Adhyaya 38
Srishti KhandaAdhyaya 38194 Verses

Adhyaya 38

The Establishment of Vāmana at Kānyakubja and the Sanctification of Setu

毗湿摩询问罗摩如何在迦尼亚库布阇(Kānyakubja)安立侏儒化身婆摩那(Vāmana),以及圣像从何而来。普罗娑底耶叙述罗摩以正法治世,并忧念毗毗沙那在楞伽的治理是否合乎义理。 罗摩乘普什帕迦飞车,与婆罗多、苏格利婆同行,重访《罗摩衍那》诸圣迹,会见众猴军,入楞伽受毗毗沙那恭敬;羯迦西与娑罗摩现身,并谈及悉多的处境。风神伐由揭示一尊毗湿奴系的婆摩那圣像,关联于束缚婆利(Bali)之事,命其迎往迦尼亚库布阇安置,罗摩遂携像启程。 为防后人滥用,罗摩折断海桥,建立罗摩湿伐罗/阇那尔达那之礼敬,得湿婆赐予“塞图”之恩,并献上长篇鲁陀罗赞颂。至普什迦罗,梵天显现,印证罗摩即毗湿奴并指引前路;其后罗摩在恒河岸安立婆摩那,嘱咐世人恒常供奉,护持正法之制度与道场。

Shlokas

Verse 1

भीष्म उवाच । कथं रामेण विप्रर्षे कान्यकुब्जे तु वामनः । स्थापितः क्व च लब्धोसौ विस्तरान्मम कीर्तय

毗湿摩说道:噢,最胜婆罗门啊,罗摩如何在迦尼耶俱阇安立侏儒神伐摩那?他又是在何处得之?请为我详尽宣说。

Verse 2

तथा हि मधुरा चैषा या वाणी रामकीर्तने । कीर्तिता भगवन्मह्यं हृता कर्णसुखावह

诚然,此言极其甘美——这是对罗摩的赞颂之语。噢,至福的主啊,它一经宣说,便摄取我心,令双耳欢悦。

Verse 3

अनुरागेण तं लोकाः स्नेहात्पश्यंति राघवम् । धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः

众人因爱慕而以深情仰望那位罗伽婆;因为他通达达摩,知恩报德,并以智慧坚固安住。

Verse 4

प्रशास्ति पृथिवीं सर्वां धर्मेण सुसमाहितः । तस्मिन्शासति वै राज्यं सर्वकामफलाद्रुमाः

他安住于正法,心神调和,统御大地四方;当他如此治世之时,国土宛如如意树,结出一切所愿之果。

Verse 5

रसवंतः प्रभूताश्च वासांसि विविधानि च । अकृष्टपच्या पृथिवी निःसपत्ना महात्मनः

珍馐丰盈,衣裳多种而充足;大地不待耕犁自生五谷,于那大心者之前,亦无与之争衡者。

Verse 6

देवकार्यं कृतं तेन रावणो लोककंटकः । सपुत्रोमात्यसहितो लीलयैव निपातितः

由他成就诸天之事:罗波那,世间之祸患,连同其子与群臣,皆被轻易击倒,如同戏作。

Verse 7

तस्यबुद्धिस्समुत्पन्ना पूर्णे धर्मे द्विजोत्तम । तस्याहं चरितं सर्वं श्रोतुमिच्छामि वै मुने

噢,最胜之二次生者,当他的觉悟在圆满之法中生起之时,我愿,噢牟尼,聆听他一切行状与事迹的全篇。

Verse 8

पुलस्त्य उवाच । कस्यचित्त्वथ कालस्य रामो धर्मपथे स्थितः । यच्चकार महाबाहो शृणुष्वैकमना नृप

普罗婆斯底耶曰:过了一段时日,罗摩安住于正法之道,行作一事。大王,汝当一心谛听,此乃大臂者之行。

Verse 9

सस्मार राक्षसेंद्रं तं कथं राजा विभीषणः । लंकायां संस्थितो राज्यं करिष्यति च राक्षसः

于是他忆起那罗刹之主,心念:“住于楞迦的毗毗沙那王将如何治理国土?罗刹又将如何奉行王政而行使统治?”

Verse 10

गीर्वाणेषु प्रातिकूल्यं विनाशस्य तु लक्षणम् । मया तस्य तु तद्दत्तं राज्यं चंद्रार्ककालिकम्

对诸天的敌意,确是毁灭之征兆。然而我仍赐予他王权,使其如月与日般长久。

Verse 11

तस्याविनाशतः कीर्तिः स्थिरा मे शाश्वती भवेत् । रावणेन तपस्तप्तं विनाशायात्मनस्त्विह

愿因他的不灭,我的名声坚固而永恒。然在此,罗波那所修苦行,不过是为自取毁灭。

Verse 12

विध्वस्तः स च पापिष्ठो देवकार्ये मयाधुना । तदिदानीं मयान्वेष्यः स्वयं गत्वा विभीषणः

那极恶之罪人,今已由我为诸天之事而诛灭。因此,毗毗沙那啊,我当亲自前往寻觅他。

Verse 13

संदेष्टव्यं हितं तस्य येन तिष्ठेत्स शाश्वतम् । एवं चिंतयतस्तस्य रामस्यामिततेजसः

“当告知于他有益之言,使其得以永恒安住。”如是思量,那光辉无量的罗摩沉思着。

Verse 14

आजगामाथ भरतो रामं दृष्ट्वाब्रवीदिदम् । किं त्वं चिंतयसे देव न रहस्यं वदस्व मे

于是婆罗多前来;见到罗摩便说道:“神圣的主啊,你在思虑什么?莫要隐秘,请告诉我。”

Verse 15

देवकार्ये धरायां वा स्वकार्ये वा नरोत्तम । एवं ब्रुवंतं भरतं ध्यायमानमवस्थितम्

“无论是在大地上奉事诸天,或是在履行自身之责,噢,人中至善者。”婆罗多如是说道,伫立不动,沉入观想之中。

Verse 16

अब्रवीद्राघवो वाक्यं रहस्यं तु न वै तव । भवान्बहिश्चरः प्राणो लक्ष्मणश्च महायशाः

罗伽婆说道:“此秘密并非为你而设。你是行于外者;而大名鼎鼎的罗什曼那,正是我生命之气。”

Verse 17

अवेद्यं भवतो नास्ति मम सत्यं विधारय । एषा मे महती चिंता कथं देवैर्विभीषणः

于你并无不可知之事;当持我言为真。这是我深重的忧虑:诸天将如何对待毗毗沙那?

Verse 18

वर्तते यद्धितार्थं वै दशग्रीवो निपातितः । गमिष्ये तदहं लंकां यत्र चासौ विभीषणः

既然十颈罗婆那为世间之利而被击倒,我今将往楞迦——毗毗沙那所在之处。

Verse 19

तं च दृष्ट्वा पुरीं तां तु कार्यमुक्त्वा च राक्षसम् । आलोक्य सर्ववसुधां सुग्रीवं वानरेश्वरम्

见到那座城后,他吩咐已毕,遣退那罗刹;继而环顾遍观大地,遂对猴王苏格利婆开口。

Verse 20

महाराजं च शत्रुघ्नं भातृपुत्रांश्च सर्वशः । एवं वदति काकुत्स्थे भरतः पुरतः स्थितः

站在 Kakutstha(罗摩)面前,婆罗多如是陈辞——向伟大的君王、向室多罗伽那,并向诸位兄弟之子一一致意而说。

Verse 21

उवाच राघवं वाक्यं गमिष्ये भवता सह । एवं कुरु महाबाहो सौमित्रिरिह तिष्ठतु

他对罗伽婆说道:“我将与你同往。大臂勇者啊,请如此行——令 Saumitri 留在此处。”

Verse 22

इत्युक्त्वा भरतं रामः सौमित्रं चाह वै पुरे । रक्षाकार्या त्वया वीर यावदागमनं हि नौ

罗摩对婆罗多说罢,又在城中对 Saumitra(罗什曼那)说道:“勇士啊,直至我等归来,你当守护警戒,护持安宁。”

