Adhyaya 32
Srishti KhandaAdhyaya 32156 Verses

Adhyaya 32

The Tale of the Five Pretas and the Glory of Puṣkara & the Eastern Sarasvatī

毗湿摩请问普罗婆斯提:众生如何堕入饿鬼(preta)之态,又如何得以终止。普罗婆斯提举例开示:一位持戒精严的婆罗门朝圣者,途中遇见五个可怖的饿鬼。五饿鬼自述各自业因,显露其“以罪为名”的身份,并说明当人家轻慢清净、违失法度、怠慢施食与祭祖(śrāddha)时,他们便得以受用那等污秽之食。 婆罗门随即教授防护与对治之法:行持Kṛcchra、Cāndrāyaṇa等誓戒,护持圣火,修平等心,敬奉宾客与师长,依时行śrāddha,广修布施,恭敬母牛与诸圣地(tīrtha)。并明言堕为饿鬼的因缘:弃离亲族、犯重罪、与不净饮食结缘、背叛欺诳,以及以不信之心隐匿应施的dakṣiṇā。 随后章旨转入普什迦罗(Puṣkara)之胜德:迦尔提迦月(Kārtika)中诸吉祥时合(yoga)、启请之真言,以及萨拉斯瓦蒂(Sarasvatī)向东方流现之相(Prācī)。经中称赞在此沐浴、布施、行piṇḍa与tarpaṇa之殊胜果报,终以诸天赞叹,并建立如Śuddhāvaṭa、Āditīrtha等本初圣地。

Shlokas

Verse 1

भीष्म उवाच । केन कर्मविपाकेन प्रेतत्वं जायते पुनः । केन वात्र प्रमुच्येत तन्मे ब्रूहि महामते

毗湿摩说道:因何业报之成熟,众生复成饿鬼(preta,漂泊不安之亡灵)?又以何法得脱离彼境?大德者啊,请为我宣说。

Verse 2

पुलस्त्य उवाच । अहं ते कथयिष्यामि सर्वमेतदशेषतः । यच्छ्रुत्वा न पुनर्मोहं यास्यते नृपसत्तम

普罗诃斯底耶说道:我将把这一切毫无遗漏地告诉你。你听闻之后,王中之最啊,便不再陷入迷惑。

Verse 3

येन जायेत प्रेतत्वं येन चास्मात्प्रमुच्यते । प्राप्नोति नरकं घोरं दुस्तरं त्रिदशैरपि

由此而成游荡的饿鬼(preta),亦由此得以从彼境解脱;若反其道而行,必堕可怖地狱,连诸天亦难以渡越。

Verse 4

सतां संभाषणे चैव पुण्यतीर्थानुकीर्त्तने । मानवास्तु प्रमुच्यंत आपन्नाः प्रेतयोनिषु

与贤善者相与谈论,并称诵圣地诸渡口(tīrtha)的名号与赞德,人即便堕为饿鬼(preta),亦能从彼境得解脱。

Verse 5

श्रूयते हि पुरा भीष्म ब्राह्मणः संशितव्रतः । पृथुस्सर्वत्र विख्यातः संतोषे च सदा स्थितः

自古相传,噢毗湿摩(Bhīṣma),曾有一位持戒坚固的婆罗门,名曰普利图(Pṛthu),名闻四方,恒住知足。

Verse 6

स्वाध्याययुक्तो गेहेषु नित्ययोगश्च योगवित् । जपयज्ञविधानेन युक्तं कालं क्षिपेच्च सः

虽居家而勤修自诵研习(svādhyāya),恒安住于瑜伽并善知其行;他应如法度日,专注于持诵祭(japa-yajña)之仪轨。

Verse 7

युक्तः क्षमादयाभ्यां च क्षांत्यायुक्तश्च तत्त्ववित् । अहिंसाहितचित्तश्च मार्द्दवे च तथास्थितः

具足宽恕等诸德,安住忍辱而了知真如;其心依止不害(ahiṃsā),并坚定地住于柔和与温良之中。

Verse 8

ब्रह्मचर्यसमायुक्तस्तपोयोगसमन्वितः । युक्तः स पितृकार्येषु युक्तो वैदिककर्मसु

他具足梵行之戒,兼修苦行与瑜伽之行,堪任奉行祖先祭祀之礼,亦堪任履行吠陀之法业。

Verse 9

परलोकभयेयुक्तो युक्तस्सत्यवचः प्रति । युक्तो मधुरवाक्येषु युक्तश्चातिथिपूजने

以对后世之畏惧而自持,他专注于真实之言;专注于柔和甘美之语,亦专注于敬奉来宾。

Verse 10

इष्टापूर्तसमायुक्तो युक्तो द्वंद्वविवर्जने । स्वकर्मविधिसंयुक्तो युक्तः स्वाध्यायकर्मसु

他奉行 iṣṭa 与 pūrta——虔敬之祭与济世之施;修持远离对待二相;并依自身本分之正法仪则,坚定于自我诵习与履行所规定之行。

Verse 11

एवं कर्माणि कुर्वंतस्संसारविजिगीषया । बहून्यब्दान्यतीतानि ब्राह्मणस्य गृहे सतः

如是,他以战胜轮回世有为志,持续行诸功业;在婆罗门家中居住之时,岁月已逝,历经多年。

Verse 12

तस्य बुद्धिरियं जाता तीर्थाभिगमनं प्रति । पुण्यैस्तीर्थजलैरेतत्क्लिन्नं कुर्यां कलेवरम्

于是他心中生起此愿,欲往诸 tīrtha(圣渡处): “以诸 tīrtha 之圣水,因功德而清净,我当濡润并净化此身。”

Verse 13

प्रयतः पुष्करे स्नात्वा भास्करस्योदयं प्रति । कृतजप्यनमस्कारोप्यद्ध्वानं प्रत्यपद्यत

他自持克己,在普什迦罗沐浴;面向太阳初升,诵持真言并行礼敬之后,便踏上旅途。

Verse 14

अग्रतः पंचपुरुषानपश्यत्सोति भीषणान् । वने कंटकवृक्षाढ्ये निर्जने पक्षिवर्जिते

在他前方,他看见五个男子,极其可怖;身处一片荆棘树丛密布的森林,荒寂无声,连鸟也不见。

Verse 15

तान्दृष्ट्वा विकृताकारान्सुघोरान्पापदर्शनान् । ईषत्संत्रस्तहृदयो व्यतिष्ठन्निश्चलाकृतिः

见他们形貌怪异、极其可怖、带着罪相,他心中微微惊惧,却仍站定不动,身姿如凝。

Verse 16

अवलंब्य ततो धैर्य्यं भयमुत्सृज्य दूरतः । पप्रच्छ मधुराभाषी के यूयं विकृताः कुतः

随后他依凭勇气,将恐惧远远抛开;那言辞柔和者问道:“你们是谁,形貌如此怪异?又从何处而来?”

