Adhyaya 17
Srishti KhandaAdhyaya 17331 Verses

Adhyaya 17

Puṣkara Sacrifice: Gāyatrī’s Marriage, Sāvitrī’s Wrath, Rudra’s Test, and the Tīrtha-Māhātmya

毗湿摩请求普拉斯提耶详述梵天在普什迦罗举行大祭时的奇事:鲁陀罗的作为、毗湿奴的立场,以及伽耶特丽与阿毗罗族所行之事。普拉斯提耶叙述多段因缘:伽耶特丽化现为阿毗梨牧女,被迎为梵天之妻,使祭仪得以圆满;毗湿奴安慰悲恸的族众,并预示其后世化身的神圣戏行。 鲁陀罗以执颅之相而来,遭人轻慢,却显明在吠陀供献中“颅器”(kapāla)之必要,并取回应得的祭分。随后娑毗特丽到来,责难梵天与诸婆罗门祭官,降下诅咒,使梵天之崇拜受限;又诅咒因陀罗,并预言毗湿奴在未来化身中将经历忧苦。 本章继而转入圣地赞颂与修持:宣说普什迦罗之最胜,列举天女在诸圣地的名号,称扬沐浴、布施(dāna)、持诵(japa,尤以伽耶特丽为要)与迦尔提迦月战车巡行(ratha-yātrā)之功德。末了以鲁陀罗赞颂伽耶特丽之颂与其慈允作结。

Shlokas

Verse 1

भीष्म उवाच । तस्मिन्यज्ञे किमाश्चर्यं तदासीद्द्विजसत्तम । कथं रुद्रः स्थितस्तत्र विष्णुश्चापि सुरोत्तमः

毗湿摩说道:噢,最尊贵的再生者啊,那场祭祀中发生了何等奇事?鲁陀罗(Rudra)当时如何安住其间?而毗湿奴(Viṣṇu)——诸天之最上者——又如何在场?

Verse 2

गायत्र्या किं कृतं तत्र पत्नीत्वे स्थितया तया । आभीरैः किं सुवृत्तज्ञैर्ज्ञात्वा तैश्च कृतं मुने

伽耶特丽(Gāyatrī)在彼处既已成为妻位,她做了什么?而阿毗罗人(Ābhīras)——明了正行者——得知此事后又做了什么,噢,牟尼?

Verse 3

एतद्वृत्तं समाचक्ष्व यथावृत्तं यथाकृतम् । आभीरैर्ब्रह्मणा चापि ममैतत्कौतुकं महत्

请将此事如实告知我——如何发生,如何施行——无论在阿毗罗人(Ābhīras)之间,还是梵天(Brahmā)所为;因为我对此怀有极大的求知之心。

Verse 4

पुलस्त्य उवाच । तस्मिन्यज्ञे यदाश्चर्यं वृत्तमासीन्नराधिप । कथयिष्यामि तत्सर्वं शृणुष्वैकमना नृप

普罗陀斯提耶(Pulastya)说道:噢,人中之主,我将把那场祭祀中发生的奇事尽数叙述。请你一心谛听,噢,国王。

Verse 5

रुद्रस्तु महदाश्चर्यं कृतवान्वै सदो गतः । निंद्यरूपधरो देवस्तत्रायाद्द्विजसन्निधौ

鲁陀罗确实施行了大奇迹,随后离去。神明化作卑贱之相,来到那里,进入婆罗门面前。

Verse 6

विष्णुना न कृतं किंचित्प्राधान्ये स यतः स्थितः । नाशं तु गोपकन्याया ज्ञात्वा गोपकुमारकाः

毗湿奴并未做任何事,因为他安住于至上的本位。然而,当牧童们得知那位牧女已死……

Verse 7

गोप्यश्च तास्तथा सर्वा आगता ब्रह्मणोंतिकम् । दृष्ट्वा तां मेखलाबद्धां यज्ञसीमव्यस्थिताम्

那些牧女也都同样来到梵天近前。见她束着腰带,站在祭祀仪轨的界限之处,

Verse 8

हा पुत्रीति तदा माता पिता हा पुत्रिकेति च । स्वसेति बान्धवाः सर्वे सख्यः सख्येन हा सखि

那时母亲哭喊:“哀哉,我的女儿!”父亲也喊:“哀哉,我的小女儿!”众亲族哀号:“妹妹!”她的女伴与同伴们齐声哭道:“哀哉,亲爱的朋友!”

Verse 9

केन त्वमिह चानीता अलक्तांका तु संदरी । शाटीं निवृत्तां कृत्वा तु केन युक्ता च कंबली

是谁把你带到这里来的,啊,足染红漆的美人?又是谁让你脱下披衣,给你披上这条毯子?

Verse 10

केन चेयं जटा पुत्रि रक्तसूत्रावकल्पिता । एवंविधानि वाक्यानि श्रुत्वोवाच स्वयं हरिः

“我的女儿啊,这缠结的发绺是谁用红线系成的?”听到这样的话,圣主哈利亲自开口说道。

Verse 11

इह चास्माभिरानीता पत्न्यर्थं विनियोजिता । ब्रह्मणालंबिता बाला प्रलापं मा कृथास्त्विह

她已由我们带到此处,并被安置为成婚之用。此女已为梵天所接纳;莫在此以空言哀叹。

Verse 12

पुण्या चैषा सुभाग्या च सर्वेषां कुलनंदिनी । पुण्या चेन्न भवत्येषा कथमागच्छते सदः

她既具福德又得吉祥,是诸族之欢喜。若非真有功德,她怎能屡屡来到这圣会之中?

Verse 13

एवं ज्ञात्वा महाभाग न त्वं शोचितुमर्हसि । कन्यैषा ते महाभागा प्राप्ता देवं विरिंचनम्

既知如此,尊贵者啊,你不应忧伤。你这贤德的少女已得至维林遮神(梵天)之前。

Verse 14

योगिनो योगयुक्ता ये ब्राह्मणा वेदपारगाः । न लभंते प्रार्थयन्तस्तां गतिं दुहिता गता

即便是安住于瑜伽的瑜伽行者,以及通达吠陀的婆罗门,纵然祈求努力也难得那境界;而这女儿却已证得。

Verse 15

धर्मवंतं सदाचारं भवंतं धर्मवत्सलम् । मया ज्ञात्वा ततः कन्या दत्ता चैषा विरंचये

我已知你具足正法、品行端正、爱护达摩,因此将此少女许配给毗兰支(梵天)为妻。

Verse 16

अनया तारितो गच्छ दिव्यान्लोकान्महोदयान् । युष्माकं च कुले चापि देवकार्यार्थसिद्धये

蒙她救度,你们当往诸天吉祥、极其昌盛之界;愿诸神之事业得以成就,亦在你们的族系与家门之中圆满。

Verse 17

अवतारं करिष्येहं सा क्रीडा तु भविष्यति । यदा नंदप्रभृतयो ह्यवतारं धरातले

“我必在此示现化身;那将是我的神圣戏游(līlā)——当难陀等人出现之时,我将降临于大地。”

Verse 18

करिष्यंति तदा चाहं वसिष्ये तेषु मध्यतः । युष्माकं कन्यकाः सर्वा वसिष्यंति मया सह

那时我也将住在他们中间;你们所有的少女都将与我同住。

Verse 19

तत्र दोषो न भविता न द्वेषो न च मत्सरः । करिष्यंति तदा गोपा भयं च न मनुष्यकाः

在那里将不生过失——既无憎恨,亦无嫉妒。那时牧牛人(gopa)将如法而住,人类也将同得无畏。

Verse 20

न चास्या भविता दोषः कर्मणानेन कर्हिचित् । श्रुत्वा वाक्यं तदा विष्णोः प्रणिपत्य ययुस्तदा

因这行为,她永不会有过失。众人听闻毗湿奴之言,当即俯伏顶礼,随后离去。

Verse 21

एवमेष वरो देव यो दत्तो भविता हि मे । अवतारः कुलेस्माकं कर्तव्यो धर्मसाधनः

“如是,神圣者:赐予我的恩赐必将实现。为成就正法(dharma),须在我族中示现一次化身。”

Verse 22

भवतो दर्शनादेव भवामः स्वर्गवासिनः । शुभदा कन्यका चैषा तारिणी मे कुलैः सह

仅仅得见于你,我们便成了天界之住民。此少女赐予吉祥,并将与我全族一同度脱我。

Verse 23

एवं भवतु देवेश वरदानं विभो तव । अनुनीतास्तदा गोपाः स्वयं देवेन विष्णुना

“愿如此,诸神之主——愿你之赐福得以圆满,遍在者啊。”于是当时,牧牛人们由毗湿奴亲自安抚而心得满足。

Verse 24

ब्रह्मणाप्येवमेवं तु वामहस्तेन भाषितम् । त्रपान्विता दर्शने तु बंधूनां वरवर्णिनी

就连梵天也以同样的话语说了此事,并以左手示意。那位肤色莹美的女子怀着羞怯,在亲族面前现身。

Verse 25

कैरहं तु समाख्याता येनेमं देशमागताः । दृष्ट्वा तु तांस्ततः प्राह गायत्री गोपकन्यका

