Adhyaya 27
Srishti KhandaAdhyaya 2760 Verses

Adhyaya 27

The Procedure for the Consecration of a Pond

毗湿摩向普罗罗斯提亚请问:如何完整地为池塘及诸水库行“安置/开光”(pratiṣṭhā)之法,包括祭司资格、祭坛形制、供养酬谢(dakṣiṇā)、吉时选择与主持次第。 普罗罗斯提亚依吠陀仪轨开示:择吉于白半月与北行期(Uttarāyaṇa),先净地,再建方形祭坛(vedī)与四面曼陀罗棚(maṇḍapa),周设坑穴与木柱。任命通晓吠陀者为火祭司(hotṛ)及诵读、守门等职,安置水罐(kalaśa)与法器,并立短小祭柱(yūpa)。 施主(yajamāna)自净并行通宵预备,绘制坛城(maṇḍala),以伐楼那(Varuṇa)为中心作诸安置,奉请诸神、行安宿(adhivāsana),继而多日火供(homa),由《梨俱》《夜柔》《娑摩》《阿闼婆》诸吠陀专诵者依规定颂词与唱诵完成。最终以广大布施(dāna)作结:饰物、床榻、器皿、乳牛与饮食;经文称四时护水之功等同重大śrauta祭,许以升天,并终得趋入毗湿奴之居处。

Shlokas

Verse 1

भीष्म उवाच । तटाकारामकूपेषु वापीषु नलिनीषु च । विधिं वदस्व मे ब्रह्मन्देवतायतनेषु च

毗湿摩(Bhīṣma)说道:婆罗门啊,请为我宣说关于池塘与蓄水之所、井、阶井,以及莲池之法度;并且也请讲述诸神之住处(神庙)之仪轨。

Verse 2

के तत्र ऋत्विजो विप्रा वेदी वा कीदृशी भवेत् । दक्षिणाबलयः कालः स्थानमाचार्य एव च

那么,其中主持祭仪的祭司——博学的婆罗门——应是谁?祭坛应当如何?应施何等达克希那(dakṣiṇā,供养酬礼)与仪式用具?适当的时日与地点为何?又究竟谁应为主导师而主持其事?

Verse 3

द्रव्याणि कानि शस्तानि सर्वमाचक्ष्व सुव्रत । पुलस्त्य उवाच । शृणु राजन्महाबाहो तटाकादिषु यो विधिः

“请你详尽告知,善持誓戒者啊,哪些资具被认为相宜。”普拉斯提耶(Pulastya)说道:“大王,臂力雄伟者啊,请听我说关于池塘等处所所规定的仪则。”

Verse 4

पुराणेष्वितिहासोयं पठ्यते राजसत्तम । प्राप्य पक्षं शुभं शुक्लं संप्राप्ते चोत्तरायणे

大王中之最,此神圣传说于诸《普拉那》中诵读:当吉祥的白半月到来之时,亦当乌塔拉耶那开启、太阳北行之际。

Verse 5

पुण्येह्नि विप्रैः कथिते कृत्वा ब्राह्मणवाचनम् । अशुभैर्वर्जिते देशे तटाकस्य समीपतः

于吉祥之日,依婆罗门之教诲,安排婆罗门诵读;当在远离不祥之地,于池塘近旁而行之。

Verse 6

चतुर्हस्तां समां वेदीं चतुरश्रां चतुर्मुखीम् । तथा षोडशहस्तः स्यान्मंडपश्च चतुर्मुखः

当作坛台(vedī)四肘之量,平整而方正,具四面;又当作曼荼罗亭(maṇḍapa)十六肘之量,亦为四面。

Verse 7

वेद्यास्तु परितो गर्तारत्निमात्रास्त्रिमेखलाः । नव सप्ताथ वा पंच ऋजुवक्त्रा नृपात्मज

王子啊,于坛台(vedī)周围当设诸坑,每坑一肘之量,三重环列;其数或九、或七、或五,坑口皆当端直。

Verse 8

वितस्तिमात्रा योनिः स्यात्षट्सप्तांगुलि विस्तृता । गर्ताश्च हस्तमात्राः स्युस्त्रिपर्वोच्छ्रितमेखलाः

其“yoni”(胎藏)当为一拃之量,宽增六或七指。诸坑当为一肘之量;其周围之“mekhalā”(环脊)当隆起至三节指之高。

Verse 9

सर्वतस्तु सवर्णाः स्युः पताकाध्वजसंयुताः । अश्वत्थोदुंबरप्लक्षवटशाखाकृतानि तु

四面皆应色泽一致,并配以幡旗与旌幢;其材当取自阿湿婆他(aśvattha)、优檀婆罗(udumbara)、普拉克沙(plakṣa)与婆吒(vaṭa)之枝。

Verse 10

मंडपस्य प्रतिदिशं द्वाराण्येतानि कारयेत् । शुभास्तत्राष्टहोतारो द्वारपालास्तथाष्ट वै