Verse 17

किं वा चैव कृतं कर्म ये नप्राप्ताश्च वैकृतम् । कथमेवंविधाः सर्वे प्रस्थिताः कुत्र चाध्वनि

“你们究竟造作了什么业——你们尚未得至那转化的(更高的)境界?你们为何皆成此状,又走在何路上,正往何处而行?”

Verse 18

प्रेता ऊचुः । क्षुत्पिपासान्विता नित्यं महादुःखसमावृताः । हृतप्रज्ञा वयं सर्वे नष्टसञ्ज्ञाविचेतसः

饿鬼说道:“我们恒常受饥渴所逼,沉没在巨大的痛苦之中。我们众皆失去辨识之慧,觉知散失,心神迷乱。”

Verse 19

न जानीमो दिशं चापि प्रदिशं चापि कां च न । नांतरिक्षं महीं चापि न जानीमो दिवं तथा

我们连诸方位都不知晓,亦不知诸间方;不知虚空与大地,同样也不知天界。

Verse 20

यदेतद्दुःखमाख्यातमेतदेव सुखं भवेत् । प्रभातमिदमाभाति भास्करोदयदर्शनात्

所谓痛苦,亦可转为安乐;见日轮升起,此黎明便熠熠生辉。

Verse 21

अहं पर्युषितो नाम सूचीमुखस्तथाऽपरः । शीघ्रगो रोहकश्चैव पंचमो लेखकस्तथा

“我名为Paryuṣita;另一个名为Sūcīmukha。其后有Śīghraga与Rohaka,第五名为Lekhaka。”

Verse 22

ब्राह्मण उवाच । प्रेतानां कर्मजातानां नाम्ना वै संभवः कुतः । किं तत्कारणमुद्दिश्य यतो यूयं सनामकाः

婆罗门说道:“由自身业力所生的饿鬼,何以会有这些名号?因何缘故,你们各自具足特定之名?”

Verse 23

प्रेता ऊचुः । अहं स्वादु सदा भुंजे दद्यां पर्युषितं द्विजे । एतत्कारणमासाद्य नाम पर्युषितो मम

饿鬼说道:“我常食甘美之物,却曾把隔夜残馀之食施与婆罗门。由此因缘,我得名为‘Paryuṣita’——‘陈馀者、隔夜者’。”

Verse 24

सूचिता बहवोऽनेन विप्राश्चान्नाद्यकांक्षिणः । एतत्कारणमुद्दिश्य सूचीमुखाभिधो मतः

因这行为,许多渴求饮食资具的婆罗门被指点出来、遭人揭露。正因如此,他被认为名为‘Sūcīmukha’——‘针面者、针口者’。

Verse 25

शीघ्रं गतोऽस्मि विप्रेण याचितः क्षुधितेन च । एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तम

“我被一位饥饿的婆罗门所求,便迅速前往。正因如此,我得名为‘Śīghraga’——‘疾行者’。噢,最胜的二次生者!”

Verse 26

गृहोपरि सदा स्वादु भुंक्ते द्विजभयेन हि । उद्विग्नमानसस्तत्र तेनासौ रोहकः स्मृतः

因惧怕婆罗门,他常在屋顶之上享食甘美;而其心于彼处恒常惶惶不安。故而他被称为‘Rohaka’。

Verse 27

मौने चापि स्थितो नित्यं याचितो विलिखन्महीम् । अस्माकमपि पापिष्ठो लेखको नाम नामतः

他恒常守默;被人请求时,便在地上刻写。即便在我们之中,他亦最为罪重——仅以名号称作‘Lekhaka’,‘书写者’,徒有其名。

Verse 28

कृच्छ्रेण लेखको याति रोहकस्तु अवाक्शिराः । शीघ्रगः पंगुतां प्राप्तः सूची सूचीमुखोऽभवत्

书写者艰难前行;攀登者倒悬其首;疾行者反成跛者;而针则化作“针口之面”,仅余针嘴而已。

Verse 29

पर्युषितो लम्बग्रीवो लंबोदर उदाहृतः । बृहद्वृषणलंबोष्ठः पापादस्मादजायत

由此罪业生出一者:腐败腥臭,颈项修长,名为“腹大”;睾丸硕大,唇垂下坠——他便如此从那恶中而起。

Verse 30

एतत्ते सर्वमाख्यातमात्मवृत्तं सहेतुकम् । पृच्छस्व यदि ते श्रद्धा पृष्टाश्च कथयामहे

这一切——连同因缘的自述——我已尽皆告知于你。若你具信心,便请发问;既蒙垂询,我等当更为开示。

Verse 31

ब्राह्मण उवाच । ये जीवा भुवि तिष्ठंति सर्वेप्याहारमूलकाः । युष्माकमपि चाहारं श्रोतुमिच्छामि तत्त्वतः

婆罗门说道:“世间住于大地的一切众生,皆以饮食为本而存。我亦愿如实听闻,你们所食之物究竟为何。”

Verse 32

प्रेता ऊचुः । शृणुष्वाहारमस्माकं सर्वसत्वविगर्हितम् । यच्छ्रुत्वा निंदसे विप्र भूयोभूयश्च नित्यशः

饿鬼说道:“请听我等之食,乃一切众生所厌恶。闻之,婆罗门啊,你必日复一日、屡屡责难我等。”

Verse 33

श्लेष्ममूत्रपुरीषेण योषिदङ्गमलेन च । गृहाणि त्यक्तशौचानि प्रेता भुंजंति तत्र वै

在那些抛弃洁净的家中,饿鬼确实在那里进食——吃的是痰、尿、粪便以及妇女身体的不洁之物。

Verse 34

स्त्रीभिर्दग्धानि कीर्णानि प्रकीर्णोच्छिष्टकानि च । मलेनापि जुगुप्स्यानि प्रेता भुंजंति तत्र वै

确实,在那儿,亡灵(饿鬼)吃的是被妇女烧焦的食物、散落各处的残羹冷炙,甚至是因污秽而令人作呕的东西。

Verse 35

चित्तलज्जाविहीनानि होमहीनानि यानि च । व्रतैश्चैव विहीनानि प्रेता भुंजंति तत्र वै

那些缺乏内心羞耻与克制、没有神圣火供、也没有持守誓愿的供奉(或行为)——确实,饿鬼就在那里享用它们。

Verse 36

गुरवो नैव पूज्यंते स्त्रीजितानि गृहाणि च । क्रोधलोभगृहीतानि प्रेता भुंजंति तत्र वै

在那些不尊敬师长、家中沉溺于女色、且被愤怒与贪婪所占据的家庭里——确实,饿鬼就在那里进食。

Verse 37

त्रपा मे जायते तात कथ्यमाने स्वभोजने । अस्मात्परतरं चान्यन्न वक्तुमपि शक्यते

亲爱的啊,当谈及我自己的饮食时,我感到羞愧。除此之外,再没有什么可说的了。

Verse 38

निवृत्तिं प्रेतभावस्य पृच्छामस्त्वां दृढव्रत । यथा न भवति प्रेतस्तन्मे वद तपोधन

我们请问你,誓愿坚固者,如何止息成为饿鬼(preta)之境。请告我,苦行之宝,怎样才能不堕为饿鬼(preta)。

Verse 39

ब्राह्मण उवाच । एकरात्र द्विरात्रादि कृच्छ्रचांद्रायणदिभिः । व्रतैरन्यैः कृतैर्नित्यं न प्रेतो जायते नरः

