Adhyaya 3
Srishti KhandaAdhyaya 3206 Verses

Adhyaya 3

Cosmic Time, Cycles of Creation and Dissolution, and the Varāha Uplift of Earth

毗湿摩询问:无相的梵(nirguṇa Brahman)既超越一切属性,何以仍被称为造化之因?普罗娑提耶答以“不可思议之神力”(śakti):至上者以其不可测度的力量令万有显现,而其无相本性不受触动。 本章继而系统阐明圣时之度量:由刹那(nimeṣa)至年;四大劫(yuga)及其黎明与余辉(sandhyā、sandhyāṃśa);诸摩奴期(manvantara);以及梵天一昼一夜,并将此宇宙论与周期性的因缘毁灭(naimittika pralaya)相连。 叙事转入野猪化身(Varāha):洪水中大地沉没,地母(Pṛthivī)赞颂主,毗湿奴化为野猪,以獠牙托举大地而出,显现其为遍满宇宙的祭祀之主(yajña-puruṣa)。 随后又回到分类的创世论(多种sarga:prākṛta、vaikṛta与Kaumāra),叙述梵天所生诸类众生与吠陀—祭祀形态,说明种姓(varṇa)之起源、业力轮回之再现,并以谱系的扩展作结,包含鲁陀罗(Rudra)的出现与命名。

Shlokas

Verse 1

भीष्म उवाच । निर्गुणस्याप्रमेयस्य शुद्धस्याथ महात्मनः । कथं सर्गादिकर्त्तृत्वं ब्रह्मणो ह्युपपद्यते

毗湿摩曰:梵我无相无德、不可度量、清净而为大我;然而,如何能恰当地说祂是创造及其余诸事的作者呢?

Verse 2

पुलस्त्य उवाच । शक्तयः सर्वभावानामचिंत्या ज्ञानगोचराः । यत्ततो ब्रह्मणस्तास्तुसर्गाद्या भावशक्तयः

普罗萨底耶曰:一切有之诸力(śakti)不可思议,然亦可为智慧所观。由彼至上梵而生起的,正是这些力量——以创造为始的存在之力,成就诸般生成之相。

Verse 3

उत्पन्नः प्रोच्यते विद्वान्नित्य एवोपचारतः । निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम्

智者言其“出生”仅为世俗假名;实则恒常不灭。依其自有之时量,其寿命被传为百年。

Verse 4

तत्पराख्यं परार्द्धं च तदर्द्धं परिकीर्त्तितम् । काष्ठा पंचदशाख्या ता निमेषा नृपसत्तम

此一时间单位名为“tatpara”,亦称“parārdha”,其半亦如是称说。十五个“kāṣṭhā”合为一“nimeṣa”,噢,诸王之最胜者。

Verse 5

काष्ठा स्त्रिंशत्कला त्रिंशत्कला मौहूर्त्तिको विधिः । तावत्संख्यैरहोरात्रं मुहूर्त्तैर्मानुषं स्मृतम्

三十个“kalā”为一“kāṣṭhā”;三十个“kalā”亦为名为“muhūrta”的度量。依同样的“muhūrta”数目,即可了知人间一昼一夜(ahorātra)。

Verse 6

अहोरात्राणि तावंति मासः पक्षद्वयात्मकः । तैष्षड्भिरयनं वर्षमयने दक्षिणोत्तरे

如是数量的昼夜构成一月;一月具两“pakṣa”(两半月)。六个月合为一“ayana”(半年);一年由两“ayana”组成——南行与北行。

Verse 7

अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् । दिव्यैर्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम्

对诸天而言,太阳南行(dakṣiṇa-ayana)为其夜,北行(uttara-ayana)为其昼。以千千天年为量度,这些时代称为Kṛta、Tretā等诸劫(yuga)。

Verse 8

चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे । चत्वारि त्रीणिद्वे चैकं कृतादिषु यथाक्रमम्

当从我处了知四瑜伽(四yuga)之轮回分为十二分:依次自Kṛta(Satya)瑜伽起,分别为四、三、二、一。

Verse 9

दिव्याब्दानां सहस्राणि युगेष्वाहुः पुराविदः । तत्प्रमाणैः शतैः संध्या पूर्वा तत्राभिधीयते

通晓古传的圣贤说:诸劫(yuga)由成千上万的天年构成;并且依同一尺度以百为量,那里也叙述了先行的曙暮期(saṃdhyā)。

Verse 10

संध्यांशकश्च तत्तुल्यो युगस्यानंतरो हि यः । संध्यासंध्यांशयोरंतः कालो यो नृपसत्तम

而“曙暮之分”(saṃdhyā-aṃśaka)亦与其量相等;它是紧随劫(yuga)之后的间隔——即处于曙暮期(saṃdhyā)与其分段(saṃdhyāṃśa)之间的时间,王中至善者啊。

Verse 11

युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञितः । कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगम्

此应当了知为“劫”(yuga),以克利多(Kṛta)、特雷塔(Tretā)等名而称。克利多、特雷塔、德瓦帕拉(Dvāpara)与迦利(Kali)——此四者确为四劫轮(caturyuga)。

Verse 12

प्रोच्यते तत्सहस्रं तु ब्रह्मणो दिवसं नृप । ब्रह्मणो दिवसे राजन्मनवश्च चतुर्दश

那“一千”的总和被说为梵天(Brahmā)之一日,王啊。并且在梵天的一日之中,王啊,有十四位摩奴(Manu)。

Verse 13

भवंति परिमाणं च तेषां कालकृतं शृणु । सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृप

王啊,请听他们依时而定之寿量:七圣仙(七Ṛṣi)、诸天(deva)、释迦罗(Śakra,即因陀罗 Indra)、摩奴(Manu)以及其子嗣。

Verse 14

एककाले हि सृज्यंते संह्रियंते च पूर्ववत् । चतर्युगानां संख्याता साधिका ह्येकसप्ततिः

确实,他们在同一时刻被创造,又如往昔一般被摄回归于寂灭。四时代(caturyuga)的数目被说为七十一,并且尚有余数。

Verse 15

मन्वंतरं मनोः कालः सुरादीनां च पार्थिव । अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतः

大王啊,摩奴劫(Manvantara)乃摩奴之时分,亦为诸天(deva)及诸类众生之期;以天界的算法,忆为八十万年。

Verse 16

द्विपंचाशत्तथान्यानि सहस्राण्यधिकानि च । त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया नृप

又另加五万二千;而总计之数,王啊,圆满为三十俱胝(crore)——如是依数而数。

Verse 17

सप्तषष्टिस्तथान्यानि नियुतानि महामते । विंशतिश्च सहस्राणि कालोयमधिकं विना

大慧者啊,此时间之量为六十七尼由他(niyuta),并另加二万,不再有任何增余。

Verse 18

मन्वंतरस्य संख्येयं मानुषैरिह वत्सरैः । चतुर्द्दशगुणो ह्येष कालो ब्राह्ममहः स्मृतम्

摩奴劫(Manvantara)的期限,应在此以人间之年计算;而此同一时量乘以十四,便称为“梵天之日”(Brāhma-mahaḥ)。

Verse 19

ब्राह्मो नैमित्तिको नाम तस्यांते प्रतिसंचरः । तदाहि दह्यते सर्वं त्रैलोक्यं भूर्भुवादिकम्

此种毁灭称为“梵天之毁灭”与“因缘(偶发)毁灭”;其终末即发生世界的回归摄入。于是三界——自 Bhūḥ、Bhuvaḥ 等起——尽皆被烈火焚尽。

Verse 20

जनं प्रयांति तापार्त्ता महर्लोकनिवासिनः । एकार्णवे तु त्रैलोक्ये ब्रह्मा ब्रह्मविदां वरः

受炽热所逼,住于 Maharloka 的众生趋往 Janaloka。及至三界化为一片大海之时,梵天——诸知梵者之最胜——仍在其中。

Verse 21

भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः । जनस्थैर्योगिभिर्द्देवश्चिंत्यमानो जगद्विभुः

他卧于蛇榻之上,广大如同吞纳三界;这位遍满宇宙的主宰,为人间坚固不移的瑜伽行者所观想。

Verse 22

तत्प्रमाणां हि तां रात्रिं तदंते सृजते पुनः । एवं तु ब्रह्मणो वर्षमेवं वर्षशतं च तत्

