
Vrata–Dāna Compendium at Puṣkara: Puṣpavāhana’s Account and the Ṣaṣṭhī-vrata Purification Rite
第20章(PP.1.20)中,普罗罗斯提耶(Pulastya)答复毗湿摩(Bhīṣma)的请问,先举普湿婆伐诃那王(Puṣpavāhana)的事迹:他蒙梵天(Brahmā)赐予金色莲华与莲车。章内又嵌入因缘故事,以苦行、改过与在补湿迦罗(Puṣkara)及罗伐那遮罗(Lavaṇācala)礼敬毗湿奴(Viṣṇu),彰显圣地(tīrtha)的威德与正法的转化之力。 随后本章展开为誓戒与布施的汇编:列举诸多vrata之名与行持法(如一食、夜食),十二日(Dvādaśī)周期与四月斋(Cāturmāsya)等约束,并详述dāna之品。所举包括施牛、金莲、三叉戟、法螺、芝麻牛、以及施舍房屋与床榻等,并将其果报分别系于毗湿奴、湿婆/鲁陀罗、因陀罗、伐楼那、萨拉斯瓦蒂与梵天等诸天界。 章末转入第六日誓(Ṣaṣṭhī-vrata)的净化仪轨:沐浴清净、祈请恒河(Gaṅgā)、以圣土(mṛttikā)持诵真言,依次作供水(tarpaṇa)于诸神、仙圣与祖灵(pitṛ),向日神(Sūrya)献阿尔伽(arghya),并以家内礼拜与供养婆罗门(brāhmaṇa)作结。
Verse 1
भीष्म उवाच । अत्याश्चर्यवती रम्या कथेयं पापनाशिनी । विस्तरेण च मे ब्रूहि याथातथ्येन पृच्छतः
毗湿摩说道:此故事极其奇妙悦意,且能灭罪。既然我发问,请你依真实本相,为我详尽宣说。
Verse 2
माहात्म्यं मध्यमस्यापि ऋषिभिः परिकीर्तितम् । फलं चान्नस्य कथितं माहात्म्यं च दमस्य तु
诸圣仙亦宣说“中道”(适度之行)的伟大;又讲述正当饮食之果报,并同样称扬自制(damā)之殊胜。
Verse 3
विष्णुना च पदन्यासः कृतो यत्र महामुने । कनीयसस्तथोत्पत्तिर्यथाभूता वदस्व मे
大牟尼啊,请告诉我:毗湿奴在何处安置圣足;并请如实为我说明那位年少者的起源。
Verse 4
पुलस्त्य उवाच । पुरा रथंतरे कल्पे राजासीत्पुष्पवाहनः । नाम्ना लोकेषु विख्यातस्तेजसा सूर्यसन्निभः
普拉斯提亚说道:往昔在罗檀多罗劫中,有一位名为“普湿婆婆诃那”的国王,名闻诸界,光辉灿然,如日之威耀。
Verse 5
तपसा तस्य तुष्टेन चतुर्वक्त्रेण भारत । कमलं कांचनं दत्तं यथाकामगमं नृप
婆罗多啊,四面者(梵天)因其苦行而欢喜,便赐予他一朵金色莲华;大王啊,凭此他可随心所欲往来诸方。
Verse 6
सप्तद्वीपानि लोकं च यथेष्टं विचरत्सदा । कल्पादौ तु समं द्वीपं तस्य पुष्करवासिना
他常随意游行于七洲与诸世界;然而在劫初,那一洲却被住于普湿迦罗者使之平齐如一。
Verse 7
वत्सरं त्वेकभक्ताशी सभक्ष्यजलकुंभदः । शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम्
若有人一年之中每日仅食一次,并施与水罐及资粮,则被称为于一劫之久安住在湿婆之界;此誓戒忆念为“得成誓”(Prāpti-vrata)。
Verse 8
नक्ताशी त्वष्टमीषु स्याद्वत्सरांते तु धेनुदः । पौरंदरं पुरं याति सुगतिव्रतमुच्यते
当于每逢第八日(阿湿多弥)只在夜间进食;至一年终了,当布施一头乳牛。由此得往波兰达罗(因陀罗)之城。此行持名为“善趣誓”(Sugati-vrata)。
Verse 9
तपोनुभावादथ तस्य राज्ञी नारी सहस्रैरभिवंद्यमाना । नाम्ना च लावण्यवती बभूव या पार्वतीवेष्टतमा भवस्य
随后,凭借她苦行的威力,那位国王的王后——为千千万万女子所礼敬——得名为“拉瓦尼娅瓦蒂”(Lāvaṇyavatī),如同帕尔瓦蒂一般,成为婆伐(湿婆)最钟爱的伴侣。
Verse 10
तस्यात्मजानामयुतं बभूव धर्मात्मनामग्र्यधनुर्धराणाम् । तदात्मजांस्तानभिवीक्ष्य राजा मुहुर्मुहुर्विस्मयमाससाद
他有一万名儿子,秉性正直,且为执弓武士中的翘楚。国王望见这些亲子,屡屡为之惊叹不已。
Verse 11
सोभ्यागतं पूज्य मुनिप्रवीरं प्रचेतसं वाक्यमिदं बभाषे । कस्माद्विभूतिरचलामरमर्त्यपूजा जाता कथं कमलजा सदृशी सुराज्ञी
他迎接并恭敬礼奉圣贤普罗切塔斯(Pracetas),说道:“这为天神与世人所敬仰、不可动摇的荣光,因何而生?那位神圣的王后又如何得以如同莲生者(Kamalajā,吉祥天女Lakṣmī)一般?”
Verse 12
भार्या मयाल्पतपसा परितोषितेन दत्तं ममांबुजगृहं च मुनींद्र धात्रा । यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां सामात्यकुंजररथौघजनावृतानां
噢,诸仙之主啊,造物主达特利(Dhātṛ)虽见我苦行微薄,却仍垂怜赐我妻室,并赐此如莲之居所。即便有百俱胝国王,周围簇拥着群臣、象队与车阵,以及无数民众,也都能进入其中。
Verse 13
नालक्ष्यते क्वगतमम्बरगामिभिश्च तारागणेंदुरविरश्मिभिरप्यगम्यम् । तस्मात्किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषजनातिगं यत्
不可辨知它去了何处——它超越了行于虚空者的所及,连群星、明月与太阳的光芒也难以触达。因此,凡由他母胎而生者,又能成就何等事业——如法(dharma)等——而能超越一切众生呢?