婆罗门说道:若恒常修持一夜、两夜等诸般斋戒,并行Kṛcchra与Cāndrāyaṇa等誓戒及其他诸戒,则此人不致成为饿鬼(preta)。

Verse 40

त्रीनग्नीन्पञ्च चैकं वा योऽहन्यहनि सेवते । स वै भूतदयापन्नो न प्रेतो जायते नरः

若有人日日奉事三圣火,或五火,乃至一火亦可;并怀慈悲怜悯众生,则其身后不堕为饿鬼(preta)。

Verse 41

तुल्यो मानेऽपमाने च तुल्यः कांचनलोष्टयोः । तुल्यः शत्रौ च मित्रे च न प्रेतो जायते नरः

若人于荣辱不动,于黄金与土块等观,于仇敌与友人平等无偏,则不生为饿鬼(preta)。

Verse 42

देवताऽतिथिपूजासु गुरुपूजासु नित्यशः । रतो वै पितृपूजासु न प्रेतो जायते नरः

若人恒常敬奉诸天与宾客,常礼敬师长,并真诚勤修祖先祭祀(pitṛ-pūjā),则其死后不为饿鬼(preta)所系。

Verse 43

शुक्लांगारकसंयुक्ता चतुर्थी जायते यदा । श्रद्धया श्राद्धकृत्तस्यां न प्रेतो जायते नरः

当第四月日(Caturthī)与白半月(Śukla)并与安伽罗迦(Aṅgāraka,火星/星期二)相合之时,若能以信心于此日行施祖祭(śrāddha),则此人不致生为饿鬼般的游魂(preta)。

Verse 44

जितक्रोधविमर्शोयस्तृष्णासंगविवर्जितः । क्षमावान्दानशीलश्च न प्रेतो जायते नरः

能降伏嗔怒、以明辨为导、远离贪渴与执著,并且宽恕而乐施之人,不会生为游魂饿鬼(preta)。

Verse 45

गोब्राह्मणांश्च तीर्थानि पर्वतांश्च नदीस्तथा । देवांश्चैव तु यो वन्द्यान्न प्रेतो जायते नरः

凡敬礼圣牛与婆罗门,礼敬诸圣地(tīrtha)、群山与江河,并亦礼敬诸天神者,死后不致成为游魂饿鬼(preta)。

Verse 46

प्रेता ऊचुः । श्रुताश्च विविधा धर्माः पृच्छामो दुःखिता मुने । येन वै जायते प्रेतस्तन्नो वद महामते

诸游魂(preta)说道:“圣者啊,我们听闻种种法(dharma)。我们为苦所逼,恳问:人因何而成游魂(preta)?大慧者啊,请为我们宣说。”

Verse 47

ब्राह्मण उवाच । शूद्रान्नेन तु भुक्तेन ब्राह्मणेन विशेषतः । म्रियते ह्युदरस्थेन स वै प्रेतो भवेन्नरः

婆罗门说道:若婆罗门——尤其如此——食用与首陀罗相关之食,据说因其腹中所滞而致死;此人确实会成为游魂饿鬼(preta)。

Verse 48

मातरं पितरं भ्रातॄन्भगिनीं सुतमेव च । अदृष्टदोषांस्त्यजति स प्रेतो जायते नरः

若有人舍弃母亲、父亲、兄弟、姊妹,乃至自己的儿子——他们并无明显过失——此人死后将成饿鬼(preta),不得安宁的亡灵。

Verse 49

अयाज्ययाजनाच्चैव याज्यस्य च विवर्जनात् । रतो वै शूद्रसेवासु स प्रेतो जायते नरः

为不应受祭者主持祭祀,又拒绝为应受祭者主持祭祀,并且沉迷于侍奉首陀罗(Śūdra)者,此人将生为饿鬼(preta),不安之灵。

Verse 50

न्यासापहर्ता मित्रध्रुक्शूद्रपाकरतः सदा । विस्रंभघाती कूटस्थः स प्रेतो जायते नरः

盗取托付之物,背叛朋友,常以贬辱首陀罗(Śūdra)为乐,杀害信任自己之人,并恒常欺诈者,此人将生为饿鬼(preta),不宁之灵。

Verse 51

ब्रह्महा गोघ्नकः स्तेनः सुरापो गुरुतल्पगः । भूमिकन्यापहर्त्ता च स प्रेतो जायते नरः

杀害婆罗门(brāhmaṇa)者、杀牛者、盗贼、嗜饮醉酒者、玷污师长床榻者,以及掳走少女者——此人将生为饿鬼(preta),不安之灵。

Verse 52

सामान्यां दक्षिणां लब्ध्वा एक एव निगूहति । नास्तिकीभावनिरतः स वै प्रेतोभिजायते

既得惯常之供养(dakṣiṇā),却独自隐匿不与人分,并沉溺于不敬神的心性者,确实将生为饿鬼(preta),不得安宁。

Verse 53

एवं ब्रुवाणे विप्रेन्द्र आकाशे दुंदुभिस्वनः । पुष्पवृष्टिः पपातोर्व्यां देवैर्मुक्ता सहस्रशः

当他如此说时,噢最胜婆罗门,虚空中响起天鼓之声;诸天放下千千万万的花雨,纷纷飘落大地。

Verse 54

प्रेतानां तु विमानानि आगतानि समंततः । अस्य विप्रस्य संभाषात्पुण्यसंकीर्तनेन च

随后,从四面八方而来为亡灵而设的天车;皆因这位婆罗门的开示与对功德的赞颂宣扬而感召。

Verse 55

तस्मात्सर्वप्रयत्नेन सतां संभाषणं कुरु । यदि ते श्रेयसा कार्यं गंगासुत अतंद्रितः

因此,当竭尽全力亲近并与贤圣交谈。若你求至善与真实福祉,噢恒伽之子,当常自警醒,毫不懈怠。

Verse 56

तिलकं सर्वधर्मस्य पञ्चप्रेतकथामिमाम् । पठेल्लक्षं योऽस्य कुले न प्रेतो जायते नरः

这篇关于“五种饿鬼(preta)”的叙述,乃一切法(dharma)之提拉卡——庄严与净化之印。若有人诵读十万遍,则其族中无人再生为饿鬼(preta)。

Verse 57

शृणोति वाप्यभीक्ष्णं वा श्रद्धया परयान्वितः । भक्त्या समन्वितो वापि न प्रेतो जायते नरः

若有人以至诚深信、怀抱虔敬,屡次聆听此文,则此人不再生为饿鬼(preta)。

Verse 58

भीष्म उवाच । अंतरिक्षे किमर्थं तु पुष्करं परिकीर्त्यते । मुनिभिर्धर्मशीलैश्च लभ्यते तत्कथं त्विह

毗湿摩说道:“为何人们称普什迦罗在中界(天空、空际)之中?若唯有持戒行义的圣贤方能得之,我们在此又当如何得达?”