“我被称为‘Kairaha’——正是因我,他们才来到这片国土。”她见到众人后,牧牛少女伽耶特丽随即开口说道。

Verse 26

वामहस्तेन तान्सर्वान्प्राणिपातपुरःसरम् । अत्र चाहं स्थिता मातर्ब्रह्माणं समुपागता

我以左手引领他们众人上前,先行的是他们的顶礼叩拜。如今,母亲啊,我立于此处,已前来拜见梵天。

Verse 27

भर्ता लब्धो मया देवः सर्वस्याद्यो जगत्पतिः । नाहं शोच्या भवत्या तु न पित्रा न च बांधवैः

我已得神圣者为夫——万有之初的主宰、宇宙之君。故我不应被怜悯:不必你怜悯,也不必父亲与亲族怜悯。

Verse 28

सखीगणश्च मे यातु भगिन्यो दारकैः सह । सर्वेषां कुशलं वाच्यं स्थितास्मि सह दैवतैः

愿我的女伴们离去,我的姐妹们也与孩子一同回去。请向众人转告我安好:我留在此处,与诸天同在。

Verse 29

गतेषु तेषु सर्वेषु गायत्री सा सुमध्यमा । ब्रह्मणा सहिता रेजे यज्ञवाटं गता सती

当众人尽皆离去后,那位纤腰的伽耶特丽——贞善而清净——前往祭祀坛场;与梵天相伴,她光辉灿然。

Verse 30

याचितो ब्राह्मणैर्ब्रह्मा वरान्नो देहि चेप्सितान् । यथेप्सितं वरं तेषां तदा ब्रह्माप्ययच्छत

当婆罗门们向梵天祈求说:“赐予我们所愿之福德吧”,梵天便依其所求,如其心愿,赐下相应的恩赐。

Verse 31

तया देव्या च गायत्र्या दत्तं तच्चानुमोदितम् । सा तु यज्ञे स्थिता साध्वी देवतानां समीपगा

那供献由女神伽耶特丽所赐,并得如法认可。那位贞善的圣女安住于祭祀之中,常在诸天近旁。

Verse 32

दिव्यंवर्षशतं साग्रं स यज्ञो ववृधे तदा । यज्ञवाटं कपर्दी तु भिक्षार्थं समुपागतः

整整一百个天界之年,且更有余,那场祭祀不断扩展。其后,迦波尔底(湿婆,披散结发者)为求施舍,来到祭坛围场。

Verse 33

बृहत्कपालं संगृह्य पंचमुण्डैरलंकृतः । ऋत्विग्भिश्च सदस्यैश्च दूरात्तिष्ठन्जुगुप्सितः

他手持巨大的骷髅钵,身饰五颗骷髅,远远站立;被主持祭仪的祭官与在座众人所厌弃。

Verse 34

कथं त्वमिह संप्राप्तो निंदितो वेदवादिभिः । एवं प्रोत्सार्यमाणोपि निंद्यमानः स तैर्द्विजैः

“你怎会来到此处?你乃被宣说吠陀者所谴责之人!”就这样,即使被驱逐,他仍被那些二生者不断辱骂。

Verse 35

उवाच तान्द्विजान्सर्वान्स्मितं कृत्वा महेश्वरः । अत्र पैतामहे यज्ञे सर्वेषां तोषदायिनि

大自在天含笑对诸位二生圣贤说道:“此处,在祖父梵天的本初祭祀中——这能令一切众生满足的仪轨——……”

Verse 36

कश्चिदुत्सार्य तेनैव ऋतेमां द्विजसत्तमाः । उक्तः स तैः कपर्दी तु भुक्त्वा चान्नं ततो व्रज

他们遣退了某人——唯独不遣退我,哦,最胜二生者——并对卡帕尔迪说:“先食此食,然后离去。”

Verse 37

कपर्दिना च ते उक्ता भुक्त्वा यास्यामि भो द्विजाः । एवमुक्त्वा निषण्णः स कपालं न्यस्य चाग्रतः

卡帕尔丁说道:“诸位二生者啊,我食毕便去。”说罢,他坐下,将骷髅钵置于面前。

Verse 38

तेषां निरीक्ष्य तत्कर्म चक्रे कौटिल्यमीश्वरः । मुक्त्वा कपालं भूमौ तु तान्द्विजानवलोकयन्

主见其所为,便施一计;他将骷髅钵落于地上,注视着那些二生者。

Verse 39

उवाच पुष्करं यामि स्नानार्थं द्विजसत्तमाः । तूर्णं गच्छेति तैरुक्तः स गतः परमेश्वरः

他说:“最胜二生者啊,我往补湿迦罗(Puṣkara)沐浴。”他们催促道:“速去!”于是那至上之主离去。

Verse 40

वियत्स्थितः कौतुकेन मोहयित्वा दिवौकसः । स्नानार्थं पुष्करं याते कपर्दिनि द्विजातयः

他凌空而住,以戏谑之心迷惑诸天;当披发者迦波尔迪(湿婆)前往普什迦罗沐浴时,诸婆罗门等“二次出生者”也一同前往。

Verse 41

कथं होमोत्र क्रियते कपाले सदसि स्थिते । कपालांतान्यशौचानि पुरा प्राह प्रजापतिः

在会众之中端坐,怎能以头骨为器而行火供(homa)?往昔,生主(Prajāpati)曾宣说:凡以头骨所成之物皆为不净。

Verse 42

विप्रोभ्यधात्सदस्येकः कपालमुत्क्षिपाम्यहं । उद्धृतं तु सदस्येन प्रक्षिप्तं पाणिना स्वयम्

于是,会众中一人对诸婆罗门说道:“我来把这头骨掷起。”然而正是那位会众之人亲自将其举起,并以自己的手把它抛掷出去。

Verse 43

तावदन्यत्स्थितं तत्र पुनरेव समुद्धृतम् । एवं द्वितीयं तृतीयं विंशतिस्त्रिंशदप्यहो

随即,那里另一样躺着的东西又被再次举起。如此第二次、第三次——竟至二十次、三十次,实在令人惊异。

Verse 44

पंचाशच्च शतं चैव सहस्रमयुतं तथा । एवं नांतः कपालानां प्राप्यते द्विजसत्तमैः

五十、百、千,乃至万——如此这般;即便最卓越的“二次出生者”也无法穷尽这些头骨的尽头,因为它们不可胜数。

Verse 45

नत्वा कपर्दिनं देवं शरणं समुपागताः । पुष्करारण्यमासाद्य जप्यैश्च वैदिकैर्भृशम्

他们礼拜卡帕尔丁(湿婆)天神,归依于他,抵达普什卡拉之林,广泛诵持吠陀圣言并勤修持咒念(japa)。

Verse 46

तुष्टुवुः सहिताः सर्वे तावत्तुष्टो हरः स्वयम् । ततः सदर्शनं प्रादाद्द्विजानां भक्तितः शिवः

众人齐心赞颂他,于是哈拉(湿婆)亲自欢喜。随后,因二次出生者的虔敬,湿婆赐予他们吉祥的圣见,得以亲睹神颜。

Verse 47

उवाच तांस्ततो देवो भक्तिनम्रान्द्विजोत्तमान् । पुरोडाशस्य निष्पत्तिः कपालं न विना भवेत्

随后,天主对那些因信爱而俯首的最胜二次出生者说道:“若无卡帕拉(kapāla)这土制祭器,普罗达沙(puroḍāśa)供品便不能如法成就。”

Verse 48

कुरुध्वं वचनं विप्राः भागः स्विष्टकृतो मम । एवं कृते कृतं सर्वं मदीयं शासनं भवेत्

婆罗门啊,当遵行我言:分予我的份额,是名为svīṣṭakṛt之供,即投入圣火的供献。如此行之,一切便圆满成办,我的敕命亦得成就。

Verse 49

तथेत्यूचुर्द्विजाश्शंभुं कुर्मो वै तव शासनम् । कपालपाणिराहेशो भगवंतं पितामहम्

“如是,”二次出生者对商布(湿婆)说道,“我们必定奉行你的敕命。”于是,持钵者卡帕拉帕尼(湿婆)——大自在主——向吉祥的皮塔摩诃(梵天)开口。

Verse 50

वरं वरय भो ब्रह्मन्हृदि यत्ते प्रियं स्थितम् । सर्वं तव प्रदास्यामि अदेयं नास्ति मे प्रभो

“请拣选一项恩赐吧,婆罗门啊——凡你心中所珍爱者。我将尽皆赐予你;于我而言,主啊,没有不可施与之物。”