确有与其白昼同量的一夜;其终了之时,他又再度创造。如是便是梵天之一年,如是亦为其百年之数。

Verse 23

शतं हि तस्य वर्षाणां परमायुर्महात्मनः । एकमस्य व्यतीतं तु परार्धं ब्रह्मणोनघ

诚然,那位大魂梵天的最高寿量为百年。其中之一半(parārdha)已然流逝,噫,无垢者。

Verse 24

तस्यान्तेभून्महाकल्पः पाद्म इत्यभिविश्रुतः । द्वितीयस्य परार्धस्य वर्तमानस्य वै नृप

在那一时期的终末,出现了被称为“莲华劫”(Pādma Kalpa)的伟大劫期,王啊——此劫属于第二帕罗阿尔达(parārdha)现行的后半段。

Verse 25

वाराह इति कल्पोयं प्रथमः परिकल्पितः । ब्रह्मा नारायणाख्योसौ कल्पादौ भगवान्यथा

此劫被设想为最初之劫,名为“野猪劫”(Varāha Kalpa);而在劫初,梵天(Brahmā)——亦称那罗延(Nārāyaṇa)——以世尊(Bhagavān)之相显现。

Verse 26

ससर्ज सर्वभूतानि तदाचक्ष्व महामुने । पुलस्त्य उवाच । प्रजाः ससर्ज भगवाननादिस्सर्वसंभवः

“他创造了一切众生——大圣者啊,请为我宣说其事。”普罗罗斯提耶(Pulastya)说道:“那无始而为万有之源的世尊,创造了诸生灵与众生之族。”

Verse 27

अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः । सत्वोद्रिक्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत

在往昔劫尽之时,主宰——梵天——自夜之沉睡中醒来,充满萨埵(sattva)的清净优势,见诸世界一片空寂。

Verse 28

तोयान्तस्स महीं ज्ञात्वा निमग्नां वारिसंप्लवे । प्रविचिंत्य तदुद्धारं कर्तुकामः प्रजापतिः

他知大洪水中大地沉没于水之极深处;生主(Prajāpati)欲将其举起,遂沉思当如何成就其拯救。

Verse 29

विष्णुरूपं तदा ज्ञात्वा पृथ्वीं वोढुं स्वतेजसा । मत्स्यकूर्मादिकां चान्यां वाराहीं तनुमाविशत्

于是他了知当现毗湿奴之相,为以自身神威托举大地,便入于另一身——野猪之身(婆罗诃),如先前曾示现鱼与龟等化身。

Verse 30

वेदयज्ञमयं रूपमाश्रित्य जगतः स्थितौ । स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः

他依止由吠陀与祭祀所成之形,为护持世界而安住;普罗阇波提常住不动,心志坚固,为一切之我,亦为至上之我。

Verse 31

प्रविवेशे तदा तोयं तोयाधारे धराधरः । निरीक्ष्य तं तदा देवी पातालतलमागतम्

于是那负山者入于水中,入于水之所依。女神见他来到波多罗之层,便凝目观之。

Verse 32

तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुंधरा । पृथिव्युवाच । नमस्ते सर्वभूताय नमस्ते परमात्मने

于是大地女神婆苏恩达罗俯首顶礼,以虔敬柔顺之心赞颂。普利提毗说道:“礼敬于汝,汝为一切众生之本体;礼敬于汝,至上之我。”

Verse 33

मामुद्धरास्मादद्य त्वं त्वत्तोहं पूर्वमुत्थिता । परमात्मन्नमस्तेस्तु पुरुषात्मन्नमोस्तु ते

今日愿汝救我出离此境——我最初由汝而生。至上之我啊,礼敬于汝;宇宙之人(补卢沙)之我啊,礼敬于汝。

Verse 34

प्रधानव्यक्तरूपाय कालभूताय ते नमः । त्वं कर्त्तासर्वभूतानां त्वं पाता त्वं विनाशकृत्

顶礼于您:您具普罗陀那(原质)与显现世界之性,且化为时间本身。您是万有众生之创造者;您是守护者;亦是令万物归于寂灭之主宰。

Verse 35

सर्गादौ यः परोब्रह्मा विष्णुरुद्रात्मरूपधृक् । भक्षयित्वा च सकलं जगत्येकार्णवीकृते

在创世之初,那至上梵——取毗湿奴与鲁陀罗之形——吞摄一切,使整个世界化为一片独一之大海。

Verse 36

शेषे त्वमेव गोविन्द चिन्त्यमानो मनीषिभिः । भवतो यत्परं रूपं तन्न जानाति कश्चन

噢,戈文达,唯有您独存,为智者所观想;无人真正知晓您那至上的形相。

Verse 37

अवतारेषु यद्रूपं तदर्चन्ति दिवौकसः । त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः

在您的诸化身中,诸天众神礼拜您所示现的种种形相。奉事您——至上梵——渴求解脱者得证摩克沙。

Verse 38

वासुदेवमनाराध्य को हि मोक्षमवाप्स्यति । यद्रूपं मनसा ग्राह्यं यद्ग्राह्यं चक्षुरादिभिः

不礼敬婆苏提婆,谁能获得解脱?——其形相可由心识领受,亦可为眼等诸根所摄受。

Verse 39

बुद्ध्या च यत्परिछेद्यं तद्रूपमखिलं तव । त्वन्मय्यहं त्वदाधारात्वत्सृष्टा त्वामुपाश्रिता

凡能为智慧所界定的一切形相,尽皆是你的形相。我为你所充满;依你而立;由你所生;归依于你。

Verse 40

माधवीमिति लोकोयमभिधत्ते ततो हि माम् । एवं संस्तूयमानस्तु पृथिव्या पृथिवीधरः

因此,此世称我为“摩达维(Mādhavī)”。如是为大地所赞叹,那负山者便安住于彼处。

Verse 41

सामस्वरध्वनिः श्रीमान्जगर्ज परिघर्घरम् । ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः । रसातलादुत्पलपत्रसन्निभः समुत्थितो नील इवाचलो महान्

他以如《娑曼》圣歌吟诵般的庄严声调,发出深沉轰鸣的咆哮。继而,大野猪尊——明净莲华之眼——以自身獠牙托举大地;自罗娑多罗(Rasātala)升起,色如青莲花瓣般幽暗,巍然挺立,宛若巨大的青色山岳。

Verse 42

उत्तिष्ठता तेन मुखानिलाहतं तदाप्लवांभो जनलोक संश्रयान् । सनंदनादीनपकल्मषान्मुनींश्चकार भूयोपि पवित्रतास्पदम्

当他起身之时,洪水为其口中之气所击;而居于阇那界(Janaloka)的诸圣者——善难陀那(Sanandana)等——本已离垢无罪,又再度成为清净之所、圣洁之源。

Verse 43

प्रयांति तोयानि खुराग्रविक्षते रसातलेऽधकृतशब्दसंततिः । बलाहकानां च तति स्तुतस्य श्वासानिलास्ता परितः प्रयाति

诸水被蹄尖击荡,奔流下泄至罗娑多罗(Rasātala),其间响起不断的轰隆之声。成列的云众与他呼吸之风,也环绕着那位受赞颂者四方流行。

Verse 44

उत्तिष्ठतस्तस्य जलार्द्रकुक्षेर्महावराहस्य महीं विदार्य । विधून्वतो वेदमयं शरीरं रोमांतरस्था मुनयो जुषंति

当伟大的野猪神(婆罗诃,Varāha)起身时,腹部仍带水湿,已裂开大地;他抖动那由吠陀所成的身躯,栖居于其毛孔之间的圣贤们欢喜赞叹,恭敬礼拜。

Verse 45

जनेश्वराणां परमेश केशव प्रभुर्गदा शंखदरासिचक्रधृक् । प्रभूति नाश स्थिति हेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम्

噢一切君王之上的至上主、克舍婆(Keśava)啊:唯有你是主宰,执金刚杵、海螺、弓、剑与神轮。你是自在天(Īśvara),为生起、毁灭与护持之因;唯你为至上,别无他者——至高归依在你莲足。

Verse 46

पादेषु वेदास्तव यूपदंष्ट्रा दंतेषु यज्ञाः श्रुतयश्च वक्त्रे । हुताश जिह्वोसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव

你的双足之中安住吠陀;你的獠牙是祭柱。你的牙齿之中是诸祭,你的口中是神圣的闻传(śruti)。你的舌为供献之火;你身上的毫毛为达婆草(darbha)。主啊——唯你就是祭祀之人(Yajña-Puruṣa)。

Verse 47

द्यावापृथिव्योरतुलप्रभाव यदंतरं तद्वपुषा तवैव । व्याप्तं जगद्वापि समस्तमेतद्धिताय विश्वस्य विभो भवत्वम्

