
The Supremacy of Food-Charity and the Rāma–Śambūka Episode (Child Revived through Rājadharma)
第三十五章先重申《往世书》的权威,继而开示安那施(anna-dāna,施食)为诸施之最,甚至被说为支撑因陀罗王权之根本。普罗娑底耶引述阿伽斯提耶的旧闻,叙述罗摩在罗波那死后、罗瞿族中治世之事:诸仙来访,受阿尔伽亚与款待,辞去时似暗示将有一项应尽之责。 不久,一位婆罗门抱着亡子来到罗摩面前哀诉,指出国中失序之责在君王。那罗陀阐明劫法(yuga-dharma),说明在王境内若有人行违禁苦行(tapas),君主亦分担其罪。罗摩遂寻查根由,找到修苦行的商布迦(Śambūka,一位首陀罗),将其诛杀;诸天称赞罗摩并赐予恩愿。罗摩请求令婆罗门之子复生,孩童即刻苏醒归来。
Verse 1
भीष्म उवाच । उक्तं भगवता सर्वं पुराणाश्रयसंयुतं । तथा श्वेतेन ब्रह्मांडं गुरवे प्रतिपादितं
毗湿摩说道:“这一切皆由至福的世尊宣说,依凭诸《往世书》(Purāṇa)的权威;同样,《梵卵往世书》(Brahmāṇḍa Purāṇa)也由舍吠多(Śveta)向其师长阐明。”
Verse 2
श्रुत्वैतत्कौतुकं जातं यथा तेनास्थिलेहनं । कृतं क्षुधापनोदार्थे अन्नदानाद्विना द्विज
听闻此事,我心生疑趣:他既未行施食之布施(dāna),又如何竟为驱除饥饿而去舔舐枯骨?噢,二次生者。
Verse 3
तदहं श्रोतुमिच्छामि पृथिव्यां ये च पार्थिवाः । अन्नदानाद्दिवं प्राप्ताः क्रतवश्चान्नमूलकाः
因此我愿聆听:世间哪些君王以施食之功而得升天界;亦愿闻诸祭祀(yajña),因为一切祭仪皆以食物为根本。
Verse 4
कथं तस्य मतिर्नष्टा श्वेतस्य च महात्मनः । न दत्तं तेनान्नदानमृषिभिर्वा न दर्शितम्
那位大德圣者白者(Śveta)的慧解为何会失落?难道他未曾施食布施,或诸仙(ṛṣi)未曾教导他吗?
Verse 5
अहो माहात्म्यमन्नस्य इह दत्तस्य यत्फलम् । परत्र भुज्यते पुंभिः स्वर्गश्चाक्षयतां व्रजेत्
啊!施食之功德何其广大:此世所施之食,其果报为人于来世受用,且天界亦为其成就不坏之福。
Verse 6
अन्नदानं परं विप्राः कीर्तयंति सदोत्थिताः । अन्नदानात्सुरेद्रेण त्रैलोक्यमिह भुज्यते
婆罗门啊,你们常起而赞颂,宣说施食为最上;因为凭借食施,连天帝亦得享此间三界之主权。
Verse 7
शतक्रतुरिति प्रोक्तः सर्वैरेव द्विजोत्तमैः । तेनावस्थां तत्सदृशीं प्राप्तवांस्त्रिदशेश्वरः
诸位最上婆罗门皆称他为“Śatakratu(百祭者)”;由此,那三十天众之主便得到了与此名号相称的境地。
Verse 8
दानदेवगतः स्वर्गं त्वत्तः सर्वं श्रुतं मया । अपरं च पुरावृत्तं निवृत्तं यदि कर्हिचित्
我从你处已听闻一切:关于由布施之神力而得的天界。若尚有别的古老事迹,曾在某时未曾述及,也请一并讲说。
Verse 9
भूयोपि श्रोतुमिच्छामि तन्मे वद महामते । पुलस्त्य उवाच । एतदाख्यानकं पूर्वमगस्त्येन महात्मना
“我愿再听一遍;大智者啊,请为我宣说。”普拉斯提亚说:“此一传说,往昔曾由大德阿伽斯提亚讲述……”
Verse 10
रामाय कथितं राजंस्तत्ते वक्ष्यामि सांप्रतम् । भीष्म उवाच । कस्मिन्वंशे समुत्पन्नो रामोऽसौ नृपसत्तमः
“大王啊,我今当为你宣说那曾对罗摩所讲之事。”毗湿摩说:“那位罗摩——诸王之最——出自何等族系?”
