Adhyaya 12
Srishti KhandaAdhyaya 12139 Verses

Adhyaya 12

Origin of the Lunar Dynasty: Soma’s Rise, the Tārā Abduction War, Budha–Purūravas Genealogy, and Kārtavīrya Arjuna

毗湿摩请问普罗娑底耶:月族如何兴起,其中出现了哪些著名君王。普罗娑底耶叙述阿特里苦行之力,遂感得苏摩(旃陀罗)显现;其光辉无量,统摄诸药草与灵植,并在诸天护持之下,经由祭仪而被尊立,终至举行由神圣监督安排的王祭(Rājasūya)。 然而苏摩掳走布利哈斯帕提之妻塔罗,引发惨烈战争,甚至牵动湿婆;终由梵天调停,苏摩归还塔罗。塔罗生出布陀(Budha),布陀又生普鲁罗婆娑(Purūravas);章中概述其治世、与天女乌尔瓦希(Urvaśī)的因缘,以及后续血脉的延展。 随后叙及诸支系的分流,包括雅度与普卢(Yadu/Pūru)等谱系,最后赞颂海诃耶族千臂王迦尔达毗利耶·阿周那(Kārtavīrya Arjuna)。文中述其所获恩赐、征服四方、冲突与诅咒,并以果报赞(phalaśruti)称扬诵读其诞生事迹能得福德。

Shlokas

Verse 1

भीष्म उवाच । सोमवंशः कथं जातः कथयात्र विशारद । तद्वंशे केतुराजानो बभूवुः कीर्तिवर्द्धनाः

毗湿摩说道:“月族(Somavaṃśa)如何诞生?贤者啊,请在此宣说。又在那一脉中,哪些执幡之王兴起,增益名声与荣耀?”

Verse 2

पुलस्त्य उवाच । आदिष्टो ब्रह्मणा पूर्वमत्रिः सर्गविधौ पुरा । अनंतरं नाम तपः सृष्ट्यर्थं तप्तवान्विभुः

普罗娑提耶说道:往昔在古老的创世法则中,阿特里奉梵天(Brahmā)之命,为令万有显现,修持名为“阿难多罗”(Anantara)的广大苦行。

Verse 3

यदानंदकरं ब्रह्म भगवन्क्लेशनाशनं । ब्रह्मरुद्रेन्द्रसूर्याणामभ्यंतरमतींद्रियं

那梵(Brahman)——吉祥的主、灭除苦恼者——赐予安乐;为梵天、鲁陀罗、因陀罗与日神之内在实相;超越诸根,非感官所及。

Verse 4

शान्तिं कृत्वात्ममनसा तदत्रिः संयमे स्थितः । माहात्म्यं तपसो वापि परमानंदकारकं

他先令自心安寂;圣者阿特里安住于自制之定,(体悟并宣说)苦行(tapas)之伟大——实为至上安乐之因。

Verse 5

यस्माद्वंशपतिः सार्द्धं समये तदधिष्ठितः । तं दृष्ट्वाचष्ट सोमेन तस्मात्सोमोभवद्विभुः

由于那一族之主在适当之时如法安立于彼处,苏摩(Soma)见之便与之言;因此那位大能者遂得名为“苏摩”。

Verse 6

अथ सुस्राव नेत्राभ्यां जलं तत्रात्रिसंभवम् । द्योतयद्विश्वमखिलं ज्योत्स्नया सचराचरम्

随后,从他的双眼流出清水——于彼处由阿特里所生——其如月之光辉照耀整个宇宙,遍及一切有情与无情、动与不动。

Verse 7

तद्दिशो जगृहुस्तत्र स्त्रीरूपेणासहृच्छयाः । गर्भो भूत्वोदरे तासां स्थितः सोप्यत्रिसंभवः