Verse 51

ब्रह्मोवाच । न ते वरं ग्रहीष्यामि दीक्षितोहं सदः स्थितः । सर्वकामप्रदश्चाहं यो मां प्रार्थयते त्विह

梵天说道:“我不受你的恩赐,因为我已受灌顶,恒常安住于誓愿之中。凡在此向我祈求者,我确是赐予一切所愿成就之主。”

Verse 52

एवं वदंतं वरदं क्रतौ तस्मिन्पितामहम् । तथेति चोक्त्वा रुद्रः स वरमस्मादयाचत

于是,在那场祭祀中,当赐福者毗多摩诃(梵天)如此言说时,鲁陀罗答道:“如是。”随后便向他求取一项恩赐。

Verse 53

ततो मन्वंतरेतीते पुनरेव प्रभुः स्वयम् । ब्रह्मोत्तरं कृतं स्थानं स्वयं देवेन शंभुना

随后,当一劫之摩奴时期已过,主宰自身再度——神圣的商布——亲自建立了名为“梵天上胜”(Brahmottara)的圣地。

Verse 54

चतुर्ष्वपि हि वेदेषु परिनिष्ठां गतो हि यः । तस्मिन्काले तदा देवो नगरस्यावलोकने

诚然,凡于四部吠陀中已臻究竟圆满者——就在那时,那位神祇便起行,前去观览那座城邑。

Verse 55

संभाषणे द्विजानां तु कौतुकेन सदो गतः । तेनैवोन्मत्तवेषेण हुतशेषे महेश्वरः

出于好奇,摩诃湿伐罗前往婆罗门交谈的会众;并以同样的狂人形貌,停留在祭祀供献余烬与残余之处。

Verse 56

प्रविष्टो ब्रह्मणः सद्म दृष्टो देवैर्द्विजोत्तमैः । प्रहसंति च केप्येनं केचिन्निर्भर्त्सयंति च

他进入梵天的宫邸后,被诸天与最尊贵的二生者看见;有人讥笑他,也有人呵斥责难他。

Verse 57

अपरे पांसुभिः सिञ्चन्त्युन्मत्तं तं तथा द्विजाः । लोष्टैश्च लगुडैश्चान्ये शुष्मिणो बलगर्विताः

有些二生者向那狂乱之人扬撒尘土;另一些性烈而恃力自傲者,则以土块与棍杖击打他。

Verse 58

प्रहरन्ति स्मोपहासं कुर्वाणा हस्तसंविदम् । ततोन्ये वटवस्तत्र जटास्वागृह्य चांतिकम्

他们一边大笑嘲弄,一边击打他,并以手势暗中相互示意。随后,那里另一些少年抓住他的结发乱髻,把他拖拽到近前。

Verse 59

पृच्छंति व्रतचर्यां तां केनैषा ते निदर्शिता । अत्र वामास्त्रियः संति तासामर्थे त्वमागतः

他们询问那种誓行与戒律:“是谁向你示现此道?”此处有行左道之女;你是为她们而来吗?

Verse 60

केनैषा दर्शिता चर्या गुरुणा पापदर्शिना । येनचोन्मत्तवद्वाक्यं वदन्मध्ये प्रधावसि

是谁把这种行持教给了你——那位怀着罪恶之见的师长——以致你如狂人般胡言乱语,在众人之中奔走不定?

Verse 61

शिश्नं मे ब्रह्मणो रूपं भगं चापि जनार्दनः । उप्यमानमिदं बीजं लोकः क्लिश्नाति चान्यथा

“我的阳具是梵天(Brahmā)之形,我的阴门确是阇那尔达那(Janārdana,毗湿奴)。当此种子播下,世界得以维系;否则便将受苦。”

Verse 62

मयायं जनितः पुत्रो जनितोनेन चाप्यहम् । महादेवकृते सृष्टिः सृष्टा भार्या हिमालये

“此子由我而生,而我亦由他而出。此造化为大天(Mahādeva)所成;并且在喜马拉雅造出了一位妻子。”

Verse 63

उमादत्ता तु रुद्रस्य कस्य सा तनया वद । मूढा यूयं न जानीथ वदतां भगवांस्तु वः

“乌玛达塔(Umādattā)——她是谁的女儿?与鲁陀罗(Rudra)有何关系?告诉我。你们迷惑而不知其理;因此让圣尊为你们宣说。”

Verse 64

ब्रह्मणा न कृता चर्या दर्शिता नैव विष्णुना । गिरिशेनापि देवेन ब्रह्मवध्या कृतेन तु

此等戒行,梵天(Brahmā)未曾修持,毗湿奴(Viṣṇu)亦未曾开示;就连山主神吉利沙(Girīśa,湿婆)也未曾示现——因为他曾犯下梵杀罪(brahma-hatyā),即杀害婆罗门之罪。

Verse 65

कथंस्विद्गर्हसे देवं वध्योस्माकं त्वमद्य वै । एवं तैर्हन्यमानस्तु ब्राह्मणैस्तत्र शंकरः

“你怎敢辱骂神明?今日你必定要被我们诛杀。”于是,当他在那里被那些婆罗门击打时,商羯罗(湿婆)默然忍受。

Verse 66

स्मितं कृत्वाब्रवीत्सर्वान्ब्राह्मणान्नृपसत्तम । किं मां न वित्थ भो विप्रा उन्मत्तं नष्टचेतनम्

最上之王含笑对众婆罗门说道:“噢,尊贵的婆罗门啊,你们难道认不出我吗——我已癫狂,神识尽失?”

Verse 67

यूयं कारुणिकाः सर्वे मित्रभावे व्यवस्थिताः । वदमानमिदं छद्म ब्रह्मरूपधरं हरम्

你们众人皆怀慈悲,安住于友善之心。请听此事:哈利以梵天之形作伪装,说出了这些话。

Verse 68

मायया तस्य देवस्य मोहितास्ते द्विजोत्तमाः । कपर्दिनं निजघ्नुस्ते पाणिपादैश्च मुष्टिभिः

因那位神祇的幻力(māyā)所迷惑,那些最尊贵的二生者击打卡帕尔丁,用手脚与紧握的拳头殴打他。

Verse 69

दंडैश्चापि च कीलैश्च उन्मत्तवेषधारिणम् । पीड्यमानस्ततस्तैस्तु द्विजैः कोपमथागमत्

又以杖击之,以楔刺之;他身着疯癫之相,被那些二生者折磨不已,继而怒火涌起。

Verse 70

ततो देवेन ते शप्ता यूयं वेदविवर्जिताः । ऊर्ध्वजटाः क्रतुभ्रष्टाः परदारोपसेविनः

于是神明诅咒他们:“你们将被剥夺吠陀;头发纠结高束,堕离(吠陀)祭仪,并沉溺于与他人妻子私通。”

Verse 71

वेश्यायां तु रता द्यूते पितृमातृविवर्जिताः । न पुत्रः पैतृकं वित्तं विद्यां वापि गमिष्यति

然而,那些迷恋娼妓、沉溺赌博、轻慢父母的人——他们的儿子既得不到祖传财产,也得不到学识。

Verse 72

सर्वे च मोहिताः संतु सर्वेंद्रियविवर्जिताः । रौद्रीं भिक्षां समश्नंतु परपिंडोपजीविनः

“愿他们全都迷惑,失去一切感官与能力;愿他们吞食可怖的施舍,以他人之食为生。”

Verse 73

आत्मानं वर्तयंतश्च निर्ममा धर्मवर्जिताः । कृपार्पिता तु यैर्विप्रैरुन्मत्ते मयि सांप्रतम्

他们只顾维持自身——不执著于财物,却又背离正法(dharma);然而,那些怀慈悲的婆罗门,在我如今这般狂乱之时,仍将恩惠奉献于我。

Verse 74

तेषां धनं च पुत्राश्च दासीदासमजाविकम् । कुलोत्पन्नाश्च वै नार्यो मयि तुष्टे भवन्विह

当我欢喜之时,他们就在此世获得:财富与儿子,婢女与仆从,山羊与绵羊,以及出身良族的妻子。

Verse 75

एवं शापं वरं चैव दत्वांतर्द्धानमीश्वरः । गतो द्विजागते देवे मत्वा तं शंकरं प्रभुम्

如此赐下诅咒与恩赐之后,主便从视野中隐没。以为那位以婆罗门形相而来的神正是商羯罗——至上之主——他遂离去。

Verse 76

अन्विष्यंतोपि यत्नेन न चापश्यंत ते यदा । तदा नियमसंपन्नाः पुष्करारण्यमागताः

他们竭力寻觅,仍旧不见其踪;于是,持戒守愿、心行有度的他们前往普什迦罗之林。

Verse 77

स्नात्वा ज्येष्ठसरो विप्रा जेपुस्ते शतरुद्रियम् । जाप्यावसाने देवस्तानशीररगिराऽब्रवीत्