于曼荼罗殿(maṇḍapa)四方,各当建此诸门;其处应安置八位吉祥的呼多利(hotṛ,召请祭司),并同样设八位门卫。

Verse 11

अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः । सर्वलक्षणसंपूर्णान्मंत्रज्ञान्विजितेंद्रियान्

当立八位诵持者(jāpaka)——通达吠陀之婆罗门——具足诸相与德相,明了真言,且能制伏诸根。

Verse 12

कुलशीलसमायुक्तान्स्थापयेद्वै द्विजोत्तमान् । प्रतिगर्तेषु कलशा यज्ञोपकरणानि च

诚然,当安坐诸最胜二生者(dvija),具善族姓与德行;并于预备之坑中安置水罐(kalaśa)及祭祀(yajña)所需诸器具。

Verse 13

व्यजने चासनं शुभ्रं ताम्रपात्रं सुविस्तरम् । ततस्त्वनेकवर्णास्युर्बलयः प्रतिदैवतम्

当备拂扇一柄、洁白之座一具,并置宽广铜器一只。继而,对每一尊神祇,皆当陈设多色之供分以为礼敬。

Verse 14

आचार्यः प्रक्षिपेद्भूमावनुमंत्र्य विचक्षणः । अरत्निमात्रो यूपः स्यात्क्षीरवृक्षविनिर्मितः

在以真言作适当许可之后,明智的阿阇梨应将其安置入地。祭柱(yūpa)仅当一肘之高,应由乳汁树所制成。

Verse 15

यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता । हेमालंकारिणः कार्याः पंचविंशति ऋत्विजः

或者,欲求兴盛者,应依祭主(yajamāna)的规模而建立。并应任命二十五位祭官(ṛtvij),以金饰庄严。

Verse 16

कुंडलानि च हैमानि केयूरकटकानि च । तथांगुलिपवित्राणि वासांसि विविधानि च

又有金制耳环、臂钏与手镯,以及指环,并有各式衣服。

Verse 17

दद्यात्समानि सर्वेषामाचार्ये द्विगुणं स्मृतम् । दद्याच्छयनसंयुक्तमात्मनश्चापि यत्प्रियम्

应向众人施以同等之礼;而对阿阇梨,则经说其礼当加倍。亦当奉上备具之床榻,并献出自己所珍爱之物。

Verse 18

सौवर्णौ कूर्ममकरौ राजतौ मत्स्यडुण्डुभौ । ताम्रौ कुंभीरमंडूका वायसः शिंशुमारकः

其中二件为金制:龟形与摩伽罗形;二件为银制:鱼形与ḍuṇḍubha形;二件为铜制:鳄形与蛙形;另有一件为乌色(金属),作śiṃśumāra之形。

Verse 19

एवमासाद्य तत्सर्वमादावेव विशांपते । शुक्लमाल्याम्बरधरः शुक्लंगंधानुलेपनः

如是,在最初便获得这一切之后,噫,人中之主,他佩戴白色花鬘,身着白衣,并以洁白芬芳的香膏涂抹其身。

Verse 20

सर्वौषध्युदकैः सर्वैः स्नापितो वेदपारगैः । यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः

由通达吠陀者以浸有诸般药草之水为其沐浴;祭主与其妻同在,并有其子与孙侍立相随。

Verse 21

पश्चिमद्वारमासाद्य प्रविशेद्यागमंडपम् । ततो मंगलशब्देन भेरीणां निःस्वनेन च

抵达西门之后,当入祭坛之曼荼罗殿;继而在吉祥呼声与战鼓般的钹鼓(bherī)轰鸣回响中前行。

Verse 22

रजसा मंडलं कुर्यात्पंचवर्णेन तत्त्ववित् । षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम्

通晓真理者当以罗阇斯之红粉绘作圆形坛城,具五色;继而作十六辐之轮,并于其中安置莲胎之相、四面之形。

Verse 23

चतुरश्रं तु परितो वृत्तं मध्ये सुशोभनम् । वेद्याश्चोपरितः कृत्वा ग्रहान्लोकपतींस्ततः