在那里,诸方之力化作女身摄取了他,心中并无欲念。化为胎胚后,他安住于她们的腹中——他亦为阿特里所生。

Verse 8

आशाश्च मुमुचुर्गर्भमशक्ता धारणे ततः । समादायाथ तं गर्भमेकीकृत्य चतुर्मुखः

随后,诸“愿望/希望”(Āśā)因无力承载而放出了胎胚。于是四面者梵天取其胎胚,使之合一,成为完整。

Verse 9

युवानमकरोद्ब्रह्मा सर्वायुधधरं नरम् । स्यंदनेथ सहस्तेन वेदशक्तिमये प्रभुः

梵天使那人化为青春之身,具足一切兵器;而那位主宰,其威力本具吠陀之性,又赐予他一乘战车。

Verse 10

आरोप्य लोकमनयदात्मीयं स पितामहः । ततो ब्रह्मर्षिभिः प्रोक्तं ह्यस्मत्स्वामीभवत्वयम्

那位祖父梵天安立了他,并引领他进入自己的世界。随后诸婆罗门仙(Brahmarṣi)说道:“诚然,愿你成为我们的主宰。”

Verse 11

ऋषिभिर्देवगंधर्वैरप्सरोभिस्तथैव च । स्तूयमानस्य तस्याभूदधिकं महदंतरम्

当他受诸仙圣、天界乾闼婆以及同样的阿普萨罗女神赞颂之时,他与他们之间的距离反而愈加遥远。

Verse 12

तेजोवितानादभवद्भुवि दिव्यौषधीगणः । तद्दीप्तिरधिका तस्माद्रात्रौ भवति सर्वदा

由那光辉的华盖,大地上生起一群神圣的药草;因此它们的光芒更为强盛,常在夜间显现。

Verse 13

तेनौषधीशः सोमोभूद्द्विजेष्वपि हि गण्यते । वेदधामा रसश्चायं यदिदं मंडलं शुभम्

因此,苏摩成为诸药草之主,并且确实也被列入二生者之中。此吉祥之圆轮乃吠陀之居所,自身即是精髓之味(rasa)。

Verse 14

कार्त्तवीर्यस्य राजर्षेर्महिमानं निरीक्ष्य सः । न नूनं कार्त्तवीर्यस्य गतिं यास्यंति पार्थिवाः

他目睹王仙迦尔达维利耶(Kārttavīrya)的伟大,心中思惟:“诚然,世间诸王必不能达到迦尔达维利耶之境与行程。”

Verse 15

रूपलावण्यसंयुक्तास्तस्मै कन्याः सुवर्चसः । ततः शक्तिसहस्राणां सहस्राणि दशैव तु

随后,具足美貌与娴雅、光辉灿然的少女被献与他;继而又出现了十千之千的沙克蒂(śakti),诸般威力与能量。

Verse 16

तपश्चकार शीतांशुर्विष्णुध्यानैकतत्परः । ततस्तुष्टश्च भगवांस्तस्मै नारायणो हरिः

Śītāṃśu修持苦行,一心专注于对毗湿奴的禅观。于是吉祥的主——那罗延那·诃利——心生欢喜,向他显现。

Verse 17

वरं वृणीष्व चोवाच परमात्मा जनार्दनः । ततो वव्रे वरं सोमः शक्रलोके यजाम्यहम्

“选择一个恩赐吧,”至上自性阇那尔达那说道。于是苏摩选择此愿:“愿我能在释迦罗之界——因陀罗天——举行祭祀。”

Verse 18

प्रत्यक्षमेव भोक्तारो भवंतु मम मंदिरे । राजसूये सुरगणा ब्रह्माद्या ये चतुर्विधाः

“愿受食者亲临我之神殿。于王祭(Rājasūya)之时,愿诸天众——以梵天为首、分属四类者——在此受供而食。”

Verse 19

रक्षपालः सुरोस्माकमास्तां शूलधरो हरः । तथेत्युक्तः समाजह्रे राजसूयं तु विष्णुना

“愿持三叉戟的诃罗(湿婆)作我们的天界守护者。”他闻言应允;而在毗湿奴的安排下,王祭(Rājasūya)遂得如法具办。

Verse 20

होतात्रिर्भृगुरध्वर्युरुद्गाता च चतुर्मुखः । ब्रह्मत्वमगमत्तस्य उपद्रष्टा हरिः स्वयम्