Verse 11
यस्यागस्त्येन कथितश्चेतिहासः पुरातनः । पुलस्त्य उवाच । रघुवंशे समुत्पन्नो रामो नाम महाबलः
普拉斯提亚说:“那由阿伽斯提亚所讲的古老传承之史——今且听之。在罗瞿王族中,出现了一位名为罗摩的大力者。”
Verse 12
देवकार्यं कृतं तेन लंकायां रावणो हतः । पृथिवीं राज्यसंस्थस्य ऋषयोऽभ्यागता गृहे
由他成就了诸天之事:在楞迦,罗波那被诛。及至他稳固地统御大地之王权时,诸仙人来到他的家中。
Verse 13
प्राप्तास्ते तु महात्मानो राघवस्य निवेशनम् । प्रतीहारस्ततो राममगस्त्यवचनाद्द्रुतम्
那些大德之士遂至罗伽婆的居所。于是门卫遵阿伽斯提亚之言,迅速禀告罗摩。
Verse 14
आवेदयामास ऋषीन्प्राप्तास्तांश्च त्वरान्वितः । दृष्ट्वा रामं द्वारपालः पूर्णचंद्रमिवोदितम्
门卫见到罗摩,宛如新升的满月,便急忙上前,向已到来的诸圣仙禀告他们已经抵达。
Verse 15
कौसल्यासुत भद्रं ते सुप्रभाताद्य शर्वरी । द्रष्टुमभ्युदयं तेद्य सम्प्राप्तो रघुनंदन
“拘萨利耶之子啊,愿你吉祥。长夜已尽,今朝清明。罗伽族之欢喜者啊,我今日前来,欲亲见你兴盛与荣光之升起。”
Verse 16
अगस्त्यो मुनिभिः सार्धं द्वारि तिष्ठति ते नृप । श्रुत्वा प्राप्तान्मुनीन्रामस्तान्भास्करसमद्युतीन्
“大王啊,阿伽斯提耶与诸圣仙正立于你的门前。”罗摩闻知诸牟尼已至,便出迎那些苦行者,光辉如日。
Verse 17
प्राह वाक्यं तदा द्वास्थं प्रवेशय त्वरान्वितः । किमर्थं तु त्वया द्वारि निरुद्धा मुनिसत्तमाः
于是他对门卫说道:“速速放他们入内,不可迟延。你为何将最上等的牟尼阻于门外?”
Verse 18
रामवाक्यान्मुनींस्तांस्तु प्रावेशयद्यथासुखम् । दृष्ट्वा तु तान्मुनींन्प्राप्तान्प्रत्युवाच कृतांजलि
奉罗摩之命,门卫引诸圣仙入内,使其安坐。罗摩见诸牟尼已至,便合掌恭敬而语。
Verse 19
रामोऽभिवाद्य प्रणत आसनेषु न्यवेशयत् । ते तु कांचनचित्रेषु स्वास्तीर्णेषु सुखेषु च
罗摩恭敬致礼并俯身顶礼后,安置他们坐在座位上——铺设整齐、安适柔和,并饰以金色纹样。
Verse 20
कुशोत्तरेषु चासीनाः समंतान्मुनिपुंगवाः । पाद्यमाचमनीयं च ददौ चार्घ्यं पुरोहितः
诸位最胜牟尼环坐于铺有库沙草的座位上;祭司依礼奉上洗足之水、漱饮之水,并献上阿尔吉亚(arghya)供奉。
Verse 21
रामेण कुशलं पृष्टा ऋषयः सर्व एव ते । महर्षयो वेदविद इदं वचनमब्रुवन्
罗摩询问他们安好与否时,诸位圣仙——大牟尼、通达吠陀者——便说出了如下言辞。
Verse 22
कुशलं ते महाबाहो सर्वत्र रघुनंदन । त्वां तु दिष्ट्या कुशलिनं पश्यामो हतविद्विषम्
大臂勇者、罗睺族之喜啊,你在诸处皆安。幸赖福德,我们如今见你平安无恙,且已歼灭仇敌。
Verse 23
हृता सीतातिपापेन रावणेन दुरात्मना । पत्नी ते रघुशार्दूल तस्या एवौजसा हतः
悉多被那极恶罪人、心性邪恶的罗波那掳去。噫,罗睺族之虎,她是你的妻;然而他将被她自身的灵威与神力所诛灭。