Verse 59

येन तल्लभ्यते लब्धं लब्धं चैव फलप्रदम् । तन्मे सर्वं समाचक्ष्व कौतुकादेव पृच्छतः

请为我详尽开示——我因求知而问——以何方便得达彼处;而既已得达,又如何成就功德,赐予果报。

Verse 60

पुलस्त्य उवाच । ऋषिकोटिस्समायाता दक्षिणापथवासिनी । स्नानार्थं पुष्करे राजन्पुष्करं च वियद्गतम्

普罗诃斯提耶说道:“大王啊,居于南方道的亿众仙人聚集而来,为沐浴之故前往普什迦罗;而普什迦罗亦升腾上举,趋向天界。”

Verse 61

मत्वाते मुनयः सर्वे प्राणायामपरायणाः । ध्यायमानाः परं ब्रह्म स्थिता द्वादशवत्सरान्

如是思惟,诸仙皆专注于调息之行,安住十二年,观想至上梵(最高梵)。

Verse 62

ब्रह्मा महर्षयस्तत्र देवास्सेन्द्रास्समागताः । ऋषयोंतर्हिताः प्रोचुर्नियमांस्ते सुदुष्करान्

于彼处,梵天、诸大圣仙以及与因陀罗同来的诸天众皆来集会。其后,诸仙隐入寂静之中,宣说那些戒律行持,极其难行。

Verse 63

आकारणं पुष्करस्य मंत्रेण क्रियतां द्विजाः । आपोहिष्ठेति तिसृभिरृग्भिः सांनिध्यमेष्यति

诸位二次生者,当以真言作对普什迦罗(Puṣkara)的召请;诵念以“Āpo hi ṣṭhā…”开头的三段《梨俱吠陀》颂句,即可得神祇临在。

Verse 64

अघमर्षणजप्येन भवेद्वै फलदायकम् । विप्रैर्वाक्यावसाने तु सर्वैस्तैस्तु तथा कृतम्

以阿伽摩尔沙那(Aghamarṣaṇa)圣颂作持诵(japa),确能成就赐果之力。待诵词终了,那些婆罗门众皆如法而行。

Verse 65

कृतेन पुण्यतां प्राप्ता ये निदेशाच्च ते द्विजाः । गर्हिता धर्मशास्त्रेषु ते विप्रा दक्षिणोत्तराः

那些二次生者因如是行持并依教而得福德,然而在《达摩论典》(Dharmaśāstra)中却受谴责——即被称为“dakṣiṇottara”(南与北)的婆罗门。

Verse 66

ये चान्ये पार्वतीयाश्च श्राद्धेनार्हंति केतनम् । एतस्मात्कारणाद्राजन्वियत्येवं समास्थितम्

又有其他居于山岳之众,亦有资格在其住处受领施作的śrāddha供养。正因如此,王啊,此法在天界亦如是安立。

Verse 67

कार्तिक्यां पुष्करं स्नानात्पूततामभियच्छति । ब्रह्मणा सहितं राजन्सर्वेषां पुण्यदायकम्

王啊,于迦尔提迦月(Kārtika)在普什迦罗(Puṣkara)沐浴,能赐予清净;并在梵天(Brahmā)护临之下,成为普施众生功德之源。

Verse 68

तत्रागतास्तु ये वर्णाः सर्वे ते पुण्यभाजनाः । द्विजैस्तुल्या न संदेहो विना मंत्रेण ते नृप

大王,凡到达彼处的一切种姓,皆为福德之器。毫无疑问,他们与二次生者等同,虽未受持吠陀真言。

Verse 69

आग्नेयं तु यदा ऋक्षं कार्तिक्यां भवति क्वचित् । महती सा तिथिर्ज्ञेया स्नाने दाने तथोत्तमा

然而,凡在迦尔提迦月中出现“阿耆尼耶”宿之时,当知此日为大而极吉之期,最宜行沐浴仪轨与布施。

Verse 70

यदा याम्यं तु भवति ऋक्षं तस्यां तिथौ क्वचित् । तिथिः सापि महापुण्या यतिभिः परिकीर्तिता

凡于某次因缘之中,在该提提日宿位成“阎摩(Yāmya)”者,此提提亦为诸苦行者所称赞,具大福德。

Verse 71

प्राजापत्यं यदा ऋक्षं तिथौ तस्यां नराधिप । सा महाकार्तिकी प्रोक्ता देवानामपि दुर्लभा

大王,当名为“般阇钵底耶(Prājāpatya)”之宿与该提提相合之时,此缘起称为“大迦尔提姬”,连诸天亦难得。

Verse 72

यदा चार्के गुरौ सोमे वारेष्वेतेषु वै त्रिषु । त्रीण्येतानि च ऋक्षाणि स्वयं प्रोक्तानि ब्रह्मणा

并且当逢星期日、星期四或星期一——在这三种曜日之中——这三宿乃由梵天亲自宣说。

Verse 73

अत्राश्वमेधिकं पुण्यं स्नातस्य भवति ध्रुवम् । दानमक्षयतां याति पितॄणां तर्पणं तथा

在此,凡沐浴者,必定生起如同阿湿婆梅陀(马祭)般的功德。布施成为无尽,供奉祖先的奠水亦同样结得不失之果。

Verse 74

विशाखासु यदा भानुः कृत्तिकासु च चंद्रमाः । स योगः पुष्करो नाम पुष्करेष्वतिदुर्लभः

当太阳行至毗舍佉(Viśākhā),月亮在吉利底迦(Kṛttikā)时,此种会合名为“补湿迦罗瑜伽”(Puṣkara-yoga),在补湿迦罗的圣时中极为罕见。

Verse 75

अंतरिक्षावतीर्णे तु तीर्थे पैतामहे शुभे । स्नानं येऽत्र करिष्यंति तेषां लोका महोदयाः

在名为“派多摩诃”(Paitāmaha)的吉祥圣渡处,天界圣力自空而降;凡在此沐浴者,将得至大兴盛、尊贵福运之诸世界。

Verse 76

न स्पृहांतेन्यपुण्यस्य कृतस्याप्यकृतस्य च । करिष्यंति महाराज सत्यमेतदुदाहृतम्

他们不贪求他人的功德——无论那功德已得或未得。大王啊,他们将如是行持;此乃所宣说的真实。

Verse 77

तीर्थानां प्रवरं तीर्थं पृथिव्यामिह पठ्यते । नास्मात्परं पुण्यतीर्थं लोकेषु नृप पठ्यते