Verse 14
सर्वैर्मयाथ तनयैरथ वानयापि सद्भार्यया तदखिलं कथय प्रचेतः । सोप्यभ्यधादथ भवांतरितं निरीक्ष्य पृथ्वीपते शृणु तदद्भुतहेतुवृत्तम्
“与我同在,连同你的诸子,以及你的妻子——贤德的配偶——请将一切详尽道来,普罗切塔斯啊。”于是他也仿佛内观追忆往昔,答道:“大地之主啊,请听这奇妙因缘的叙述。”
Verse 15
जन्माभवत्तव तु लुब्धकुलेपि घोरं जातस्त्वमप्यनुदिनं किल पापकारी । वपुरप्यभूत्तव पुनः पुरुषांगसंधिदुर्गंधिसत्त्वकुनखाभरणं समंतात्
你的出生竟在贪婪而可怖的猎人族中;而你也日复一日,确实造作罪业。甚至你的形体亦成了不净的标记:肢节粗陋,恶臭遍身,皮爪如饰,处处令人厌离,以示久行恶业之业报。
Verse 16
न च ते सुहृन्न सुतबंधुजनो न तादृक्नैवस्वसा न जननी च तदाभिशस्ता । अतिसंमता परमभीष्टतमाभिमुखी जाता मही शतवयोषिदियं सुरूपा
你既无真友,亦无那样的儿子与亲族;当时也无姊妹,甚至无母亲为你申辩。然而此大地——备受尊崇、最为可爱、面向于你——却来到你前,形容端丽,宛如百位妙龄少女。
Verse 17
अभूदनावृष्टिरतीव रौद्रा कदाचनाहारनिमित्तमस्यां । क्षुत्पीडितेन भवता तु यदा न किंचिदासादितं वन्यफलादि भक्ष्यं
曾有一次,降下极其凶烈的旱灾,于是此地因食物而生大苦。那时你为饥饿所逼,竟得不到任何可食之物——连野果之类也无从获得——
Verse 18
अथाभिदृष्टं महदंबुजाढ्यं सरोवरं पंकपरीतरोधः । पद्मान्यथादाय ततो बहूनि गतः पुरं वैदिश नामधेयं
随后他看见一处大湖,莲华繁盛,岸边尽被淤泥环绕。他从那里采取许多莲花,便前往名为毗底沙(Vaidisha)的城邑。
Verse 19
तन्मूल्यलाभाय पुरं समस्तं भ्रांतं त्वयाशेषमहस्तदासीत् । क्रेता न कश्चित्कमलेषु जातः क्लांतः परं क्षुत्परिपीडितश्च
为求得其价,你整日走遍全城;然而莲花终无买主。你疲惫至极,又被饥饿深深折磨。
Verse 20
उपविष्टस्त्वमेकस्मिन्सभार्यो भवनांगणे । ततो रात्रौ भवांस्तत्र अश्रौषीन्मंगलध्वनिं
你与妻子同坐在屋内一处庭院。随后在夜间,你在那里听见了吉祥之声。
Verse 21
सभार्यस्तत्र गतवान्यत्रासौ मंगलध्वनिः । तत्र मंडलमध्यस्था विष्णोरर्चाविलोकिता
他与妻子一同前往那吉祥之声所起之处;在那里,于已加持的圆坛中央,他瞻见了受敬奉的毗湿奴圣像。
Verse 22
वेश्यानंगवती नाम बिभ्रती द्वादशीव्रतं । समाप्य माघमासस्य द्वादश्यां लवणाचलं
名为阿难伽伐蒂(Anaṅgavatī)的一位歌伎,奉持“十二日斋戒”(Dvādaśī-vrata),于摩伽月(Māgha)十二日,在拉伐那遮罗(Lavaṇācala)圆满完成。
Verse 23
न्यवेदयत्तु गुरवे शय्यां चोपस्करान्विताम् । अलंकृत्य हृषीकेशं सौवर्णं सममादरात्
随后他以恭敬之心向上师奉献一张备齐诸具的卧榻;并为赫利希凯沙(Hṛṣīkeśa)庄严装饰后,又虔敬献上黄金之礼。
Verse 24
सा तु दृष्टा ततस्ताभ्यामिदं च परिचिंतितं । किमेभिः कमलैः कार्यं वरं विष्णुरलंकृतः
当她被看见时,两人便思量道:“这些莲花有何用?不如用来庄严毗湿奴本尊。”
Verse 25
इति भक्तिस्तदा जाता दंपत्योस्तु नरेश्वर । तत्प्रसंगात्समभ्यर्च्य केशवं लवणाचलं
于是,噢人中王,那对夫妇当时生起了虔敬之心;并因这因缘,在拉瓦那恰拉如法礼拜了凯沙瓦。
Verse 26
शय्या च पुष्पप्रकरैः पूजिताभूच्च सर्वशः । अथानंगवती तुष्टा तयोर्धान्यशतत्रयम्
又以成堆花朵从四方供奉那卧榻。随后阿难伽伐蒂心生欢喜,赐给他们二人三百量谷粮。
Verse 27
दीयतामादिदेशाथ कलधौतपलत्रयं । न गृहीतं ततस्ताभ्यां महासत्वावलंबनात्
随后他吩咐道:“给他们三只金钵。”然而二人凭其高尚操守,并未收受。
Verse 28
अनंगवत्या च पुनस्तयोरन्नं चतुर्विधं । आनीय व्याहृतं चान्नं भुज्यतामिति भूपते
随后阿难伽伐蒂又为二人带来四种饮食;并将饭食奉上,说道:“大王,请享用此食。”
Verse 29
ताभ्यां च तदपि त्यक्तं भोक्ष्यावः श्वो वरानने । प्रसंगादुपवासो नौ तवाद्यास्तु शुभावहः
也因那二人之故,那些也被搁置了。明日我们再用食吧,容颜姝丽者。因缘所迫,今日我们守斋;愿你此日吉祥,带来善福。
Verse 30
जन्मप्रभृति पापिष्ठावावां देवि दृढव्रते । त्वत्प्रसंगाद्भवद्गेहे धर्मलेशोस्तु नाविह
自出生以来,我二人最为罪重,坚誓之天女啊。然而因与汝相近,在你此处家中,尚有一丝法(dharma)的痕迹。
Verse 31
इति जागरणं ताभ्यां तत्प्रसंगादनुष्ठितं । प्रभाते च तया दत्ता शय्या सलवणाचला
于是因那缘故,二人如法守持通宵警醒;至黎明时,她又赐与他们一张卧榻,并连同那拉瓦那遮罗(盐山)一并施与。
Verse 32
ग्रामश्च गुरवे भक्त्या विप्रेभ्यो द्वादशैव तु । वस्त्रालंकारसंयुक्ता गावश्च कनकान्विताः
又以虔敬之心,将一座村落奉献给师长;并施与婆罗门十二头母牛,披衣佩饰,且伴以黄金。
Verse 33
भोजनं च सुहृन्मित्रदीनांधकृपणैः सह । तच्च लुब्धकदांपत्यं पूजयित्वा विसर्जितम्
又施与饮食,并周济亲友善人,以及贫者、盲者与困乏之人。随后,那对猎人夫妇受了礼敬,便被恭送而去。
Verse 34
स भवान्लुब्धको जातः सपत्नीको नृपेश्वरः । पुष्करप्रकरात्तस्मात्केशवस्य तु पूजनात्
噢,诸王之主,正因在圣地补湿迦罗(Puṣkara)礼敬凯沙瓦(Keśava),你与妻子一同再度转生为猎人。
Verse 35
विनष्टाशेषपापस्य तव पुष्करमंदिरं । तस्य सत्यस्य माहात्म्यादलोभतपसा नृप
大王,你的补湿迦罗圣殿将灭尽一切余罪;凭借那真实之德的伟力,并以无贪的苦行而成就。
Verse 36
प्रादात्कामगमं यानं लोकनाथश्चतुर्मुखः । संतुष्टस्तव राजेंद्र पुष्करं त्वं समाश्रय
四面世界之主(梵天 Brahmā)赐你一乘随心而行的车驾。因喜悦于你,诸王之王啊,他说:“当归依补湿迦罗。”
Verse 37
कल्पं सत्वं समासाद्य विभूतिद्वादशीव्रतं । कुरु राजेंद्र निर्वाणमवश्यं समवाप्स्यसि