Verse 24
असहायेन चैकेन त्वया राम रणे हतः । यादृशं ते कृतं कर्म तस्य कर्ता न विद्यते
噢罗摩,你孤身无援,却在战场上将其诛灭。你所成就的这般壮举,世间再无同等的行者可寻。
Verse 25
इह संभाषितुं प्राप्ता दृष्ट्वा पूताः स्म सांप्रतम् । दर्शनात्तव राजेंद्र सर्वे जातास्तपस्विनः
我们来到此处欲与您言谈;方才一见您面,便已得清净。噢诸王之王,仅凭您的瞻礼(darśana),我们众人皆如苦行者。
Verse 26
रावणस्य वधात्तेद्य कृतमश्रुप्रमार्जनम् । दत्वा पुण्यामिमां वीर जगत्यभयदक्षिणाम्
今日因你诛灭罗婆那,你的泪已拭尽。噢勇士,你以“赐世间无畏”这一圣施为达克希那(dakṣiṇā),已圆满其责。
Verse 27
दिष्ट्या वर्धसि काकुत्स्थ जयेनामितविक्रम । दृष्टस्संभाषितश्चासि यास्यामश्चाश्रमान्स्वकान्
幸而你昌盛兴隆,噢迦拘特斯陀,得胜者,威勇无量。我们已见你并与君言谈;如今将归返各自的阿湿罗摩(āśrama)。
Verse 28
अरण्यं ते प्रविष्टस्य मया चेंद्रशरासनम् । अर्पितं चाक्षयौ तूणौ कवचं च परंतप
当你进入森林之时,我将因陀罗之弓奉予你,又赐两具无尽箭箙与护身甲胄,噢焚灭敌者。
Verse 29
भूयोप्यागमनं कार्यमाश्रमे मे रघूद्वह । एवमुक्त्वा तु ते सर्वे मुनयोंतर्हिताऽभवन्
“罗睺族的后裔啊,你当再来我这座静修林(āśrama)。”言毕,诸位圣仙随即隐没,不复可见。
Verse 30
गतेषु मुनिमुख्येषु रामो धर्मभृतां वरः । चिंतयामास तत्कार्यं किं स्यान्मे मुनिनोदितम्
诸位上首圣仙离去之后,罗摩——持守达摩者之最——思量那所托之事:“圣仙所嘱于我者,究竟为何?”
Verse 31
भूयोप्यागमनं कार्यमाश्रमे रघुनंदन । अवश्यमेव गंतव्यं मयाऽगस्त्यस्य सन्निधौ
“罗睺族的欢喜者啊,我当再赴静修林(āśrama)。我必定要前往,亲近阿伽斯提耶(Agastya)圣者。”
Verse 32
श्रोतव्यं देवगुह्यं तु कार्यमन्यच्च यद्वदेत् । एवं चिंतयतस्तस्य रामस्यामिततेजसः
“当聆听诸天之秘奥,并奉行所吩咐的其他一切事务。”当无量光辉的罗摩如此思惟之时……
Verse 33
करिष्ये नियतं धर्मं धर्मो हि परमा गतिः । सुतवर्षसहस्राणि दश राज्यमकारयत्
“我必定奉行所定之达摩;达摩实为至上归趣。”于是他使王国得以治理,延续一万年。
Verse 34
ददतो जुह्वतश्चैव जग्मुस्तान्येकवर्षवत् । प्रजाः पालयतस्तस्य राघवस्य महात्मनः
当大心的罗伽婆(Rāghava)不断施舍布施并举行祭祀(yajña)时,那许多日子于他仿佛只是一年;他一面护持百姓,守护其众生。
Verse 35
एतस्मिन्नेव दिवसे वृद्धो जानपदो द्विजः । मृतं पुत्रमुपादाय रामद्वारमुपागतः
就在那一天,一位来自乡野的年迈婆罗门,抱着自己死去的儿子,来到罗摩的门前。
Verse 36
उवाच विविधं वाक्यं स्नेहाक्षरसमन्वितम् । दुष्कृतं किंतु मे पुत्र पूर्वदेहांतरे कृतम्
他含着慈爱之辞说了许多话:“可是,我的孩子啊,我在前世之身究竟造了什么恶业?”