Verse 23

एवं लक्ष्मणमादिश्य ध्यात्वा वै पुष्पकं नृप । आरुरोह स वै यानं कौसल्यानंदवर्धनः

如是嘱咐罗什曼那之后,王啊,他凝神观想普什帕迦,遂登上那乘具——那位增益考萨利娅欢喜者。

Verse 24

पुष्पकं तु ततः प्राप्तं गांधारविषयो यतः । भरतस्य सुतौ दृष्ट्वा जगन्नीतिं निरीक्ष्य च

随后他得到了从犍陀罗境而来的普什帕迦;又见婆罗多之二子,并观照世间法度与秩序,遂继续前行。

Verse 25

पूर्वां दिशं ततो गत्वा लक्ष्मणस्य सुतौ यतः । पुरेषु तेषु षड्रात्रमुषित्वा रघुनंदनौ

随后他们前往东方,那里有罗什曼那的两位儿子;这些罗伽族的后裔在那些城邑中住了六夜。

Verse 26

गतौ तेन विमानेन दक्षिणामभितो दिशम् । गंगायामुनसंभेदं प्रयागमृषिसेवितम्

随后他们乘那天界飞车(vimāna)向南而行,抵达普罗耶伽(Prayāga)——恒河与亚穆那河的神圣汇合处,为诸仙(ṛṣi)所敬仰常来。

Verse 27

अभिवाद्य भरद्वाजमत्रेराश्रममीयतुः । संभाष्य च मुनींस्तत्र जनस्थानमुपागतौ

他们礼敬婆罗陀婆阇(Bharadvāja)后,前往阿特里(Atri)的道场(āśrama);又在彼处与诸牟尼(muni)交谈,随后前行至阇那斯他那(Janasthāna)。

Verse 28

राम उवाच । अत्र पूर्वं हृता सीता रावणेन दुरात्मना । हत्वा जटायुषं गृध्रं योसौ पितृसखो हि नौ

罗摩说道:“就在此处,昔日悉多被恶心的罗波那掳走;他杀害了秃鹫阇塔尤斯——那确是我父亲的挚友。”

Verse 29

अत्रास्माकं महद्युद्धं कबंधेन कुबुद्धिना । हतेन तेन दग्धेन सीतास्ते रावणालये

此处我们也曾与恶念的迦班陀(Kabandha)大战一场;当他被杀并焚化后,他对你说道:“悉多在罗波那的居处。”

Verse 30

ॠष्यमूके गिरिवरे सुग्रीवो नाम वानरः । स ते करिष्यते साह्यं पंपां व्रज सहानुजः

在殊胜的梨师耶穆迦(Ṛṣyamūka)山上,有一位名叫苏格利瓦(Sugrīva)的猿王。他必助你;你当与弟弟同往彭帕(Pampā)。

Verse 31

पंपासरः समासाद्य शबरीं गच्छ तापसीम् । इत्युक्तो दुःखितो वीर निराशो जीविते स्थितः

“抵达彭帕(Pampā)湖后,去见女苦行者舍婆梨(Śabarī)。”如此被告知,那位英雄忧苦满怀、希望尽失,却仍勉力维系生命。

Verse 32

इयं सा नलिनी वीर यस्यां वै लक्ष्मणोवदत् । मा कृथाः पुरुषव्याघ्र शोकं शत्रुविनाशन

勇士啊,这正是那莲池,昔日拉克什玛那(Lakṣmaṇa)确曾在此言说。莫要悲伤,人中之虎、灭敌者啊。

Verse 33

आज्ञाकारिणि भृत्ये च मयि प्राप्स्यसि मैथिलीम् । अत्र मे वार्षिका मासा गता वर्षशतोपमाः

顺从的侍女啊,凭借我,你将得见弥提利(Maithilī,悉多)。在此,我的雨季诸月流逝,恍若百年。

Verse 34

अत्रैव निहतो वाली सुग्रीवार्थे परंतप । एषा सा दृश्यते नूनं किष्किंधा वालिपालिता

正是在此,为了苏格利瓦(Sugrīva)之故,婆利(Vālī)被诛,焚敌者啊。无疑,这便是那由婆利守护的吉什金达(Kiṣkindhā)。

Verse 35

यस्यां वै स हि धर्मात्मा सुग्रीवो वानरेश्वरः । वानरैः सहितो वीर तावदास्ते समाः शतम्

在那地方,正直的苏格利瓦——婆那罗之王——与众婆那罗同住,整整一百年,噢勇士。

Verse 36

वानरैस्सह सुग्रीवो यावदास्ते सभां गतः । तावत्तत्रागतौ वीरौ पुर्यां भरतराघवौ

当苏格利瓦与众婆那罗仍在议事厅中停留之时,就在那一刻,两位英雄——婆罗多与罗伽婆——来到城中。

Verse 37

दृष्ट्वा स भ्रातरौ प्राप्तौ प्रणिपत्याब्रवीदिदम् । क्व युवां प्रस्थितौ वीरौ कार्यं किं नु करिष्यथः

见两位兄弟到来,他俯首顶礼而说道:“噢勇士,你们将往何处启程?又欲成就何等事业?”

Verse 38

विनिवेश्यासने तौ च ददावर्घ्ये स्वयं तदा । एवं सभास्थिते तत्र धर्मिष्टे रघुनंदने

安置二人就座之后,他亲自奉上阿尔吉亚——敬献之水。于是,当那位正义的罗瞿族之喜在议事厅中端坐之时,

Verse 39

अंगदोथ हनूमांश्च नलो नीलश्च पाटलः । गजो गवाक्षो गवयः पनसश्च महायशाः

随后到来的是安伽陀与哈奴曼,纳罗与尼罗,以及帕塔拉;又有伽阇、伽婆叉、伽婆耶与般那娑——皆为声名显赫之士。

Verse 40

पुरोधसो मंत्रिणश्च दैवज्ञो दधिवक्रकः । नीलश्शतबलिर्मैन्दो द्विविदो गंधमादनः

在场的有王室祭司与大臣;占星师;以及达地瓦克拉卡、尼罗、沙塔巴利、迈因达、德维维达与甘达摩陀那。

Verse 41

वीरबाहुस्सुबाहुश्च वीरसेनो विनायकः । सूर्याभः कुमुदश्चैव सुषेणो हरियूथपः

毗罗婆呼与苏婆呼;毗罗塞那与毗那夜迦;苏利耶婆与库牟陀;以及苏舍那——哈利军团之统领。

Verse 42

ॠषभो विनतश्चैव गवाख्यो भीमविक्रमः । ॠक्षराजश्च धूम्रश्च सहसैन्यैरुपागताः

梨沙婆、毗那多与勇猛可怖的伽婆迦耶;又有梨叉罗阇与度摩罗——皆各率千军而至。

Verse 43

अंतःपुराणि सर्वाणि रुमा तारा तथैव च । अवरोधोंगदस्यापि तथान्याः परिचारिकाः

内宫诸女尽皆在场——鲁玛与塔罗亦然——并有安伽陀的幽居女子,以及其余随侍的婢女。

Verse 44

प्रहर्षमतुलं प्राप्य साधुसाध्विति चाब्रुवन् । वानराश्च महात्मानः सुग्रीवसहितास्तदा

得无量欢喜之时,诸位大心的婆那罗首领与苏伽利婆同在,遂齐声称赞:“善哉!善哉!”

Verse 45

वानर्यश्च महाभागास्ताराद्यास्तत्र राघवम् । अभिप्रेक्ष्याश्रुकंठ्यश्च प्रणिपत्येदमब्रुवन्

在那里,尊贵的猴女——塔罗等——望见罗伽婆,泪哽其声,俯伏顶礼,遂说如下之言。

Verse 46

क्व सा देवी त्वया देव या विनिर्जित्यरावणम् । शुद्धिं कृत्वा हि ते वह्नौ पितुरग्र उमापतेः

噢主宰,那位女神如今何在?你在战胜罗波那之后,于其父之前、在火中使她得以清净;噢乌玛之夫!