阿特里任Hotṛ祭官,婆利古任Adhvaryu祭官,四面者(梵天)任Udgātṛ歌诵祭官。他得任“梵祭官”(Brahmā)之职,而诃利亲自作为此仪的见证与监护。

Verse 21

सदस्याः सर्वदेवास्तु राजसूयविधिः स्मृतः । वसवोध्वर्यवस्तद्वद्विश्वेदेवास्तथैव च

一切诸神皆当视为仪式的执事成员;此即所宣示的罗阇苏耶(Rājasūya)祭法之程序。同样,诸婆苏(Vasus)担任阿陀婆梨优(Adhvaryu)祭官,诸毗湿毗天(Viśvedevas)亦复如是。

Verse 22

त्रैलोक्यं दक्षिणा तेन ऋत्विग्भ्यः प्रतिपादिता । सोमः प्राप्याथदुष्प्राप्यमैश्वर्यं सृष्टिसत्कृतं

由他将三界赐作达克希那(dakṣiṇā)——祭祀之酬施——奉与诸位祭官。随后,苏摩(Soma)获得那难得的主宰之福与昌盛,为造化之秩序所礼敬。

Verse 23

सप्तलोकैकनाथत्वं प्राप्तस्स्वतपसा तदा । कदाचिदुद्यानगतामपश्यदनेकपुष्पाभरणोपशोभाम्

他以自身苦行(tapas)得证七界独尊之位;某一时,他在园林中见一女子,佩饰繁花,光彩照人。

Verse 24

बृहन्नितंबस्तनभारखेदां पुष्पावभंगेप्यतिदुर्बलांगीं । भार्यां च तां देवगुरोरनंगबाणाभिरामायत चारुनेत्रां

他看见诸天之师的妻子:丰臀隆胸之重使她微显倦态,肢体纤柔,仿佛连花瓣坠落也能令她不胜;她宛如被爱神迦摩(Kāma)之箭所中,长眸清丽动人。

Verse 25

तारां स ताराधिपतिः स्मरार्तः केशेषु जग्राह विविक्तभूमौ । सापि स्मरार्ता सहते न रेमे तद्रूपकांत्याहृतमानसैव

为欲火所逼,群星之主在幽僻之地揪住塔罗(Tārā)的发丝。她亦为情欲所扰,并不抗拒,也不自持——她的心早已被他形貌的美与光辉所摄。

Verse 26

चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततोपि । न तृप्तिरासीत्स्वगृहेपि तस्य तारानुरक्तस्य सुखागमेषु

月神久嬉之后,携塔罗(Tārā)归于自宅;然而即在家中亦不得满足——他对塔罗情执深重,沉溺于诸般乐欲之途。

Verse 27

बृहस्पतिस्तद्विरहाग्निदग्धस्तद्ध्याननिष्ठैकमना बभूव । शशाक शापं न च दातुमस्मै न मंत्रशस्त्राग्निविषैरनेकैः

布里哈斯帕提(Bṛhaspati)为离别之火所灼,心神尽摄,专一坚住于对他的禅念;然而他竟不能加以诅咒,即使借诸多手段——咒语、兵刃、烈火或种种毒药亦不能。

Verse 28

तस्यापकर्तुं विविधैरुपायैर्नैवाभिचारैरपि वागधीशः । स याचयामास ततस्तु देवं सोमं स्वभार्यार्थमनंगतप्तः

纵以种种计策亦不能加害,连咒术邪法亦无所施;于是语主(Vāgadhīśa)为爱神所炙,便为求得己妻而恳请月神苏摩(Soma)。

Verse 29

स याच्यमानोपि ददौ न भार्यां बृहस्पतेः कामवशेन मोहितः । महेश्वरेणाथ चतुर्मुखेन साध्यैर्मरुद्भिः सह लोकपालैः

纵被再三恳求,他仍不将妻子归还布里哈斯帕提,因欲念所迷。此拒绝甚至在大自在天(Maheśvara)与四面梵天(Brahmā)之前,连同萨提亚众(Sādhyas)、风神众(Maruts)及诸世界护法在场时亦未改变。