噢威德无比的主啊,天地之间的虚空由你的形体所遍满;诚然,此整个宇宙亦为你所周遍。噢遍一切者,愿你的临在成为世间万有之福祉。

Verse 48

परमात्मा त्वमेवैको नान्योस्ति जगतः पते

唯有你是独一的至上我(Paramātman);宇宙之主啊,别无他者。

Verse 49

तवैष महिमा येन व्याप्तमेतच्चराचरं । ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः

这确是你的威德:由你遍满此一切动与不动的宇宙。然而无明之人不识此整个世界在本质上即是觉知与智慧(jñāna)的体性。

Verse 50

अर्थस्वरूपं पश्यंतो भ्राम्यंते तमसः प्लवे । ये तु ज्ञानविदश्शुद्धचेतसस्तेऽखिलं जगत्

只执著于诸物外相者,漂泊于黑暗之筏;而通达真知、心地清净者,则如实观照整个宇宙。

Verse 51

ज्ञानात्मकं प्रपश्यंति त्वद्रूपं परमेश्वर । प्रसीद सर्वभूतात्मन्भवाय जगतस्त्विमाम्

至上主啊,他们观见你的形相即是智慧之精髓。万有众生之灵啊,愿你垂怜,成为此世界安乐与福祉之源。

Verse 52

उद्धरोर्वीममेयात्मन्निमग्नामब्जलोचन । सत्वोद्रिक्तोसि भगवन्गोविंद पृथिवीमिमाम्

无量之我、莲眼之主啊,请救举这沉没的大地。吉祥的戈文达啊,你具足清净之性(sattva);请托起这大地本身。

Verse 53

समुद्धर भवायेश कुरु सर्वजगद्धितं । एवं संस्तूयमानश्च परमात्मा महीधरः

“主宰有之主啊,请救举(大地),成就一切世界之利益。”如是赞颂之时,至上之我——摩诃地陀罗(Mahīdhara),大地的承载者——遂应而行。

Verse 54

उज्जहार क्षितिं क्षिप्रं न्यस्तवान्स महार्णवे । तस्योपरि जलौघेस्य महती नौरिवस्थिता

他迅速举起大地,安置于浩瀚大海之中;在那汹涌水聚之上,大地屹立,如一艘巨舟漂浮。

Verse 55

ततः क्षितिं समां कृत्वा पृथिव्यामचिनोद्गिरीन् । यथाविभागं भगवाननादिः पुरुषोत्तमः

随后,他使地面平坦;那无始的至福之主、至上之人(Puruṣottama),在大地上堆起群山,并按其应有之分区安置。

Verse 56

भूविभागं ततः कृत्वा सप्तद्वीपान्यथातथं । भूताद्यांश्चतुरोलोकान्पूर्ववत्समकल्पयत्

继而,他划分大地,依次安置七大洲(dvīpa);并如往昔一般,整顿以Bhū(地界)为首的四界诸世。

Verse 57

ब्रह्मणे विष्णुना पूर्वमेतदेव प्रदर्शितं । तुष्टेन देवदेवेन त्वं देवः पुरुषोत्तमः

往昔,毗湿奴曾将此真理示现于梵天。诸神之神心生欢喜,宣言道:“汝即主宰——Puruṣottama(至上之人)。”

Verse 58

त्वया मया जगच्चेदं धार्यं पाल्यं च यत्नतः । येषां त्वसुरमुख्यानां वरो दत्तो मयाधुना

此宇宙当由你与我殷勤扶持、守护;尤其因我如今已赐福于阿修罗中最为首要者。

Verse 59

देवानां हितकामेन हंतव्यास्ते त्वया विभो । अहं सृष्टिं करिष्यामि सा च पाल्या त्वया विभो

大能者啊,为了诸天(deva)的福祉,你当将他们诛灭。我将完成造化之业,而这造化须由你守护,主宰啊。

Verse 60

एवमुक्तो गतो विष्णुर्देवादीनसृजद्विभुः । अबुद्धिपूर्वकस्तस्य प्रादुर्भूतस्तमोमयः

如是受命,毗湿奴(Viṣṇu)离去;全能的主遂造诸天及诸类众生。又从祂那里,最初不经思量,显现出由黑暗所成的昏暗性(tāmas)原理。

Verse 61

तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञकः । पंचधावस्थितः सर्गो ध्यायतस्तु महात्मनः

黑暗、迷妄、大迷妄、幽冥,以及名为“盲昧”者——当那大魂者入定观想时,造化便以五种分相而成形。

Verse 62

बहिरंतश्चाप्रकाशः संवृतात्मा नगात्मकः । मुख्यानागायतश्चोक्ता मुख्यसर्गस्ततस्त्वयं

外内皆不显现,其自性被覆,性如山岳——此被称为主要的“那伽延广”(Nāga-āyata);因此,你当被理解为最初的主要造化。

Verse 63

तं दृष्ट्वा साधकं सर्गममन्यदपरं प्रभुः । तस्याभिध्यायतस्सर्गस्तिर्यक्स्रोतोभ्यवर्तत

主见彼造化已成且能运作,便又构想另一重创造;当祂观想之时,“横流”之众生的创造遂现——即诸兽类。

Verse 64

यस्मात्तिर्यक्प्रवृत्तिः स्यात्तिर्यक्स्रोतस्ततः स्मृतः । पश्वादयस्ते विख्यातास्तमः प्राया ह्यवेदिनः

由于他们的活动趋于横向展开,因此被称为“tiryak-srotas”(流向侧旁者)。他们以禽兽等而闻名,多为黑暗之性(tamas)所主宰,缺乏明辨。

Verse 65

उत्पथग्राहिणश्चैव ते ज्ञाने ज्ञानमानिनः । अहंकृतास्त्वहंमाना अष्टाविंशद्विधात्मकाः । अंतःप्रकाशास्ते सर्व आवृतास्ते परस्परम्

他们执取邪途,即便在知识之事上也自以为智。由我执所造、充满自负,分为二十八类。虽内有光明,却彼此相互遮蔽。

Verse 66

तमप्यसाधकं मत्वा ध्यायतोन्यस्ततोभवत् । ऊर्द्ध्वस्रोतस्तृतीयस्तु सात्विकोर्ध्वमवर्तत

连那种境地也被视为不能成就;由那位禅思者,随即生起另一种状态。第三者名为“上行之流”,其性为萨埵(sāttvika),趋向上升。

Verse 67

ते सुखप्रीतिबहुला बहिरंतरनावृताः । प्रकाशा बहिरंतश्च ऊर्द्ध्वस्रोतास्ततः स्मृताः

他们充满安乐与喜悦,内外皆无障碍。内外俱明,故被称为“上行之流”。

Verse 68

तुष्टात्मनस्तृतीयस्तु देवसर्गस्तु संस्मृतः । तस्मिन्सर्गे भवत्प्रीतिर्निष्पन्ने ब्रह्मणस्तदा

第三种创造被忆念为诸天(deva)之创造,出自梵天(Brahmā)满足安泰之心。当那创造圆成之时,喜悦便在彼时降临于梵天。

Verse 69

ततोन्यं स तदा दध्यौ साधकं सर्गमुत्तमम् । असाधकांस्तुतान्ज्ञात्वा मुख्यसर्गादिसंभवान्

随后他又沉思另一种——最殊胜而有成效的造化方式。了知先前诸类由主创及其初分而生,皆不堪成就,于是决定另行施行不同的创造。

Verse 70

तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः । प्रादुर्भूतस्तदाव्यक्तादर्वाक्स्रोतस्तु साधकः

当他如是观想——依于真实而观想——于是从那未显(Avyakta)之中,显现出“阿尔瓦克斯罗塔斯”(Arvāksrotas),即已成就者。

Verse 71

यस्मादर्वाक्प्रवर्तंते ततोऽवाक्स्रोतसस्तु ते । ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः

由于他们向下而行,故名“阿瓦克斯罗塔斯”(avāksrotas),即下行之流。他们光明丰盛、昏暗稀少,而以罗阇斯(rajas,动性)为主。

Verse 72

तस्मात्ते दुःखबहुला भूयोभूयश्च कारिणः । प्रकाशा बहिरंतश्च मनुष्याः साधकाश्च ते

因此他们多受苦恼,反复从事诸业;然而他们内外皆光明。此等人类亦为真正的修行者(sādhaka),能成就其道。

Verse 73

पंचमोनुग्रहः सर्गः स चतुर्द्धा व्यवस्थितः । विपर्ययेण सिद्ध्या च शक्त्या तुष्ट्या तथैव च