Verse 47

त्वयानीता पुरीं राम न तां पश्यामि तेग्रतः । न विना त्वं तया देव शोभसे रघुनंदन

噢罗摩,你已将那位夫人迎至城中,我却不见她立于你前。离了她,噢神圣者——罗睺族之欢——你便不复光辉。

Verse 48

त्वया विनापि साध्वी सा क्व नु तिष्ठति जानकी । अन्यां भार्यां न ते वेद्मि भार्याहीनो न शोभसे

离了你,那位贞淑的阇那姬如今究竟住在何处?我不知你另有他妻;无妻之身,于你并不相称。

Verse 49

क्रौंचयुग्मं मिथो यद्वच्चक्रवाकयुगं यथा । एवं वदंतीं तां तारां ताराधिपसमाननाम्

如同一对鸻鸠(krauñca)彼此呼唤,又如一对赤鸭(cakravāka)哀鸣相思,塔罗亦如是诉说——那塔罗,其容光堪比群星之主月神。

Verse 50

प्राह प्रवचसां श्रेष्ठो रामो राजीवलोचनः । चारुदंष्ट्रे विशालाक्षि कालो हि दुरतिक्रमः

莲华眼的罗摩、善辩者之最胜者说道:“噢,美牙者,噢,大眼的女士——时间确实难以超越。”

Verse 51

सर्वं कालकृतं विद्धि जगदेतच्चराचरम् । विसृज्यताः स्त्रियः सर्वाः सुग्रीवोभिमुखः स्थितः

当知此整个世界——动与不动——皆为时间所成。遣退诸女;他站立着,面向须伽利婆。

Verse 52

सुग्रीव उवाच । भवंतौ येन कार्येण इहायातौ नरेश्वरौ । तच्चापि कथ्यतां शीघ्रं कृत्यकालो हि वर्तते

须伽利婆说:“噢,诸王,你们二位为何事来到此处?也请速速说明,因为行动之时已然到来。”

Verse 53

ब्रुवाणमेवं सुग्रीवं भरतो रामचोदितः । आचचक्षे च गमनं लंकायां राघवस्य तु । तौ चाब्रवीच्च सुग्रीवो भवद्भ्यां सहितः पुरीम्

婆罗多奉罗摩之意,如是对须伽利婆陈说,并告知罗伽婆前往楞迦之行。随后须伽利婆对二人说道:“与我同往城中。”

Verse 54

गमिष्ये राक्षसं देव द्रष्टुं तत्र विभीषणम् । सुग्रीवेणैवमुक्ते तु गच्छस्वेत्याह राघवः

须伽利婆说:“噢,主啊,我将前往那里,去见那罗刹毗毗沙那。”须伽利婆如此说罢,罗伽婆答道:“去吧。”

Verse 55

सुग्रीवो राघवौ तौ च पुष्पके तु स्थितास्त्रयः । तावत्प्राप्तं विमानं तु समुद्रस्योत्तरं तटम्

须利婆与两位罗伽婆——三人同坐于神圣的普什帕迦天车中。其间,天车已抵达大海北岸。

Verse 56

अब्रवीद्भरतं रामो ह्यत्र मे राक्षसेश्वरः । चतुर्भिः सचिवैः सार्धं जीवितार्थे विभीषणः

罗摩对婆罗多说:“此处是我在罗刹中的君主——毗毗沙那;他与四位大臣同来,为求保全性命而来投依。”

Verse 57

प्राप्तस्ततो लक्ष्मणेन लंकाराज्येभिषेचितः । अत्र चाहं समुद्रस्य परेपारे स्थितस्त्र्यहम्

随后在罗什曼那带回之后,我被灌顶,受立为楞迦之王。并且我在此停留三日,驻于大海彼岸。

Verse 58

दर्शनं दास्यते मेऽसौ ज्ञातिकार्यं भविष्यति । तावन्न दर्शनं मह्यं दत्तमेतेन शत्रुहन्

“他必赐我觐见,族亲之事将得圆满。然而至今,噢灭敌者,他仍未赐我觐见。”

Verse 59

ततः कोपः सुमद्भूतश्चतुर्थेहनि राघव । धनुरायम्य वेगेन दिव्यमस्त्रं करे धृतम्

于是,噢罗伽婆,至第四日,猛烈的忿怒生起;他迅疾张弓,手中执持一件神圣的天授兵器。

Verse 60

दृष्ट्वा मां शरणान्वेषी भीतो लक्ष्मणमाश्रितः । सुग्रीवेणानुनीतोऽस्मि क्षम्यतां राघव त्वया

见到你时,我惊惧而求庇护,便投靠了罗什曼那。由苏格利瓦带我至此;罗伽婆啊,愿你宽恕我。

Verse 61

ततो मयोत्क्षिप्तशरो मरुदेशे ह्यपाकृतः । ततस्समुद्रराजेन भृशं विनयशालिना

随后,我所放出的箭在荒漠之地被转移开去。其后又由海洋之王——极其谦恭而知礼——将其妥善化解。

Verse 62

उक्तोहं सेतुबंधेन लंकां त्वं व्रज राघव । लंघयित्वा नरव्याघ्र वारिपूर्णं महोदधिम्

“我已向你说明筑桥之事。如今,罗伽婆啊,前往楞迦;人中之虎啊,跃越那水满的浩瀚大海。”

Verse 63

एष सेतुर्मया बद्धः समुद्रे वरुणालये । त्रिभिर्दिनैः समाप्तिं वै नीतो वानरसत्तमैः

“此桥由我在大海——伐楼那之居处——中建成;而在三日之内,确由最杰出的婆那罗众使其圆满完成。”

Verse 64

प्रथमे दिवसे बद्धो योजनानि चतुर्दश । द्वितीयेहनि षट्त्रिंशत्तृतीयेर्धशतं तथा

第一日,桥连成十四由旬;第二日,三十六由旬;第三日,又成五十由旬。

Verse 65

इयं सा दृश्यते लंका स्वर्णप्राकारतोरणा । अवरोधो महानत्र कृतो वानरसत्तमैः

看哪,兰迦已映入眼帘,金色城垣与门楼辉煌;在此,最卓越的婆那罗众已设下宏大的封锁。

Verse 66

अत्र युद्धं महद्वृत्तं चैत्राशुक्लचतुर्दशि । अष्टचत्वारिंशद्दिनं यत्रासौ रावणो हतः

此处发生了伟大而著名的战役——在恰特罗月明半月第十四日——历时四十八日,其间罗波那被诛。

Verse 67

अत्र प्रहस्तो नीलेन हतो राक्षसपुंगवः । हनूमता च धूम्राक्षो ह्यत्रैव विनिपातितः

在此,罗刹之雄普罗诃斯多为尼罗所杀;亦在此处,杜姆罗阿克沙被哈奴曼击倒。

Verse 68

महोदरातिकायौ च सुग्रीवेण महात्मना । अत्रैव मे कुंभकर्णो लक्ष्मणेनेंद्रजित्तथा

大心的苏格利婆在此诛杀摩诃陀罗与阿底迦耶;亦在此处,我的贡婆迦尔那为罗什曼那所杀,因陀罗吉特亦然。

Verse 69

मया चात्र दशग्रीवो हतो राक्षसपुंगवः । अत्र संभाषितुं प्राप्तो ब्रह्मा लोकपितामहः

在此,我亲手诛灭十首(达沙格利瓦)——罗刹之最;亦在此处,诸世之祖父与父——梵天——前来与我言谈。

Verse 70

पार्वत्या सहितो देवः शूलपाणिर्वृषध्वजः । महेंद्राद्याः सुरगणाः सगंधर्वास्स किंनराः

持三叉戟、以牛旗为标志的湿婆神与帕尔瓦蒂同来;并有以摩诃因陀罗(因陀罗)为首的诸天众,及乾闼婆与紧那罗随侍。

Verse 71

पिता मे च समायातो महाराजस्त्रिविष्टपात् । वृतश्चाप्सरसां संघैर्विद्याधरगणैस्तथा

我的父亲——那位大王——也从天界Svarga(三十三天之境)降临;随行者有众多阿普萨拉天女,以及成群的持明者(Vidyādhara)。

Verse 72

तेषां समक्षं सर्वेषां जानकी शुद्धिमिच्छता । उक्ता सीता हव्यवाहं प्रविष्टा शुद्धिमागता