Verse 37
त्वामेकपुत्रं यदहं पश्यामि निधनं गतम् । अप्राप्तयौवनं बालं पंचवर्षं गतायुषम्
当我看见你——我唯一的儿子——已归于死亡;你尚未及青春,不过五岁幼童,寿命竟已终尽——
Verse 38
अकाले कालमापन्नं दुःखाय मम पुत्रक । अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम्
孩子啊,你未到其时便遭逢死亡,使我悲苦。你尚未尽到对祖先的祭祀与本分,便已前往毗婆斯瓦多(阎摩,Yama)之所。
Verse 39
रामस्य दुष्कृतं व्यक्तं येन ते मृत्युरागतः । बालवध्या ब्रह्मवध्या स्त्रीवध्या चैव राघवम्
罗摩的恶行已然昭著——因此死亡临到你。罗伽婆背负杀害孩童、婆罗门与妇人的罪业。
Verse 40
प्रवेक्ष्यति न सन्देहः सभार्ये तु मृते मयि । शुश्राव राघवः सर्वं दुःखशोकसमन्वितम्
“毫无疑问——当我与妻子同死之时,他必定会投身火中。”罗伽婆听见这一切,满怀悲苦与哀伤。
Verse 41
निवार्य तं द्विजं रामो वसिष्ठं वाक्यमब्रवीत् । किं मयाद्य च कर्तव्यं कार्यमेवं विधे स्थिते
罗摩拦住那位婆罗门,对毗湿蜜多(Vasiṣṭha)说道:“我今日当作何事?既然命运如此安排,究竟应当如何行?”
Verse 42
प्राणानहं जुहोम्यग्नौ पर्वताद्वा पतेह्यहम् । कथं शुद्धिमहं यामि श्रुत्वा ब्राह्मणभाषितम्
我愿将此身投入火中为供,或从高山跃下。听闻婆罗门之言后,我当如何得以清净?
Verse 43
वसिष्ठस्याग्रतः स्थित्वा राज्ञो दीनस्य नारदः । प्रत्युवाच श्रुतं वाक्यमृषीणां सन्निधौ तदा
那罗陀立于毗湿蜜多之前,当着诸仙(ṛṣi)之面,向悲苦的国王答复,复述他所听闻的话语。
Verse 44
शृणु राम यथाकालं प्राप्तो वै बालसंक्षयः । पुरा कृतयुगे राम सर्वत्र ब्राह्मणोत्तरम्
听吧,罗摩:在适当之时,孩童的夭折之患确实出现了。往昔在圆满劫(Kṛta Yuga),罗摩啊,婆罗门在各处居于最尊最先之位。
Verse 45
अब्राह्मणो न वै कश्चित्तपस्तपति राघव । अमृत्यवस्तदा सर्वे जायंते चिरजीविनः
罗伽婆啊,那时确无非婆罗门者修行苦行;在那时,众生皆离于死亡,出生便得长寿。
Verse 46
त्रेतायुगे पुनः प्राप्ते ब्रह्मक्षत्रमनुत्तमम् । अधर्मो द्वापरे तेषां वैश्यान्शूद्रांस्तथाविशत्
当特雷塔劫(Tretā Yuga)再度来临时,婆罗门与刹帝利又复臻于卓越;然而在堕婆罗劫(Dvāpara Yuga),不法(adharma)也侵入了吠舍与首陀罗之中。
Verse 47
एवं निरंतरं जुष्टमुद्भूतमनृतं पुनः । अधर्मस्य त्रयः पादा एको धर्मस्य चागतः
如是,虚妄不断被纵容、反复滋生;不法(adharma)遂立于三足,而正法(dharma)仅余一足而存。
Verse 48
ततः पूर्वे भृशं त्रस्ता वर्णा ब्राह्मणपूर्वकाः । भूयः पादस्तु धर्मस्य द्वितीयः समपद्यत