诸王之王啊,既已如法摄受清净的萨埵(sāttvika)行持,当守持“毗部底·十二日誓”(Vibhūti-Dvādaśī-vrata);你必定证得解脱(涅槃)。
Verse 38
एतदुक्त्वा तु स मुनिस्तत्रैवांतरधीयत । राजा यथोक्तं च पुनरकरोत्पुष्पवाहनः
说罢,那位牟尼当场隐没无踪。国王普湿波婆诃那(Puṣpavāhana)又依其所教,丝毫不差地照做了。
Verse 39
इदमाचरतो राजन्नखंडव्रतता भवेत् । यथाकथंचित्कालेन द्वादशद्वादशीर्नृप
大王,依此修行,便能成就不间断的誓戒;并且随着时日推移,无论如何终将圆满十二次“十二日斋”(Dvādaśī),君王啊。
Verse 40
कर्तव्या शक्तितो देव विप्रेभ्यो दक्षिणा नृप । ज्येष्ठे गावः प्रदातव्या मध्यमे भूमिरुत्तमा
大王、尊者啊:应依自身能力向婆罗门奉献“达克希那”(dakṣiṇā,祭礼供施)。上等供施为布施乳牛;中等供施为上好田地。
Verse 41
कनिष्ठे कांचनं देयमित्येषा दक्षिणा स्मृता । प्रथमं ब्रह्मदैवत्यं द्वितीयं वैष्णवं तथा
下等供施则应布施黄金——此即所传的达克希那(dakṣiṇā)。第一分由梵天(Brahmā)主宰;第二分亦为毗湿奴派(Vaiṣṇava),由毗湿奴(Viṣṇu)主宰。
Verse 42
तृतीयं रुद्रदैवत्यं त्रयो देवास्त्रिषु स्थिताः । इति कलुषविदारणं जनानां पठति च यस्तु शृणोति चापि भक्त्या
第三分由鲁陀罗(Rudra)主宰;三位神祇安住于“三者”之中。凡以虔敬诵持——乃至仅仅聆听——此能破除众生垢染之教者,皆得清净。
Verse 43
मतिमपि च स याति देवलोके वसति च रोमसमानि वत्सराणि । अथातः संप्रवक्ष्यामि व्रतानामुत्तमं व्रतं
他亦得正慧,往生天界,在彼处住世之年数,多如身毛。于是现在,我将宣说诸誓戒之中最殊胜的誓戒。
Verse 44
कथितं तेन रुद्रेण महापातकनाशनम् । नक्तमब्दं चरित्वा तु गवासार्धं कुटुंबिने
如是,鲁陀罗宣说此法能灭除大罪。若行持“夜食(naktam)”之戒满一年,当施与居士一头母牛,并加赠半份供养。
Verse 45
हैमं चक्रं त्रिशूलं च दद्याद्विप्राय वाससी । एवं यः कुरुते पुण्यं शिवलोके स मोदते
当施与婆罗门金制圆轮与三叉戟,并施衣服。如此行此功德布施者,于湿婆之界欢喜安乐。
Verse 46
एतदेव व्रतं नाम महापातकनाशनम् । यस्वेकभक्तेन क्षिपेद्धेनुं वृषसमन्विताम्
此即名为“灭大罪之誓”的戒行:若有人以一心虔敬,布施一头母牛,并以公牛相随为赠。
Verse 47
धेनुं तिलमयीं दद्यात्स पदं याति शांकरम् । एतद्रुद्रव्रतं नाम भयशोकविनाशनम्
当布施以芝麻塑成之母牛;由此得至商羯罗(湿婆)之住处。此行名为“鲁陀罗誓(Rudra-vrata)”,能灭除恐惧与忧苦。
Verse 48
यश्च नीलोत्पलं हैमं शर्करापात्रसंयुतम् । एकांतरितनक्ताशी समांते वृषसंयुतम्
又若有人供奉金制青莲,并以盛糖之器相随,行持隔次而夜食之律,至年终复供奉一头公牛——(即得所说之宗教功德)。
Verse 49
वैष्णवं स पदं याति नीलव्रतमिदं स्मृतम् । आषाढादिचतुर्मासमभ्यंगं वर्जयेन्नरः
他将到达毗湿奴信众的圣境;此戒名为“尼罗誓”(Nīla-vrata)。自阿沙陀月(Āṣāḍha)起,四个月的雨安居期(Cāturmāsya)中,应当戒除涂油按摩沐浴(abhyaṅga)。
Verse 50
भोजनोपस्करं दद्यात्स याति भवनं हरेः । जनप्रीतिकरं नॄणां प्रीतिव्रतमिहोच्यते
凡施与饮食器具与粮食供养者,得至哈利(Hari)之居。因能令众人欢喜,此处称为“喜悦誓”(Priti-vrata)。
Verse 51
वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम् । दद्याद्वस्त्राणि सूक्ष्माणि रसपात्रेण संयुतम्
若人戒除醉酒之饮,而供奉酸乳(dadhi)、牛乳、酥油(ghṛta)与甘蔗汁,并施与细软衣服,兼赠饮器,则得殊胜福德。
Verse 52
संपूज्य विप्रमिथुनं गौरी मे प्रीयतामिति । एतद्गौरीव्रतं नाम भवानीलोकदायकम्
当如法供敬婆罗门夫妇,并祈曰:“愿高丽(Gaurī)悦纳于我。”此行名为“高丽誓”(Gaurī-vrata),能赐得婆伐尼(Bhavānī)之界。
Verse 53
पुष्यादौ यस्त्रयोदश्यां कृत्वा नक्तमथो पुनः । अशोकं कांचनं दद्यादिक्षुयुक्तं दशांगुलम्
凡自普舍(Puṣya)宿起,于月之第十三日行“夜食”(nakta)之戒,仅于夜间进食;复于所定之时,布施金制阿输迦(aśoka)供品,并施十指量之甘蔗者,得大功德。
Verse 54
विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति । कल्पं विष्णुपुरे स्थित्वा विशोकस्स्यात्पुनर्नृप
“愿普拉丢姆那因这献给婆罗门的衣服而欢喜。”在毗湿奴之城住满一劫之后,他又得离忧无悲,哦,国王。
Verse 55
एतत्कामव्रतं नाम सदा शोकविनाशनम् । आषाढादि व्रते यस्तु वर्जयेद्यः फलाशनम्
此修持名为“迦摩誓”(Kāma-vrata),恒常摧灭忧愁。在以阿沙陀月(Āṣāḍha)为始的誓行周期中,若有人戒绝以果为食……
Verse 56
चातुर्मास्ये निवृत्ते तु घटं सर्पिर्गुडान्वितम् । कार्तिक्यां तत्पुनर्हैमं ब्राह्मणाय निवेदयेत्
当四月斋期(Cāturmāsya)结束时,应向婆罗门奉献一罐酥油,和以粗糖(jaggery);又在迦尔提迦月(Kārtika),再向婆罗门奉献一只金制器皿。
Verse 57
स रुद्रलोकमाप्नोति शिवव्रतमिदं स्मृतम् । वर्जयेद्यस्तु पुष्पाणि हेमंते शिशिरावृते
他将抵达鲁陀罗之界;此即被忆持为“湿婆之誓”(Śiva-vrata)。然而在寒季赫曼塔(Hemanta)之时、冷气盛行之际,若有人避而不献花,则此誓不成。
Verse 58
पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्या च कांचनम् । दद्याद्द्विकालवेलायां प्रीयेतां शिवकेशवौ
在法尔古那月(Phālguna),备办三朵(或三种)花,并依自身能力备些黄金,于每日两次仪轨之时奉献;则湿婆与凯沙瓦(毗湿奴)皆得欢喜。
Verse 59
दत्वा परं पदं याति सौम्यव्रतमिदं स्मृतम् । फाल्गुनादि तृतीयायां लवणं यस्तु वर्जयेत्
奉行此戒者,得至无上境界;此被称为温和之誓(Saumya)。自法尔古那月起之第三月相日(tithi),凡能戒盐者,即修此誓。
Verse 60