在众人面前,贾那姬(Jānakī)为昭示自身清净而被提及;悉多(Sītā)步入圣火,遂得清白昭彰。

Verse 73

लंकाधिपैः सुरैर्दृष्टा गृहीता पितृशासनात् । अथाप्युक्तोथ राज्ञाहमयोध्यां गच्छ पुत्रकम्

她被那些作为楞迦之主的诸天所见,遂依父命而被带走。随后国王也对我说道:“孩子,前往阿逾陀吧。”

Verse 74

न मे स्वर्गो बहुमतस्त्वया हीनस्य राघव । तारितोहं त्वया पुत्र प्राप्तोऽस्मीन्द्रसलोकताम्

罗伽婆啊,失去你时,连天界于我亦无足轻重;而今你救度了我,吾子,我已得至因陀罗之界。

Verse 75

लक्ष्मणं चाब्रवीद्राजा पुत्र पुण्यं त्वयार्जितम् । भ्रात्रासममथो दिव्यांल्लोकान्प्राप्स्यसि चोत्तमान्

国王对罗什曼那说道:“吾子,你已积得大功德。因此,你将与兄长同往,得至至高的天界诸世界。”

Verse 76

आहूय जानकीं राजा वाक्यं चेदमुवाच ह । न च मन्युस्त्वया कार्यो भर्तारं प्रति सुव्रते

国王召来阇那姬,说道:“贤淑者啊,切莫对你的夫君怀嗔怒。”

Verse 77

ख्यातिर्भविष्यत्येवाग्र्या भर्तुस्ते शुभलोचने । एवं वदति रामे तु पुष्पके च व्यवस्थिते

“吉祥目者啊,你夫君的无上声名必将显现。”罗摩如此言说时,正安坐于普什帕迦天车之中。

Verse 78

तत्र ये राक्षसवरास्ते गत्वाशु विभीषणं । प्राप्तो रामः ससुग्रीवश्चारा इत्थं तदाऽवदन्

于是那些最杰出的罗刹迅速前往毗毗沙那,作为探子当时禀报:“罗摩已至,并与苏格利婆同来。”

Verse 79

विभीषणस्तु तच्छ्रुत्वा रामागमनमंतिके । चारांस्तान्पूजयामास सर्वकामधनादिभिः

毗毗沙那闻知罗摩将近,便以财富等种种满愿之物礼敬那些探子。

Verse 80

अलंकृत्य पुरीं तां तु निष्क्रान्तः सचिवैः सह । दृष्ट्वा रामं विमानस्थं मेराविव दिवाकरं

装点好那座城后,他与群臣一同出行;见罗摩端坐于天车之上,宛如日轮高悬须弥山顶,便惊叹而望。

Verse 81

अष्टांगप्रणिपातेन नत्वा राघवमब्रवीत् । अद्य मे सफलं जन्म प्राप्ताः सर्वे मनोरथाः

他以八支投地之礼向罗伽婆顶礼,说道:“今日我之生已得圆满;一切心愿尽皆成就。”

Verse 82

यद्दृष्टौ देवचरणौ जगद्वंद्यावनिंदितौ । कृतः श्लाघ्योस्म्यहं देव शक्रादीनां दिवौकसां

既得瞻仰主宰之足——为世间所礼敬、清净无瑕——天神啊,我便连同释迦(因陀罗)等诸天众中,也堪称可赞。

Verse 83

आत्मानमधिकं मन्ये त्रिदशेशात्पुरंदरात् । रावणस्य गृहे दीप्ते सर्वरत्नोपशोभिते

在罗波那这光辉灿然、以诸宝庄严的宫邸之中,我自认为胜过天神之主普兰达罗(因陀罗)。

Verse 84

उपविष्टे तु काकुत्स्थे अर्घं दत्वा विभीषणः । उवाच प्रांजलिर्भूत्वा सुग्रीवं भरतं तथा

迦库特斯塔(罗摩)就座后,毗毗沙那献上阿尔伽供水以表敬礼;随即合掌,亦向苏格利婆与婆罗多致辞。

Verse 85

इहागतस्य रामस्य यद्दास्ये न तदस्ति मे । इयं च लंका रामेण रिपुं त्रैलोक्यकंटकम्

对于已来到此处的罗摩,我没有任何配得上侍奉他的功业。而这座楞迦——罗摩将摧毁那仇敌,那刺痛三界喉间的荆棘。

Verse 86

हत्वा तु पापकर्माणं दत्ता पूर्वं पुरी मम । इयं पुरी इमे दारा अमी पुत्रास्तथा ह्यहं

“诛灭s杀那作恶之人后,我的城邦先前已赐还于我。这就是那座城;这些是我的妻子;那些是我的儿子——而这确是我自己。”

Verse 87

सर्वमेतन्मया दत्तं सर्वमक्षयमस्तु ते । ततः प्रकृतयः सर्वा लंकावासिजनाश्च ये

“这一切皆由我赐予;愿它们对你永不损减。于是,你的眷属诸众,以及同样居住在楞迦的人民……”

Verse 88

आजग्मू राघवं द्रष्टुं कौतूहलसमन्विताः । उक्तो विभीषणस्तैस्तु रामं दर्शय नः प्रभो

他们怀着好奇与渴慕前来瞻见罗伽婆。于是对毗毗沙那说道:“主啊,请让我们得见罗摩。”

Verse 89

विभीषणेन कथिता राघवाय महात्मने । तेषामुपायनं सर्वं भरतो रामचोदितः

毗毗沙那将此事禀告大心的罗伽婆;而在罗摩的催促下,婆罗多备办了他们一切礼物与供献。

Verse 90

जग्राह वानरेन्द्रश्च धनरत्नौघसंचयं । एवं तत्र त्र्यहं रामो ह्यवसद्राक्षसालये

猴王夺取了堆积如山的财宝与珠玉。于是罗摩在罗刹的居所中停留了三日。

Verse 91

चतुर्थेहनि संप्राप्ते रामे चापि सभास्थिते । केकसी पुत्रमाहेदं रामं द्रक्ष्यामि पुत्रक

到了第四日,罗摩也端坐于会众之中;凯迦西对儿子说道:“孩子,我要去见这位罗摩。”

Verse 92

दृष्टे तस्मिन्महत्पुण्यं प्राप्यते मुनिसत्तमैः । विष्णुरेष महाभागश्चतुर्मूर्तिस्सनातनः

一旦得见他,最殊胜的牟尼圣者便获得无量功德。他即是毗湿奴——至福者、常住者,以四种形相示现。

Verse 93

सीता लक्ष्मीर्महाभाग न बुद्धा साग्रजेन ते । पित्रा ते पूर्वमाख्यातं देवानां दिविसंगमे

噢有福者,悉多——即是吉祥天女拉克什米——竟未被你与长兄认出。先前你父亲曾在天界诸神集会中向你说明此事。

Verse 94

कुले रघूणां वै विष्णुः पुत्रो दशरथस्य तु । भविष्यति विनाशाय दशग्रीवस्य रक्षसः

确然,在罗瞿王族的血脉中,毗湿奴将降生为达沙罗陀之子,为毁灭罗刹十首者达沙格利瓦(罗波那)。

Verse 95

विभीषण उवाच । एवं कुरुष्व वै मातर्गृहाण नवमं वरम् । पात्रं चंदनसंयुक्तं दधिक्षौद्राक्षतैः सह

毗毗沙那说道:“诚然如此行吧,母亲;请受第九个恩赐——一只以檀香调制的器皿,并同酸乳、蜂蜜与完整的米粒一并奉上。”

Verse 96

दूर्वयार्घं सह कुरु राजपुत्रस्य दर्शनम् । सरमामग्रतः कृत्वा याश्चान्या देवकन्यकाः

并以缕缕杜尔瓦草所成的阿尔伽供奉相随,前去拜见王子;令萨拉玛走在前方,其他天界少女亦同往。

Verse 97

व्रजस्व राघवाभ्याशं तस्मादग्रे व्रजाम्यहम् । एवमुक्त्वा गतं रक्षो यत्र रामो व्यवस्थितः