于是,先前诸种姓——以婆罗门为首——极其惊惧;而后正法(Dharma)的第二只“足”又再度得以建立。
Verse 49
तस्मिन्द्वापरसंज्ञे तु तपो वैश्यं समाविशत् । युगत्रयस्य वैधर्म्यं धर्मस्य प्रतितिष्ठति
在名为“二迦”(Dvāpara)的时代,苦行(tapas)进入了吠舍(Vaiśya)阶层;由此三大劫(yuga)各自不同的特征,作为法(dharma)的恒常格局而确立。
Verse 50
कलिसंज्ञे ततः प्राप्ते वर्तमाने युगेंतिमे । अधर्मश्चानृतं चैव ववृधाते नरर्षभ
当名为“迦利”(Kali)的时代到来、末劫正在运行之时,不义(adharma)与虚妄确实增长啊,哦,人中之雄。
Verse 51
भविता शूद्रयोन्यां तु तपश्चर्या कलौ युगे । स ते विषयपर्यंते राजन्नुग्रतरं तपः
在迦利劫中,你的苦行确将结成果报,使你生于首陀罗(Śūdra)之身。大王啊,直至你国土的尽界,这对你将是更为严酷的苦行。
Verse 52
शूद्रस्तपति दुर्बुद्धिस्तेन बालवधः कृतः । यस्याधर्ममकार्यं वा विषये पार्थिवस्य हि
那愚昧的首陀罗(Śūdra)因犯下杀害孩童之罪而受苦;当他在国王的疆域之内行不义(adharma)或作禁行之事时,果报如是。
Verse 53
पुरे वा राजशार्दूल कुरुते दुर्मतिर्नरः । क्षिप्रं स नरकं याति यावदाभूतसंप्लवम्
王中之虎啊,若有人怀恶意在城中行此等罪业,便迅速堕入地狱,并停留其间,直至宇宙大劫的溶灭。
Verse 54
चतुर्थं तस्य पापस्य भागमश्नाति पार्थिवः । सत्त्वं पुरुषशार्दूल गच्छस्व विषयं स्वकम्
国王分受那罪业的四分之一。噫,尊贵者,人中之虎——今当归往汝自有之境。
Verse 55
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर । एवं ते धर्मवृद्धिश्च बलस्य वर्धनं तथा
凡见不善之行,当于彼处勤加努力以制止并匡正。如此汝之法德增长,汝之力量亦复增盛。
Verse 56
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवनम् । नारदेनैवमुक्तस्तु साश्चर्यो रघुनंदनः
“噫,人中最胜者,此童必得存活。”纳罗陀如是宣说,罗古之喜子遂满怀惊异。
Verse 57
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् । गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण
他得无量欢喜,遂对罗什曼那言曰:“善哉,亲爱者——往至最胜之二生者前,安慰于彼,罗什曼那啊。”
Verse 58
बालस्य च शरीरं त्वं तैलद्रोण्यां निधापय । गंधैश्च परमोदारैस्तैलैश्चैव सुगंधिभिः
又当以油槽安置童子之身,施以最上妙香,并以芬馥之香油涂润。
Verse 59
यथा न शीर्यते बालस्तथा सौम्य विधीयताम् । यथा शरीरं गुप्तं स्याद्बालस्याक्लिष्टकर्मणः
仁慈者啊,请如此安排,使孩童不致消瘦,并使那尚未为艰辛所累之孩童之身得以隐护安稳。
Verse 60