此处被传诵为大地上一切圣地(tīrtha)之最胜。大王啊,于诸世界中,未曾教说有比此更为清净的圣地。

Verse 78

कार्तिक्यां तु विशेषेण पुण्या पापहरा शुभा । उदुंबरवनात्तस्मादागता च सरस्वती

然而在迦尔提迦月尤为殊胜,她至为清净吉祥,能除诸罪。从优昙婆罗林中,萨拉斯瓦蒂亦现前而来。

Verse 79

तया तत्पूरितं तीर्थं पुष्करं मुनिसेवितम् । दक्षिणे शिखरं भाति पर्वतस्याविदूरतः

由她充盈了那圣地渡口——为诸牟尼所礼敬的补湿迦罗。于山之南不远处,有一峰峥嵘辉耀。

Verse 80

नीलांजनचयप्रख्यं वर्णतो नीलशाद्वलम् । तया तच्छिखरं तस्य खस्थितं पुष्करं यथा

其状如蓝色眼膏之聚,色泽幽黯,草色亦呈深蓝光润。依其旁,那山之巅宛若补湿迦罗,仿佛悬置于空。

Verse 81

प्रावृट्काले वियत्पूर्णं घनवृंदमिवोच्छ्रितम् । कदंबपुष्पगंधाढ्यं कुटजार्जुनभूषितम्

在雨季之时,天空充满而高耸,宛如云团簇拥;芬馥于迦檀婆花香,并以库塔阇与阿周那诸树为饰。

Verse 82

रथमार्गमिवारोढुं रवेस्तच्छिखरं स्थितम् । वृत्तैस्सपुलकैस्स्निग्धैः स्त्रीणामिव पयोधरैः

那峰峙立,宛如日神欲登之道;圆润而微起疙瘩,光泽柔滑,犹如女子之乳房。

Verse 83

श्रीफलैः शिखरं भाति समन्तात्सुमनोहरैः । गुंजद्भिः षट्पदकुलैः समंतादुपशोभितम्

山峰四周因可爱的室利果(śrīphala)而熠熠生辉,四面又被嗡鸣的蜂群环绕点缀,更显庄严秀美。

Verse 84

कोकिलारावरुचिरं शिखि केका रवाकुलम् । शृंगे मनोहरे तस्मिन्नुद्गतासु मनोरमा

那可爱的山巅甜美回响着鸠鸟(kokila)的啼声,又充满孔雀的鸣叫;在那迷人的峰顶,一位绝美的少女显现,仿佛从其上升起。

Verse 85

पुण्यापुण्यजलोपेता नदीयं ब्रह्मणस्सुता । वंशस्तंबात्सुविपुला प्रवृत्ता चोत्तरामुखी

此河具足能带来福德与罪垢之水,被称为梵天(Brahmā)之女;它自巨大的竹茎中涌出,水势浩瀚充盈,转而北流。

Verse 86

गत्वा ततो नातिदूरात्पुनर्याति पराङ्मुखी । ततः प्रभृति सा देवी प्रसन्ना प्रकटास्थिता

她从那里行去不远,便又回转,背向而立。自此以后,那位女神常住显现,安宁而慈惠。

Verse 87

अन्तर्धानं परित्यज्य प्राणिनामनुकम्पया । कनका सुप्रभा चैव नन्दा प्राची सरस्वती

出于对众生的悲悯,她舍弃隐没之态,而显现为迦那迦(Kanakā)、苏普拉婆(Suprabhā)、难陀(Nandā)、普罗遮(Prācī)与萨拉斯瓦蒂(Sarasvatī)。

Verse 88

पंचस्रोताः पुष्करेषु ब्रह्मणा परिभाषिता । तस्यास्तीरे सुरम्याणि तीर्थान्यायतनानि च

在普什迦罗(Puṣkara),梵天(Brahmā)安立了五道神圣水流;其岸边亦有清丽的圣地渡口(tīrtha)与神圣祠庙。

Verse 89

संसेवितानि मुनिभिः सिद्धैश्चापि समंततः । तेषु सर्वेषु भविता धर्महेतुः सरस्वती

这些地方四方皆为牟尼(muni)与成就者(siddha)所常来亲近;在其中一切之中,萨拉斯瓦蒂(Sarasvatī)将成为法(dharma)的因与源。

Verse 90

हाटकक्षितिगौरीणां तत्तीर्थेषु महोदयम् । दानं दत्तं नरैः स्नातैर्जनयत्यक्षयं फलम्

对于与哈塔卡(Hāṭaka)、克希蒂(Kṣiti)与高丽(Gaurī)相应者,在其圣地渡口(tīrtha)有大吉祥的提升;凡人沐浴之后于彼处所施之布施,皆生不坏之果。

Verse 91

धान्यप्रदानं प्रवरं वदंति तिलप्रदानं च तथा मुनींद्राः । यैस्तेषु तीर्थेषु नरैः प्रदत्तं तद्धर्महेतु प्रवरं प्रदिष्टम्

诸大牟尼宣说:施粮为最胜,施芝麻亦复如是。凡人在那些圣地渡口(tīrtha)所施之物,皆被宣示为殊胜之法因(dharma)与功德之本。

Verse 92

प्रायोपवेशं प्रयतः प्रयत्नाद्यस्तेषु कुर्यात्प्रमदा पुमान्वा । तीर्थेपि संयोज्य मनोपि चेत्थं भुंक्ते फलं ब्रह्मगृहे यथेष्टम्

无论是持戒的女子或男子,若以至诚精进在彼等行持中立下“绝食至终”(fasting unto death)之誓,并且即使在圣地渡口(tīrtha)亦如是摄心安住,便能在梵天(Brahmā)之居所随愿受用所求之果。

Verse 93

तस्योपकंठे म्रियते हि यैस्तु कर्मक्षयात्स्थावरजंगमैश्च । ते चापि सर्वे सकलं प्रसह्य लभंति यज्ञस्य फलं दुरापम्

确实,凡因往昔业尽而死于那圣地近旁者——无论是不动之类还是行走之众生——皆无一例外,超越其境,得获难得的祭祀(yajña)之果报。

Verse 94

ततस्तु सा धर्मफलारणी च जन्मादिदुःखार्दितचेतसां तु । सर्वात्मना चारुफला सरस्वती सेव्या प्रयत्नात्पुरुषैर्महानदी

因此,这条大河萨拉斯瓦蒂(Sarasvatī)——为法(dharma)之果的宝库,赐予美妙成果——应当被那些为生起于出生等诸苦所扰之人,以全心与精勤来奉事与敬礼。

Verse 95

तत्र ये सलिलं पूतं पिबंति सततं नराः । न ते मनुष्या देवास्ते जगत्यामिह संस्थिताः

在那里恒常饮用那净水之人,并非仅是凡人;他们乃是住于此世的诸天。

Verse 96

यज्ञैर्दानैस्तपोभिश्च यत्फलं प्राप्यते द्विजैः । तदत्र स्नानमात्रेण शूद्रैरपि स्वभावजैः