समांते शयनं दद्याद्गृहं चोपस्करान्वितम् । संपूज्य विप्रमिथुनं भवानी प्रीयतामिति
至一年终了,当施与卧榻,并施一所备具家用之宅。恭敬供养婆罗门夫妇后,应言:“愿薄伐尼(Bhavānī)欢喜。”
Verse 61
गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुच्यते । संध्यामौनं नरः कृत्वा समांते घृतकुंभकम्
居于高丽(Gaurī)之界一劫者,名为“吉祥誓”(Saubhāgya-vrata)。男子于晨昏礼(sandhyā)中守默,然后在年终奉献一罐满盛酥油(ghee)。
Verse 62
वस्त्रयुग्मं तिलान्घंटां ब्राह्मणाय निवेदयेत् । लोकं सारस्वतं याति पुनरावृत्तिदुर्लभम्
若以一双衣服与以芝麻所成之铃(即与芝麻相应之施物)奉献于婆罗门者,得至娑罗萨瓦多(Sārasvata)之界——从彼处再返轮回甚难。
Verse 63
एतत्सारस्वतं नाम रूपविद्याप्रदायकम् । लक्ष्मीमभ्यर्च्य पंचम्यामुपवासी भवेन्नरः
此行名为“娑罗萨瓦多”(Sārasvata),能赐予形相之学(艺美之知)。礼敬供奉拉克什弥(Lakṣmī)后,当于第五月相日(pañcamī)守斋。
Verse 64
समांते हेमकमलं दद्याद्धेनुसमन्वितम् । स वै विष्णुपदं याति लक्ष्मीः स्याज्जन्मजन्मनि
至一年终了,当施赠金莲并以母牛相随。诚然,如是之人得至毗湿奴之居处,吉祥天女拉克希米(福泽)将生生世世随护。
Verse 65
एतल्लक्ष्मीव्रतं नाम दुःखशोकविनाशनम् । कृत्वोपलेपनं शंभोरग्रतः केशवस्य च
此名为“拉克希米誓戒”(Lakṣmī-vrata),能灭除忧苦与哀伤。先于商婆(湿婆)之前,并亦于凯沙瓦(毗湿奴)之前,行以圣膏涂抹之仪……
Verse 66
यावदब्दं पुनर्देया धेनुर्जलघटस्तथा । जन्मायुतं स राजा स्यात्ततः शिवपुरं व्रजेत्
一年之内,应屡次施舍母牛与盛水之罐。由此,他将于一万次出生中为王;其后,往诣湿婆之城——湿婆城(Śivapura)。
Verse 67
एतदायुर्व्रतं नाम सर्वकामप्रदायकम् । अश्वत्थं भास्करं गंगां प्रणम्यैकाग्रमानसः
此名为“寿命誓戒”(Āyur-vrata),能赐一切所愿圆满。应以专一之心,礼敬圣阿湿婆他树、礼敬日神,并礼敬恒河(Gaṅgā)。
Verse 68
एकभक्तं नरः कुर्यादब्दमेकं विमत्सरः । व्रतांते विप्रमिथुनं पूज्यं धेनुत्रयान्वितम्
人当离嫉妒,行“一食”(ekabhakta)之戒满一年。于誓戒圆满之时,应礼敬一对婆罗门,并供以三头母牛。
Verse 69
वृक्षं हिरण्मयं दद्यात्सोश्वमेधफलं लभेत् । एतत्कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम्
若有人布施金树,便得阿湿婆美陀(马祭)之果报。此名“吉尔蒂誓”(Kīrti-vrata),能赐予富足与名声之果。
Verse 70
घृतेन स्नपनं कृत्वा शंभोर्वा केशवस्य वा । अक्षताभिः सपुष्पाभिः कृत्वा गोमयमंडलम्
以酥油为圣像沐浴——无论是商布(湿婆)或凯沙瓦(毗湿奴)——随后以牛粪作成仪式圆坛,并以不碎米与花供养礼拜。
Verse 71
समांते हेमकमलं तिलधेनुसमन्वितम् । शूलमष्टांगुलं दद्याच्छिवलोके महीयते
至一年终了,当施与金莲,并配以“芝麻母牛”(tiladhenu);又当布施长八指(aṅgula)之三叉戟——由此在湿婆之界受尊崇。
Verse 72
सामगायनकं चैव सामव्रतमिहोच्यते । नवम्यामेकभक्तं तु कृत्वा कन्याश्च शक्तितः
诵唱《娑摩》圣歌,正是此处所说的“娑摩誓”(Sāma-vrata)。于第九日行一食斋后,当随力布施于少女。
Verse 73
भोजयित्वा समं दद्याद्धेमकंचुकवाससी । हैमं सिंहं च विप्रा यदद्याच्छिवपदं व्रजेत्
供养婆罗门饮食之后,还当施与金制上衣与衣服;诸婆罗门啊,凡布施金狮者,得至湿婆之圣境。
Verse 74
जन्मार्बुदं सुरूपः स्याच्छत्रुभिश्चापराजितः । एतद्वीरव्रतं नाम नराणां च सुखप्रदम्
历经无量生世,行者得端严妙相,亦不为怨敌所败。此名“勇士之誓”(vīra-vrata),能赐众人安乐。
Verse 75
चैत्रादि चतुरोमासाञ्जलं दद्याद्दयान्वितः । व्रतांते मणिकं दद्यादन्नं वस्त्रसमन्वितम्
怀慈悲心,自恰特罗月(Caitra)起四个月间当施水供养。至誓愿圆满之时,应布施一枚小宝石,并施食与衣。
Verse 76
तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते । कल्पांते भूतिजननमानंदव्रतमुच्यते
盛满芝麻与黄金之器,在梵天界(Brahmaloka)受尊崇。至劫尽之时,此被称为“欢喜誓”(Ānandavrata),能生福裕安泰。
Verse 77
पंचामृतेन स्नपनं कृत्वा संवत्सरं विभोः । वत्सरांते पुनर्दद्याद्धेनुं पंचामृतान्वितां
以五甘露(pañcāmṛta)为主尊行沐浴仪轨,满一整年后,于岁终当再布施一头母牛,并以五甘露相随为供。
Verse 78
विप्राय दद्याच्छंखं च सपदं याति शांकरम् । राजा भवति कल्पांते धृतिव्रतमिदं स्मृतम्
若以法施将海螺(śaṅkha)奉赠婆罗门(brāhmaṇa),即刻得至商羯罗(Śaṅkara)之居处;至宇宙周期终尽时,更得为王。此誓名为“持”(Dhṛti)。
Verse 79
वर्जयित्वा पुमान्मांसं व्रतांते गोप्रदो भवेत् । तद्वद्धेममृगं दद्यात्सोश्वमेधफलं लभेत्
若人戒食肉类,并于誓愿圆满之时布施一头母牛,即成施牛之功德主。又若施以金鹿,则得与马祭(阿湿婆美陀)同等之福德。
Verse 80
अहिंसाव्रतमित्युक्तं कल्पांते भूपतिर्भवेत् । कल्यमुत्थाय वै स्नानं कृत्वा दांपत्यमर्चयेत्
此名为不害之誓;至劫尽之时,行者得为王者。清晨起身,当先沐浴,然后礼敬夫妇神圣合一之法。
Verse 81
भोजयित्वा यथाशक्ति माल्यवस्त्रविभूषणैः । सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम्
随力施食于人,并奉献花鬘、衣服与饰物者,得住于日神之界一整劫;此即所称“苏利耶誓”(Sūrya-vrata)。
Verse 82
आषाढादि चतुर्मासं प्रातःस्नायी भवेन्नरः । विप्राय भोजनं दत्वा कार्तिक्यां गोप्रदो भवेत्
自阿沙陀月(Āṣāḍha)起,四个月的圣期之中,行者当于清晨沐浴。既施食于婆罗门,于迦尔提迦月(Kārttika)应行施牛之供养。
Verse 83
स वैष्णवपदं याति विष्णुव्रतमिदं स्मृतम् । अयनादयनं यावद्वर्जयेत्पुष्पसर्पिषी