四周作成方形,中间安置一圆,端丽殊胜;置于祭坛(vedi)之上后,继而安立诸曜(graha)与诸世界之护持者。

Verse 24

संन्यसेन्मंत्रतः सर्वान्प्रतिदिक्षु विचक्षणः । कलशं स्थापयेन्मध्ये वारुणं मंत्रमाश्रितम्

善巧的行者应以真言将一切供品安置于四方诸向;随后在中央安立水罐(kalaśa),依止伐楼那(Varuṇa)真言而行。

Verse 25

ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद्बुधः । विनायकं च विन्यस्य कमलामंबिकां तथा

就在彼处,智者当安立梵天(Brahmā)、湿婆(Śiva)与毗湿奴(Viṣṇu);并安置毗那夜迦(Vināyaka)后,也当安立莲华女神卡玛拉(Kamalā)与安比迦(Ambikā)。

Verse 26

शांत्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः । पुष्पभक्ष्यफलैर्युक्तमेवं कृत्वाधिवासनम्

随后,为令一切世界得安宁,应安置众生之群;如是完成加持安住之礼(adhivāsana)后,当以花鬘、食供与果品庄严具足。

Verse 27

कुंभांश्च रत्नगर्भांस्तान्वासोभिः परिवेष्टयेत् । पुष्पगंधैरलंकृत्य द्वारपालान्समंततः

那些内藏珍宝之罐,当以衣布缠裹;并以芬芳之花庄严其处,于四周安置守门护卫。

Verse 28

यजद्ध्वमिति तान्ब्रूयादाचार्यमभिपूजयेत् । बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ

他应对众人说道:“当行祭祀(yajña)。”并应如法礼敬阿阇梨(ācārya)。通晓《梨俱吠陀》(Ṛg-veda)者(bahvṛca)安置于东方,精通《夜柔吠陀》(Yajur-veda)者安置于南方。

Verse 29

सामगौ पश्चिमे स्थाप्यावुत्तरेण अथर्वणौ । उदङ्मुखो दक्षिणतो यजमान उपाविशेत्

将两位诵唱《娑摩》者安置于西方,又将《阿闼婆》诸祭司安置于北方;祭主当坐于南侧,面向北方。

Verse 30

यजध्वमिति तान्ब्रूयाद्याजकान्पुनरेव तान् । उत्कृष्टमंत्रजाप्येन तिष्ठध्वमिति जापकान्

他应再次对诸司祭者说道:“当行祭祀。”又对诵持真言者说道:“以最上妙的真言反复诵念而住。”

Verse 31

एवमादिश्य तान्सर्वान्संधुक्ष्याग्निं समंत्रवित् । जुहुयादाहुतीर्मंत्रैराज्यं च समिधस्तथा

如是训示众人后,通晓真言者当燃起圣火;继而以真言投入供献,奉上酥油,并同样奉上柴薪。

Verse 32

ऋत्विग्भिश्चैव होतव्यं वारुणैरेव सर्वतः । ग्रहेभ्यो विधिवद्धुत्वा तथेंद्रायेश्वराय च

供献确应由诸祭司奉行,并处处运用与伐楼那相应的仪轨与真言。依仪向诸星曜神(诸“摄持者”)献供之后,亦当献于因陀罗与自在天(Īśvara)。

Verse 33

मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे । शान्तिसूक्तं च रौद्रं च पावमानं च मंगलम्

依次第如法(供献/诵读)《寂静颂》(Śānti-sūkta)、《鲁陀罗颂》(Raudra)、净化之《帕瓦玛那》(Pāvamāna),以及吉祥的祝祷;皆奉献于风神众(Maruts)、诸世界守护者与毗湿伐羯磨(Viśvakarman)。

Verse 34

जपेच्च पौरुषं सूक्तं पूर्वतो बह्वृचः पृथक् । शाक्रं रौद्रं च सौम्यं च कौश्मांडं जातवेदसम्

他应先诵《普鲁沙颂》(Pauruṣa Sūkta),随后再分别诵读巴呼梨迦(Bahvṛca,诵《梨俱吠陀》者)之诸赞:释迦罗(Śākra)、罗陀罗(Raudra)、娑牟耶(Saumya)、拘施曼陀(Kauśmāṇḍa)以及阇多吠陀娑(Jātavedasa)诸颂。

Verse 35

सौरं सूक्तं जपेयुस्ते दक्षिणेन यजुर्विदः । वैराजं पौरुषं सूक्तं सौपर्णं रुद्रसंहितम्

通晓南传《夜柔吠陀》者,应诵《娑乌罗颂》(Saura Sūkta);亦当诵《毗罗阇》(Vairāja)与《普鲁沙》(Pauruṣa)诸颂、《苏帕尔那》(Sauparṇa)赞,以及《鲁陀罗集》(Rudra-saṃhitā)。