二次生者(dvija)以祭祀、布施与苦行所得之功德,在此处仅凭沐浴便可获得;即使是首陀罗(Śūdra),亦依其本性而得此果。

Verse 97

दर्शनात्पुष्करस्यापि महापातकिनोपि ये । तेपि तत्पापनिर्मुक्ताः स्वर्गं यांति तनुक्षये

即便犯下大罪之人,只要得见普什卡拉(Puṣkara),亦能脱离彼罪;待此身终尽之时,便往生天界。

Verse 98

तत्रोपवासी यज्ञस्य पुंडरीकस्य यत्फलम् । तत्प्राप्नोति नरः क्षिप्रमल्पायासेन पुष्करे

在普什迦罗(Puṣkara),若有人于彼处持斋禁食,便能迅速获得与“本陀利迦祭”(Puṇḍarīka yajña)同等的功德,几乎不费力。

Verse 99

माघमासे तिलान्यस्तु प्रयच्छति च स द्द्विजे । यथाशक्ति च भक्त्या च स विष्णुभवने वसेत्

凡在摩伽月(Māgha)依己力、以虔敬之心施赠芝麻于婆罗门者,得住毗湿奴(Viṣṇu)之圣居。

Verse 100

तत्रोपवासं स्नानं च पंचगव्याशनं तथा । यः करोति नरः सोपि देहांते स्वर्गमाप्नुयात्

若有人在彼处行斋戒、沐浴,并同样食用五牛圣品(pañcagavya),此人亦于命终之际得至天界。

Verse 101

वसंति तत्समीपस्था येपि तस्करजातयः । तेपि तस्यानुभावेन स्वर्यांति च न संशयः

即便是生于盗贼之族者,若住在其近旁,凭其灵威之力亦能升至天界——毫无疑问。

Verse 102

ये पुनः शूद्रवृत्तिस्थास्त्रिरात्रोपोषिता नराः । प्रयच्छंति द्विजेष्वर्थं ब्रह्मशक्तिसमन्विताः

然而,那些虽从事首陀罗之业的男子,若守三夜斋戒,并向二次生者(dvija)布施财物,便具足梵力(Brahman-śakti)。

Verse 103

ते मृता यानमारूढाः पद्मासनचतुर्भुजाः । ब्रह्मणा सह सायुज्यं प्राप्नुवंत्यपुनर्भवम्

死后,他们登上天界宝车,现为坐于莲华、具四臂之相;得与梵天合一,证得不复再生之境。

Verse 104

गंगोद्भेदं यत्र गंगा संप्राप्ता सरितां वराम् । सरस्वतीं द्रष्टुकामा सांत्वार्थे प्रोद्गतांऽबरात्

在那里,于名为“恒河涌现处”(Gaṅgodbheda)之地,恒河抵达诸河之最胜。她欲见萨拉斯瓦蒂,遂自天际升起,为安慰她而来。

Verse 105

तत्र गत्वा पयःपूतं सुरसिद्धनिषेवितम् । सारस्वतं च विमलं विद्याधरगणार्चितम्

至彼处,可见“萨拉斯瓦塔”圣地:为圣水所净,诸天与成就者常来亲近;清净无垢,复为众持明者(Vidyādhara)所礼敬。

Verse 106

पीतमेकांजलिमितं येनाप्तं तेन तत्परं । अवलोक्य दिशं पूर्वामाह गंगे सखि त्वया

她只饮一捧之水,心便专注于那得此水者;继而遥望东方,说道:“噢,恒河啊,我的友人——因你……”

Verse 107

एकाकिनी वियुक्तास्मि क्व यास्येहमबांधवा । तां विज्ञाय ततो गंगा रुदंतीं शोककर्शिताम्

“我孤身一人,与众离散;无亲无眷,我将往何处去?”恒河明白其意,便见她泣涕不止,为忧伤所摧。

Verse 108

पूर्वदेशात्समायाता द्रष्टुं तां दीनमानसाम् । दृष्ट्वा च तां महाभागां परिष्वज्य तु पीडिताम्

他们自东方国土而来,为见那心神凄然之人;见到那位极有福德的女子如今受苦,便上前拥抱安慰她。

Verse 109

नेत्रे प्रमृज्य चैतस्याः प्राह गंगा वचस्तदा । मा रोदीस्त्वं महाभागे दुःष्करं ते कृतं सखि

于是恒河女神拭去她的泪眼,说道:“莫哭啊,福德之人;朋友,你已成就了极难成就之事。”

Verse 110

देवकार्यं यदन्येन कर्तुं शक्येत नैव हि । एतस्मात्ते महाभागे द्रष्टुं देवाः समागताः

因为此神圣之业确非他人所能成办,所以,极有福德者啊,诸天众神齐来集会,只为瞻仰你。

Verse 111

एषां च क्रियतां पूजा वाङ्मनः काय कर्मणा । सरस्वती सुरेंद्राणां कृत्त्वा पूजा विधिक्रमम्

当以言语、意念与身行三业而行供奉。萨拉斯瓦蒂依仪轨次第圆满礼敬之后,便向诸天之主奉上 पूजा(供养礼拜)。

Verse 112

क्रमेण ब्रह्मजा पश्चात्संगता तु सखीजनम् । ज्येष्ठमध्यमयोर्मध्ये संगमो लोकविश्रुतः

不久之后,梵天之女便加入她的女伴之众;而在长姊与中姊之间,出现了一处会合之地,名闻于世。

Verse 113

पश्चान्मुखी ब्रह्मसुता जाह्नवी तु उदङ्मुखी । ततस्ते विबुधाः सर्वे पुष्करं ये समागताः

梵天之女面向西方,而阇诃那维(恒河)面向北方。随后,凡聚集于补湿迦罗的诸天众神,皆依之而行。

Verse 114

विदित्वा दुष्करं कर्म तस्या स्तुतिमकारयन् । त्वं बुद्धिस्त्वं मतिर्लक्ष्मीस्त्वं विद्या त्वं गतिः परा

他们知晓她所行之事难以成就,便为她作颂赞曰:“汝为智慧,汝为明悟;汝为吉祥天女拉克什米;汝为知识;汝为至上归依。”

Verse 115

त्वं श्रद्धा त्त्वं परा निष्ठा बुद्धिर्मेधा रतिः क्षमा । त्वं सिद्धिस्त्वं स्वधा स्वाहा त्वं पवित्रं मतं महत्

汝为信心,汝为至上坚住;汝为聪慧、洞见、喜悦与忍辱。汝为成就;汝为斯瓦达与斯瓦哈;汝即清净本身——被奉为最高真理。

Verse 116

संध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती । यज्ञ विद्या महाविद्या गुह्यविद्या च शोभना

汝为黄昏、夜、光辉与福祉;汝为聪慧、信心与辩才天女萨拉斯瓦蒂。汝亦为祭祀之学、大智之学与秘密妙学——皆吉祥而庄严。

Verse 117

आन्वीक्षिकी तु या वार्ता दंडनीतिश्च कथ्यते । नमोस्तु ते पुण्यजले नमः सागरगामिनि

所谓探究论理之学、名为论辩之道者,以及被称为治国之学者——向汝致敬,圣洁之水;向汝致敬,奔流入海者。

Verse 118

नमस्ते पापनिर्मोके नमो देवि जगत्प्रिये । एवं स्तुता हि सा देवी दिव्या स्वार्थपरायणैः