诸婆罗门圣者在耶什陀湖沐浴后,诵念《百鲁陀罗》圣赞。诵毕之时,一位神祇以无形之声对他们开示。

Verse 78

अनृतं न मया प्रोक्तं स्वैरेष्वपि कुतः पुनः । आगते निग्रहे क्षेमं भूयोपि करवाण्यहम्

我未曾说过虚妄之言,更何况在出于自愿之事上?纵使惩罚临身,我仍将再度努力成就正当与利益之道。

Verse 79

शांता दांता द्विजा ये तु भक्तिमंतो मयि स्थिराः । न तेषां छिद्यते वेदो न धनं नापि संततिः

凡二次生者,心寂而安、克己自持,于我怀信具敬、坚定不移;于彼等,吠陀不断绝,财富不断绝,乃至子嗣亦不断绝。

Verse 80

अग्निहोत्ररता ये च भक्तिमंतो जनार्दने । पूजयंति च ब्रह्माणं तेजोराशिं दिवाकरम्

凡乐行火供(Agnihotra)而对阇那尔达那(Janārdana)具足虔敬者,亦礼敬梵天(Brahmā)——日神,光明之聚。

Verse 81

नाशुभं विद्यते तेषां येषां साम्ये स्थिता मतिः । एतावदुक्त्वा वचनं तूष्णीं भूतस्तु सोऽभवत्

对于心智安住于平等者,并无不祥可言。说到此处,他便默然无语。

Verse 82

लब्ध्वा वरं सप्रसादं देवदेवान्महेश्वरात् । आजग्मुः सहितास्सर्वे यत्र देवः पितामहः

从众神之主大自在天(Maheśvara)慈然赐得恩愿之后,众人同往那位神圣的皮塔摩诃(Pitāmaha,梵天)所在之处。

Verse 83

विरिञ्चिं संहिताजाप्यैस्तोषयंतोऽग्रतः स्थिताः । तुष्टस्तानब्रवीद्ब्रह्मा मत्तोपि व्रियतां वरः

他们立于毗邻支(Viriñci,梵天)之前,以反复诵持诸圣典汇编(saṃhitā)而令其欢喜;梵天满意地对他们说:“也从我这里选择一愿吧。”

Verse 84

ब्रह्मणस्तेनवाक्येन हृष्टाः सर्वे द्विजोत्तमाः । को वरो याच्यतां विप्राः परितुष्टे पितामहे

听闻梵天之言,诸位最胜二生者皆欢喜踊跃。“婆罗门啊,既然皮塔摩诃(梵天)已然欢悦,随你们所愿求取恩赐吧。”

Verse 85

अग्निहोत्राणि वेदाश्च शास्त्राणि विविधानि च । सांतानिकाश्च ये लोका वरदानाद्भवंतु नः

愿凭你所赐之恩,火供(Agnihotra)诸仪、诸吠陀与种种论典(śāstra),以及名为“娑檀多尼迦”(Sāntānika)的诸世界,皆归于我等。

Verse 86

एवं प्रजल्पतां तत्र विप्राणां कोपमाविशत् । के यूयं केत्र प्रवरा वयं श्रेष्ठास्तथापरे

他们在彼处如此争言时,忿怒攫住诸婆罗门:“你们是谁?你们中谁为最上?我们才是‘室利什陀’(śreṣṭha,最胜者)——而他人亦如此自称。”

Verse 87

नेतिनेति तथा विप्रा द्विजांस्तांस्तत्र संस्थितान् । ब्रह्मोवाचाभिसंप्रेक्ष्य ब्राह्मणान्क्रोधपूरितान्

诸贤反复说道:“非此、非此(neti neti)”,仍立于彼处。随后,梵天(Brahmā)观见诸婆罗门怒火充盈,便开口说道。

Verse 88

यस्माद्यूयं त्रिभिर्भागैः सभायां बाह्यतः स्थिताः । तस्मादामूलिको गुल्मो ह्येको भवतु वो द्विजाः

既然你们这些二次生者在会堂之外分作三群而立,因此,婆罗门啊,愿你们只得一丛草木——被连根拔起,且无根可依。

Verse 89

उदासीनाः स्थिता ये तु उदासीना भवंतु ते । सायुधाबद्धनिस्त्रिंशा योद्धुकामा व्यवस्थिताः

凡冷然旁立者,任其仍旧旁立;而持械者,佩剑束腰,列阵而待,渴望交战。

Verse 90

कौशिकीति गणो नाम तृतीयो भवतु द्विजाः । त्रिधाबद्धमिदं स्थानं सर्वं युष्मद्भविष्यति

“诸位二生者啊,第三分部当称为‘憍尸迦(Kauśikī)’之众。此圣地分为三处而安立,将完全归属于你们。”

Verse 91

बाह्यतो लोकशब्देन प्रोच्यमानाः प्रजास्त्विह । अविज्ञेयमिदं स्थानं विष्णुः पालयिता ध्रुवम्

在此,众生于外在言说中以“世间”(loka)之名被称呼;然而此境界不可知不可测,确然唯有毗湿奴(Viṣṇu)为其恒常守护者。

Verse 92

मया दत्तं चिरस्थायि अभंगं च भविष्यति । एवमुक्त्वा तदा ब्रह्मा समाप्तिं तामवैक्षत

“我所赐予者将长久存续,且不致破坏。”如是说已,梵天(Brahmā)遂望向此事的终结。

Verse 93

ब्राह्मणाः सहितास्ते तु क्रोधामर्षसमन्विताः । अतिथिं भोजयानाश्च वेदाभ्यासरतास्तु ते

那些婆罗门聚集一处,满怀忿怒与怨愤;而在款待宾客进食之时,他们仍专注于吠陀的诵习与修持。

Verse 94

एतच्च परमं क्षेत्रं पुष्करं ब्रह्मसंज्ञितम् । तत्रस्था ये द्विजाः शांता वसंति क्षेत्रवासिनः

此处确为至上的圣域——普什迦罗(Puṣkara),亦称梵天(Brahmā)之地。居于其间的二生者安宁寂静,作为圣地之住民而栖止。

Verse 95

न तेषां दुर्लभं किंचिद्ब्रह्मलोके भविष्यति । कोकामुखे कुरुक्षेत्रे नैमिषे ऋषिसंगमे

对他们而言,在梵天界(Brahmaloka)将无一难得——无论在Kokāmukha、在俱卢之野(Kurukṣetra)、在尼弥沙(Naimiṣa),或在诸仙圣会聚之处。

Verse 96

वाराणस्यां प्रभासे च तथा बदरिकाश्रमे । गंगाद्वारे प्रयागे च गंगासागरसंगमे

在婆罗那西(Vārāṇasī)、在Prabhāsa,亦在Badarī的修行林(āśrama);在恒河门(Gaṅgādvāra)、在普罗耶伽(Prayāga),以及恒河与大海相会的汇合处——

Verse 97

रुद्रकोट्यां विरूपाक्षे मित्रस्यापि तथा वने । तीर्थेष्वेतेषु सर्वेषु सिद्धिर्या द्वादशाब्दिका

在Rudrakoṭī、在Virūpākṣa,亦在密多罗(Mitra)之林——于这一切圣地渡口(tīrtha)中,所得成就(siddhi)等同于十二年(修持)之果。

Verse 98

प्राप्यते मानवैर्लोके षण्मासाद्राजसत्तम । पुष्करे तु न संदेहो ब्रह्मचर्यमना यदि

大王中之最胜者啊,世人于此世六个月所能获得者,在补湿迦罗(Puṣkara)无疑即可获得——只要其心安住于梵行(brahmacarya:清净与持戒之行)。

Verse 99

तीर्थानां परमं तीर्थं क्षेत्राणामपि चोत्तमम् । सदा तु पूजितं पूज्यैर्भक्तियुक्तैः पितामहे

噢祖父(Pitāmaha,梵天Brahmā)啊,此乃诸圣地(tīrtha)之最上、诸圣域(kṣetra)之第一;它恒常为堪受者所礼敬——具足奉爱(bhakti)的信众。

Verse 100

अतः परं प्रवक्ष्यामि सावित्र्या ब्रह्मणा सह । वादो यथानुभूतस्तु परिहासकृतो महान्

于是我将宣说其后之事——萨维特丽与梵天之间那场伟大的对答,如其亲历一般,虽起于戏谑之语。

Verse 101

सावित्रीगमने सर्वा आगता देवयोषितः । भृगोः ख्यात्यां समुत्पन्ना विष्णुपत्नी यशस्विनी

当萨维特丽启行之时,诸天女尽皆来集。其中有那声名显赫的毗湿奴之妃,乃由婆利古与迦耶蒂所生。

Verse 102

आमन्त्रिता सदा लक्ष्मीस्तत्रायाता त्वरान्विता । मदिरा च महाभागा योगनिद्रा विभूतिदा