彼得至毗湿奴之境(Vaikuṇṭha);此被称为毗湿奴之誓。从一至日到下一至日,应戒绝(供献)花与酥油。
Verse 84
तदंते पुष्पमन्नानि घृतधेन्वा सहैव तु । दत्वा शिवपदं याति विप्राय घृतपायसम्
此后,供奉花食,并连同一头出酥油之母牛施与;又以酥油甜乳饭布施婆罗门,便得证入湿婆之境(湿婆之居处)。
Verse 85
एतच्छीलव्रतं नाम शीलारोग्यफलप्रदम् । यावत्समं भवेद्यस्तु पंचदश्यां पयोव्रतः
此名为“尸罗誓”(Śīla-vrata),能赐予善行与健康之果。凡于月之第十五日受持“乳誓”,并持续至所许期限圆满者——
Verse 86
समांते श्राद्धकृद्दद्याद्गाश्च पंच पयस्विनीः । वासांसि च पिशंगानि जलकुंभयुतानि च
至期满(年终)时,行施罗达(śrāddha)者当布施五头产乳之母牛,并施以黄褐色衣服,兼赠盛水之壶。
Verse 87
स याति वैष्णवं लोकं पितॄणां तारयेच्छतम्
彼得至毗湿奴之界(Vaiṣṇava-loka),并能度脱其百位祖先之灵(Pitṛ)。
Verse 88
कल्पांते राजराजेंद्र पितृव्रतमिदं स्मृतम् । संध्यादीप प्रदो यस्तु घृतैस्तैलं विवर्जयेत्
王中之王啊,于一劫终时,此被称忆为奉行于祖灵(Pitṛ)之仪:凡于昏暮供灯者,当避用酥油与油脂。
Verse 89
समांते दीपकं दद्याच्चक्रं शूलं च कांचनम् । वस्त्रयुग्मं च विप्राय स तेजस्वी भवेन्नरः
在年终之时,应向婆罗门布施一盏明灯、神轮、三叉戟与黄金,并奉上一对衣裳;此人将光辉灿然,名德显著。
Verse 90
रुद्रलोकमवाप्नोति दीप्तिव्रतमिदं स्मृतम् । कार्तिकादि तृतीयायां प्राश्य गोमूत्र यावकम्
他将抵达鲁陀罗之界;此戒被称为“光辉誓(Dīpti-vrata)”。自迦尔提迦月起之第三月相日,应食以牛尿调制之大麦。
Verse 91
नक्तं चरेदब्दमेकमब्दान्ते गोप्रदो भवेत् । गौरीलोके वसेत्कल्पं ततो राजा भवेदिह
若修持夜间之誓满一整年,则至年终便成施牛之人。于高丽(Gaurī)之界住一劫,随后在此世间复得为王。
Verse 92
एतद्रुद्रव्रतं नाम सदा कल्याणकारकम् । वर्जयेच्चतुरो मासान्यस्तु गन्धानुलेपनम्
此名为“鲁陀罗誓(Rudra-vrata)”,恒为吉祥之因。受持者当于四个月间戒除涂抹香水与诸芳香膏油。
Verse 93
शुक्तिगन्धाक्षतान्दद्याद्विप्राय सितवाससी । वारुणं पदमाप्नोति दृढव्रतमिदं स्मृतम्
身着白衣的女子应向婆罗门供奉芬芳之米粒;由此得至伐楼那(Varuṇa)之境。此被称为坚固之戒行。
Verse 94
वैशाखे पुष्पलवणं वर्जयेदथ गोप्रदः । भूत्वा विष्णुपदे कल्पं स्थित्वा राजा भवेदिह
在毗舍迦月(Vaiśākha),应当戒避“花盐”;若能成为施牛者,便得住于毗湿奴(Viṣṇu)之境一劫,随后在此世间成王。
Verse 95
एतच्छान्तिव्रतं नाम कीर्तिकामफलप्रदम् । ब्रह्माण्डं काञ्चनं कृत्वा तिलराशि समन्वितम्
此名为“寂静誓”(Śānti-vrata),能赐名声并成就所愿。应铸作金色的“梵卵”(brahmāṇḍa,宇宙之卵),并与一堆芝麻同施供养。
Verse 96
घृतेनान्यप्रदो भूत्वा वह्निं संतर्प्य सद्विजम् । संपूज्य विप्रदांपत्यं माल्यवस्त्रविभूषणैः
成为施酥油及诸供品之人,应当令圣火与贤善婆罗门满足;并当恭敬礼敬婆罗门夫妇,以花鬘、衣服与饰物供奉礼拜。
Verse 97
शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति । पुण्येऽह्नि दद्यादपरे ब्रह्म यात्यपुनर्भवम्
随其能力,若施与至少三帕拉(pala)或更多,并祈念“愿宇宙之我(世界之灵)欢喜”,则于吉日行施,得证梵(Brahman),不再回返轮回。
Verse 98
एतद्ब्रह्मव्रतं नाम निर्वाणफलदं नृणाम् । यश्चोभयमुखीं दद्यात्प्रभूतसकलान्विताम्
此名为“梵誓”(Brahma-vrata),于人能赐解脱(涅槃)之果。又凡施与“二口器”(obhayamukhī,双口/双流口之器),具足丰备、诸所需皆齐者,亦得同等功德。
Verse 99
दिनं पयोव्रतं तिष्ठेत्स याति परमं पदम् । एतद्वै सुव्रतं नाम पुनरावृत्तिदुर्लभम्
凡一日守持乳誓(payovrata),唯以乳为食者,得至无上住处。此实名为“善妙之誓”,由此能断除再返轮回之路。
Verse 100
त्र्यहं पयोव्रतः स्थित्वा काञ्चनं कल्पपादपम् । पलादूर्ध्वं यथाशक्ति तण्डुलप्रस्थसंयुतम्
守持三日乳誓之后,当供养一株金制如意树,并随力配以一量米,其数不少于一帕拉(pala),或更多。
Verse 101
दत्त्वा ब्रह्मपदं याति भीमव्रतमिदं स्मृतम् । मासोपवासी यो दद्याद्धेनुं विप्राय शोभनाम्
施此供养者,得至梵天之位;此被宣说为“怖畏誓”(Bhīma-vrata)。若有人月中持斋,继而施与婆罗门一头端严佳牛,亦得彼等殊胜之果。
Verse 102
स वैष्णवपदं याति भीमव्रतमिदं स्मृतम् । दद्याद्विंशत्पलादूर्ध्वं महीं कृत्वा तु काञ्चनीम्
彼得至毗湿奴之住处——此名为“怖畏誓”(Bhīma-vrata)。其后应布施一尊金制大地之像,重量不少于二十帕拉。
Verse 103
दिनं पयोव्रतस्तिष्ठेद्रुद्रलोके महीयते । धनप्रदमिदं प्रोक्तं सप्तकल्पशतानुगम्
若有人一日守持乳誓(payovrata),便在鲁陀罗之界受尊崇。此誓被说能赐予财富,其功德绵延七百劫。
Verse 104
माघेमास्यथ चैत्रे वा गुडधेनुप्रदो भवेत् । गुडव्रतं तृतीयायां गौरीलोके महीयते
无论在摩伽月或在制多罗月,都应布施“糖牛”(以粗糖塑成牛形的供施)。于第三日(tṛtīyā)所行的古荼誓(Guḍa-vrata),在女神高丽(Gaurī)的境界中备受尊崇。
Verse 105
महाव्रतमिदं नाम परमानन्दकारकम् । पक्षोपवासी यो दद्याद्विप्राय कपिलाद्वयम्
此名为“大誓”,能成就至上的喜乐。若有人半月持斋,并以一对黄褐色母牛布施于婆罗门(brāhmaṇa),便得其功德。
Verse 106
स ब्रह्मलोकमाप्नोति देवासुरसुपूजितः । कल्पान्ते सर्वराजा स्यात्प्रभाव्रतमिदं स्मृतम्
他将到达梵天(Brahmā)之界,受天神与阿修罗同等礼敬;至劫末更成转轮圣王——此即所称“光明誓”(Prabhā-vrata)。
Verse 109