向你顶礼,噢解脱罪业者;向你顶礼,噢为世间所爱之女神。如此,那光耀的女神被那些专注于自身所求的人所赞颂。

Verse 119

एवं सा प्राङ्मुखी तत्र स्थिता देवी सरस्वती । सर्वतीर्थमयी देवी सर्वामरसमन्विता

于是,面向东方,女神萨拉斯瓦蒂立于其处——她汇聚一切圣地与朝圣处,为诸不死者所随侍的女神。

Verse 120

प्राची सेति बुधैर्ज्ञेया ब्रह्मणो वचनं तथा । तत्र शुद्धावटंनाम तीर्थं पैतामहं स्मृतम्

依梵天之言,智者当知此地名为“Prācī”。其处有一圣渡名“Śuddhāvaṭa”,被忆念为属于“祖父”(梵天)的圣地(tīrtha)。

Verse 121

दर्शनेनापि वै तस्य महापातकिनोपि ये । भोगिभोगान्समश्नंति विशुद्धा ब्रह्मणोंतिके

即便仅以一瞥观见此处,纵是犯下重罪者也能分享福者之乐;得以净化,便来到梵天之前。

Verse 122

प्रायोपवेशं ये तत्र प्रकुर्वंति नरोत्तमाः । ते मृता ब्रह्मयानेन दिवं यांत्यकुतोभयाः

凡于彼处行 prāyopaveśa(绝食至终)之至善之人,命终之后,循梵天之道(Brahma-yāna)升至天界,无所畏惧,四方皆无惊怖之因。

Verse 123

तत्राल्पमपि यैर्दानं दत्तं ब्रह्मविदात्मनाम् । जन्मांतरशतं तेषां तैर्दत्तं भावितात्मनाम्

即使在彼处向本性已证知梵(Brahman)之人奉献微小布施,也会成为施主跨越百百生的功德;由心意清净者所行之施,其力如是广大。

Verse 124

खण्डस्फुटितसंस्कारं तत्र कुर्वन्ति ये नराः । ते ब्रह्मलोकमासाद्य मोदन्ते सुखिनस्सदा

凡在彼处为破损之物行修复与再度奉安(再灌顶、再祝圣)之仪者,得至梵天界(Brahmaloka),常怀欢喜,恒享安乐。

Verse 125

योऽत्र पूजाजपोहोमः कृतो भवति देहिनाम् । अनन्तं तत्फलं सर्वं ब्रह्मभक्तिरतात्मनाम्

凡有身众生在此所行之礼拜、诵念与火供,其一切果报,对心专注于梵天(Brahmā)之 भक्त者,皆成无量无尽。

Verse 126

तत्र दीपप्रदानेन ज्ञानचक्षुरतींद्रियः । प्राप्नोति धूपदानेन स्थानं ब्रह्मनिषेवितम्

在彼处,供灯则得超越诸根的智慧之眼;供香则得至为梵天(Brahmā)所常临、所受事奉之境界。

Verse 127

अथ किं बहुनोक्तेन संगमे यत्प्रदीयते । तदनंतफलं प्रोक्तं जीवतो वा मृतस्य च

又何必多言?凡在神圣会集之处所施与者,皆被宣说为得无尽之果——无论为生者,抑或为亡者。

Verse 128

स्नानाज्जपात्तथा होमादनंतफलसाधकम् । रामेणागत्य वै तत्र पिंडं दशरथस्य च

以沐浴、以持诵(japa)、亦以火供(homa),能成就无尽之果报。彼处罗摩前来,也为达沙罗陀奉献了祭祖的团食供(piṇḍa)。

Verse 129

दत्तं श्राद्धं तत्र तेन मार्कंडेयेन दर्शिते । तत्र वापी चतुःकोणा तत्र पिंडप्रदा नराः

在摩尔甘德耶所指示之处,他施行了施罗达(śrāddha)祭。彼处亦有一座四方形阶井,人们在那里为亡者奉献团食供(piṇḍa)。

Verse 130

हंसयुक्तेन यानेन सर्वे यांति त्रिविष्टपम् । तस्यां वाप्यां तु वै ब्रह्मा पितृमेधं चकार ह

乘着以天鹅为轭之车,众人皆往三十三天(Triviṣṭapa)而去。而在那圣池之中,确然梵天行了名为“祭祖大礼”(Pitṛmedha)的仪式。

Verse 131

यज्ञं यज्ञविदां श्रेष्ठः समाप्तवरदक्षिणम् । वसवः पितरो ज्ञेया रुद्राश्चैव पितामहाः

此祭(yajña)为通晓祭法者中之最胜,已圆满完成,并如法施与供养之礼金(dakṣiṇā)。应知诸婆苏为祖灵(Pitṛ),诸鲁陀罗亦为祖父灵(Pitāmaha)。

Verse 132

आदित्याश्च ततस्तेषां विहिताः प्रपितामहाः । त्रिविधा अपि आहूय पुनरुक्ता विरिंचिना

继而,诸阿底提耶(Āditya)被立为他们的曾祖父灵(prapitāmaha)。毗邻支(梵天)又召集那三重类别,再次对他们宣说。

Verse 133

भवद्भिः पिंडदानाद्यं ग्राह्यमत्र स्थितैस्सदा । यत्कृतं पितृकार्यं च तदनंतफलं भवेत्

你们应当常住此地时,恒常受纳以供奉亡灵的米团施(piṇḍa-dāna)等供品。在此所行的一切祖先祭仪,都将成为无尽功德。

Verse 134

वृत्यर्थं पितरस्तेषां तुष्टाश्चैव पितामहाः । लभंते तर्पणात्तृप्तिं पिंडदानात्त्रिविष्टपम्

为使他们得以资养,其诸位祖灵(Pitṛ)以及先祖皆生欢喜;由献水的祭供(tarpaṇa)而得满足,由施米团(piṇḍa-dāna)而得至三十三天(Triviṣṭapa)。

Verse 135

तस्मात्सर्वं परित्यज्य प्राचीने पिंडदो भवेत् । दत्वा पुत्रः प्रयत्नेन पितॄन्सर्वांश्च तर्पयेत्

因此,当舍弃其余诸事,应向东方奉献米团(piṇḍa)。既已奉献,儿子当竭力以祭供之法(tarpay)令一切祖先皆得满足。

Verse 136

प्राचीनेश्वरदेवस्य पुरोभूतं प्रतिष्ठितम् । आदितीर्थं तदित्युक्तं दर्शनादपि मुक्तिदम्

它安置在普拉契内湿伐罗(Prācīneśvara)神前,端然确立。因此称为“Ādi-tīrtha”(最初圣渡处);即便仅仅瞻见,也能赐予解脱。

Verse 137

स्पृष्ट्वा तु सलिलं तत्र मुच्यते जन्मबंधनात् । अवगाहनाद्ब्रह्मणोऽसौ भवत्यनुचरः सदा