विपत्तिः परिभेदो वा न भवेत्तत्तथा कुरु । तथा संदिश्य सौमित्रं लक्ष्मणं शुभलक्षणम्
“当如此行事,使灾厄与纷争皆不生起。”他如是告诫扫弥多罗——具吉祥相的罗什曼那——(遂复有所指示)。
Verse 61
मनसा पुष्पकं दध्यावागच्छेति महायशाः । इंगितं तत्तु विज्ञाय कामगं हेमभूषितम्
那位大名者心中默念普什帕迦,意如“来吧!”;它领会其意,随心而至,金饰辉煌。
Verse 62
आजगाम मुहूर्तात्तु समीपं राघवस्य हि । सोब्रवीत्प्राञ्जलिर्वाक्यमहमस्मि नराधिप
不多时,他来到罗伽婆近前;合掌而语:“我在此,噫,人中王。”
Verse 63
अग्रे तव महाबाहो किंकरः समुपस्थितः । भाषितं सुचिरं श्रुत्वा पुष्पकस्य नराधिप
在你面前,噫,大臂者,你的仆从已恭候在侧。人中王啊,久闻普什帕迦之言(遂如是应答)。
Verse 64
अभिवाद्य महर्षींस्तान्विमानं सोध्यरोहत । धनुर्गृहीत्वा तूणौ च खड्गं चापि महाप्रभम्
向诸位大圣仙致敬后,他登上天行之车。执起弓与箭囊,又佩一柄光辉雄伟的利剑,整装待发。
Verse 65
निक्षिप्य नगरे वीरौ सौमित्रि भरतावुभौ । प्रायात्प्रतीचीं त्वरितो विचिन्वन्सुसमाहितः
他将两位英雄——娑弥特利与婆罗多——留在城中,随即迅速向西而行,心神专一,寻觅不息。
Verse 66
उत्तरामगमत्पश्चाद्दिशं हिमवदाश्रिताम् । पूर्वामपि दिशां गत्वा तथाऽपश्यन्नराधिपः
随后,国王前往依傍喜马拉雅的北方之境;又行至东方之域,人间之主亦见同样的景象。
Verse 67
सर्वां शुद्धसमाचारामादर्शमिव निर्मलाम् । ततो दिशं समाक्रामद्दक्षिणां रघुनंदनः
见其举止行持皆清净无瑕,如磨光之镜般澄明,罗睺后裔遂转而迈向南方。
Verse 68
शैलस्य उत्तरे पार्श्वे ददर्श सुमहत्सरः । तस्मिन्सरसि तप्यंतं तापसं सुमहत्तपः
在山的北侧,他看见一片极其广大的湖泊。于那湖中,他见一位苦行仙人修持苦行,具无比深厚的苦行力。
Verse 69
ददर्श राघवो भीमं लंबमानमधोमुखं । तमुपागम्य काकुत्स्थस्तप्यमानं तु तापसम्
罗伽婆看见一位可怖的苦行仙人,倒悬而立,面向大地。迦库特斯塔走近,见那圣者正行极严峻的苦行,炽然精进。
Verse 70
उवाच राघवो वाक्यं धन्यस्त्वममरप्रभ । कस्यां योनौ तपोवृद्धिर्वर्तते दृढनिश्चय
罗伽婆说道:“你真有福,噢不死者之主。坚志者啊,苦行之增长究竟安住于何种胎藏、何等生存之境?”
Verse 71
अहं दाशरथी रामः पृच्छामि त्वां कुतूहलात् । कोर्थो व्यवसितस्तुभ्यं स्वर्गलोकोथ वेतरः
我乃达沙罗陀之子罗摩。出于探问,我请教于你:你所立定的志愿为何——是求往天界,还是另有所求?
Verse 72
किमर्थं तप्यसे वा त्वं श्रोतुमिच्छामि तापस । ब्राह्मणो वासि भद्रं ते क्षत्रियो वाथ दुर्जयः
你为何而行苦行?我愿聆听,苦行者啊。请告知:你是婆罗门、吉祥者,还是不可战胜的刹帝利?