Verse 36

शैशवं पंचनिधनं गायत्रं ज्येष्ठसाम च । वामदेव्यं बृहत्साम रौरवं च रथंतरम्

所谓“施舍婆”(Śaiśava)、“五终止”(Pañcanidhana)、“伽耶多罗”(Gāyatra)与“最上娑曼”(Jyeṣṭha-sāman);又有“婆摩提毗耶”(Vāmadevya)、“广大娑曼”(Bṛhat-sāman)、“饶罗婆”(Raurava)以及“罗檀多罗”(Rathantara)——皆为神圣的歌咏与赞颂之式。

Verse 37

गवां व्रतं विकीर्णं च रक्षोघ्नं च यमं तथा । गायेयुः सामगा राजन्पश्चिमद्वारमाश्रिताः

大王啊,驻守西门的娑摩歌者(Sāmagā)将歌唱(有关)牛之誓戒、“散颂”(Vikīrṇa)、“灭罗刹”(Rakṣoghna,摧伏魔类之咏),以及同样的“阎摩”(Yama)之歌。

Verse 38

आथर्वणाश्चोत्तरतः शांतिकं पौष्टिकं तथा । जपेयुर्मनसा देवमाश्रिता वरुणं प्रभुम्

又有阿闼婆吠陀之祭司面向北方,应以心默诵息灾与增益之仪轨,归依主宰伐楼那(Varuṇa)。

Verse 39

पूर्वे द्युरभितो रात्रावेवं कृत्वाधिवासनम् । गजाश्वरथवल्मीक संगमाद्व्रजगोकुलात्

如是通宵至黎明完成前行的安置与灌顶仪轨后,他们自汇合之处启程——经由名为“象(Gaja)”“马(Aśva)”“车(Ratha)”“蚁丘(Valmīka)”之地——并从弗罗阇(Vraja)与瞿拘罗(Gokula)继续前行。

Verse 40

मृदमादाय कुंभेषु प्रक्षिपेदोषधीस्तथा । रोचनां च ससिद्धार्थां गंधान्गुग्गुलुमेव च

取净土置入诸罐;亦当加入诸般药草,并和以罗遮那(rocanā)、白芥子、诸香料,以及古古卢(guggulu)之香脂。

Verse 41

स्नापनं तस्य कर्त्तव्यं पंचगव्यसमन्वितं । पूर्वं कर्तुर्महामंत्रैरेवं कृत्वा विधानतः

当为其行沐浴之仪,并以五牛圣物(pañcagavya)相随。先由主祭以大真言加持而行,如是依仪轨之法次第进行。

Verse 42

अतिवाह्य क्षपामेवं विधियुक्तेन कर्मणा । ततः प्रभाते विमले संजाते तु शतं गवां

如是依律而修法度,度过长夜;其后清净之晨既明,便现出一百头母牛。

Verse 43

ब्राह्मणेभ्यः प्रदातव्यमष्टषष्ट्यथवा पुनः । पंचाशद्वाथ षट्त्रिंशत्पंचविंशति वा पुनः

当施与婆罗门:或六十八份,或五十份,或三十六份,或复二十五份。

Verse 44

ततश्चावसरप्राप्ते शुद्धे लग्ने सुशोभने । वेदशब्दैः सगंधर्वैर्वाद्यैश्च विविधैः पुनः

随后,当吉祥时刻到来——在清净而辉耀的上升点——吠陀诵声再度响起,伴随着乾闼婆与种种乐器之音。

Verse 45

कनकालंकृतां कृत्वा जले गामवतारयेत् । सामगाय च सा देया ब्राह्मणाय विशांपते

以黄金装饰母牛后,应将其牵入水中;随后把这头牛布施给一位歌诵《娑摩吠陀》的婆罗门,噢,民众之主。

Verse 46

पात्रीमादाय सौवर्णी पंचरत्नसमन्विताम् । ततो निक्षिप्य मकरान्मत्स्यादींश्चैव सर्वशः

他取来一只镶嵌五宝的金器,随后将鳄类、鱼类以及各样水中生灵尽皆置入其中。

Verse 47

धृतां चतुर्भिर्विप्रैश्च वेदवेदांगपारगैः । महानदीजलोपेतां दध्यक्षतविभूषिताम्

由四位通达吠陀与吠陀支分的婆罗门抬持;其中盛有大河之水,并以凝乳与完整不碎的米粒为饰。

Verse 48

उत्तराभिमुखां न्युब्जां जलमध्ये तु कारयेत् । आथर्वणेन सुस्नातां पुनर्मायां तथैव च