Verse 30

ददौ यदा तां न कथंचिदिंदुस्तदा शिवः क्रोधपरो बभूव । यो वामदेवप्रथितः पृथिव्यामनेकरुद्रार्चितपादपद्मः

当因陀罗般的月(Indu)无论如何都不肯交还她时,湿婆便怒火炽然——那位在世间以伐摩提婆(Vāmadeva)著称、其莲足为无数鲁陀罗(Rudras)所礼敬的湿婆。

Verse 31

ततः सशिष्यो गिरिशः पिनाकी बृहस्पतेः स्नेहवशानुबद्धः । धनुर्गृहीत्वाजगवं पुरारिर्जगाम भूतेश्वरसिद्धजुष्टः

于是,持槃那迦(Pināka)之主吉利沙(湿婆),携弟子同行,因对布里哈斯帕提的慈爱而牵系,执起阿阇伽婆之弓;那三城之敌启程而去,诸有情之主与诸悉地者随侍左右。

Verse 32

युद्धाय सोमेन विशेषदीप्तस्तृतीयनेत्रानलभीमवक्त्रः । सहैव जग्मुश्च गणेश्वराणां विंशाधिका षष्टिरथोग्रमूर्तिः

他光辉更盛,面容可怖,宛如第三眼之火所化;与苏摩同赴战阵。又有诸伽内湿伐罗随行——六十又加二十——而他自身亦现猛厉之相。

Verse 33

यक्षेश्वराणां सगणैरनेकैर्युतोन्वगात्स्यंदनसंस्थितानां । वेतालयक्षोरगकिन्नराणां पद्मेन चैकेन तथार्बुदानाम्

他又与诸夜叉之主的众多部众同行,随从无数,并与乘车列阵者一道前进;又有毗陀罗、夜叉、那伽(龙蛇)与紧那罗相随,并有一支名为“莲华”(Padma)的军团,以及此外无量之众(arbuda)。

Verse 34

लक्षैस्त्रिभिर्द्वा दशभी रथानां सोमोप्यगात्तत्र विवृद्धमन्युः । शनैश्चरांगारकवृद्धतेजा नक्षत्रदैत्यासुरसैन्ययुक्तः

苏摩(月神)亦以三十二拉克之战车推进至彼处,怒意大增;而沙奈湿遮罗(土星)与安伽罗迦(火星)同来,光焰更炽,并率那刹多罗、代提耶与阿修罗之军。

Verse 35

जग्मुर्भयं सप्त तथैव लोका धरावनद्वीपसमुद्रगर्भाः । ससोममेवाभ्यगमत्पिनाकी गृहीतदीप्तास्त्रविशालवह्निः

于是恐惧攫住七界——连同大地、林野、诸岛与海洋深处。执槃那迦者(湿婆)手持炽耀兵器,广大火焰腾燃,向苏摩逼近而行。

Verse 36

अथाभवद्भीषण भीम सोम सैन्यद्वयस्याथ महाहवोसौ । अशेषसत्वक्षयकृत्प्रवृद्धस्तीक्ष्णप्रधानो ज्वलनैकरूपः

于是两军之间兴起一场可怖而骇人的大战,光辉如月;其势愈发凶猛,令无量众生损灭,以锋利兵刃为主,仿佛化作唯一形相的炽燃烈火。

Verse 37

शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगामक्षयमुग्रतीक्ष्णैः । पतंति शस्त्राणि तथोज्वलानि स्वर्भूमिपातालमलं दहंति

继而双方以凶猛如剃刃的利器相互毁灭,两边全军几乎同归于尽。炽燃的兵器不断坠落,灼烧诸天、大地与地下诸界。

Verse 38

रुद्रः क्रोधाद्ब्रह्मशिरो मुमोच सोमोपि सोमास्त्रममोघवीर्यं । तयोर्निपातेन समुद्रभूम्योरथांतरिक्षस्य च भीतिरासीत्