“你速往罗伽婆身边;因此我将先行在前。”说罢,那罗刹便前往罗摩驻立之处。

Verse 98

उत्सार्य दानवान्सर्वान्रामं द्रष्टुं समागतान् । सभां तां विमलां कृत्वा रामं स्वाभिमुखे स्थितम्

他驱逐了所有聚集前来欲见罗摩的达那婆众,使那会堂清净无垢,遂立于罗摩之前,与之相对而立。

Verse 99

विभीषण उवाच । विज्ञाप्यं शृणु मे देव वदतश्च विशांपते । दशग्रीवं कुंभकर्णं या च मां चाप्यजीजनत्

毗毗沙那说道:“神圣者啊,众民之主啊,请听我所要陈述之事:那位生下十首者(达沙格里瓦)、坎婆迦尔那,以及也生下了我。”

Verse 100

इयं सा देवमाता नः पादौ ते द्रष्टुमिच्छति । तस्यास्तु त्वं कृपां कृत्वा दर्शनं दातु मर्हसि

这位是我们的神圣之母;她渴望瞻仰你的双足。愿你垂慈,赐予她得见圣颜的机缘。

Verse 101

राम उवाच । अहं तस्याः समीपं तु मातृदर्शनकांक्षया । गमिष्ये राक्षसेंद्र त्वं शीघ्रं याहि ममाग्रतः

罗摩说道:“我渴望见母亲,便要立刻前往她那里。噢,罗刹之王,你速速在我前面先行。”

Verse 102

प्रतिज्ञाय तु तं वाक्यमुत्तस्थौ च वरासनात् । मूर्ध्नि चांजलिमाधाय प्रणाममकरोद्विभुः

既已应诺此言,那位大能者便从殊胜座位起身;双掌合十置于头顶,恭敬顶礼。

Verse 103

अभिवादयेहं भवतीं माता भवसि धर्मतः । महता तपसा चापि पुण्येन विविधेन च

我向你顶礼。依正法之理,你是我的母亲——凭借你伟大的苦行与种种功德福业。

Verse 104

इमौ ते चरणौ देवि मानवो यदि पश्यति । पूर्णस्स्यात्तदहं प्रीतो दृष्ट्वेमौ पुत्रवत्सले

女神啊,若有人得见你这双圣足,便得圆满。见到它们,我亦欢喜;噢,慈爱如母、视我如子的圣者。

Verse 105

कौसल्या मे यथा माता भवती च तथा मम । केकसी चाब्रवीद्रामं चिरं जीव सुखी भव

“正如考萨利娅是我的母亲,你对我亦如母。”随后,凯卡西对罗摩说道:“愿你长寿,常得安乐。”

Verse 106

भर्त्रा मे कथितं वीर विष्णुर्मानुषरूपधृत् । अवतीर्णो रघुकुले हितार्थेत्र दिवौकसाम्

我丈夫曾告诉我,勇者啊,毗湿奴取人身,降生于此罗瞿族中,为诸天之福祉而来。

Verse 107

दशग्रीव विनाशाय भूतिं दातुं विभीषणे । वालिनो निधनं चैव सेतुबंधं च सागरे

为毁灭十首者达沙格里瓦(罗波那),为赐福与兴盛于毗毗沙那,为诛灭婆利,并且为在大海之上架设长桥。

Verse 108

पुत्रो दशरथस्यैव सर्वं स च करिष्यति । इदानीं त्वं मया ज्ञातः स्मृत्वा तद्भर्तृभाषितम्

达沙拉陀之子,唯他将成就一切。如今我忆起我夫所言,便已认出你来。

Verse 109

सीता लक्ष्मीर्भवान्विष्णुर्देवा वै वानरास्तथा । गृहं पुत्र गमिष्यामि स्थिरकीर्तिमवाप्नुहि

悉多即是吉祥天女拉克什米,而你即是毗湿奴;群猴实为诸天。吾子,我将归家——愿你获得恒久不朽的名声。

Verse 110

सरमोवाच । इहैव वत्सरं पूर्णमशोकवनिकास्थिता । सेविता जानकी देव सुखं तिष्ठति ते प्रिया

萨罗摩说道:“就在此处,整整一年,阇那姬住在阿输迦林苑。蒙人侍奉照料,主啊,你的爱妃在此安然舒适地居住。”

Verse 111

नित्यं स्मरामि वै पादौ सीतायास्तु परंतप । कदा द्रक्ष्यामि तां देवीं चिंतयाना त्वहर्निशम्

焚灭仇敌者啊,我常常忆念悉多的莲足。我昼夜思念她,何时才能得见那位女神?

Verse 112

किमर्थं देवदेवेन नानीता जानकी त्विह । एकाकी नैव शोभेथा योषिता च तया विना

为何万神之神不将阇那姬带到此处?女子独处并不相称;没有她,你也不会显得光辉。

Verse 113

समीपे शोभते सीता त्वं च तस्याः परंतप । एवं ब्रुवन्त्यां भरतः केयमित्यब्रवीद्वचः

“近旁,悉多以美丽而光耀;你也一样,焚敌者啊,在她身边亦显光辉。”她如此说时,婆罗多开口道:“她是谁?”

Verse 114

ततश्चेंगितविद्रामो भरतं प्राह सत्वरम् । विभीषणस्य भार्या वै सरमा नाम नामतः

于是,曾吉提毗陀罗摩急忙对婆罗多说:“确实,毗毗沙那之妻名为萨罗摩。”

Verse 115

प्रिया सखी महाभागा सीतायास्सुदृढं मता । सर्वंकालकृतं पश्य न जाने किं करिष्यति

亲爱的朋友,极有福德者啊——悉多的决意已坚固不移。你看:一切皆由时运所成;我不知她将作何举。

Verse 116

गच्छ त्वं सुभगे भर्तृगेहं पालय शोभने । मां त्यक्त्वा हि गता देवी भाग्यहीनं गतिर्यथा

你去吧,吉祥而美丽者,回到夫君之家,好好守持其家。因为那位女神离我而去,已然远行——如同福运离开无福之人。

Verse 117

तया विरहितः सुभ्रु रतिं विंदे न कर्हिचित् । शून्या एव दिशः सर्वाः पश्यामीह पुनर्भ्रमन्

眉目清秀者啊,与她分离之时,我从未得见欢喜;我在此反复徘徊,只见四方尽皆空寂。

Verse 118

विसृज्यतां च सरमां सीतायास्तु प्रियां सखीम् । गतायामथ केकस्यां रामः प्राह विभीषणम्

“当遣送萨罗摩——悉多所亲爱的友伴——归去。”其后,迦迦西离去,罗摩便对毗毗沙那说道。

Verse 119

दैवतेभ्यः प्रियं कार्यं नापराध्यास्त्वया सुराः । आज्ञया राजराजस्य वर्तितव्यं त्वयानघ

当行令诸天欢喜之事,不可冒犯诸神。依万王之王的命令,无罪者啊,你当如是行持。

Verse 120

लंकायां मानुषो यो वै समागच्छेत्कथंचन । राक्षसैर्न च हंतव्यो द्रष्टव्योसौ यथा त्वहम्

凡有人类以任何方式来到楞迦者——罗刹不可杀害;当将其带来使我得见,正如我愿亲见他一般。

Verse 121

विभीषण उवाच । आज्ञयाहं नरव्याघ्र करिष्ये सर्वमेव तु । विभीषणे हि वदति वायू राममुवाच ह

毗毗沙那说道:“奉汝之命,噫人中之虎,我必尽皆奉行。”毗毗沙那如是言时,风神伐由对罗摩说道:

Verse 122

इहास्तिवैष्णवी मूर्तिः पूर्वं बद्धो बलिर्यया । तां नयस्व महाभाग कान्यकुब्जे प्रतिष्ठय