इंधनं यो ददेद्विप्रे वर्षादींश्चतुरस्त्वृतून् । घृतधेनुप्रदोंते च स परं ब्रह्म गच्छति
凡向婆罗门施与柴薪,供自雨季起的四时之用,并在生命终了时再布施“酥油牛”(以酥油象征之供施)者,得至无上梵(Supreme Brahman)。
Verse 110
वैश्वानरव्रतं नाम सर्वपापप्रणाशनम् । एकादश्यां तु नक्ताशी यश्चक्रं विनिवेदयेत्
名为“毗湿瓦那罗誓”(Vaiśvānara)的誓行,被说能灭尽诸罪。于第十一日(ekādaśī),若仅夜间进食,并奉献一枚“轮”(cakra,圆盘)为供养,即为修持此誓。
Verse 111
कृत्वा समांते सौवर्णं विष्णोः पदमवाप्नुयात् । एतत्कृष्णव्रतं नाम कल्पांते राज्यलाभकृत्
圆满此戒行后,于誓愿终了应奉献黄金之施,由此得至毗湿奴之住处。此名“克里希那誓戒”(Kṛṣṇa-vrata);至一劫(kalpa)终时,能成为获得王权与尊荣之因。
Verse 112
पायसाशी समांते तु दद्याद्विप्राय गोयुगम् । लक्ष्मीलोके वसेत्कल्पमेतद्देवीव्रतं स्मृतं
于戒行圆满之时,行者以乳粥(pāyasa)为食,应施与婆罗门一对母牛。由此可在吉祥天女拉克希米(Lakṣmī)之界住满一劫。此被称为“女神誓戒”(Devī-vrata)。
Verse 113
सप्तम्यां नक्तभुग्दद्यात्समाप्ते गां पयस्विनीं । सूर्यलोकमवाप्नोति भानुव्रतमिदं स्मृतम्
在月之第七日(saptamī),应唯于夜间进食;并于戒行圆满时布施一头多乳之牛。由此得至苏利耶(Sūrya,日神)之界。此称“婆奴誓戒”(Bhānu-vrata)。
Verse 114
चतुर्थ्यां नक्तभुग्दद्याद्धेमंते गोयुगं तथा । एतद्वैनायकं नाम शिवलोकफलप्रदम्
在月之第四日(caturthī),应行夜食之戒;并于冬季施与一对母牛。此仪名为“毗那耶迦誓戒”(Vaināyaka-vrata),能赐得往生湿婆(Śiva)之界的果报。
Verse 115
महाफलानि यस्त्यक्त्वा चातुर्मास्ये द्विजातये । हैमानि कार्तिकेदद्याद्धोमान्ते गोयुगं तथा
舍弃自取之大果报者,于四月斋期(Cāturmāsya)中,应在迦尔提迦月(Kārtika)向二生者(dvija,婆罗门)奉献金施;并于火供(homa)终了时,同样布施一对母牛。
Verse 116
एतत्सौरव्रतं नाम सूर्यलोकफलप्रदम् । द्वादशाद्वादशीर्यस्तु समाप्योपोषणे नृप
此名为“娑罗(Saura)誓戒”,能赐得往生日神苏利耶之界的果报。大王啊,若有人自一日“十二日斋”(Dvādaśī)至下一次Dvādaśī圆满修持,并以禁食作结……
Verse 117
गोवस्त्रकांचनैर्विप्रान्पूजयेच्छक्तितो नरः । परं पदमवाप्नोति विष्णुव्रतमिदं स्मृतम्
人应随其能力以牛、衣与黄金供养礼敬婆罗门;由此得至无上境界——此誓戒被忆念为奉献于毗湿奴(Viṣṇu)之誓。
Verse 118
चतुर्दश्यां तु नक्ताशी समान्ते गोयुगप्रदः । शैवं पदमवाप्नोति त्रैयंबकमिदं स्मृतम्
于月之第十四日(四十四日,Caturdaśī),当仅在夜间进食;并于行持圆满之时施赠一对乳牛。由此得至湿婆(Śiva)之境——此誓名为“特莱央巴迦”(Traiyambaka)。
Verse 119
सप्तरात्रोषितो दद्याद्घृतकुंभं द्विजातये । वरव्रतमिदं प्राहुर्ब्रह्मलोकफलप्रदम्
行此誓七夜之后,当以一罐酥油(ghee)布施于二次生者(dvijāta,婆罗门)。此被宣说为殊胜之誓,能赐得往生梵天(Brahmā)世界之果。
Verse 120
असौ काशीं समासाद्य धेनुं दत्ते पयस्विनीम् । शक्रलोके वसेत्कल्पमिदं मंत्रव्रतं स्मृतम्
既至迦尸(Kāśī),便布施一头乳汁丰盈的乳牛;他将在因陀罗(Indra)之界住一劫(kalpa)——此被忆念为“真言誓”(mantra-vrata)。
Verse 121
मुखवासं परित्यज्य समांते गोप्रदो भवेत् । वारुणं लोकमाप्नोति वारुणव्रतमुच्यते
舍弃口中香料之用,至一年终了当施舍一头牛。由此得至伐楼那之界——此名为“伐楼那誓”(Vāruṇa-vrata)。
Verse 122
चांद्रायणं च यः कुर्याद्धैमं चंद्रं निवेदयेत् । चंद्रव्रतमिदं प्रोक्तं चंद्रलोकफलप्रदम्
凡行持“月行法”(Cāndrāyaṇa)并供奉金制月像者,此被宣说为“月誓”(Candra-vrata),能赐得至月界(Candra-loka)之果。
Verse 123
ज्येष्ठे पंचतपा योंते हेमधेनुप्रदो दिवम् । यात्यष्टमीचतुर्दश्यो रुद्रव्रतमिदं स्मृतम्
于耶湿吒月(Jyeṣṭha),行者于仪轨终了修“五热苦行”,并施舍金牛,即得升天。此被忆为“鲁陀罗誓”(Rudra-vrata),当于初八与十四月日奉行。
Verse 124
सकृद्विधानकं कुर्यात्तृतीयायां शिवालये । समाप्ते धेनुदो याति भवानीव्रतमुच्यते
于第三日,当在湿婆殿中依仪轨行一次法事。圆满之后,施舍一头牛为布施——此名“薄伐尼誓”(Bhavānī-vrata)。
Verse 125
माघे निश्यार्द्रवासाः स्यात्सप्तम्यां गोप्रदो भवेत् । दिविकल्पं वसित्वेह राजा स्यात्पवनव्रतम्
于摩伽月(Māgha),夜间当着湿衣;至初七月日当施舍一头牛。于此世如天众之法而住,便于人间成王——此即“风神誓”(Pavana-vrata)。
Verse 126
त्रिरात्रोपोषितो दद्यात्फाल्गुन्यां भवनं शुभम् । आदित्यलोकमाप्नोति धामव्रतमिदं स्मृतम्
三夜持斋之后,于法尔古那月布施吉祥之宅;此行持名为“达摩誓”(Dhāma-vrata),由此得至阿底提耶(太阳神)之界。
Verse 127
त्रिसंध्यं पूज्य दांपत्यमुपवासी विभूषणैः । ददन्मोक्षमवाप्नोति मोक्षव्रतमिदं स्मृतम्
于昼夜三时交会处礼拜神圣夫妇,持斋并奉献饰物者,得证解脱;此誓名为“解脱誓”(mokṣa-vrata)。
Verse 128
दत्त्वासितद्वितीयायामिंदौ लवणभाजनम् । समाप्ते गोप्रदो याति विप्राय शिवमंदिरम्
在白分第二月日、月宿为因度(Indu)之时,布施一器盐;仪轨圆满后,当施一牛,并前往婆罗门处及湿婆之庙。
Verse 129
कांस्यं सवस्त्रं राजेन्द्र दक्षिणासहितं तथा । समाप्ते गां च यो दद्यात्स याति शिवमंदिरम्
王中之王啊,凡布施铜器并施衣物,且奉上规定的达克希那(dakṣiṇā),并于仪式终了再施一牛者,得至湿婆之居。
Verse 130
कल्पांते राजराजस्स्यात्सोमव्रतमिदं स्मृतम् । प्रतिपत्स्वेकभक्ताशी समाप्ते च फलप्रदः