只要触及那里的水,便能解脱轮回生死之缚;若入水沐浴浸没其中,便将永远成为梵天(Brahmā)的随侍者。

Verse 138

आदितीर्थे नरः स्नात्वा यः प्रदद्यात्समाधिना । अन्नमल्पमपि प्रायः प्रायशस्स्वर्गमाप्नुयात्

在阿底提尔塔沐浴后,若有人以专注的虔敬施与哪怕少许食物,此人多半得生天界。

Verse 139

यस्तत्र ब्रह्मभक्तानां नरः स्नात्वा ददेद्धनम् । कृसेरणापि हेम्ना च स स्वर्गे मोदते सुखी

凡在彼处沐浴后,向梵天的信众布施财物——纵使仅如纤细一粒金尘——亦将在天界安乐欢喜。

Verse 140

प्राचीसरस्वती तत्र नरैः किं मृग्यते परम् । तस्यां स्नानात्फलं तृप्त्यै तपोयज्ञादिलक्षणम्

在那普拉契·萨拉斯瓦蒂处,人们还寻求何等更高的利益?于她水中沐浴,便得圆满满足之果,其性质等同于苦行、祭祀等功德之报。

Verse 141

ये पिबंति नराः पुण्यां प्राचीं देवीं सरस्वतीम् । न ते नराः सुरा ज्ञेया मार्कंडेयर्षिरब्रवीत्

“凡饮用圣洁的东方萨拉斯瓦蒂女神之水者,不应被视为凡人。”圣者马尔坎德耶如是说。

Verse 142

सरस्वती नदीं प्राप्य न स्नाने नियमः क्वचित् । भुक्ते वा न च वा भुक्ते दिवा वा यदि वा निशि

抵达萨拉斯瓦蒂河后,沐浴全无任何禁限:无论已食未食,无论白昼黑夜皆可。

Verse 143

तत्तीर्थं सर्वत्तीर्थानां प्राचीनं प्रवरं स्मृतत् । पापघ्नं पुण्यजननं प्राणिनां परिकीर्तितम्

那圣洁的渡口被忆为一切圣地中最古老、最尊胜者;它被称颂为灭罪之所、为众生生起福德之源。

Verse 144

ये पुनर्भावितात्मानस्तत्र स्नात्वा जनार्दनम् । पूजयन्ति यथाशक्ति ते प्रयांति त्रिविष्टपम्

然而那些心灵已净者,在彼处沐浴之后,依其所能礼敬阎那尔达那(Janārdana);他们将往生三界天(Triviṣṭapa)之境。

Verse 145

देवानां प्रवरो विष्णुस्तेन यत्र सरस्वती । सेविता तत्परं तीर्थं क्षितौ ब्रह्मसुतोऽब्रवीत्

诸神之中,毗湿奴(Viṣṇu)最为尊胜。因此,大地上礼敬萨拉斯瓦蒂(Sarasvatī)之处,即为至上的圣地(tīrtha)——这是梵天之子所宣说。

Verse 146

ततस्तस्मान्महातीर्थं मन्यमाना महोदयम् । मंदाकिनीमुदीक्षंती स्थिता तत्र सरस्वती

于是,她将那处视为大圣地——极其吉祥、赐予大福盛——萨拉斯瓦蒂便驻留其间,凝望着曼达吉尼(Mandākinī)。

Verse 147

तत्तीर्थं सर्वतीर्थानां परं स्वायंभुवोऽब्रवीत् । मंदाकिन्यासमं यत्र प्राप्य पुण्यसमागमम्

自生者(梵天)宣说:那圣地(tīrtha)在一切朝圣处中至为无上;到达彼处,便得福德汇合之胜缘,其功德与曼达吉尼(Mandākinī)相等。

Verse 148

तत्रस्थाने स्थिता देवैः स्तुता देवी सरस्वती । मत्वा चैकाकिनीं तां तु दीनास्यां दीनमानसां

在那里,那处地方,女神萨拉斯瓦蒂伫立,受诸天赞颂;诸神见她孤身一人,面容低垂、心神忧惧,便知她满怀哀愁。

Verse 149

सखीं तदाऽसृजद्ब्रह्मा रूपिणीं विमलेक्षणाम् । हरिणीं हरिरप्याशु जज्ञे कमललोचनाम्

于是梵天创造了一位女伴,形貌端丽,目光澄净无垢;而哈利(毗湿奴)也迅速显化出一只母鹿,莲华般的眼眸。

Verse 150

वज्रिणीमपि देवेशो वज्रपाणिर्विसृष्टवान् । सुकुरंगरुचिं देवो नीलकंठो वृषध्वजः

诸天之主、执金刚者(因陀罗)也创造了金刚女(Vajriṇī);而青颈神、旗帜饰以公牛者(湿婆)则创造了苏库然伽鲁奇(Sukuraṅgaruci)。

Verse 151

सखीं संजनयामास सरस्वत्यास्त्रिलोचनः । विलोक्यमाना सा राजन्सखीभिः सुरसुंदरी

大王啊,三目之主(Trilocana)为萨拉斯瓦蒂令一位女伴诞生。那位天界丽人被众目所观时,已为诸位女伴环绕相随。

Verse 152

प्रहृष्टा यातुमारब्धा देवादेशान्महानदी । ततः सखीभिः सार्द्धं सा प्राचीनागंतुमुद्यता

大河心生欢喜,遵奉诸天之命而启程离去;随后她与诸位女伴同行,整装欲往东方之境。

Verse 153

सरस्वती समस्तानां तासां श्रेष्ठतमा स्मृता । प्राचीसरस्वतीतोयं ये पिबंति मृगा भुवि

在一切这些圣河之中,娑罗萨伐底(Sarasvatī)被忆念为最殊胜者。在大地上,饮用东方娑罗萨伐底(Prācī Sarasvatī)之水的鹿群……

Verse 154

तेपि स्वर्गं गमिष्यंति यज्ञैर्द्विजवरा यथा । चिंतामणिरिवात्रैषा प्राची ज्ञेया सरस्वती

他们也将前往天界,正如最上等的再生者以祭祀(yajña)而得之。在此,这东方娑罗萨伐底应当被知为如意宝(cintāmaṇi)。

Verse 155

तथा कामफलस्येयं हेतुभूता महानदी । दक्षिणां दिशमालोक्य पुनः पश्चान्मुखी गता

同样,这条大河成为欲愿之果的因缘。它望向南方之后,随即回转,转而向西流去。

Verse 156

उक्ता तया तथा गंगा दिशं प्राचीं व्रजस्व ह । विस्मर्तव्या न चाहं ते व्रज देवि यथागतम्

她如此对她说道后,恒河女神(Gaṅgā)说:“你确当往东方而去。不可忘却我;去吧,女神啊,如你来时那般。”