一经召请,吉祥天女拉克什米便迅速来到,恒常应召不迟。尊贵的玛迪拉亦至,赐予神力的瑜伽睡眠女神亦来。

Verse 103

श्रीः कमलालयाभूतिः कीर्तिः श्रद्धा मनस्विनी । पुष्टितुष्टिप्रदा या तु देव्या एताः समागताः

室利——莲华之居者迦摩罗——以及富饶、名声、坚固的信心;并那赐予滋养与满足之女神:诸般神圣威德悉皆会集。

Verse 104

सती या दक्षतनया उमेति पार्वती शुभा । त्रैलोक्यसुंदरी देवी स्त्रीणां सौभाग्यदायिनी

她曾为萨蒂,达克沙之女——亦名乌玛、吉祥的帕尔瓦蒂——乃三界之美的女神,赐予妇女以福瑞与良缘。

Verse 105

जया च विजया चैव मधुच्छंदामरावती । सुप्रिया जनकांता च सावित्र्या मंदिरे शुभे

彼处有阇耶与毗阇耶,亦有摩度旃陀与阿摩罗伐底;又有苏普丽雅与阇那迦安塔——皆在娑维特丽吉祥之殿中。

Verse 106

गौर्या सह समायातास्सुवेषा भरणान्विताः । पुलोमदुहिता चैव शक्राणी च सहाप्सराः

她们随同高丽而来,衣饰华美、佩戴珠宝;又有普罗摩之女,以及释迦罗尼(因陀罗尼),并诸阿普萨罗同至。

Verse 107

स्वाहा चापि स्वधाऽऽयाता धूमोर्णा च वरानना । यक्षी तु राक्षसी चैव गौरी चैव महाधना

又有娑婆诃与娑陀现身;并有杜摩尔那与容颜姣好的婆罗阿难那;亦有夜叉女与罗刹女;还有高丽,富饶无比。

Verse 108

मनोजवा वायुपत्नी ऋद्धिश्च धनदप्रिया । देवकन्यास्तथाऽऽयाता दानव्यो दनुवल्लभाः

摩诺阇婆——风神婆由之妻——与财主达那陀(俱毗罗)所钟爱的利提亦至;天界少女亦来,且有丹那所爱之檀那婆女众同到。

Verse 109

सप्तर्षीणां महापत्न्य ऋषीणां च वरांगनाः । एवं भगिन्यो दुहिता विद्याधरीगणास्तथा

如是有七仙之大夫人,亦有诸仙之高贵女眷;又有姊妹与女儿,并有成群的持明女(Vidyādharī)同在。

Verse 110

राक्षस्यः पितृकन्याश्च तथान्या लोकमातरः । वधूभिः सस्नुषाभिश्च सावित्री गंतुमिच्छति

罗刹女、诸祖灵(Pitṛ)之女,以及其他“诸世界之母”,并同她们的儿媳与孙媳,萨维特丽(Sāvitrī)愿意启程前往。

Verse 111

अदित्याद्यास्तथा सर्वा दक्षकन्यास्समागताः । ताभिः परिवृता साध्वी ब्रह्माणी कमलालया

阿底提(Aditi)以及达刹(Dakṣa)的其余诸女皆在彼处聚集。她们环绕之中,端严贤淑的梵天妃(Brahmāṇī,梵天之配偶),以莲华为居所,亦在场。

Verse 112

काचिन्मोदकमादाय काचिच्छूर्पं वरानना । फलपूरितमादाय प्रयाता ब्रह्मणोंतिकम्

一位容颜姣好的女子取了摩陀迦(modaka)甜团;另一位拿起簸箕。又携满盛之果品以充供献,她们遂启行,前往梵天(Brahmā)座前。

Verse 113

आढकीः सह निष्पावा गृहीत्वान्यास्तथापरा । दाडिमानि विचित्राणि मातुलिंगानि शोभना

另一些女子携取阿陀迦豆(āḍhakī)与尼湿婆瓦豆(niṣpāva);又带来色泽纷呈的石榴,以及秀美的香橼(mātuliṅga)。

Verse 114

करीराणि तथा चान्या गृहीत्वा कमलानि च । कौसुंभकं जीरकं च खर्जूरमपरा तथा

又有女子取了迦梨罗果(karīra)等物,并采集莲华;另有一位携来红花(kusumbha)、孜然,以及同样的椰枣。

Verse 115

उत्तमान्यपरादाय नालिकेराणि सर्वशः । द्राक्षयापूरितं काचित्पात्रं शृंगाटकं तथा

他们取来种种上妙供品——各类椰子,又有一器盛满葡萄,并备水栗(荸荠)等物,以作供养。

Verse 116

कर्पूराणि विचित्राणि जंबूकानि शुभानि च । अक्षोटामलकान्गृह्य जंबीराणि तथापरा

他们又取来各色龙脑香(樟脑)、吉祥的枣(酸枣),并取核桃与余甘子(āmalaka);另有一位也取来香橼(jambīra,柠檬类)。

Verse 117

बिल्वानि परिपक्वानि चिपिटानि वरानना । कार्पासतूलिकाश्चान्या वस्त्रं कौसुंभकं तथा

美颜的女子啊,有熟透的毕罗果(bilva)与压扁的饼;又有他物:棉絮,以及以红花/藏红花色染成的布帛。

Verse 118

एवमाद्यानि चान्यानि कृत्वा शूर्पे वराननाः । सावित्र्या सहिताः सर्वाः संप्राप्ताः सहसा शुभाः

如是完成最初诸仪及其余诸事后,诸位容颜姝丽、吉祥的女子与娑维特丽(Sāvitrī)同来,忽然齐至簸箕之前。

Verse 119

सावित्रीमागतां दृष्ट्वा भीतस्तत्र पुरंदरः । अधोमुखः स्थितो ब्रह्मा किमेषा मां वदिष्यति

见娑维特丽前来,普兰达罗(因陀罗)当场心生恐惧。梵天垂首而立,暗想:“她将对我说些什么呢?”

Verse 120

त्रपान्वितौ विष्णुरुद्रौ सर्वे चान्ये द्विजातयः । सभासदस्तथा भीतास्तथा चान्ये दिवौकसः

毗湿奴与鲁陀罗满怀羞惭;其余一切二次生者亦复如是。会众诸席同样心生畏惧,其他天界众生亦皆如此。

Verse 121

पुत्राः पौत्रा भागिनेया मातुला भ्रातरस्तथा । ऋभवो नाम ये देवा देवानामपि देवताः

儿子、孙子、姊妹之子、舅父,以及诸兄弟;并有名为梨婆(Ṛbhu)之诸神,乃至为诸神之神明。

Verse 122

वैलक्ष्येवस्थिताः सर्वे सावित्री किं वदिष्यति । ब्रह्मपार्श्वे स्थिता तत्र किंतु वै गोपकन्यका

众人皆如含羞而立——萨维特丽(Sāvitrī)又能说些什么呢?然而就在彼处,立于梵天身旁的,确是一位牧牛少女。

Verse 123

मौनीभूता तु शृण्वाना सर्वेषां वदतां गिरः । अद्ध्वर्युणा समाहूता नागता वरवर्णिनी

她默然不语,只聆听众人所说之言;虽为行祭司(adhvaryu)所召,那肤色明净的女子却未前来。

Verse 124

शक्रेणान्याहृताभीरा दत्ता सा विष्णुना स्वयम् । अनुमोदिता च रुद्रेण पित्राऽदत्ता स्वयं तथा

那位阿毗罗女子(Abhīrā),由释迦罗(因陀罗)自他处带来,亲由毗湿奴赐与为婚;鲁陀罗亦加以赞许。同样,她的父亲也亲自将她交付(成婚)。

Verse 125

कथं सा भविता यज्ञे समाप्तिं वा व्रजेत्कथम् । एवं चिंतयतां तेषां प्रविष्टा कमलालया

“她将如何出现在祭祀(yajña)中?此祭又怎能圆满完成?”众人如此思量之时,莲华居者迦摩罗(吉祥天女拉克希米)进入其间。

Verse 126

वृतो ब्रह्मासदस्यैस्तु ऋत्विग्भिर्दैवतैस्तथा । हूयंते चाग्नयस्तत्र ब्राह्मणैर्वैदपारगैः

于是梵天为其会众、诸司祭之祭官以及诸天神所环绕;在那里,通达吠陀的婆罗门点燃圣火,并向火中奉献供品。

Verse 127

पत्नीशालास्थिता गोपी सैणशृंगा समेखला । क्षौमवस्त्रपरीधाना ध्यायंती परमं पदम्

她立于内室(妻室)之中,那牧女佩以角饰、系以腰带,身着麻布衣,静观冥想至上的归处。

Verse 128

पतिव्रता पतिप्राणा प्राधान्ये च निवेशिता । रूपान्विता विशालाक्षी तेजसा भास्करोपमा