至劫末时,当成王中之王;此誓名为“苏摩誓”(Soma-vrata)。于朔后一日(pratipad)仅食一餐而行持,圆满之际即赐其果报。
Verse 131
वैश्वानरपदं याति शिखिव्रतमिदं स्मृतम् । हैमं पलद्वयादूर्द्ध्वं रथमश्वयुगान्वितम्
此修持名为“尸佉伊誓”(Śikhī-vrata);由此可得毗湿瓦那罗(Vaiśvānara)之境。其果报为得一乘黄金车,价值(或重量)逾二波罗(pala),并以骏马驾挽。
Verse 132
दद्यात्कृतोपवासः स दिवि कल्पशतं वसेत् । तदंते राजराजस्स्यादश्वव्रतमिदं स्मृतम्
行持斋戒之后,若复行布施,则得居天界百劫;其终了之时,成为诸王之王。此即所称“阿湿婆誓”(Aśva-vrata,马誓)。
Verse 133
तद्वद्धेमरथं दद्यात्करिभ्यां संयुतं पुनः । सत्यलोके वसेत्कल्पं सहस्रमपि भूमिपः
同样地,若国王再布施一乘黄金车,以一对大象驾挽,则得住于真谛界(Satyaloka)一千劫。
Verse 134
भवेदिहागतो भूम्यां करिव्रतमिदं स्मृतम् । दशम्यामेकभक्ताशी समाप्ते दशधेनुदः
此即称为“迦利誓”(Kari-vrata,象誓)的修持,为降生于此世间者所当忆持。至第十日,当仅食一餐;圆满之时,应施舍十头母牛。
Verse 135
दीपं च कांचनं दद्याद्ब्रह्माण्डाधिपतिर्भवेत् । एतद्विश्वव्रतं नाम महापातकनाशनम्
布施明灯与黄金者,得为梵卵宇宙之主宰。此名“毗湿瓦誓”(Viśvavrata),能灭除乃至最重之罪业的大誓。
Verse 136
कन्यादानं तु कार्तिक्यां पुष्करे यः करिष्यति । एकविंशद्गुणोपेतो ब्रह्मलोकं गमिष्यति
凡于迦尔提迦月在普什迦罗行“女施”(kanyādāna)者,其功德增至二十一倍,终将往生梵天之界(Brahmaloka)。
Verse 137
कन्यादानात्परं दानं नैव चास्त्यधिकं क्वचित् । पुष्करे तु विशेषेण कार्तिक्यां तु विशेषतः
诸施之中,无有胜过“女施”(kanyādāna)者;处处皆无更大的布施。此在普什迦罗尤为殊胜,而在迦尔提迦月更是最为殊胜。
Verse 138
विप्राय विधिवद्देयं तेषां लोकोक्षयो भवेत् । तिलपिष्टमयं कृत्वा गजं रत्नसमन्वितम्
当依正法仪轨施与婆罗门;由此其天界之住处得以不坏。又当以芝麻糊塑成一象,并以宝珠庄严,而行布施。
Verse 139
विप्राय ये प्रयच्छंति जलमध्ये स्थिता नराः । तेषां चैवाक्षयो लोको भविता भूतसंप्लवम्
凡立于水中而向婆罗门行施者,确将得不坏之界;即使在宇宙洪没之时(pralaya),亦复如是。
Verse 140
यः पठेच्छृणुयाद्वापि व्रतषष्ठिमनुत्तमाम् । मन्वंतरशतं सोपि गंधर्वाधिपतिर्भवेत्
凡诵读或仅仅聆听此无上之行持——名为“六日誓戒”(Vrata-ṣaṣṭhī)者,彼亦将于百个摩奴劫(Manvantara)中成为乾闼婆之主。
Verse 141
षष्ठिव्रतं भारत पुण्यमेतत्तवोदितं विश्वजनीनमद्य । श्रोतुं यदीच्छा तवराजराज शृणु द्विजातेः करणीयमेतत्
噢,婆罗多啊,你所提到的神圣“萨什提誓”(Ṣaṣṭhī-vrata)确实功德无量,利益一切众生。若你这万王之王愿意聆听,就请听吧——这是二次生者(dvija)应当奉行之法。
Verse 142
नैर्मल्यं भावशुद्धिश्चविनास्नानं न विद्यते । तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते
不沐浴,则不得清净,亦不得内心性情之澄明。因此,为了净化心意,起首便应行沐浴之法。
Verse 143
अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं समाचरेत् । तीर्थं प्रकल्पयेद्विद्वान्मूलमंत्रेण मंत्रवित्
或用自然现成之水(未汲取者),或用汲取之水,都应如法沐浴。通晓真言的智者,应以根本真言建立一处神圣的渡口圣地(tīrtha)。
Verse 144
नमो नारायणायेति मूलमंत्र उदाहृतः । सदर्भपाणिर्विधिना आचांतः प्रयतः शुचिः
“南无那罗延那”(Namo Nārāyaṇāya)——此即所宣说的根本真言。随后,手持库沙草(kuśa),依仪轨行阿遮摩那(ācamana)啜水礼,端肃自持,清净而住。
Verse 145
चतुर्हस्तसमायुक्तं चतुरश्रं समंततः । प्रकल्प्यावाहयेद्गंगामेभिर्मंत्रैर्विचक्षणः
在四方布置一个四肘见方的方坛(或方域)之后,明辨之人应以这些真言在其中迎请恒河女神(Gaṅgā)降临。
Verse 146
विष्णोः पादप्रसूतासि वैष्णवी विष्णुदेवता । त्राहि नस्त्वेनसस्तस्मादाजन्ममरणांतिकात्
噢毗湿奴的圣女(Vaiṣṇavī),由毗湿奴足下所生;噢以毗湿奴为神性的女神——救护我们脱离那罪业,自此生直至生命终尽(死亡)。
Verse 147
तिस्रः कोट्योर्धकोटी च तीर्थानां वायुरब्रवीत् । दिवि भुव्यंतरिक्षे च तानि ते संति जाह्नवि
风神伐由(Vāyu)宣说:圣地(tīrtha)共有三俱胝又半俱胝;噢阇诃那毗(Jāhnavī,恒河),这些圣处遍在天界、人间与中界(空际)。
Verse 148
नंदिनीत्येव ते नाम देवेषु नलिनीति च । दक्षा पृथ्वी च सुभगा विश्वकाया शिवासिता
“在人间,你确名为难陀尼(Nandinī);在诸天之中,你被称为那梨尼(Nalinī)。你亦名为达叉(Dakṣā)、大地(Pṛthvī)、吉祥者(Subhagā)、遍体者(Viśvakāyā)与湿婆所依(Śivāsitā)。”
Verse 149
विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी । क्षेमा च जाह्नवी चैव शांता शांतिप्रदायिनी
她是持明女(Vidyādharī),恒常慈悦,赐福于诸世界;她亦名为吉祥安稳者(Kṣemā)与阇诃那毗(Jāhnavī),又名寂静者(Śāntā)——施与和平者。
Verse 150
एतानि पुण्यनामानि स्नानकाले प्रकीर्त्तयेत् । भवेत्सन्निहिता तत्र गंगा त्रिपथगामिनी
沐浴之时,当诵念这些功德圣名;于是那行于三界的恒河(Gaṅgā)便在彼处现前。
Verse 151
सप्तवाराभिजप्तेन करसंपुटयोजितम् । मूर्ध्नि कुर्याज्जलं भूयस्त्रिचतुःपंचसप्तधा
以真言诵念七遍而加持此水,合掌掬于掌心;复当将此水灌于头顶——或三次、四次、五次,或七次。
Verse 152
स्नानं कुर्यान्मृदातद्वदामंत्र्य तु विधानतः । अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे
当以彼土泥而沐浴;亦当如法先行启请而诵: “大地啊,马所践踏者,车所践踏者,毗湿奴所践踏者——护持世界者啊!”