此处有一尊毗湿奴圣像,昔日以此缚住婆利。噫有福者,携之前往,于迦尼耶库跋阇安奉建立。

Verse 123

विदित्वा तदभिप्रायं वायुना समुदाहृतम् । विभीषणस्त्वलंकृत्य रत्नैः सर्वैश्च वामनम्

毗毗沙那既明了伐由所宣之意,便以种种宝珠珍饰庄严伐摩那。

Verse 124

आनीय चार्पयद्रामे वाक्यं चेदमुवाच ह । यदा वै निर्जितः शक्रो मेघनादेन राघव

他将其携来奉献于罗摩,继而说道:“噫罗伽婆,当释迦(因陀罗)确被梅迦那陀所败之时……”

Verse 125

तदा वै वामनस्त्वेष आनीतो जलजेक्षण । नयस्व तमिमं देव देवदेवं प्रतिष्ठय

于是,莲华眼者啊,这位婆摩那已被迎来。神啊,请引他至此,依法安立并奉献这位诸神之神。

Verse 126

तथेति राघवः कृत्वा पुष्पकं च समारुहत् । धनं रत्नमसंख्येयं वामनं च सुरोत्तमम्

说着“如是”,罗伽婆登上普什帕迦天车;他携带无量财宝与珍珠宝玉,并带上婆摩那——诸神中最尊胜者。

Verse 127

गृह्य सुग्रीवभरतावारूढौ वामनादनु । व्रजन्नेवांबरे रामस्तिष्ठेत्याह विभीषणम्

他带上已登乘的须伽利婆与婆罗多,并随同婆摩那;罗摩行于虚空之中,行进间对毗毗沙那说道:“你留在此处。”

Verse 128

राघवस्य वचः श्रुत्वा भूयोप्याह स राघवम् । करिष्ये सर्वमेतद्धि यदाज्ञप्तं विभो त्वया

听闻罗伽婆之言,他又对罗伽婆说道:“诚然,主宰啊,你所吩咐的一切,我必尽皆奉行。”

Verse 129

सेतुनानेन राजेंद्र पृथिव्यां सर्वमानवाः । आगत्य प्रतिबाधेरन्नाज्ञाभंगो भवेत्तव

大王啊,因这道堤桥,四方世人将从大地各处前来而加以阻碍;如此便会违犯你的命令。

Verse 130

कोत्र मे नियमो देव किन्नु कार्यं मया विभो । श्रुत्वैतद्राघवो वाक्यं राक्षसोत्तमभाषितम्

“噢天神,我何须自制?至尊啊,我又有何职责?”罗阇婆(罗摩)听见这位最强大的罗刹所说之语,便凝神聆听。

Verse 131

कार्मुकं गृह्य हस्तेन रामः सेतुं द्विधाच्छिनत् । त्रिर्विभज्य च वेगेन मध्ये वै दशयोजनम्

罗摩手执神弓,将桥梁斩为两段;继而疾速分作三截,又在中央劈开,裂开之处达十由旬。

Verse 132

छित्वा तु योजनं चैकमेकं खंडत्रयं कृतम् । वेलावनं समासाद्य रामः पूजां रमापतेः

他斩断一由旬之长,使之成三段;随后罗摩抵达韦拉瓦那(Velāvana),礼拜罗摩帕提——毗湿奴,吉祥天女(Lakṣmī)之主。

Verse 133

कृत्वा रामेश्वरं नाम्ना देवदेवं जनार्दनं । अभिषिच्याथ संगृह्य वामनं रघुनंदनः

他立下名为“罗摩湿伐罗(Rāmeśvara)”之神像,并以灌顶礼(abhiṣeka)为诸神之神阇那尔达那(Janārdana)行加持。随后,罗阇族之喜(罗摩)收拾齐备,携同婆摩那(Vāmana)而行。

Verse 134

दक्षिणादुदधेश्चैव निर्जगाम त्वरान्वितः । अंतरिक्षादभूद्वाणी मेघगंभीरनिःस्वना

随后他匆匆自南海启程;而自虚空中传来一声天音,深沉浑厚,如云雷轰鸣。

Verse 135

रुद्र उवाच । भो भो रामास्तु भद्रं ते स्थितोऽहमिह सांप्रतम् । यावज्जगदिदं राम यावदेषा धरा स्थिता

鲁陀罗说道:“噢,罗摩,噢,罗摩——愿吉祥与你同在。我今立于此处,并将长久如此:只要此世界尚存,只要此大地仍然安住。”

Verse 136

तावदेव च ते सेतु तीर्थं स्थास्यति राघव । श्रुत्वैवं देवदेवस्य गिरं ताममृतोपमाम्

“噢,罗伽婆啊,你那名为‘塞图’的圣渡处,也只将如此长久地安住。”听闻了众神之神那如甘露般的话语,

Verse 137

राम उवाच । नमस्ते देवदेवेश भक्तानामभयंकर । गौरीकांत नमस्तुभ्यं दक्षयज्ञविनाशन

罗摩说道:“顶礼于你,众神之主,赐予信众无畏者。噢,乔丽之爱侣,顶礼于你——毁灭达克沙祭祀者。”

Verse 138

नमो भवाय शर्वाय रुद्राय वरदाय च । पशूनांपतये नित्यं चोग्राय च कपर्दिने

顶礼于婆伐、舍尔伐、鲁陀罗,以及赐福者;恒常顶礼于牧主(帕舒帕提),亦顶礼于乌伽与卡帕尔丁。

Verse 139

महादेवाय भीमाय त्र्यंबकाय दिशांपते । ईशानाय भगघ्नाय नमोस्त्वंधकघातिने

顶礼于大天(摩诃提婆)、于怖畏者(毗摩)、于三目之主、于诸方守护者;顶礼于伊沙那、于诛灭婆伽者——顶礼于摧毁安陀迦者。

Verse 140

नीलग्रीवाय घोराय वेधसे वेधसा स्तुत । कुमारशत्रुनिघ्नाय कुमारजननाय च

礼敬青颈者、威猛者、造物主——亦为造物主所赞;礼敬诛灭鸠摩罗之敌者,亦礼敬生育鸠摩罗者。

Verse 141

विलोहिताय धूम्राय शिवाय क्रथनाय च । नमो नीलशिखंडाय शूलिने दैत्यनाशिने

礼敬赤色者、烟色者、湿婆与毁灭者;礼敬蓝顶之主、持三叉戟者、灭除代提耶与群魔者。

Verse 142

उग्राय च त्रिनेत्राय हिरण्यवसुरेतसे । अनिंद्यायांबिकाभर्त्रे सर्वदेवस्तुताय च

礼敬威烈者、三目之主、其精种金辉灿然者;礼敬无瑕者、安毗迦之夫、为一切诸神所赞者。

Verse 143

अभिगम्याय काम्याय सद्योजाताय वै नमः । वृषध्वजाय मुंडाय जटिने ब्रह्मचारिणे

诚敬礼于可亲近者、满愿者、萨底约阇多;亦礼敬牛旗之主、剃首苦行者、结发者,以及守梵行的梵行者。

Verse 144

तप्यमानाय तप्याय ब्रह्मण्याय जयाय च । विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते

礼敬精勤修苦行者、亦即苦行之力者;礼敬护持婆罗门者与胜利本身;礼敬宇宙之我与宇宙之造者——祂安住不动,遍满并包覆整个世界。

Verse 145

नमो नमोस्तु दिव्याय प्रपन्नार्तिहराय च । भक्तानुकंपिने देव विश्वतेजो मनोगते

顶礼,顶礼于至圣者——能除去归依者之苦;噢怜悯信众的天神,普照宇宙的光辉,行于心念之中者。

Verse 146

पुलस्त्य उवाच । एवं संस्तूयमानस्तु देवदेवो हरो नृप । उवाच राघवं वाक्यं भक्तिनम्रं पुरास्थितम्

普拉斯提耶说:如是受赞叹时,噢大王,哈罗——诸神之神——对站在面前的罗伽婆,以谦恭而充满奉爱之言开口说道。

Verse 147

रुद्र उवाच । भो भो राघव भद्रं ते ब्रूहि यत्ते मनोगतम् । भवान्नारायणो नूनं गूढो मानुषयोनिषु