鲁陀罗因忿怒而放出“梵首”(Brahmaśiras)神兵;苏摩亦发出苏摩神兵,其威力无有虚失。二者降落之际,海洋、大地乃至中空之域(大气)都生起恐惧。

Verse 39

तदा सुयुद्धं जगतां क्षयाय प्रवृद्धमालोक्य पितामहोपि । ततः प्रविश्याथ कथंचिदेव निवारयामास सुरैः सहैव

当他见那凶烈之战愈演愈盛,几乎要走向诸世界的毁灭时,连“祖父”毗多摩诃(梵天)也进入其间。随后他与诸天神同在,终于设法将其制止。

Verse 40

अकारणं किं क्षयकृज्जनानां सोम त्वयापीदमकार्यकार्यं । यस्मात्परस्त्रीहरणाय सोम त्वया कृतं युद्धमतीव भीमम्

苏摩啊,你为何无故作此非义之事,而成了众人的毁灭者?因为,苏摩啊,正是为夺取他人之妻,你才发动了这场极其可怖的战争。

Verse 41

पापग्रहस्त्वं भविता जनेषु पापोस्यलं वह्निमुखाशिनां त्वं । भार्यामिमामर्पय वाक्पतेस्त्वं प्रमाणयन्नेव मदीय वाचम्

在众人之中,你将被视为为罪所执;在供养圣火者之中,你也将罪业深重。如今把这位妻子交付给言主(Vākpati),以证成我所言不虚。

Verse 42

तथेति चोवाच हिमांशुमाली युद्धादपाक्रामदतः प्रशांतः । बृहस्पतिस्तामथ गृह्य तारां हृष्टो जगाम स्वगृहं च रुद्रः

“就如此吧,”那戴月为冠者说道;随即心息怒静,退出战阵。于是布里哈斯帕提携取塔拉,欢喜归返自家居所;鲁陀罗亦回归其所住之境。

Verse 43

पुलस्त्य उवाच । ततः संवत्सरस्यांते द्वादशादित्यसन्निभः । दिव्यपीताम्बरधरो दिव्याभरणभूषितः

普拉斯提亚说道:其后至一年之终,有一位显现,光辉如十二日同照;身披天界黄衣,佩戴神圣宝饰。

Verse 44

तारोदरविनिष्क्रान्तः कुमारस्सूर्यसन्निभः । सर्वार्थशास्त्रविद्विद्वान्हस्तिशास्त्रप्रवर्त्तकः

自塔拉之胎中诞出一位光耀王子,灿然如日;通达一切关乎世间目的之论典,并为象学之先驱、开创其法。

Verse 45

नामयद्राजपुत्रोयं विश्रुतो राजवैद्यकः । राज्ञः सोमस्य पुत्रत्वाद्राजपुत्रो बुधः स्मृतः

此子以王家医师之名闻世,故名为“罗阇子”(Rājaputra)。又因他是月王苏摩之子,故布陀(Budha)亦被称作“罗阇子”,即王子。

Verse 46

जनानां तु स तेजांसि सर्वाण्येवाक्षिपद्बली । ब्रह्माद्यास्तत्र चाजग्मुर्देवा देवर्षिभिः सह

然而那位大能者夺去了众人一切光辉。随后,梵天与诸天众神来到那里,并与天界圣仙同至。

Verse 47

बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा । पप्रच्छुस्ते सुरास्तारां केन जातः कुमारकः

当时在布里哈斯帕提的宅邸,举行“生礼”(jātakarma)庆典之际,诸天众神问塔拉:“这孩子是由谁所生?”