她为贞顺之妻(pativratā),以夫为命息;安住于尊贵与卓越;容貌端丽,目如广莲,光辉灿然,犹如日轮。

Verse 129

द्योतयंती सदस्तत्र सूर्यस्येव यथा प्रभा । ज्वलमानं तथा वह्निं श्रयंते ऋत्विजस्तथा

在那里,她照耀会众,如同日光普照;同样地,诸祭官依止于那熊熊燃烧的祭火。

Verse 130

पशूनामिह गृह्णाना भागं स्वस्व चरोर्मुदा । यज्ञभागार्थिनो देवा विलंबाद्ब्रुवते तदा

当他们在此欢喜地领取各自的祭祀供分与牲畜之分时,诸天为求得祭分,便开口说道,抱怨迟延。

Verse 131

कालहीनं न कर्तव्यं कृतं न फलदं यतः । वेदेष्वेवमधीकारो दृष्टः सर्वैर्मनीषिभिः

不可在失时之际行仪轨,因为不合时令之所作不结其果。此等资格与时分之法,在吠陀中可见,为一切智者所共许。

Verse 132

प्रावर्ग्ये क्रियमाणे तु ब्राह्मणैर्वेदपारगैः । क्षीरद्वयेन संयुक्त शृतेनाध्वर्युणा तथा

当通达吠陀的婆罗门行作普拉瓦尔吉亚(Prāvargya)仪时,阿德瓦律优(Adhvaryu)祭官亦备办供物,使之煮沸,并与两种乳相和合。

Verse 133

उपहूतेनागते न चाहूतेषु द्विजन्मसु । क्रियमाणे तथा भक्ष्ये दृष्ट्वा देवी रुषान्विता

她见被邀之客未至,而未受邀的两生者却在场,食物仍照常烹备,于是女神心中怒火炽盛。

Verse 134

उवाच देवी ब्रह्माणं सदोमध्ये तु मौनिनम् । किमेतद्युज्यते देव कर्तुमेतद्विचेष्टितम्

女神对坐于会众中央而默然的梵天说道:“主啊,此等作为何以相宜?这般反常之举,怎可为之?”

Verse 135

मां परित्यज्य यत्कामात्कृतवानसि किल्बिषम् । न तुल्या पादरजसा ममैषा या शिरः कृता

你因欲望而弃我,造下罪业。我这被你迫使低下的头,连我足下之尘也不及。

Verse 136

यद्वदंति जनास्सर्वे संगताः सदसि स्थिताः । आज्ञामीश्वरभूतानां तां कुरुष्व यदीच्छसि

众人齐集于议会而就座,所言为何——若你愿意,便奉行那道命令,因为那宛如诸主宰之命。

Verse 137

भवता रूपलोभेन कृतं लोकविगर्हितम् । पुत्रेषु न कृता लज्जा पौत्रेषु च न ते प्रभो

你贪恋美色,做了为世人所讥责之事。你在儿子面前不知羞耻,甚至在孙辈面前亦然,主啊。

Verse 138

कामकारकृतं मन्य एतत्कर्मविगर्हितम् । पितामहोसि देवानामृषीणां प्रपितामहः

我以为此举出于欲念,因此应受谴责。你是诸天之祖父,也是诸仙圣(ṛṣi)之曾祖。

Verse 139

कथं न ते त्रपा जाता आत्मनः पश्यतस्तनुम् । लोकमध्ये कृतं हास्यमहं चापकृता प्रभो

你怎会不生惭愧,纵然亲见自身之躯?在众人之中,你使我成了笑柄,又加害于我,主啊。

Verse 140

यद्येष ते स्थिरो भावस्तिष्ठ देव नमोस्तुते । अहं कथं सखीनां तु दर्शयिष्यामि वै मुखम्

若你的决意确实坚定,就请停留吧,主啊——向你致敬。但我又如何能在同伴面前抬起脸来?

Verse 141

भर्त्रा मे विधृता पत्नी कथमेतदहं वदे । ब्रह्मोवाच । ऋत्विग्भिस्त्वरितश्चाहं दीक्षाकालादनंतरम्

“我的丈夫夺走了我的妻子——我怎能说得出口?” 梵天说道:“于是,在祭司们的催促下,我匆匆行事,于受戒(dīkṣā)之期一过便立刻继续前行。”

Verse 142

पत्नीं विना न होमोत्र शीघ्रं पत्नीमिहानय । शक्रेणैषा समानीता दत्तेयं मम विष्णुना

没有妻子,此处便不能行火供(homa);快把我的妻子带来。她是由释迦罗(因陀罗)带来的;而这一位是毗湿奴赐予我的。

Verse 143

गृहीता च मया सुभ्रु क्षमस्वैतं मया कृतम् । न चापराधं भूयोन्यं करिष्ये तव सुव्रते

美丽的女子啊,我已将你带走;请宽恕我所为。贤贞守誓者啊,我不再对你犯下任何过失。

Verse 144

पादयोः पतितस्तेहं क्षमस्वेह नमोस्तुते । पुलस्त्य उवाच । एवमुक्ता तदा क्रुद्धा ब्रह्माणं शप्तुमुद्यता

“我已伏倒在你足下——请在此宽恕我;向你致敬。” 普罗娑底耶说道:她听罢此言,怒火炽盛,便准备诅咒梵天。

Verse 145

यदि मेस्ति तपस्तप्तं गुरवो यदि तोषिताः । सर्वब्रह्मसमूहेषु स्थानेषु विविधेषु च

若我确已修行苦行,且诸师欢喜满意,愿此功德在一切梵天的众会之中,并于种种圣地处处显现而得胜。

Verse 146

नैव ते ब्राह्मणाः पूजां करिष्यंति कदाचन । ॠते तु कार्तिकीमेकां पूजां सांवत्सरीं तव

婆罗门们永不会在任何时候为你行供奉;唯有在迦尔提迦月的一次仪轨——你一年一度的祭礼——例外。

Verse 147

करिष्यंति द्विजाः सर्वे मर्त्या नान्यत्र भूतले । एतद्ब्रह्माणमुक्त्वाह शतक्रतुमुपस्थितम्

“一切二次生者将以凡人之身行此仪轨,地上别无他处。”如此对梵天说罢,他又转而对近旁侍立的释多迦罗图(因陀罗)说道。

Verse 148

भोभोः शक्र त्वयानीता आभीरी ब्रह्मणोंतिकम् । यस्मात्ते क्षुद्रकं कर्म तस्मात्वं लप्स्यसे फलम्

“喂,释迦罗(因陀罗)!你竟将这位阿毗梨女子带到梵天面前。既然你的行为卑劣浅薄,你必定要受其应得之果报。”

Verse 149

यदा संग्राममध्ये त्वं स्थाता शक्र भविष्यसि । तदा त्वं शत्रुभिर्बद्धो नीतः परमिकां दशाम्

当你在战阵之中立定身位之时,哦释迦罗,你将被仇敌捆缚,押送至最极端的境地。

Verse 150

अकिंचनो नष्टसत्वः शत्रूणां नगरे स्थितः । पराभवं महत्प्राप्य न चिरादेव मोक्ष्यसे

你将贫乏无依、勇气尽失,居于仇敌之城;遭受重大败辱之后,不久便会得释,获得解脱与放行。

Verse 151

शक्रं शप्त्वा तदा देवी विष्णुं वाक्यमथाब्रवीत् । भृगुवाक्येन ते जन्म यदा मर्त्ये भविष्यति

女神当时诅咒了释迦罗(因陀罗),继而对毗湿奴说道:“当你因婆利古之宣言而在凡世投生之时……”

Verse 152

भार्यावियोगजं दुःखं तदा त्वं तत्र भोक्ष्यसे । हृता ते शत्रुणा पत्नी परे पारो महोदधेः

在那里,你将承受由与妻离别而生的痛苦。你的妻子已被仇敌掳去,在大海彼岸的遥远之地。

Verse 153

न च त्वं ज्ञास्यसे नीतां शोकोपहतचेतनः । भ्रात्रा सह परं कष्टामापदं प्राप्य दुःखितः

你也将不知她被如何带走,因为你的心识为悲痛所击倒;与你的兄弟一同遭逢极其严酷的灾厄,你将忧苦不已。

Verse 154

यदा यदुकुले जातः कृष्णसंज्ञो भविष्यसि । पशूनां दासतां प्राप्य चिरकालं भ्रमिष्यसि

当你生于夜度族,名号为“克里希那”之时,你将堕入在群兽之间的奴役之境,并将长久漂泊流离。

Verse 155

तदाह रुद्रं कुपिता यदा दारुवने स्थितः । तदा त ॠषयः क्रुद्धाः शापं दास्यंति वै हर

当鲁陀罗住在达鲁瓦那林时,她因愤怒而对他说。那时诸仙亦动怒,确实准备宣下诅咒,哦,哈拉。

Verse 156

भोभोः कापालिक क्षुद्र स्त्रीरस्माकं जिहीर्षसि । तदेतद्दर्पितं तेद्य भूमौ लिगं पतिष्यति

“喂,卑劣的卡帕利卡!你竟想掳走我们的女子。因此就在今日,你那傲慢的林伽必坠落于地!”