鲁陀罗说:“罗伽婆啊,罗伽婆啊,愿吉祥属于你。请说出你心中所念。你必定是那罗延自身,隐现于人间之身。”

Verse 148

अवतीर्णो देवकार्यं कृतं तच्चानघ त्वया । इदानीं स्वं व्रजस्थानं कृतकार्योसि शत्रुहन्

你已降临世间,噢无垢者,神圣之业确已由你成就。如今归返你在弗罗阇的本住处吧;你的使命已圆满,噢诛敌者。

Verse 149

त्वया कृतं परं तीर्थं सेत्वाख्यं रघुनंदन । आगत्य मानवा राजन्पश्येयुरिह सागरे

噢罗伽之喜子(Raghunandana),你建立了名为“塞图”的至上圣地渡口。噢大王,愿世人来到此处,在这大海中得以瞻礼。

Verse 150

महापातकयुक्ता ये तेषां पापं विलीयते । ब्रह्मवध्यादिपापानि यानि कष्टानि कानिचित्

即使背负大罪之人,其罪亦得消融——乃至如梵杀(杀害婆罗门)等种种沉重恶业,无论何类,皆可消散。

Verse 151

दर्शनादेव नश्यंति नात्र कार्या विचारणा । गच्छ त्वं वामनं स्थाप्य गंगातीरे रघूत्तम

仅凭一见便可灭除——此处无需多虑。去吧,罗瞿族之最胜者,在恒河岸边安立侏儒化身瓦摩那。

Verse 152

पृथिव्यां सर्वशः कृत्वा भागानष्टौ परंतप । श्वेतद्वीपं स्वकं स्थानं व्रज देव नमोस्तु ते

既已将大地处处分为八分,噬敌者啊——如今,主宰啊,归往白洲(Śvetadvīpa)你自己的住处。向你致敬。

Verse 153

प्रणिपत्य ततो रामस्तीर्थं प्राप्तश्च पुष्करम् । विमानं तु न यात्यूर्ध्वं वेष्टितं तत्तु राघवः

于是罗摩顶礼后,抵达补湿迦罗的圣渡处(tīrtha)。然而天车并不升起;它仿佛被缠缚而停住——罗伽婆便是如此。

Verse 154

किमिदं वेष्टितं यानं निरालंबेऽम्बरे स्थितम् । भवितव्यं कारणेन पश्येत्याह स्म वानरम्

“这被遮覆的车驾为何停在无所凭依的空中?”他说,“必有命定之因——你去看看!”他便如此对那猴子说道。

Verse 155

सुग्रीवो रामवचनादवतीर्य धरातले । स च पश्यति ब्रह्माणं सुरसिद्धसमन्वितम्

奉罗摩之命,须伽利婆降至大地之上;在那里他瞻见梵天,诸天与成就仙(悉达)侍从左右。

Verse 156

ब्रह्मर्षिसङ्घसहितं चतुर्वेदसमन्वितम् । दृष्ट्वाऽऽगत्याब्रवीद्रामं सर्वलोकपितामहः

见罗摩偕同众婆罗门仙(梵仙)并具足四部吠陀,万世之祖皮塔摩诃(梵天)前来,向罗摩开口说道。

Verse 157

सहितो लोकपालैश्च वस्वादित्यमरुद्गणैः । तं देवं पुष्पकं नैव लंघयेद्धि पितामहम्

与诸世界守护神同来,又有八神(婆苏)、阿底提耶与风神众(摩卢特)随从,即便皮塔摩诃(梵天)也不敢逾越那神圣的普什帕迦。

Verse 158

अवतीर्य ततो रामः पुष्पकाद्धेमभूषितात् । नत्वा विरिंचनं देवं गायत्र्या सह संस्थितम्

随后,罗摩自金饰的普什帕迦车上降下;礼敬与伽耶特丽同立的毗邻遮(梵天)神,便安住其处。

Verse 159

अष्टांगप्रणिपातेन पंचांगालिंगितावनिः । तुष्टाव प्रणतो भूत्वा देवदेवं विरिंचनम्

他以八支投地之礼——身躯以五处贴地如拥大地——俯伏礼拜,赞颂诸神之神毗邻遮(梵天)。

Verse 160

राम उवाच । नमामि लोककर्तारं प्रजापतिसुरार्चितम् । देवनाथं लोकनाथं प्रजानाथं जगत्पतिम्

罗摩说道:我顶礼诸世界的创造者,受诸生主(Prajāpati)与诸天神礼敬者——诸天之主、诸世之主、众生之主、宇宙之主宰。

Verse 161

नमस्ते देवदेवेश सुरासुरनमस्कृत । भूतभव्यभवन्नाथ हरिपिंगललोचन

向你致敬,诸神之神主,天神与阿修罗同来礼拜者;过去、未来与现在之主——噢主宰哈利,双目呈金褐之辉。

Verse 162

बालस्त्वं वृद्धरूपी च मृगचर्मासनांबरः । तारणश्चासि देवस्त्वं त्रैलोक्यप्रभुरीश्वरः

你既是孩童,却又现长者之相;以鹿皮为座亦为衣。你是救度者、使众生渡越者;你确是神——三界之主、自在的统御者。

Verse 163

हिरण्यगर्भः पद्मगर्भः वेदगर्भः स्मृतिप्रदः । महासिद्धो महापद्मी महादंडी च मेखली

他是金胎(Hiraṇyagarbha)、莲胎(Padmagarbha)、吠陀之胎(Vedagarbha)——吠陀之源——并赐予神圣忆念者;大成就者,大持莲者,大执杖者,亦佩系带者。

Verse 164

कालश्च कालरूपी च नीलग्रीवो विदांवरः । वेदकर्तार्भको नित्यः पशूनां पतिरव्ययः

他即是时间,亦是时间之形;青颈者,智者之最胜。常为童颜,吠陀的制定者;众生之主,常住不坏。

Verse 165

दर्भपाणिर्हंसकेतुः कर्ता हर्ता हरो हरिः । जटी मुंडी शिखी दंडी लगुडी च महायशाः

他手持库沙草,以天鹅为徽记;他既是施为者,也是收摄者;他是哈罗(Hara),也是哈利(Hari)。他是披散结发的苦行者,是剃首者,是顶髻者;执杖者、持棍者——声名广大。

Verse 166

भूतेश्वरः सुराध्यक्षः सर्वात्मा सर्वभावनः । सर्वगः सर्वहारी च स्रष्टा च गुरुरव्ययः

他是众生之主,是诸天的统摄者;是一切之我,是一切存在状态的护持者。遍在于万有,亦能收摄万有;他亦是创造者——不坏的上师。

Verse 167

कमंडलुधरो देवः स्रुक्स्रुवादिधरस्तथा । हवनीयोऽर्चनीयश्च ओंकारो ज्येष्ठसामगः

他是执持水罐(kamaṇḍalu)的神圣者,也同样执持祭祀之勺(sruk 与 sruva)。他堪受供献,值得礼拜;他即是“唵”(Oṃ)之音节,也是《娑摩》(Sāman)圣歌的最上吟诵者。

Verse 168

मृत्युश्चैवामृतश्चैव पारियात्रश्च सुव्रतः । ब्रह्मचारी व्रतधरो गुहावासी सुपङ्कजः

他亦名为“死亡”,亦名为“不死”;亦为“帕里亚特拉”(Pāriyātra),亦为“善誓”(Suvrata)。他是守梵行者,是持戒立誓者,是居于洞窟者,也是“苏潘迦迦”(Supaṅkaja)。

Verse 169

अमरो दर्शनीयश्च बालसूर्यनिभस्तथा । दक्षिणे वामतश्चापि पत्नीभ्यामुपसेवितः

阿摩罗(Amara)容貌悦目,光辉如初升之日;两位妻子侍奉左右——一在其右,一在其左。

Verse 170

भिक्षुश्च भिक्षुरूपश्च त्रिजटी लब्धनिश्चयः । चित्तवृत्तिकरः कामो मधुर्मधुकरस्तथा

(祂显现为)比丘,亦以比丘之相;为三髻女特里迦蒂(Trijaṭī),决意坚定;为迦摩(Kāma),搅动心识之波;又为摩度(Madhu)与摩度迦罗(Madhukara)。