Verse 48

ततः सा लज्जिता तेषां न किंचिदवदत्तदा । पुनः पुनस्तदा पृष्टा लज्जयंती वरांगना

于是她在众神面前羞惭,当时一句也未答。众人再三追问,那位高贵的女子仍含羞不语。

Verse 49

सोमस्येति चिरादाह ततो गृह्णाद्विधुः सुतं । बुध इत्यकरोन्नाम प्रादाद्राज्यं च भूतले

良久之后他说:“(他是)苏摩的。”于是月神收纳此子为己子,赐名“布陀”(Budha),并在大地上赐予他一方国土。

Verse 50

अभिषेकं ततः कृत्वा प्रदानमकरोद्विभुः । ग्रहमध्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिभिर्युतः

随后他举行灌顶礼(abhiṣeka),那位全能者完成了布施之赠。其后,梵天偕同诸婆罗门圣仙(Brahmarṣi),在居所中央赐下那供献。

Verse 51

पश्यतां सर्वभूतानां तत्रैवांतरधीयत । इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत्

在一切众生注视之下,他当场隐没不见。于伊洛达罗(Ilodarā)处,布陀(Budha)诞生了一位最为持守正法的儿子。

Verse 52

अश्वमेधशतंसाग्रमकरोद्यस्स्वतेजसा । पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः

凭借自身光辉,他完成了一百次马祭(Aśvamedha)大祭;遂以“普鲁罗婆斯”(Purūravas)之名闻名,为诸世界所礼敬。

Verse 53

हिमवच्छिखरे रम्ये समाराध्य पितामहं । लोकैश्वर्यमगाद्राजन्सप्तद्वीपपतिस्तदा

在喜马拉雅一处秀丽峰巅,他如法奉事祖父神(梵天 Brahmā);于是那位国王得享诸界主权,成为七洲之主。

Verse 54

केशिप्रभृतयो दैत्यास्तद्भृत्यत्वं समागताः । उर्वशी यस्य पत्नीत्वमगमद्रूपमोहिता

计辛(Keśin)等诸多底提耶(Daitya)归入其麾下;天女乌尔瓦希(Urvaśī)亦为其容貌所迷,成为他的妻子。

Verse 55

सप्तद्वीपावसुमती सशैलवनकानना । धर्मेण पालिता तेन सर्वलोकहितैषिणा

那大地——含七洲,兼有山岳、森林与林苑——由他依正法而治理;他一心求诸世界之安乐。

Verse 56

चामरग्रहणाकीर्तिः स्वयं चैवांगवाहिका । ब्रह्मप्रसादाद्देवेंद्रो ददावर्द्धासनं तदा

她以执持王者拂尘而闻名,又亲自作贴身侍从;蒙梵天(Brahmā)恩赐,帝释天(Indra)当时赐她半座之位,以示尊荣。

Verse 57

धर्मार्थकामान्धर्मेण समवेतोभ्यपालयत् । धर्मार्थकामास्तं द्रष्टुमाजग्मुः कौतुकान्विताः

与正法相应,他治理并护持法(Dharma)、利(Artha)与欲(Kāma)。随后,法、利、欲三者怀着好奇前来拜见他。

Verse 58

जिज्ञासवस्तच्चरितं कथं पश्यति नः समम् । भक्त्या चक्रे ततस्तेषामर्घ्यपाद्यादिकं ततः

他们渴望探知其行迹,他心想:“我们如何才能同等而圆满地观见他的功行?”于是他以虔敬之心,为他们行迎宾供养,从阿尔吉亚(arghya)与洗足水(pādya)等开始。

Verse 59

आसनत्रयमानीय दिव्यं कनकभूषणम् । निवेश्याथाकरोत्पूजामीषद्धर्मेधिकां पुनः

他取来三座宝座——神圣而以金饰庄严——安置妥当后,又再行礼拜供养,其仪轨更稍合于正法。

Verse 60

जग्मतुस्तौ च कामार्थावतिकोपं नृपं प्रति । अर्थः शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि

随后,欲(Kāma)与利(Artha)来到那位暴怒的国王面前。利宣下诅咒:“因贪欲之故,你将走向毁灭。”

Verse 61

कामोप्याह तवोन्मादो भविता गंधमादने । कुमारवनमाश्रित्य वियोगाच्चोर्वशीभवात्

爱神迦摩亦说道:“在甘达摩陀那,你将陷入狂乱;依止名为库玛罗婆那的林苑,此狂乱将因与乌尔瓦希分离而起。”

Verse 62

धर्मोप्याह चिरायुस्त्वं धार्मिकश्च भविष्यसि । संततिस्तव राजेंद्र यावदाचंद्रतारकम्