Verse 157

विहीनः पौरुषेण त्वं मुनिशापाच्च पीडितः । गंगाद्वारे स्थिता पत्नी सा त्वामाश्वासयिष्यति

你将失去男子之力,又受牟尼之咒所苦;但住在恒河门(Gangādvāra)的妻子将安慰你。

Verse 158

अग्ने त्वं सर्वभक्षोसि पूर्वं पुत्रेण मे कृतः । भृगुणा धर्मनित्येन कथं दग्धं दहाम्यहम्

噢,阿耆尼,你吞噬万物;然而你昔日却由我之子——恒守法义的婆利古所生。我又怎能焚烧那已被焚烧之物?

Verse 159

जातवेदस्स रुद्रस्त्वां रेतसा प्लावयिष्यति । अमेध्येषु च ते जिह्वा अधिकं प्रज्वलिष्यति

那位全知的鲁陀罗——贾塔韦达斯——将以其精液淹没你;而当遇到不净之物时,你的舌将燃烧得更加炽烈。

Verse 160

ब्राह्मणानृत्विजः सर्वान्सावित्री वै शशाप ह । प्रतिग्रहार्थाग्निहोत्रो वृथाटव्याश्रयास्तथा

萨维特丽确实诅咒了所有婆罗门祭司:“愿你们的火供(阿耆尼霍多罗)只为求取布施而行;也愿你们徒然遁入林野,寻求栖身。”

Verse 161

सदा तीर्थानि क्षेत्राणि लोभादेव भजिष्यथ । परान्नेषु सदा तृप्ता अतृप्तास्स्वगृहेषु च

只因贪欲,你们将永远奔走于诸圣渡口(提尔塔)与圣地;常以他人之食为足,却在自家之中常不知足。

Verse 162

अयाज्ययाजनं कृत्वा कुत्सितस्य प्रतिग्रहम् । वृथाधनार्जनं कृत्वा व्ययं चैव तथा वृथा

为不堪受祭者而行祭,为卑劣之人而受赠;徒然聚敛财物,又同样徒然挥霍散尽——

Verse 163

प्रेतानां तेन प्रेतत्वं भविष्यति न संशयः । एवं शक्रं तथा विष्णुं रुद्रं वै पावकं तथा

由此,那些亡灵必定堕入“饿鬼(普雷塔)”之境——毫无疑问。同样地,她也提及了释迦(因陀罗)、以及毗湿奴、鲁陀罗,并火神帕瓦迦(阿耆尼)。

Verse 164

ब्रह्माणं ब्राह्मणांश्चैव सर्वांस्तानाशपद्रुषा । शापं दत्वा तथा तेषां निष्क्रांता सदसस्तथा

她怒而诅咒梵天与一切婆罗门;既将诅咒宣告于彼等,便也离开了会众之席。

Verse 165

ज्येष्ठं पुष्करमासाद्य तदा सा च व्यवस्थिता । लक्ष्मीं प्राह सतीं तां च शक्रभार्यां वराननाम्

她抵达普什卡拉的耶什塔后,便立于其处,向吉祥天女拉克希米开口——贞善端严、容颜秀美,亦为释迦天帝之妃。

Verse 166

युवतीस्तास्तथोवाच नात्र स्थास्यामि संसदि । तत्र चाहं गमिष्यामि यत्र श्रोष्ये न च ध्वनिम्

随后她对那些少女说道:“我不愿留在此会众之中;我要前往那处,连一丝声响也听不见的地方。”

Verse 167

ततस्ताः प्रमदाः सर्वाः प्रयाताः स्वनिकेतनम् । सावित्री कुपिता तासामपि शापाय चोद्यता

于是那些女子尽皆返回各自居处。萨维特丽因愤怒而激动,也被驱使着要诅咒她们。

Verse 168

यस्मान्मां तु परित्यज्य गतास्ता देवयोषितः । तासामपि तथा शापं प्रदास्ये कुपिता भृशम्

“既然那些天界女子弃我而去,我盛怒难抑,也要同样向她们宣下诅咒。”

Verse 169

नैकत्रवासो लक्ष्म्यास्तु भविष्यति कदाचन । क्षुद्रा सा चलचित्ता च मूर्खेषु च वसिष्यति

“拉克希米从不久居一处;她卑狭而心念飘忽,终将寄居于愚人之中。”

Verse 170

म्लेच्छेषु पार्वतीयेषु कुत्सिते कुत्सिते तथा । मूर्खेषु चावलिप्तेषु अभिशप्ते दुरात्मनि

在弥勒叉之中,在居山之人中,在卑劣者——又复卑劣者中;在愚昧与傲慢者中,在被诅咒、心性邪恶者中。

Verse 171

एवंविधे नरे स्यात्ते वसतिः शापकारिता । शापं दत्वा ततस्तस्या इंद्राणीमशपत्ततदा

“对如此之人,你的居处本身便成了招致诅咒的因。”如是降下诅咒后,她当时也诅咒了因陀罗尼。

Verse 172

ब्रह्महत्या गृहीतेंद्रे पत्यौ ते दुःखभागिनि । नहुषापहृते राज्ये दृष्ट्वा त्वां याचयिष्यति

噫,忧苦之人:当你夫因陀罗被“杀婆罗门之罪”(梵杀罪)所执,当王权被那胡沙夺去时,他将见到你,并向你哀求。

Verse 173

अहमिंद्रः कथं चैषा नोपस्थास्यति बालिशा । सर्वान्देवान्हनिष्यामि न लप्स्येहं शचीं यदि

“我乃因陀罗——这愚女怎能不来侍我?若我在此得不到舍脂,我将诛灭诸天。”

Verse 174

नष्टा त्वं च तदा त्रस्ता वाक्पतेर्दुःखिता गृहे । वसिष्यसे दुराचारे मम शापेन गर्विते

于是你将迷失而惊惧,在语主(Vākpati)之家忧苦而住。恶行者、骄矜者啊——凭我之诅咒,你必居于彼处。

Verse 175

देवभार्यासु सर्वासु तदा शापमयच्छत । न चापत्यकृतां प्रीतिमेताः सर्वा लभिष्यथ

于是他对诸天之妻尽下诅咒:“你们都不得获得因生育子嗣而生的喜悦。”

Verse 176

दह्यमाना दिवारात्रौ वंध्याशब्देन दूषिताः । गौर्य्यप्येवं तदा शप्ता सावित्र्या वरवर्णिनी

她们昼夜如焚,被“无子”“不孕”的辱名所玷;当时,容色皎洁的娑毗特丽也以同样的方式诅咒了高丽。

Verse 177

रुदमाना तु सा दृष्टा विष्णुना च प्रसादिता । मा रोदीस्त्वं विशालाक्षि एह्यागच्छ सदा शुभे

毗湿奴见她哭泣,慈悲安慰道:“莫哭啊,广目者;来吧,走近些——永远吉祥的夫人。”

Verse 178

प्रविश्य च सभां देहि मेखलां क्षौमवाससी । गृहाण दीक्षां ब्रह्माणि पादौ च प्रणमामि ते

“进入会堂,把腰带与麻布衣裳交给我。噢梵天妃(Brahmāṇī),请受灌顶之礼;我顶礼于你的双足。”

Verse 179

एवमुक्ताऽब्रवीदेनं न करोमि वचस्तव । तत्र चाहं गमिष्यामि यत्र श्रोष्ये न वै ध्वनिम्

她被如此劝说,便对他说:“我不照你的话去做。我将前往那处,确实听不见任何声响的地方。”

Verse 180

एतावदुक्त्वा सारुह्य तस्मात्स्थानद्गिरौ स्थिता । विष्णुस्तदग्रतः स्थित्वा बध्वा च करसंपुटं

说完这些,她便登上坐骑,停驻在那处山上。毗湿奴立于她前,合掌致敬。

Verse 181

तुष्टाव प्रणतो भूत्वा भक्त्या परमया स्थितः । विष्णुरुवाच । सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतोद्भुता

他赞颂并俯伏礼拜,安住于至上的虔敬。毗湿奴说道:“她遍一切处,住于一切众生之中;应当于处处得见,诸相皆奇妙。”

Verse 182

सदसच्चैव यत्किंचिद्दृश्यं तन्न विना त्वया । तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः

凡所见之物——无论真实或虚妄——皆不离于你而有。即便如此,求成就者仍有一些处所必须前往瞻礼。

Verse 183

स्मर्तव्या भूमिकामैर्वा तत्प्रवक्ष्यामि तेग्रतः । सावित्री पुष्करे नाम तीर्थानां प्रवरे शुभे