第五种创造名为“随顺恩赐之创造”(anugraha),即由神圣慈恩所成。它分为四类:由颠倒(viparyaya)、由成就(siddhi)、由力量(śakti),以及由满足(tuṣṭi)而立。

Verse 74

विवृत्तं वर्त्तमानं च ते न जानंति वै पुनः । भूतादिकानां भूतानां षष्ठः सर्गः स उच्यते

他们并不真正了知过去已展开之事,也不了知当下正在发生之事。此称为第六种创造(sarga):自诸元素起的诸类众生与一切有情之生起。

Verse 75

ते परिग्राहिणः सर्वे सविभागतरास्तु ते । चोदना जाप्यशीलाश्च ज्ञेया भूतादिकास्तु ते

他们皆为受纳者(受供者),各有其分配之份。应知他们是自诸元素之灵等开始的众生:由驱策而行,且恒常奉持低声诵念(japa)。

Verse 76

इत्येते कथिताः सर्गाः षडत्र नृपसत्तम । प्रथमो महतस्सर्गो द्वितीयो ब्रह्मणस्तु यः

如是,王中至胜者啊,此处已宣说六种创造。第一为大(Mahat)之创造;第二则为属于梵天(Brahmā)之创造。

Verse 77

तन्मात्राणां द्वितीयस्तु भूतसर्गोहि स स्मृतः । वैकारिकस्तृतीयस्तु सर्गश्चैंद्रियकः स्मृतः

第二种创造被说为微细境(tanmātra)之创造,并被忆念为粗大诸元素之创造。第三种称为变异性(vaikārika)之创造,亦被记为诸根(感官机能)之创造。

Verse 78

इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः । मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः

如是,此原质(物质)之创造在智慧之前导下而生起。第四称为“主要创造”;其中,以不动之类(植物等静住者)被说为最为首要。

Verse 79

तिर्यक्स्रोतश्च यः प्रोक्तस्तिर्यग्योन्यस्स उच्यते । ततोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः

被称为“tiryaksrotas”的造化,即名为畜生之生(tiryag-yoni)。其后,在“上行之流”的众生之中,第六种造化被忆念为诸天之造(deva-sarga)。

Verse 80

ततोर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः । अष्टमोनुग्रहः सर्गः सात्विकस्तामसस्तु सः

随后是第七种造化,即“言语之流”的造化——人类之造。第八种造化为恩赐之造(anugraha);其性为萨埵(sattva),亦兼具昏暗(tamas)。

Verse 81

पंचैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः । प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः

此诸造化之中,五种称为“变成”(vaikṛta),三种被忆为“本原”(prākṛta)。将本原与变成合计而数,所谓“童子”(Kaumāra)之造被记为第九。

Verse 82

एते तव समाख्याता नवसर्गाः प्रजापतेः । प्राकृता वैकृताश्चैव जगतो मूलहेतवः

如是,我已向你阐明,噢生主(Prajāpati),九种造化——既有由原质(Prakṛti)而起的本初之造,亦有由其变异而成的派生之造——它们乃世界之根本因。

Verse 83

सृजतो जगदीशस्य किमन्यच्छ्रोतुमर्हसि । भीष्म उवाच । संक्षेपात्कथिताः सर्गा देवादीनां गुरोस्तथा

“关于宇宙之主在造化之时,你还想听什么呢?”毗湿摩(Bhīṣma)说道:“诸天等众类的造化,以及他们师尊之造,皆已略说。”

Verse 84

विस्तराच्छ्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम । पुलस्त्य उवाच । कर्मभिर्भाविताः सर्वेकुशलाकुशलैस्तु ते

“我愿从你处详尽听闻,噢诸牟尼中最胜者。”普罗萨底耶说道:“一切众生皆为业所熏成,由善业与不善业所塑。”

Verse 85

ख्यात्या तया ह्यनिर्मुक्ताः संहारे ह्युपसंहृताः । स्थावरान्तास्सुराद्यास्तु प्रजा राजंश्चतुर्विधाः

大王啊,他们未能从那显现中解脱,于劫末坏灭(pralaya)之时又被摄归。于是四类众生——自诸天起,至不动之类终——皆复归于寂灭。

Verse 86

ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसाः स्मृताः । ततो देवासुरपितॄन्मानुषांस्तु चतुष्टयं

当梵天(Brahmā)施行创世之业时,所谓“意生”(心生)众生便出现了。由他们又生出四类:诸天、阿修罗、祖灵(pitṛ)与人类。

Verse 87

सिसृक्षुरंभांस्येतानि स्वमात्मानमयूयुजत् । मुक्तात्मनस्ततो जाता दुरात्मानः प्रजापतेः

欲行创造之时,他将这些水与自身的我(Ātman)相系相合。由那自性解脱的生主(Prajāpati)之中,遂生起诸恶心之众。

Verse 88

सिसृक्षोर्जघनात्पूर्वं जज्ञिरे त्वसुरास्ततः । तत्याज तां ततो दुष्टान्तमोमात्रात्मिकां तनुं

在那造物主的前分尚未显现之前,阿修罗便从其后分而生。随后他舍弃了那具身躯——性本邪恶,唯由黑暗所成。

Verse 89

सा तु त्यक्ता तनुस्तेन राजेंद्राभूद्विभावरी । सिसृक्षुरन्यदेहस्थः प्रीतिमापुस्ततः सुराः

当他舍弃那具身躯时,哦,国王,那身躯化为黑夜。随后他住于另一身,欲再行创造,诸天(天神)皆心生欢喜。

Verse 90

सत्वोद्रिक्ताः समुद्भूता मुखतो ब्रह्मणो नृप । त्यक्ता सापि तनुस्तेन सत्वप्रायमभूद्दिनं

哦,国王,具足萨埵(sattva,清净明澈)者从梵天之口而生。他又舍弃那身后,白昼便以萨埵之性为主——纯净而澄明。

Verse 91

ततो हि बलिनो रात्रावसुरा देवतादि वा । सत्वमात्रात्मिकां चैव ततोन्यां जगृहे तनुम्

随后在夜中,那些强大的众生——或为阿修罗,或为诸天等——又取另一身,其体唯由萨埵构成,纯然明净。

Verse 92

पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे । उत्ससर्ज पितॄन्कृत्वा ततस्तामपि स प्रभुः

因他视之如父,故由他而生诸祖灵(Pitṛ)。既已生出诸祖灵,那位主宰随后也将“她”一并放出。

Verse 93

सा चोत्सृष्टा भवत्संध्या दिननक्तांतरा स्थितिः । रजोमात्रात्मिकामन्यां जगृहे स तनुं ततः

而她被放出之后,便成了黄昏(暮光),安住于昼夜交界之处。随后他又取另一身,其性以罗阇(rajas,动势与热情)为主。

Verse 94

रजोमात्रोत्कटा जाता मनुष्याः कुरुसत्तम । तामप्याशु स तत्याज तनुमाद्यां प्रजापतिः

噢,俱卢族中最殊胜者,人类诞生时唯为“罗阇斯”(激情之性)所主宰。随后,生主(Prajāpati)也迅速舍弃了他那最初的形体。

Verse 95

ज्योत्स्ना समभवच्चापि प्राक्संध्या याभिधीयते । ज्योत्स्नागमे तु बलिनो मनुष्याः पितरस्तथा

月光亦随之生起——这被称为“前暮”(prāk-saṃdhyā)。当月辉降临之时,人类得以强健,诸祖灵(Pitṛ)亦同样增盛。

Verse 96

राजेंद्र संध्यासमये तस्मात्ते प्रभवंति वै । ज्योत्स्ना रात्र्यहनी सन्ध्या चत्वार्येतानि वै विभोः

大王啊,于暮时之际,这些确实由他而生:月光、昼与夜,以及暮(sandhyā)。这四者皆属主宰,噢大能者。

Verse 97

ब्रह्मणस्तु शरीराणि त्रिगुणोपाश्रयाणि च । रजोमात्रात्मिकामेव ततोन्यां जगृहे तनुं

梵天(Brahmā)之诸身,确实依止于三种古那。故而他又摄受另一形体——唯由“罗阇斯”所成之身。

Verse 98

ततः क्षुद्ब्रह्मणोजाता जज्ञे कोपस्तया कृतः । क्षुत्क्षामो ह्यंधकारे तु सोसृजद्भगवांस्ततः