法神达摩亦宣言:“你将享长寿,并将行持正法;你的后裔啊,王者,将延续至月与星辰尚在之时。”

Verse 63

शतशो वृद्धिमायाति न नाशं भुवि यास्यति । षष्टिं वर्षाणि चोन्माद ऊर्वशीकामसंभवः

它将百倍增长,在世间不致毁灭;并且将有六十年之狂乱,乃由对乌尔瓦希的欲爱而生。

Verse 64

अचिरादेव भार्यापि वशमेष्यति चाप्सराः । इत्युक्त्वांतर्दधुः सर्वे राजा राज्यं तदान्वभूत्

“不久之后,连你的妻子——以及诸天女阿普萨拉——也将归于你的掌控。”说罢,他们尽皆隐没;国王遂治理其国。

Verse 65

अहन्यहनि देवेंद्रं द्रष्टुं याति पुरूरवाः । कदाचिदारुह्य रथं दक्षिणांबरचारिणा

日复一日,普鲁罗婆斯前去拜见天帝提婆因陀罗(因陀罗)。有一次,他登上战车前行,身旁随行者披着南方之衣。

Verse 66

सार्धं शक्रेण सोऽपश्यन्नीयमानामथांबरे । केशिना दानवेंद्रेण चित्रलेखामथोर्वशीम्

他与释迦(因陀罗)同观天际,只见奇特罗勒卡与优婆尸被凯辛——檀那婆之王——挟持而去。

Verse 67

तं विनिर्जित्य समरे विविधायुधपातनैः । पुरा शक्रोपि समरे येन वज्री विनिर्जितः

他以诸般兵器投掷而在战阵中击败了他——此人昔日甚至曾在交锋中胜过执金刚的释迦——遂立于胜利之位。

Verse 68

मित्रत्वमगमत्तेन प्रादादिंद्राय चोर्वशीं । ततःप्रभृति मित्रत्वमगमत्पाकशासनः

由此结下友谊,他又将优婆尸奉还因陀罗。自那时起,罚恶者(因陀罗)与他结为盟友。

Verse 69

सर्वलोकेतिशयितं पुरूरवसमेव तम् । प्राह वज्री तु संतुष्टो नीयतामियमेव च

执金刚者心生欢喜,论及那卓绝诸界的普鲁罗婆斯,说道:“带她去吧;正是此女,当引领至他前。”

Verse 70

सा पुरूरवसः प्रीत्यै चागायच्चरितं महत् । लक्ष्मीस्वयंवरंनाम भरतेन प्रवर्तितम्

为使普鲁罗婆斯欢悦,她亦歌唱一段宏大事迹,名为《吉祥天女拉克什米的自择婚》,乃婆罗多所开演。

Verse 71

मेनकां चोर्वशीं रंभां नृत्यध्वमिति चादिशत् । ननर्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी

随后他命令天女曼那迦、乌尔瓦希与兰婆说:“起舞吧!”于是乌尔瓦希在彼处起舞,化现为吉祥天女拉克希米的形貌与光华。

Verse 72

सा पुरूरवसं दृष्ट्वा नृत्यंती कामपीडिता । विस्मृताभिनयं सर्वं यत्पुरातनचोदितम्

她一见普鲁罗婆斯,便在舞中为欲火所逼,竟把昔日所授的一切身段手印与神情表演尽皆忘却。

Verse 73

शशाप भरतः क्रोधाद्वियोगात्तस्य भूतले । पंचपंचाशदब्दानि लताभूता भविष्यसि

婆罗多因与他离别之苦而怒起,于大地上降下诅咒:“五十五年间,你将化为藤蔓之身。”