Verse 73
वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यमुच्यताम् । तपः सत्यात्मकं नित्यं स्वर्गलोकपरिग्रहे
无论是吠舍(第三种姓)或首陀罗,都当如实而说:以真实为体、恒常修持的苦行,能令人成就并获得诸天界。
Verse 74
सात्विकं राजसं चैव तच्च सत्यात्मकं तपः । जगदुपकारहेतुर्हि सृष्टं तद्वै विरिंचिना
苦行(tapas)有萨埵(sāttvika)与罗阇(rājasa)之别,并以真实为根基。诚然,此苦行由毗林支(Viriñci,即梵天Brahmā)所创,为利益世间而设。
Verse 75
रौद्रं क्षत्रियतेजोजं तत्तु राजसमुच्यते । परस्योत्सादनार्थाय तच्चासुरमुदाहृतम्
那由刹帝利(kṣatriya)英勇之光所生的凶猛威力,被称为“罗阇性”(rājasa);而若用以毁灭他人,则被宣说为“阿修罗性”(āsuric,魔性)。
Verse 76
अंगानि निह्नुते यो वा असृग्दिग्धानि भागशः । पंचाग्निंसाधयेद्वापि सिद्धिं वा मृत्युमेव वा
无论有人遮蔽(残毁)其肢体,或将身体各处涂抹以血,乃至修行“五火苦行”(pañcāgni),他或可得隐秘成就(siddhi),或终将只遭死亡。
Verse 77
आसुरो ह्येष ते भावो न च मे त्वं द्विजो मतः । सत्यं ते वदतः सिद्धिरनृते नास्ति जीवितम्
你这般心性实为阿修罗性(āsuric);在我看来,你并非二生者(dvija,婆罗门)。若你说真实,便可得成就(siddhi);在虚妄之中,并无生命与真实滋养。
Verse 78
तस्य तद्भाषितं श्रुत्वा रामस्याक्लिष्टकर्मणः । अवाक्शिरास्तथा भूतो वाक्यमेतदुवाच ह
听闻业行无垢的罗摩(Rāma)所说之言,那存在者低首俯伏,继而开口说道如下之语。
Verse 79
स्वागतं ते नृपश्रेष्ठ चिराद्दृष्टोसि राघव । पुत्रभूतोस्मि ते चाहं पितृभूतोसि मेनघ
欢迎你,诸王之最;久别之后得以相见,罗伽婆啊。我于你如子,你于我如父,清净无罪者。
Verse 80
अथवा नैतदेवं हि सर्वेषां नृपतिः पिता । सत्वमर्च्योऽसि भो राजन्वयं ते विषये तपः
或者说,并非如此:国王并不是众人的父亲。然而,王啊,你仍当受礼敬;我们在你的国土之内修行苦行。
Verse 81
चरामस्तत्रभागोस्ति पूर्वं सृष्टः स्वयंभुवा । न धन्याः स्मो वयं राम धन्यस्त्वमसि पार्थिव
“我们在此漂行;在那处有属于我们的份额,那是自生者(梵天)久远之前所造。我们并不有福,罗摩啊——有福的是你,王者。”
Verse 82
यस्य ते विषये ह्येवं सिद्धिमिच्छंति तापसाः । तपसा त्वं मदीयेन सिद्धिमाप्नुहि राघव
就你此事而言,正是为此诸苦行者希求成就——凭我自身的苦行,罗伽婆啊,愿你获得圆满成功。
Verse 83
यदेतद्भवता प्रोक्तं योनौ कस्यां तु ते तपः । शूद्रयोनिप्रसूतोहं तप उग्रं समास्थितः
至于你所问:“你的苦行是在何种胎生中修成?”——我出自首陀罗之胎,却仍立誓修持严峻的苦行。
Verse 84
देवत्वं प्रार्थये राम स्वशरीरेण सुव्रत । न मिथ्याहं वदे भूप देवलोकजिगीषया
噢罗摩,噢持善誓者——就在此身之中,我祈求得成神性。噢大王,我并非妄言;乃是渴望抵达诸天(天界)之故。
Verse 85
शूद्रं मां विद्धि काकुत्स्थ शंबूकं नाम नामतः । भाषतस्तस्य काकुत्स्थः खड्गं तु रुचिरप्रभं
“当知我乃首陀罗,噢迦拘斯陀;名号称为商布迦。”他言说之时,噢迦拘斯陀,(罗摩)执起一柄光辉灿然之剑。
Verse 86
निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः । तस्मिन्शूद्रे हते देवाः सेन्द्राश्चाग्निपुरोगमाः