应使其面向北方,并令其安置于水中中央而没入水里。以阿闼婆那之仪为其善沐之后,又当如前同样安置“摩耶”。

Verse 49

आपोहिष्ठेति मंत्रेण क्षिप्त्वागत्य च मंडपं । पूजयित्वा सदस्यान्वै बलिं दद्यात्समंततः

以“āpohiṣṭhā…”开头之真言洒净(以水),继而入于曼荼罗殿(mandapa),当礼敬在座众人,并于四方周遍奉献仪式供食(bali)。

Verse 50

पुनर्दिनानि होतव्यं चत्वारि राजसत्तम । चतुर्थीकर्म कर्त्तव्यं देयं तत्रापि शक्तितः

王中至善者啊,应再连续四日奉献供献;至第四日,当行所规定之第四日仪轨,并亦随力施与布施之物。

Verse 51

कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च । ऋत्विग्भ्यस्तु समं दद्यान्मंडपं विभजेत्पुनः

既备妥祭祀之器皿与诸般祭具,当平均分与诸位祭司(ṛtvik),随后再一次将曼荼罗殿(mandapa)依仪分区。

Verse 52

हेमपात्रीं च शय्यां च विप्राय च निवेदयेत् । ततः सहस्रं विप्राणामथवाऽष्टशतं तथा

当向一位婆罗门奉献金制器皿与卧榻;其后(再行供施)于一千位婆罗门——或同样施与八百位。

Verse 53

भोजनीयं यथाशक्ति पंचाशद्वाथ विंशतिः । एवमेष पुराणेषु तटाकविधिरुच्यते

当随力备办斋食:或供五十人,或则二十人。如是,诸《往世书》宣说此为关于池塘(taṭāka)之规定仪则。

Verse 54

कूपवापीषु सर्वासु तथा पुष्करिणीषु च । एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च

在一切井与阶井之中,亦在莲池之中,所见所立皆是同一仪轨;于诸安置奉献与开光之事(pratiṣṭhā)亦复如是。

Verse 55

मंत्रतस्तु विशेषः स्यात्प्रासादोद्यानभूमिषु । अयं त्वशक्तावर्धेन विधिर्दृष्टः स्वयंभुवा

然而就宫殿、园林与土地而言,依所诵真言而有特别差别。此一仪轨,并为力不能及者开许方便,乃自生者斯瓦扬布(梵天)亲自制定。

Verse 56

स्वल्पेष्वेकाग्निवत्कार्यो वित्तशाठ्यविवर्जितैः । प्रावृट्काले स्थितं तोयमग्निष्टोमसमं स्मृतम्

凡于财物不行欺诳者,即使资具微薄,也当如守护一炉圣火般完成所规定之仪。雨季所蓄之水,被忆念为功德等同于阿耆尼什多摩(Agniṣṭoma)祭。

Verse 57

शरत्कालस्थितं यत्स्यात्तदुक्तफलदायकम् । वाजपेयातिरात्राभ्यां हेमंते शिशिरे स्थितम्

凡于秋季所行之事,皆能成就所说之果报;而在寒季 Hemanta 与 Śiśira(冬时)所修者,则赐予瓦阇佩耶(Vājapeya)与阿提罗多罗(Atirātra)祭之果。

Verse 58

अश्वमेधसमं प्राहुर्वसंतसमये स्थितम् । ग्रीष्मेपि यत्स्थितं तोयं राजसूयाद्विशिष्यते

他们宣说:春时所得之水,其功德等同于马祭(Aśvamedha)。而即便在夏季仍能存续可得之水,被认为其胜德尤超于王祭(Rājasūya)。

Verse 59

एतान्महाराज विशेषधर्मान्करोति चोर्व्यामतिशुद्धबुद्धिः । स याति ब्रह्मालयमेव शुद्धः कल्पाननेकान्दिवि मोदते च

大王啊,凡在此世以极其清净之心修行这些殊胜法(特定之法度)者——自身亦得清净——必往梵天之宫,且于天界欢喜安乐,历经无数劫。

Verse 60

अनेकलोकान्विचरन्स्वरादीन्भुक्त्वा परार्धद्वयमङ्गनाभिः । सहैव विष्णोः परमं पदं यत्प्राप्नोति तद्योगबलेन भूयः

游行诸界,自天界(Svarga)等处起,偕诸天女享受其乐,历经二个parārdha;复以瑜伽之力,再次证得毗湿奴之至上境界。