随后,由梵天生出“饥饿”,由她又引发了所造之“忿怒”。在黑暗中为饥所迫时,至福的主遂复兴起创造。

Verse 99

विरूपा अत्तुकामास्ते समधावंत तं प्रभुम् । रक्षतामेष यैरुक्तं राक्षसास्ते ततोभवन्

那些形貌怪异、渴欲吞噬的众生奔向那位主宰。他对他们说:“护持!”于是他们当即成为罗刹(Rākṣasa)。

Verse 100

ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु तेभवन् । अतिभीतस्य तान्दृष्ट्वा केशाः शीर्यन्ति वेधसः

其中一些说:“让我们吃了他!”——他们便成为夜叉(Yakṣa)。造物主梵天(Brahmā)见到他们,惊惧至极,头发开始脱落。

Verse 101

हीनाश्च शिरसो भूयः समारोहंति ते शिरः । सर्पणात्तेभवन्सर्पा हीनत्वादहयः स्मृताः

那些失去头颅者又再次长出头来。因其匍匐爬行,便被称为“蛇”;又因其卑弱之态,亦被记作“ahayaḥ”(蛇类)。

Verse 102

ततः क्रुद्धेन वै स्रष्ट्रा क्रोधात्मानो विनिर्मिताः । वर्णेन कपिशेनोग्रा भूतास्ते पिशिताशिनः

随后,造物主发怒之时,生出本性即为嗔怒的众生。他们形貌凶猛、色如黄褐,那些鬼灵以血肉为食。

Verse 103

धयतो गां समुद्भूता गंधर्वास्तस्य तत्क्षणात् । पिबंतो जज्ञिरे वाचं गंधर्वास्तेन तेऽभवन्

当他饮用母牛之乳时,乾闼婆(Gandharva)刹那间从他身中涌现。又因他们诞生于饮取神圣之语——Vāc(言语)之时,故名“乾闼婆”。

Verse 104

एतानि सृष्ट्वा भगवान्ब्रह्मा तच्छक्तिचोदितः । ततः स्वच्छंदतोऽन्यानि वयांसि वयसोऽसृजत्

创造了这些之后,吉祥的梵天在自身神力(śakti)的推动下,又随其自在意愿,造出种种不同类别的飞鸟。

Verse 105

अवयो वक्षसश्चक्रे मुखतोजांश्च सृष्टवान् । सृष्टवानुदराद्गाश्च महिषांश्च प्रजापतिः

生主(Prajāpati)从其胸中造出绵羊,从其口中造出山羊;又从其腹中造出母牛,并造出水牛。

Verse 106

पद्भ्यां चाश्वान्स मातंगान्रासभान्गवयान्मृगान् । उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः

又从双足生出马与象,并有驴、野牛(gaura)、鹿、骆驼、骡、蓝牛(nilgai)以及其他诸类众生。

Verse 107

ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे । त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ नृपोत्तम

由那位存在的毛发,生出药草与结实生根之植物。于特雷塔纪(Tretā Yuga)之初、于劫(kalpa)之始,噢诸王之最胜者,梵天开始了创造。

Verse 108

सृष्ट्वा पश्वोषधीस्सम्यक्युयोज स तदाध्वरे । गामजं महिषम्मेषमश्वाश्वतरगर्दभान्

既已如法造出诸兽与药草,他便在那场祭祀中加以运用——母牛、山羊、水牛、公羊、马、骡与驴。

Verse 109

एतान्ग्राम्यपशूनाहुरारण्यांश्च निबोधमे । श्वापदो द्विखुरो हस्ती वानरः पञ्चमः खगः

这些被称为家畜;如今当从我处知晓林野之兽:猛兽、偶蹄之兽、大象、猿猴,以及第五的飞鸟。

Verse 110

उष्ट्रकाः पशवष्षष्ठास्सप्तमास्तु सरीसृपाः । गायत्रं च ऋचश्चैव त्रिवृत्सोमं रथन्तरम्

骆驼为诸兽之第六,爬行之类为第七;同样还有伽耶特罗(Gāyatra)娑曼、梨俱(Ṛc)颂句、三重(Trivṛt)苏摩赞歌,以及罗檀多罗(Rathantara)娑曼。

Verse 111

अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् । यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा

他从最尊胜之口造出诸祭中之阿耆尼什托摩(Agniṣṭoma);又造出夜柔(Yajus)祭辞、特里什图布(Triṣṭubh)韵律,以及十五式的斯托摩(stoma)唱法。

Verse 112

बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् । सामानि जगतीच्छन्दः स्तोमं सप्तदशं तथा

他从南方之口生出布里哈特娑曼(Bṛhat-sāman)与乌克塔(Uktha);又生出娑曼诸歌、阇伽底(Jagatī)韵律,以及十七式的斯托摩(stoma)唱法。

Verse 113

वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् । एकविंशमथर्वाणमप्तोर्यामाणमेव च

他从西方之口创造了毗卢婆·阿提罗多罗(Vairūpa Atirātra)仪轨;又创造了二十一式(Ekaviṃśa)的阿闼婆(Atharva)仪轨——并且确实也有阿普托利耶摩(Aptoryāma)仪轨。

Verse 114

आनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् । उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे

他从北方之口化生阿努什图布(Anuṣṭubh)韵律,并与毗罗阇(Vairāja)同出;又由其肢体诞生种种众生,有高有下。

Verse 115

सुरासुरपितॄन्सृष्ट्वा मनुष्यांश्च प्रजापतिः । ततः पुनः ससर्जासौ स कल्पादौ पितामहः

既已造出诸天、阿修罗、祖灵(Pitṛ)以及人类,众生之主般若波提(Prajāpati)——那在劫初的祖父(Pitāmaha)——又再度展开后续的创造。

Verse 116

यक्षान्पिशाचान्गंधर्वांस्तथैवाप्सरसां गणान् । सिद्धकिन्नररक्षांसि सिंहान्पक्षिमृगोरगान्

又造出夜叉(Yakṣa)、毗舍遮(Piśāca)、乾闼婆(Gandharva),以及天女阿普萨拉(Apsaras)之众;并有成就者悉达(Siddha)、紧那罗(Kinnara)、罗刹(Rākṣasa);狮子、飞鸟、走兽与诸蛇龙。

Verse 117

अव्ययं च व्ययं चैव यदिदं स्थाणुजंगमम् । तत्ससर्ज तदा ब्रह्मा भगवानादिकृद्विभुः

于是梵天(Brahmā)——吉祥的世尊、遍一切处的本初造物主——化生此整个世界:不坏与可坏,静止与运动。

Verse 118

तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे । तान्येव प्रतिपद्यंते सृज्यमानाः पुनः पुनः

他们在前一轮创造中所承受、所行之业,如今在一次次再生之时,仍复承受、仍复行持。

Verse 119

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते

在暴力与不暴力、柔和与残酷、正法与非法、真实与虚妄之中,人们趋向于自己性情所熏习之物;因此,那同一事物便令其心生欢喜。

Verse 120

इंद्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः । नानात्त्वं विनियोगं च धातैव व्यसृजत्स्वयं

那位主宰亲自作为持世者(Dhātṛ),自发创造了差别与各自的作用:在诸根境、在诸元素、以及在一切有身之身中。

Verse 121

नामरूपं च भूतानां कृत्यानां च प्रपंचनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः

在最初,他依凭吠陀之圣言,造作众生之名与形,并铺陈其行事与祭仪的周密次第;由此也使诸天(deva)等得以出现。

Verse 122

ऋषीणां नामधेयानि यथा वेदे श्रुतानि वै । यथानियोगं योग्यानि अन्येषामपि सोकरोत्

他将诸仙(ṛṣi)之名,依吠陀中所闻如实安立;并依各自的任命与次第,也为其他众类安排了相应而合宜之事。

Verse 123

यथर्तावृतुलिंगानि नानारूपाणि पर्यये । दृश्यंते तानितान्येव तथा भावा युगादिषु

正如四时之相随轮转而现种种形态——而那些同样的征象又复归出现——诸有之境亦如是,在诸世代中反复回还,自诸瑜伽(yuga)起始。

Verse 124

करोत्येवंविधां सृष्टिं कल्पादौ स पुनःपुनः । सिसृक्षुश्शक्तियुक्तोसौ सृज्य शक्तिप्रचोदितः

在每一劫(kalpa)之初,他一次又一次地生起如此的创造。欲行创造者,具足神力;作为造化者,亦为此力所推动。

Verse 125

भीष्म उवाच । अर्वाक्स्रोतास्तु कथितो भवता यस्तु मानुषः । ब्रह्मन्विस्तरतो ब्रूहि ब्रह्मा तमसृजद्यथा