Verse 153
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् । उद्धृतासि वराहेण कृष्णेन शतबाहुना
圣泥啊,除去我之罪垢——凡我所作一切恶业。汝曾为野猪化身瓦拉哈所举起,亦为百臂之黑天克里希那所举起。
Verse 154
नमस्ते सर्वलोकानां प्रभवोरणि सुव्रते । एवं स्नात्वा ततः पश्चादाचम्य तु विधानतः
向汝顶礼,善誓之女神,诸世界之本源。如此沐浴已毕,复当依仪轨行阿遮摩那(净口礼)。
Verse 155
उत्थाय वाससी शुभ्रे शुद्धे तु परिधाय वै । ततस्तु तर्पणं कुर्यात्त्रैलोक्याप्यायनाय वै
起身之后,当着清净吉祥之衣;继而应行“塔尔帕那”——以水奉献之礼,为三界滋养、安泰之故。
Verse 156
ब्रह्माणं तर्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतीन् । देवायक्षास्तथा नागा गंधर्वाप्सरसां गणाः
应先以供水祭(tarpana)奉献于梵天(Brahmā),继而奉献于毗湿奴(Viṣṇu)、鲁陀罗(Rudra)及诸生主(Prajāpati);亦当奉献于诸天神、夜叉(Yakṣa)、那伽(Nāga),以及乾闼婆与阿普萨拉斯的众群。
Verse 157
क्रूरास्सर्पाः सुपर्णाश्च तरवो जंभकादयः । विद्याधरा जलधरास्तथैवाकाशगामिनः
又有凶猛之蛇、如苏帕尔那(Suparṇa,迦楼罗)般之鸟、诸树木,以及如阎婆迦(Jambhaka)等众生;并有持明者(Vidyādhara)、负云者,以及诸行于虚空者。
Verse 158
निराधाराश्च ये जीवा पापधर्मरताश्च ये । तेषामाप्यायनायैतद्दीयते सलिलं मया
为诸无所依怙之众生,亦为沉溺罪行之人,我今施此净水,使其得以滋养与清凉。
Verse 159
कृतोपवीतो देवेभ्यो निवीती च भवेत्ततः । मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा
既已为诸天神端正佩置圣线,随后当以“尼毗底”(nivītī)之法佩戴。其后应以虔敬之心,为人类行供水祭(tarpana),亦为诸仙之子与诸仙本身行之。
Verse 160
सनकश्च सनंदश्च तृतीयश्च सनातनः । कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा
即:萨那迦(Sanaka)、萨难陀(Sananda)与第三位萨那檀那(Sanātana);又有迦毗罗(Kapila)与阿修利(Āsuri);以及沃度(Voḍhu),并般遮尸佉(Pañcaśikha)。
Verse 161
सर्वे ते तृप्तिमायांतु मद्दत्तेनांबुना सदा । मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम्
愿他们众人恒常因我所赐之水而得满足——摩利支、阿特利、安吉罗、普拉斯提耶、普拉诃与克罗图。
Verse 162
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च । देवब्रह्मऋषीन्सर्वांस्तर्पयेत्साक्षतोदकैः
以双手直接掬取之水,当为普罗切塔斯、婆悉吒、婆利古与那罗陀行供水礼(tarpaṇa),并及一切天圣与梵天所生之仙人。
Verse 163
अपसव्यं ततः कृत्वा सव्यं जानु च भूतले । अग्निष्वात्तांस्तथा सौम्यान्हविष्मंतस्तथोष्मपान्
随后依仪转向左侧,并以左膝着地;当恭敬召请温和的阿耆尼湿瓦塔(Agniṣvātta)、哈维湿曼(Haviṣmant)与乌湿摩帕(Uṣmapa)。
Verse 164
सुकालिनो बर्हिषदस्तथा चैवाज्यपान्पुनः । संतर्पयेत्पितॄन्भक्त्या सतिलोदकचंदनैः
以虔敬之心,当再度令诸祖灵(Pitṛ)满足——时令相应者、婆诃利沙达(Barhiṣad)以及饮酥者——以拌芝麻之水与檀香供献。
Verse 165
सदर्भपाणिर्विधिना पितॄंन्स्वांस्तर्पयेतत्तः । पित्रादीन्नामगोत्रेण तथा मातामहानपि
手执库沙草(kuśa),依所规定之仪轨,随后当为自身祖先行供水礼;亦为父亲等诸先辈,称其名与族系;并及外祖父诸位。
Verse 166
संतर्प्य विधिवद्भक्त्या इमं मंत्रमुदीरयेत् । यो बांधवा बांधवा ये येन्यजन्मनि बांधवाः
以虔敬依仪轨使其得满足之后,应诵此真言——为今生亲族,亦为他生曾为亲族者。
Verse 167
ते तृप्तिमखिलायां तु येप्यस्मत्तोयकांक्षिणः । आचम्य विधिना सम्यगालिखेत्पद्ममग्रतः
又有那些渴求由我等所施之水而求得满足者——依仪轨正当行阿遮摩那(净口啜水)后,应在前方如法绘一莲华。
Verse 168
साक्षताद्भिस्सपुष्पाभिः सतिलारुणचंदनैः । अर्घ्यं दद्यात्प्रयत्नेन सूर्यनामानुकीर्तनैः
以不碎净米(akṣata)、花、芝麻与赤檀,殷勤奉献阿尔伽(敬水供),并诵念太阳之名号。
Verse 169
नमस्ते विश्वरूपाय नमस्ते विष्णुरूपिणे । सर्वदेवनमस्तेस्तु प्रसीद मम भास्कर
礼敬汝,具宇宙之形;礼敬汝,具毗湿奴之形。愿诸天之礼赞皆归于汝——垂怜于我,噢婆娑迦罗(日神)。
Verse 170
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तु ते । एवं सूर्यं नमस्कृत्य त्रिः कृत्वा च प्रदक्षिणम्
“礼敬汝,天日(Divākara);礼敬汝,光明之作者(Prabhākara)。”如是礼拜苏利耶(Sūrya)后,当行右绕(三匝)以作普拉达克希那。
Verse 171
द्विजं गां कांचनं चैव दृष्ट्वा स्पृष्ट्वा गृहं व्रजेत् । स्वगेहस्थां ततः पुण्यां प्रतिमां चापि पूजयेत्
见到并恭敬触礼婆罗门、母牛与黄金之后,应回到家中;继而在自宅礼拜那吉祥的神圣圣像(本尊)。
Verse 172
भोजनं च ततः पश्चाद्द्विजपूर्वं च कारयेत् । अनेन विधिना सर्वॠषयः सिद्धिमागताः
其后应备办饮食,先供奉二生者(婆罗门)。依此法而行,一切圣仙(ṛṣi)皆得成就。