,那达伊提亚颤抖如山王遭遇地震;魔族遂认定那孩童当时不可战胜,且令人难以承受。

Verse 199

चिंतयामास बुद्ध्या वै प्राप्तः कालो न संशयः । कंपितं च समालोक्य कालनेमि पुरोगमाः

他以慧心沉思:“注定之时已至,毫无疑虑。”见到震颤与骚动,由迦罗内弥(Kālanemi)率领者便向前推进。

Verse 200

सर्वे देत्यैश्वरा जघ्नुः कुमारं रणदारुणं । स तैः प्रहारैरस्पृष्टस्तथा क्लैशैर्महाद्युतिः

诸位大地底耶(Daitya)之主齐齐击向那位战场凶猛的少年;然而那光辉炽盛者不为其击所触,亦不为其苦恼所扰。