毗湿摩说道:你已称人类为“arvāk-srotas”,即其流向下行者。噢婆罗门,请详说梵天(Brahmā)如何创造了他。

Verse 126

यथा सवर्णानसृजद्गुणांश्च स महामुने । यच्च तेषां स्मृतं कर्म विप्रादीनां तदुच्यताम्

大牟尼啊,请说明他如何创造诸种姓(varṇa)及其诸德性(guṇa);并请宣说传统所记忆的他们各自之业与本分——先从婆罗门(Brāhmaṇa)等说起。

Verse 127

पुलस्त्य उवाच । सत्वाभिध्यायिनः पूर्वं सिसृक्षोर्ब्रह्मणः प्रजाः । अजायंत कुरुश्रेष्ठ सत्वोद्रिक्ता मुखात्प्रजाः

普罗萨提亚说道:库鲁族中最杰出者啊,当梵天(Brahmā)最初欲行创造时,他所生之众首先是倾向于萨埵(sattva)者;萨埵占优的后裔从他的口中诞生。

Verse 128

वक्षसो रजसोद्रिक्तास्तथान्या ब्रह्मणोभवन् । रजसस्तमसश्चैव समुद्रिक्तास्तथोरुतः

从梵天的胸膛生起了另一类,以罗阇(rajas)为主;又从他的双腿(大腿)生起了那些罗阇与惰性(tamas)强烈交杂者。

Verse 129

पद्भ्यामन्याः प्रजा ब्रह्मा ससर्ज कुरुसत्तम । तमःप्रधानास्ताः सर्वाश्चातुर्वर्ण्यमिदं ततः

噢,俱卢族中最殊胜者,梵天自其双足化生诸类众生;彼等皆以昏暗之性(tamas)为主,由此而起四姓之序。

Verse 130

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम । पादोरुवक्षस्थलतो मुखतश्च समुद्गताः

噢,诸王中最殊胜者,婆罗门、刹帝利、吠舍与首陀罗,依次从口、胸、股与足而出。

Verse 131

यज्ञनिष्पत्तये सर्वमेतद्ब्रह्मा चकार ह । चातुर्वर्ण्यं महाराज यज्ञसाधनमुत्तमम्

为使祭祀(yajña)圆满成就,梵天确立了这一切。大王啊,四姓之制乃成办祭仪的最上资具。

Verse 132

यज्ञेनाप्यायिता देवा वृष्ट्युत्सर्गेण मानवाः । आप्यायंते धर्मयज्ञा यतः कल्याणहेतवः

以祭祀(yajña)诸天得以滋养;以降雨之施,人类得以存续。故当弘扬合乎正法的祭祀,因为它们是安乐与吉祥之因。

Verse 133

निष्पद्यंते नरैस्ते तु सुकर्मनिरतैः सदा । विरुद्धाचरणापेतैः सद्भिः सन्मार्गगामिभिः

这些果报,唯由恒常勤修善业之人得之——由远离乖违之行、行于正道的贤善者而成就。

Verse 134

स्वर्गापवर्गं मानुष्यात्प्राप्नुवंति नरा नृप । यच्चाभिरुचितं स्थानं तद्यांति मनुजा विभो

大王啊,凭借人身,众生得以证得天界或解脱;而主宰啊,人们将往其心中最所爱慕之境界。

Verse 135

प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्यव्यवस्थितौ । सम्यक्शुद्धाः समाचारा चरणा नृपसत्तम

这些众生由梵天(Brahmā)所造,并依四种姓(四瓦尔那)而安立;他们极其清净,行止端正,安住于正行之道,大王中之最胜者。

Verse 136

यथेच्छावासनिरताः सर्वबाधाविवर्जिताः । शुद्धांतःकरणाः शुद्धा धर्मानुष्ठाननिर्मलाः

随其所愿而安住于欲乐,却远离一切障恼;内心器官清净,自身亦净,由修持法(dharma)而无垢。

Verse 137

शुद्धे च तासां मनसि शुद्धांतःसंस्थिते हरौ । शुद्धज्ञानं प्रपश्यंति ब्रह्माख्यं येन तत्पदं

当他们的心意清净,而哈利(Hari)安住于其清净的内在之中时,他们得见名为梵(Brahman)的纯净智慧,由此证得那至上境地。

Verse 138

ततः कालात्मको योसौ विरिंचा वा स उच्यते । संसारपातमत्यर्थं घोरमल्पाल्पसारवत्

其后,那位以时间为自性者——亦称为毗邻遮(Viriñca,即梵天)。堕入轮回之流极其可怖,仿佛只含微微之精髓、空乏无实。

Verse 139

अधर्मबीजभूतं तत्तमोलोभसमुद्गतम् । प्रजासु तासु राजेंद्र रागादिक्रमसाधनम्

那种冲动成为不法(adharma)之种,起于昏暗与贪欲;在诸众生之中,哦大王,它便成为贪著等诸染欲依次生起的途径。

Verse 140

ततः सा सहजासिद्धिस्तेषां नातीव जायते । राजन्वश्यादयश्चान्याः सिद्धयोष्टौ भवंति याः

因此,那与生俱来的圆满在他们之中并不强盛地显现。大王啊,还有其他成就,如“自在摄伏”(vaśya)等——即所称的八种悉地(siddhi)。

Verse 141

तासु क्षीणास्वशेषासु वर्द्धमाने च पातके । द्वंद्वाभिभवदुःखार्तास्ता भवंति ततः प्रजाः

当那些善妙之缘完全耗尽,而罪业增长之时,众生便由此出生——被二对相(冷与热等对立)所压伏而受苦。

Verse 142

ततो दुर्गाणि ताश्चक्रुर्वार्क्षं पार्वतमौदकम् । धान्वनं च तथा दुर्गं पुरं खार्वटकादि यत्

于是他们建造诸般要塞:林中之堡、山上之堡、水中之堡、旷野之堡;又建城邑,如佉罗伐吒迦(Khārvaṭaka)等。

Verse 143

गृहाणि च यथान्यायं तेषु चक्रुः पुरादिषु । शीततापादिबाधानां प्रशमाय महामते

又依正法之宜,他们在城邑等处建造房舍,哦大慧者,为了平息寒冷、炎热等诸般侵扰。

Verse 144

प्रतिहारमिमं कृत्वा शीतादेस्ताः प्रजाः पुनः । वार्तोपायं ततश्चक्रुर्हस्तसिद्धिं च कर्मजाम्

既已如此设立防御寒冷等苦的护护之法,那些众生又再筹谋生计之道,并且成就由劳作所生的手艺技能。

Verse 145

व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः । प्रियंगुकोविदाराश्च कोरदूषाः सचीनकाः

稻米与大麦,以及小麦、黍/粟与芝麻;又有priyaṅgu之谷、kovidāra、koradūṣa与sacīnaka——这些谷类品种被如是称说。

Verse 146

माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः । अढकाश्चणकाश्चैव शणास्सप्तदश स्मृताः

黑豆、绿豆、扁豆、扁荚豆与马豆;又有adhakā、鹰嘴豆及大麻籽——这些被忆念为十七种。

Verse 147

इत्येता ओषधीनां तु ग्राम्याणां जातयो नृप । ओषध्यो यज्ञियाश्चैव ग्राम्यावन्याश्चतुर्दश

如是,王啊,这些便是栽培药草的诸类。可用于祭祀(yajña)之香草,连同栽培与野生诸品,共为十四种。

Verse 148

व्रीहयः सयवा माषा गोधूमा अणवस्तिलाः । प्रियंगुसप्तमा ह्येता अष्टमास्तु कुलुत्थकाः

稻米、大麦、黑豆、小麦、黍/粟与芝麻——这些谷物中,以priyaṅgu为第七;而第八则为kuluttha(马豆)。

Verse 149

श्यामाकस्त्वथ नीवारो वर्तुलस्स गवेधुकः । अथ वेणुयवाः प्रोक्तास्तद्वन्मर्कटका नृप

“先是śyāmāka,其次nīvāra;又有vartula与gavedhuka;再有veṇuyava——皆已宣说;同样还有markaṭaka(谷粒),大王。”

Verse 150

ग्राम्या वन्याः स्मृता ह्येता ओषध्यश्च चतुर्दश । यज्ञनिष्पत्तये तद्वत्तथासां हेतुरुत्तमः