罗伽婆自鞘中拔出无垢之剑,斩落其首。彼首陀罗既被诛杀,诸天神——与因陀罗同在,以阿耆尼为前导——皆得欣然。
Verse 87
साधुसाध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः । पुष्पवृष्टिश्च महती देवानां सुसुगंधिनी
诸天神高呼“善哉!善哉!”,一再赞颂迦拘斯陀。又有广大花雨自诸天而降,芬芳馥郁。
Verse 88
आकाशाद्विप्रमुक्ता तु राघवं सर्वतोकिरत् । सुप्रीताश्चाब्रुवन्देवा रामं वाक्यविदांवरम्
自虚空放下,花雨从四面洒向罗伽婆;诸天神欢喜满足,遂对罗摩——言辞之艺最胜者——开口说道。
Verse 89
सुरकार्यमिदं सौम्य कृतं ते रघुनंदन । गृहाण च वरं राम यमिच्छसि महाव्रत
温和者啊,罗俱族之喜——诸神之事已由你成就。故罗摩啊,请受一愿:你所欲者皆可得,伟誓者啊。
Verse 90
त्वत्कृतेन हि शूद्रोऽयं सशरीरोऽभ्यगाद्दिवं । देवानां भाषितं श्रुत्वा राघवः सुसमाहितः
确因你所行,此首陀罗竟以其身升入天界。闻诸神所言,罗伽婆心神安定,专注聆受。
Verse 91
उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरंदरम् । यदि देवाः प्रसन्ना मे वरार्हो यदि वाप्यहम्
他合掌而立,对千眼的普兰达罗说道:“若诸神悦纳于我——若我亦堪受恩赐——那么……”
Verse 92
कर्मणा यदि मे प्रीता द्विजपुत्रः स जीवतु । वरमेतद्धि भवतां कांक्षितं परमं हि मे
若你们因我之行而欢喜,愿那婆罗门之子得以存活。此实为你们所愿之赐,亦是我至高的祈求。
Verse 93
ममापराधाद्बालोऽसौ ब्राह्मणस्यैकपुत्रकः । अप्राप्तकालः कालेन नीतो वैवस्वत क्षयम्
因我之过,那孩子——婆罗门的独子——虽未至死期,却被时神带往毗婆斯瓦特(阎摩)之境。
Verse 94
तं जीवयत भद्रं वो नानृती स्यामहं गुरोः । द्विजस्य संश्रुतो ह्यर्थो जीवयिष्यामि ते सुतम्
“让他复生——愿吉祥临于你们。我不可在师长面前失信;因为我已向婆罗门许下誓言。我必使你们的儿子重获生命。”
Verse 95
मदीयेनायुषा बालं पादेनार्द्धेन वा सुराः । जीवेदयं वरो मह्यं वरकोट्यधिको वृतः
“诸天啊,愿这孩子凭我的寿命而活——取其四分之一,或甚至一半亦可。这恩赐由我亲自择取;胜过一俱胝的其他恩赐。”
Verse 96
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः । प्रत्यूचुस्ते महात्मानं प्रीताः प्रीतिसमन्विताः
诸神中最尊胜者听闻罗伽婆之言,欢喜而满怀慈爱,便答复那位大心者。
Verse 97
निर्वृतो भव काकुत्स्थ ब्राह्मणस्यैकपुत्रकः । जीवितं प्राप्तवान्भूयः समेतश्चापि बंधुभिः
“安然吧,迦拘特斯陀:那婆罗门的独子已再得生命,并且也与亲族重聚。”
Verse 98
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रोयं विनिपातितः । तस्मिन्मुहूर्ते सहसा जीवेन समयुज्यत
“迦拘特斯陀的后裔啊,就在这首陀罗倒下的那一刻,同一刻他忽然与生命重新相合。”
Verse 99
स्वस्ति प्राप्नुहि भद्रं ते साधयामः परंतपः । अगस्त्यस्याश्रमपदे द्रष्टारः स्म महामुनिम्
愿吉祥归于你;愿善福临于你,噬敌者啊。我们将成就所求:将往阿伽斯提耶仙人住处之地,瞻礼那位大牟尼。
Verse 100
स तथेति प्रतिज्ञाय देवानां रघुनंदनः । आरुरोह विमानं तं पुष्पकं हेमभूषितम्
罗阇之喜者(罗摩)向诸天立誓曰“如是”,随即登上那金饰辉煌的普什帕迦天车(毗摩那)。