又或,欲求修行阶位者亦当忆念此事。我今当面为你宣说:名为萨维特丽的圣地在补湿迦罗,吉祥无比,为诸渡口圣地之最胜。

Verse 184

वाराणस्यां विशालाक्षी नैमिषे लिंगधारिणी । प्रयागे ललितादेवी कामुका गंधमादने

在婆罗那西,她名为毗舍罗阿克希(广目);在奈弥沙,她名为林伽持者;在波罗耶伽,她是拉利塔女神;在甘达摩陀那山,她被称为迦慕迦。

Verse 185

मानसे कुमुदा नाम विश्वकाया तथांबरे । गोमंते गोमती नाम मंदरे कामचारिणी

在玛那萨罗瓦拉,她名为“库穆达”(Kumudā);在苍穹之中,她被称作“毗湿瓦迦耶”(Viśvakāyā)。在戈曼塔,她名“戈玛蒂”(Gomatī);在曼达罗山,她随愿而行,为“迦摩恰利尼”(Kāmacāriṇī)。

Verse 186

मदोत्कटा चैत्ररथे जयंती हस्तिनापुरे । कान्यकुब्जे तथा गौरी रंभा मलयपर्वते

在柴特拉拉他(Caitraratha),她受敬为“玛多特迦塔”(Madotkaṭā);在哈斯提那补罗(Hastināpura),为“阇衍蒂”(Jayantī)。同样,在迦尼耶库布阇(Kānyakubja)她名“高丽”(Gaurī);在摩罗耶山(Malaya)她名“兰婆”(Rambhā)。

Verse 187

एकाम्रके कीर्तिमती विश्वा विश्वेश्वरी तथा । कर्णिके पुरुहस्तेति केदारे मार्गदायिका

在埃迦摩罗(Ekāmra),她名“吉尔提玛蒂”(Kīrtimatī);她亦名“毗湿瓦”(Viśvā)与“毗湿韦湿瓦丽”(Viśveśvarī)。在迦尔尼迦(Karṇikā),她被称为“普鲁哈斯塔”(Puruhastā);在计达罗(Kedāra),她是“玛尔伽达伊迦”(Mārgadāyikā),指示正道者。

Verse 188

नंदा हिमवतः पृष्टे गोकर्णे भद्रकालिका । स्थाण्वीश्वरे भवानी तु बिल्वके बिल्वपत्रिका

在喜马伐特(Himavat)之背、北坡之上,她名“难陀”(Nandā);在戈迦尔那(Gokarṇa),她名“跋陀罗迦利迦”(Bhadrakālikā)。在斯他那毗湿伐罗(Sthāṇvīśvara),她是“婆伐尼”(Bhavānī);在毗尔瓦迦(Bilvaka),她是“毗尔瓦叶女”(Bilvapatrikā)。

Verse 189

श्रीशैले माधवीदेवी भद्रा भद्रेश्वरी तथा । जया वराहशैले तु कमला कमलालये

在室利舍罗(Śrīśaila),她名“摩达毗天女”(Mādhavīdevī);她亦为“跋陀罗”(Bhadrā)与“跋陀雷湿瓦丽”(Bhadreśvarī)。在婆罗诃山(Varāha-śaila),她名“阇耶”(Jayā);在莲华住处(Kamalālaya),她名“迦摩罗”(Kamalā)。

Verse 190

रुद्रकोट्यां तु रुद्राणी काली कालंजरे तथा । महालिंगे तु कपिला कर्कोटे मंगलेश्वरी

在鲁陀罗科蒂,她名为鲁陀罗妮(Rudrāṇī);在迦兰阇罗,她即迦梨(Kālī)。在摩诃林伽,她为迦毗罗(Kapilā);在羯拘吒,她为吉祥自在女神(Maṅgaleśvarī)。

Verse 191

शालिग्रामे महादेवी शिवलिंगे जलप्रिया । मायापुर्यां कुमारी तु संताने ललिता तथा

在舍利伽罗摩(Śālagrāma),她名为大女神(Mahādevī);在湿婆林伽(Śiva-liṅga)中,她为喜水者(Jalapriyā)。在摩耶城(Māyāpurī),她确为童女(Kumārī);在赐予子嗣之事上,她亦名为拉利塔(Lalitā)。

Verse 192

उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला । गयायां मंगला नाम विमला पुरुषोत्तमे

在萨哈斯拉克沙(Sahasrākṣa),她称为莲目女神(Utpalākṣī);在希兰尼亚克沙(Hiraṇyākṣa),她为希兰尼亚克希(Hiraṇyākṣī),亦名大莲华(Mahotpalā)。在伽耶(Gayā),她名为吉祥(Maṅgalā);在普鲁绍塔摩(Puruṣottama),她称为清净者(Vimalā)。

Verse 193

विपाशायाममोघाक्षी पाटला पुण्यवर्द्धने । नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुंदरी

在毗帕沙河(Vipāśā),她名为无失目(Amoghākṣī);在福德增长之地(Puṇyavardhana),她名为帕塔拉(Pāṭalā)。在苏帕尔湿瓦山(Supārśva),她为那罗延妮(Nārāyaṇī);在三峰山(Trikūṭa),她为吉祥妙丽者(Bhadrasuṃdarī)。

Verse 194

विपुले विपुला नाम कल्याणी मलयाचले । कोटवी कोटितीर्थे तु सुगंधा माधवीवने

在毗补罗(Vipula),她名为毗补拉(Vipulā);在摩罗耶山(Malaya),她为吉祥者(Kalyāṇī)。在拘底圣渡(Koṭitīrtha),她为拘底毗(Koṭavī);在摩达毗林苑(Mādhavī-vana),她为妙香者(Sugandhā)。

Verse 195

कुब्जाम्रके त्रिसंध्या तु गंगाद्वारे हरिप्रिया । शिवकुंडे शिवानंदा नंदिनी देविकातटे

在库布贾阿姆拉卡,她名为“三时”(Trisaṃdhyā);在恒河门(Gaṅgādvāra),她名为“哈利所爱”(Haripriyā);在湿婆池(Śivakuṇḍa),她名为“湿婆喜乐”(Śivānandā);在德维迦河岸,她名为“难迪尼”(Nandinī)。

Verse 196

रुक्मिणी द्वारवत्यां तु राधा वृंदावने तथा । देवकी मथुरायां तु पाताले परमेश्वरी

鲁克米妮(Rukmiṇī)安住于德瓦拉瓦蒂(Dvāravatī),罗陀(Rādhā)亦在弗林达文(Vṛndāvana);德瓦姬(Devakī)居于摩图罗(Mathurā),而在帕塔拉(Pātāla)则安住至上女神帕拉梅湿瓦丽(Parameśvarī)。

Verse 197

चित्रकूटे तथा सीता विंध्ये विंध्यनिवासिनी । सह्याद्रावेकवीरा तु हरिश्चंद्रे तु चंद्रिका

在吉多罗拘吒(Citrakūṭa),她名为悉多(Sītā);在温迪亚(Vindhya)地区,她名为“温迪亚居者”(Vindhya-nivāsinī),即居于温迪亚群山的圣母。在萨希亚山(Sahya)她为独勇女神(Ekavīrā);在哈利施旃陀罗(Hariścandra)她为月光女神(Candrikā)。

Verse 198

रमणा रामतीर्थे तु यमुनायां मृगावती । करवीरे महालक्ष्मी रुमादेवी विनायके

在罗摩圣渡(Rāma-tīrtha),她受礼敬为罗摩娜(Ramaṇā);在亚穆那河(Yamunā),她名为弥伽伐蒂(Mṛgāvatī)。在迦罗毗罗(Karavīra),她被尊为大吉祥天女(Mahālakṣmī);在毗那夜迦(Vināyaka),她名为鲁玛女神(Rumādevī)。

Verse 199

अरोगा वैद्यनाथे तु महाकाले महेश्वरी । अभया पुष्पतीर्थे तु अमृता विंध्यकंदरे

在毗提耶那他(Vaidyanātha),她被称为无病者(Arogā);在摩诃迦罗(Mahākāla),她为大自在女神(Maheśvarī)。在花圣渡(Puṣpa-tīrtha),她名为无畏者(Abhayā);在温迪亚(Vindhya)的洞窟中,她名为甘露者(Amṛtā)。

Verse 200

मांडव्ये मांडवी देवी स्वाहा माहेश्वरे पुरे । वेगले तु प्रचंडाथ चंडिकामरकंटके

在曼荼婆耶圣地,女神名为曼荼毗;在摩诃湿伐罗之城,住着娑婆诃;在韦伽罗,她是普罗旃陀;在旃提迦摩罗迦ṇṭaka处,则是同名女神。