这些(植物)被忆念为家种与野生之属——合计十四味药草。同样,它们也是成就祭祀(yajña)圆满的殊胜因缘。

Verse 151

एताश्च सहयज्ञेन प्रजानां कारणं परम् । परापरविदः प्राज्ञास्ततो यज्ञान्वितन्वते

这些(力量)与祭祀(yajña)相应,乃众生繁衍之至上因。是故通达上与下二谛的智者,行持并广弘诸供祭仪轨。

Verse 152

अहन्यहन्यनुष्ठानं यज्ञानां पार्थिवोत्तम । उपकारकरं पुंसां क्रियमाणं फलार्थिनाम्

王中至善者啊,日日奉行诸祭(yajña),于众人有益;尤当由求取业果者而行之。

Verse 153

येषां चकालसृष्टोसौ पपाबिंदुर्महामते । मर्यादां स्थापयामास यथास्थानं यथागुणम्

大慧者啊,对于他按时所造的诸有情,那位可敬的始祖安立了应有的界限与秩序——各随其位,各依其德性。

Verse 154

वर्णानामाश्रमाणां च धर्मान्धर्मभृतांवर । लोकांश्च सर्ववर्णानां सम्यग्धर्मानुपालिनाम्

噢,最胜持法者,我将宣说诸种姓(varṇa)与诸人生阶段(āśrama)之本分,以及一切种姓之人若如法奉行其正当义务,所能到达的诸世界。

Verse 155

प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं तु पार्थिव । स्थानमैंद्रं क्षत्रियाणां सङ्ग्रामेष्वनिवर्तिनाम्

大王啊,所谓“生主界”(Prajāpatya)被宣说为婆罗门之所归;而“因陀罗界”(Aindra)则属于那些在战阵中不退却的刹帝利。

Verse 156

वैश्यानाम्मारुतं स्थानं स्वधर्ममनुवर्तिनाम् । गान्धर्वं शूद्रजातीनां परिचर्या सुवर्तिनाम्

凡随顺自身法度的吠舍,其归宿为风神伐由(Vāyu)之界;而行持端正、以侍奉为业的首陀罗诸族,则得至乾闼婆(Gandharva)之界。

Verse 157

अष्टाशीतिसहस्राणां यतीनामूर्द्ध्वरेतसाम् । स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम्

为那八万八千位守持上行梵行的出家行者(yati)所记念之住处,确然亦是侍住于师、依止师尊而居者的同一归宿。

Verse 158

सप्तर्षीणां च यत्स्थानं स्मृतं तद्वै वनौकसाम् । प्राजापत्यं गृहस्थानां न्यासिनां ब्राह्मसंज्ञितम्

被记念为七仙(Saptarṣi)之所居的境界,正是林居者之界;居家者称其为“生主界”(Prajāpatya),而出离的遁世者则名之为“梵界”(Brāhma)。

Verse 159

योगिनाममृतं स्थानं ब्रह्मणः परमं पदं । एकांतिनः सदोद्युक्ता ध्यायिनो योगिनो हि ये

此乃瑜伽行者之不死住处——梵(Brahman)之至上境界;唯心一向、恒常精进者得之:彼等禅观者,实为瑜伽行者。

Verse 160

तेषां तत्परमं स्थानं यत्तत्पश्यंति सूरयः । गतागतानि वर्त्तंते चंद्रादित्यादयो ग्रहाः

彼处即其至上住处——智者所观之境。于彼,月与日等天体循其轨道而行,往来不息。

Verse 161

अद्यापि न निवर्तंते नारायणपरायणाः । तामिस्रमंधतामिस्रं महारौरव रौरवम्

即至今日,唯依归那罗延(Nārāyaṇa)者亦不复回堕于彼等境界——塔弥斯罗、安陀塔弥斯罗、摩诃饶罗婆、饶罗婆。

Verse 162

असिपत्रवनं घोरं कालसूत्रमवीचिमत् । विनिंदकानां वेदस्य यज्ञव्याघातकारिणाम्

凡诋毁吠陀、阻挠祭祀(yajña)者,将堕入可怖之地狱:阿西帕特拉婆那(Asipatravana)、迦罗苏多罗(Kālasūtra)、阿毗支(Avīci)。

Verse 163

स्थानमेतत्समाख्यातं स्वधर्मत्यागिनश्च ये । ततोभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः

此处已宣说为舍弃自身所当行之法(dharma)者的归宿。其后,当他入于禅思,由他生出诸多意生众类。

Verse 164

तच्छरीरसमुत्पन्नैः कायस्थैः करणैः सह । क्षेत्रज्ञाः समवर्त्तंत गात्रेभ्यस्तस्य धीमतः

与从其身躯所生并安住其中的诸身根一同,那位智者的肢体中涌现出诸“田知者”(kṣetrajña)——具觉知、知身田之灵我。

Verse 165

ते सर्वे समवर्तंत ये मया प्रागुदाहृताः । देवाद्याः स्थावरां ताश्च त्रैगुण्यविषयेस्थिताः

我先前所述的一切皆显现而出——自诸天神起,亦及诸不动众生——皆安住于三德(guṇa)之境域。

Verse 166

एवं भूतानि सृष्टानि स्थावराणि चराणि च । यदास्य ताः प्रजाः सर्वानव्यवर्द्धंतधीमतः

如是众生被造——不动者与动者皆然。其后,那位智者的一切子嗣并未增长繁衍。

Verse 167

अथान्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत् । भृगुं मां पुलहं चैव क्रतुमंगिरसं तथा

随后,他又化生出与自身相似的意生之子:婆利古(Bhṛgu)、摩利支(Marīci)、普罗诃(Pulaha)、克罗图(Kratu),以及安吉罗(Aṅgiras)。

Verse 168

मरीचिं दक्षमत्रिं चवसिष्ठंचैवमानसान् । नवब्रह्माण इत्येतेपुराणे निश्चयं गताः

摩利支(Marīci)、达刹(Dakṣa)、阿底利(Atri)、婆悉吒(Vasiṣṭha)与诸意生者(Mānasas)——这些在诸《往世书》(Purāṇa)中被确知为“九梵天”(九位原初生主)。

Verse 169

सनंदनादयो ये च पूर्वं सृष्टास्तु वेधसा । न ते लोकेष्वसज्जंत निरपेक्षाः प्रजासुते

噢,众生之主之子,那些以善难陀那(Sanandana)等为首、先前由梵天(Brahmā)所造者,并不执著诸世界;无所依止,恒常离著而住。

Verse 170

सर्वे ह्यागतविज्ञाना वीतरागा विमत्सराः । तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः

他们全都已得真实之智,离欲无染,亦无嫉妒。既有如此无所依著之众,伟大之心者便继续进行诸世界的创造。

Verse 171

ब्रह्मणोभून्महान्क्रोधस्त्रैलोक्यदहन क्षमः । तस्य क्रोधात्समुद्भूतं ज्वालामालावदीपितम्

自梵天(Brahmā)心中生起巨大之忿怒,足以焚尽三界;由那忿怒中涌现一物,炽然燃耀,宛如以火焰花鬘环绕。

Verse 172

ब्रह्मणस्तु तदा ज्योतिस्त्रैलोक्यमखिलं दहत् । भ्रकुटी कुटिलात्तस्य ललाटात्क्रोधदीपितात्

其时,梵天(Brahmā)的光辉迸发,焚烧三界一切;那怒火自其额间燃起,因其眉间紧蹙,现出扭曲的怒容。

Verse 173

समुत्पन्नस्तदा रुद्रो मध्याह्नार्कसमप्रभः । अर्द्धनारीनरवपुः प्रचण्डोति शरीरवान्

于是,鲁陀罗(Rudra)出现,光耀如正午之日;其身半女半男,威猛炽烈,躯体雄伟。

Verse 174

विभजात्मानमित्युक्त्वा तं ब्रह्मांतर्दधेः ततः । तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाकरोत्

说完“分化你自身”之后,梵天随即隐没。蒙此教诲,他遂成二体,化现为女相与男相。

Verse 175

बिभेद पुरुषत्वं च दशधा चैकधा च सः । सौम्यासौम्यैस्तथा रूपैः शांतैः स्त्रीत्वं च स प्रभुः

彼至上主分判男相:或成十类,亦成一体;同样地,以柔和与不柔和而仍寂静的诸相,亦分判女相。

Verse 176

बिभेद बहुधा चैव स्वरूपैरसितैः सितैः । ततो ब्रह्मा स्वयंभूतं पूर्वं स्वायंभुवं प्रभुम्