Verse 171

वानप्रस्थो वनगत आश्रमी पूजितस्तथा । जगद्धाता च कर्त्ता च पुरुषः शाश्वतो ध्रुवः

祂是居林的林栖期行者(vānaprastha),受敬奉的修行者;祂亦是宇宙之支撑者与造作者——永恒不移的至上普鲁沙(Puruṣa)。

Verse 172

धर्माध्यक्षो विरूपाक्षस्त्रिधर्मो भूतभावनः । त्रिवेदो बहुरूपश्च सूर्यायुतसमप्रभः

祂是正法的监察者,广目者;三重法(tridharma)之体现;一切众生的养育者——三吠陀(Veda)之本体,现多种形相,光辉如万日齐照。

Verse 173

मोहकोवंधकश्चैवदानवानांविशेषतः । देवदेवश्च पद्माङ्कस्त्रिनेत्रोऽब्जजटस्तथा

祂确是破除迷妄者,尤能降伏达那婆(Dānava);诸天之天——具莲华之印——三目者,亦具莲饰之结发(jāṭā)。

Verse 174

हरिश्मश्रुर्धनुर्धारी भीमो धर्मपराक्रमः । एवं स्तुतस्तु रामेण ब्रह्मा ब्रह्मविदांवरः

如是,罗摩赞颂梵天(Brahmā)——诸知梵者之最胜——曰:“赤褐之须者,执弓者,威猛可畏者,以正法之勇力而大有威德者。”

Verse 175

उवाच प्रणतं रामं करे गृह्य पितामहः । विष्णुस्त्वं मानुषे देहेऽवतीर्णो वसुधातले

祖父神梵天(Pitāmaha,Brahmā)牵起俯伏的罗摩之手,说道:“你即毗湿奴,化现人身,降临于大地之上。”

Verse 176

कृतं तद्भवता सर्वं देवकार्यं महाविभो । संस्थाप्य वामनं देवं जाह्नव्या दक्षिणे तटे

大能之主啊,你已成就诸天之事:你已在阇那毗(恒河)南岸安立了筏摩那神。

Verse 177

अयोध्यां स्वपुरीं गत्वा सुरलोकं व्रजस्व च । विसृष्टो ब्रह्मणा रामः प्रणिपत्य पितामहं

“前往阿逾陀耶,你自己的都城,然后再赴诸天之界。”蒙梵天遣行,罗摩俯首礼拜祖父神(Pitāmaha)。

Verse 178

आरूढः पुष्पकं यानं संप्राप्तो मधुरां पुरीम् । समीक्ष्य पुत्रसहितं शत्रुघ्नं शत्रुघातिनं

登上普什帕迦天车,他抵达摩图罗城;见到与其子同在的室多卢伽那——灭敌者——便上前相会。

Verse 179

तुतोष राघवः श्रीमान्भरतः स हरीश्वरः । शत्रुघ्नो भ्रातरौ प्राप्तौ शक्रोपेन्द्राविवागतौ

吉祥尊贵的罗伽婆欢喜无量;同样,奉事诃利的主婆罗多亦心生欢悦。室多卢伽那与两位兄长同来,宛如释迦与优宾陀罗并至。

Verse 180

प्रणिपत्य ततो मूर्ध्ना पंचांगालिंगितावनिः । उत्थाप्य चांकमारोप्य रामो भ्रातरमंजसा

于是他俯首顶礼,五体投地;罗摩随即扶起弟弟,将他安置在自己膝上。

Verse 181

भरतश्च ततः पश्चात्सुग्रीवस्तदनंतरं । उपविष्टोऽथ रामाय सोऽर्घमादाय सत्वरं

随后婆罗多,其后紧接着是苏格利婆,也都坐下;他迅速取来阿尔伽供水,奉献给罗摩。

Verse 182

राज्यं निवेदयामास चाष्टांगं राघवे तदा । श्रुत्वा प्राप्तं ततो रामं सर्वो वै माथुरो जनः

于是他向罗伽婆郑重呈献王国,连同其八支诸要素。听闻罗摩已至,摩图罗的众人尽皆汇聚于彼。

Verse 183

वर्णा ब्राह्मणभूयिष्ठा द्रष्टुमेनं समागताः । संभाष्य प्रकृतीः सर्वा नैगमान्ब्राह्मणैः सह

诸种姓多为婆罗门者,为瞻仰他而聚集;他与诸首领一一交谈,又同通晓吠陀的婆罗门们共语。

Verse 184

दिनानि पंचोषित्वाऽत्र रामो गंतुं मनो दधे । शत्रुघ्नश्च ततो रामे वाजिनोथ गजांस्तथा

在此停留五日后,罗摩心中决意启程。随后,舍多卢伽那为罗摩备办骏马,也同样备下大象。

Verse 185

कृताकृतं च कनकं तत्रोपायनमाहरत् । रामस्त्वाह ततः प्रीतः सर्वमेतन्मया तव

他在那里献上礼物:既有精制之金,也有未炼之金。随后罗摩心生欢喜,说:“这一切都赐予你——出自于我。”

Verse 186

दत्तं पुत्रौ तेऽभिषिञ्च राजानौ माथुरे जने । एवमुक्त्वा ततो रामः प्राप्तो मध्यंदिने रवौ

“既已将你的两个儿子交付于你,就当在摩图罗的民众中为他们行灌顶礼,立为国王。”说罢,罗摩在日轮当空的正午时分到达。

Verse 187

महोदयं समासाद्य गंगातीरे स वामनं । प्रतिष्ठाप्य द्विजानाह भाविनः पार्थिवांस्तथा

他来到恒河岸边吉祥的摩诃乌达耶之时,安立(圣像)矮神婆摩那;继而向婆罗门众以及未来的诸王宣示。

Verse 188

मया कृतोऽयं धर्मस्य सेतुर्भूतिविवर्धनः । प्राप्ते काले पालनीयो न च लोप्यः कथंचन

此一法之桥由我所立,能增长福祉与昌盛。待时机成熟,当护持之;无论如何,切不可毁坏。

Verse 189

प्रसारितकरेणैवं प्रार्थनैषा मया कृता । नृपाः कृते मयार्थित्वे यत्क्षेमं क्रियतामिह

于是我伸出双手,作此祈请。诸王啊,既然我以求告者之身来到你们面前,愿你们在此施行能保我安泰之事。

Verse 190

नित्यं दैनंदिनीपूजा कार्या सर्वैरतंद्रितैः । ग्रामान्दत्वा धनं तच्च लंकाया आहृतं च यत्

众人当恒常无怠地行每日礼拜;并应以村落作布施,连同自楞迦带回的那份财宝一并奉献。

Verse 191

प्रेषयित्वा च किष्किंधां सुग्रीवं वानरेश्वरं । अयोध्यामागतो रामः पुष्पकं तमथाब्रवीत्

遣送婆那罗之主苏格利婆回吉湿金达后,罗摩归返阿踰陀;随后他对那普什帕迦天车说道。

Verse 192

नागंतव्यं त्वया भूयस्तिष्ठ यत्र धनेश्वरः । कृतकृत्यस्ततो रामः कर्तव्यं नाप्यमन्यत

“你不可再去;当住于财宝之主所在之处。”于是罗摩自觉所愿已成,心想再无他事可作。

Verse 193

पुलस्त्य उवाच । एवन्ते भीष्म रामस्य कथायोगेन पार्थिव । उत्पत्तिर्वामनस्योक्ता किं भूयः श्रोतुमिच्छसि

普罗诃斯底耶曰:如是,毗湿摩啊,国王啊,借由罗摩事迹相续之叙述,已为你说明了婆摩那的诞生。你还想听什么?

Verse 194

कथयामि तु तत्सर्वं यत्र कौतूहलं नृप । सर्वं ते कीर्त्तयिष्यामि येनार्थी नृपनंदन

国王啊,我必将你所好奇的一切尽皆宣说;王子啊,我将为你详述全部,使你的所求得以圆满。