他以无数方式使造化多样化,化现为黑暗与光明之相;继而梵天生起自生之主——最初的娑耶姆布婆·摩奴,原初的君王。

Verse 177

आत्मानमेव कृतवान्प्रजापत्ये मनुं नृप । शतरूपां च तां नारीं तपोनिर्द्धूतकल्मषाम्

大王啊,造物主由自身造就了生主摩奴,又造就了那位女子舍多卢帕;她的垢染已被苦行之火焚尽。

Verse 178

स्वायंभुवो मनुर्नाम पत्नीत्वे जगृहे प्रभुः । तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत

名为娑耶姆布婆·摩奴的主将其纳为妻;而从那位男子之身,女神舍多卢帕诞生。

Verse 179

प्रियव्रतोत्तातनपाद प्रसूत्याकूति संज्ञितम् । ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा

他有两位女儿,名为普罗苏蒂(Prasūti)与阿库蒂(Ākūti),出自普利耶弗罗多(Priyavrata)与乌塔那帕达(Uttānapāda)的族系;在远古时,他将普罗苏蒂许配给达克沙(Dakṣa),将阿库蒂许配给鲁奇(Ruci)。

Verse 180

प्रजापतिः स जग्राह तयोर्जज्ञे स दक्षिणः । पुत्रो यज्ञो महाभाग दंपत्योर्मिथुनं ततः

那位生主(Prajāpati)迎娶她为妻;二人之间诞生了达克希那(Dakṣiṇā)。噢,大福者,此后这对夫妇又生下一子——耶阇那(Yajña)。

Verse 181

यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे । यामा इति समाख्याता देवाः स्वायंभुवे मनौ

由耶阇那(Yajña)的配偶达克希那(Dakṣiṇā)生下十二位儿子。在自生摩奴(Svāyambhuva Manu)的时代,他们被称为名为“夜摩”(Yāmas)的诸天。

Verse 182

प्रसूत्यां च तथा दक्षश्चतस्रो विंशतिं तथा । ससर्ज कन्यास्तासां तु सम्यङ्नामानि मे शृणु

同样地,经由普罗苏蒂(Prasūti),达克沙(Dakṣa)生出二十四位女儿。如今请听我依次道来她们的名号。

Verse 183

श्रद्धा लक्ष्सीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा । बुद्धिर्लज्जावपुः शांतिरृद्धिः कीर्तिस्त्रयोदशी

信心(Śraddhā)、吉祥与富饶(Lakṣmī)、坚忍(Dhṛti)、滋养(Puṣṭi)、知足(Tuṣṭi)、慧智(Medhā)与正行(Kriyā);又有觉知与辨别(Buddhi)、谦羞(Lajjā)、端美之形(Vapuḥ)、寂静安和(Śānti)、增盛(Ṛddhi)与名闻(Kīrti)——此为十三德。

Verse 184

पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायिणीः प्रभुः । ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः

为求得妻室,主宰达摩迎娶了达刹之女;由她们又诞生其余十一位——明眸秀目——乃幼妹所出的诸女。

Verse 185

ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा । सन्नतिश्चानसूया च ऊर्ज्जा स्वाहा स्वधा तथा

她们是:迦耶蒂(Khyāti)、萨提亚(Satya)、三婆底(Sambhūti)、斯摩利蒂(Smṛti)、普利蒂(Prīti)、刹摩(Kṣamā);又有萨那提(Sannati)与阿那苏雅(Anasūyā);并且还有乌尔迦(Ūrjā)、娑婆诃(Svāhā)与娑婆陀(Svadhā)。

Verse 186

भृगुर्भवो मरीचिश्च तथा चैवांगिरा मुनिः । अहं च पुलहश्चैव क्रतुर्मुनिवरस्तथा

有婆利古(Bhṛgu)、婆婆(Bhava)、摩利支(Marīci)以及圣仙安吉罗(Aṅgirā);并有我与普罗诃(Pulaha),以及卓越的牟尼克罗图(Kratu)亦在其列。

Verse 187

अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् । ख्यात्याद्या जगृहुः कन्या मुनयो राजसत्तम

阿特利(Atri)、婆悉吒(Vasiṣṭha)、火神阿耆尼(Agni)与诸祖灵(Pitṛs),依次迎娶了以迦耶蒂(Khyāti)为首的诸位少女,噢,诸王之最胜者。

Verse 188

श्रद्धा कामं बलं लक्ष्मीर्नियमं धृतिरात्मजम् । संतोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत

她生下诸子:室罗陀(Śraddhā,信心)、迦摩(Kāma,欲)、婆罗(Bala,力)、罗叉弥(Lakṣmī,福裕)、尼耶摩(Niyama,自律)与陀利底(Dhṛti,坚忍);又生出三都沙(Santoṣa,知足)、图什底(Tuṣṭi,满足)、罗婆(Lobha,贪)与补什底(Puṣṭi,滋养)。

Verse 189

मेधा श्रुतं क्रिया दण्डं नयं विनयमवे च । बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम्

智慧、学闻、正行、戒律、善策与谦卑;又有觉悟、辨识、羞惭与善行——这些才是由自身品性与身心所生的真实子嗣。

Verse 190

व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत । सुखमृद्धिर्यशः कीर्तिरित्येते धर्मसूनवः

诚然,由达摩生起进取之业;由寂静(Śānti)诞生安稳与保障。快乐、富足、名声与令誉——皆被称为达摩之子。

Verse 191

कामान्नंदी सुतं हर्षं धर्मपौत्रमसूयत । हिंसा भार्यात्वधर्मस्य तस्य जज्ञे तदानृतं

由爱欲(Kāma),难提(Nandī)生一子名欢喜(Harṣa),为达摩之孙;而暴害(Hiṃsā),作为非法(Adharma)之妻,遂生不实(Anṛta,虚妄)。

Verse 192

कन्या च निकृतिस्ताभ्यां भयं नरक एव च । माया च वेदना चैव मिथुनं द्वंद्वमेव च

又生出少女与诡诈;由彼等而生恐惧,亦有地狱;并且还有幻力(Māyā)与痛苦(Vedanā),以及配偶之合与二元对立之理。

Verse 193

तयोर्जज्ञेथ वै माया मृत्युं भूतापहारिणम् । वेदनायास्ततश्चापि दुःखं जज्ञेथ रौरवात्

由那二者,确实诞生了幻力(Māyā)与死亡——夺取众生者;又由痛苦(Vedanā)复生忧苦(Duḥkha),其起源于饶罗婆(Raurava)。

Verse 194

मृत्योर्व्याधिजराशोक तृष्णाक्रोधाश्च जज्ञिरे । दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः

由“死亡”生出疾病、衰老与忧悲,又生出贪欲与嗔怒。众皆被忆念为终归于苦,且皆为不义(adharma)之相。

Verse 195

नैषां भार्यास्ति पुत्रो वा ते सर्वे ह्यूर्द्ध्वरेतसः । रौद्राण्येतानि रूपाणि ब्रह्मणो नृवरात्मज

他们既无妻亦无子;因为他们皆守梵行,精气上行。此等形相,噢至善之人之子,乃梵天(Brahmā)之凶烈(raudra)化身。

Verse 196

नित्यं प्रलयहेतुत्वं जगतोस्य प्रयांति वै । रुद्रसर्गं प्रवक्ष्यामि यथा ब्रह्मा चकार हा

诚然,他们宣说此世恒常趋向毁灭之因。今我将叙述鲁陀罗(Rudra)之创造(世系),正如梵天当初所成就。

Verse 197

कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः । प्रादुरासीत्प्रभोरंके कुमारो नीललोहितः

在劫初之时,主宰观想与己等同之子;于是有一位少年之子显现于主的膝上——尼罗罗希多(Nīlalohita)。

Verse 198

रुदन्वै सुस्वरं सोथ द्रवंश्च नृपसत्तम । किं रोदिषीति तं देवो रुदंतं प्रत्युवाच ह

于是,噢诸王之最胜者,他以清亮之声放声而哭,且身亦战栗;神对那哭泣者说道:“你为何哭泣?”

Verse 199

नामधेहीति तं सोथ प्रत्युवाच प्रजापतिम् । रोदनाद्रुद्रनामासि मा रोदीर्धैर्यमावह

当他说“赐我一个名字”时,生主(Prajāpati)答道:“因你哭泣,故名为鲁陀罗(Rudra);莫再啼哭,当摄持安定与勇毅。”

Verse 200

एवमुक्तः पुनस्सोथ सप्तकृत्वो रुरोद ह । ततोन्यानि ददौ तस्मै सप्तनामानि वै प्रभुः

他既受此言,又哭了七次;随后主宰赐予他另外七个名号。