Verse 74

ततस्तमुर्वशी गत्वा भर्त्तारमकरोच्चिरं । शापानुभवनांते च उर्वशी बुधसूनुना

于是乌尔瓦希前往他处,久后使他成为自己的夫君;待诅咒的果报终了,乌尔瓦希又与布陀之子重得团圆。

Verse 75

अजीजनत्सुतानष्टौ नामतस्तान्निबोध मे । आयुर्दृढायुर्वश्यायुर्बलायुर्धृतिमान्वसुः

他生了八位儿子;请从我这里听其名号:阿瑜、坚寿(Dṛḍhāyu)、顺寿(Vaśyāyu)、力寿(Balāyu)、持忍者(Dhṛtimān)与婆苏(Vasu)。

Verse 76

दिव्यजायुः शतायुश्च सर्वे दिव्यबलौजसः । आयुषो नहुषः पुत्रो वृद्धशर्मा तथैव च

天裔的迪维迦优与沙塔优——确然皆具天赐之力与精进——又有阿优萨之子那胡沙,以及弗利陀陀舍尔摩亦在其中。

Verse 77

रजिर्दंडो विशाखश्च वीराः पंचमहारथाः । रजेः पुत्रशतं जज्ञे राजेया इति विश्रुतं

罗阇、檀陀与毗舍佉——皆为英雄、五大车战勇士——相继而生。由罗阇又诞下一百子,世称“罗阇耶族”。

Verse 78

रजिराराधयामास नारायणमकल्मषं । तपसा तोषितो विष्णुर्वरं प्रादान्महीपतेः

罗阇虔敬礼拜无垢的那罗延。毗湿奴为其苦行所悦,遂赐予那位国王一项恩愿。

Verse 79

देवासुरमनुष्याणामभूत्स विजयी तदा । अथ देवासुरं युद्धमभूद्वर्षशतत्रयम्

于是他战胜了天众、阿修罗与人类。其后,天与阿修罗之战延续三百年之久。

Verse 80

प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः । ततो देवासुरैः पृष्टः पृथग्देवश्चतुर्मुखः

在怖畏的普罗诃罗陀与释迦罗(因陀罗)之争中,二者皆未得胜。于是天众与阿修罗各自前往,询问四面之神梵天。

Verse 81

अनयोर्विजयी कः स्याद्रजिर्यत्रेति सोब्रवीत् । जयाय प्रार्थितो राजा सहायस्त्वं भवस्व नः

他说:“这二者之中谁将得胜?争斗将在何处进行?”随后他们向国王祈求胜利,说:“愿你作我们的助力。”

Verse 82

दैत्यैः प्राह यदि स्वामी वो भवामि ततस्त्वलम् । नासुरैः प्रतिपन्नं तत्प्रतिपन्नं सुरैस्तदा

他对达底耶族说:“若我成为你们的主宰,这便足够。”阿修罗先前不肯接受的,诸天此时却接受了。

Verse 83

स्वामी भव त्वमस्माकं बलनाशय विद्विषः । ततो विनाशिताः सर्वे ये वध्या वज्रपाणिनः

“愿你为我等之主,摧毁我敌之力。”于是凡应被金刚手(因陀罗)所诛者,尽皆灭亡。

Verse 84

पुत्रत्वमगमत्तुष्टस्तस्येंद्रः कर्मणा ततः । दत्त्वेंद्राय पुरा राज्यं जगाम तपसे रजिः

因其功德而欢喜,因陀罗随后得以成为他的儿子。罗阇曾先前将王权授予因陀罗,遂离去修行苦行。

Verse 85

रजिपुत्रैस्तदाछिन्नं बलादिंद्रस्य वैयदा । यज्ञभागश्च राज्यं च तपोबलगुणान्वितैः

当罗阇之子具足苦行之力、威势与德行,强行从因陀罗手中夺取时,他们夺走了他在祭祀中的份额与其王权。

Verse 86

राज्यभ्रष्टस्ततः शक्रो रजिपुत्रनिपीडितः । प्राह वाचस्पतिं दीनः पीडितोऽस्मि रजेः सुतैः

于是释迦(因陀罗)失却王权,被罗阇之子所逼迫,凄然对语主(婆罗诃斯波提)说道:“我受苦了——被罗阇之子折磨。”

Verse 87

न यज्ञभागो राज्यं मे पीडितस्य बृहस्पते । राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप

噢婆罗诃斯波提,我受逼迫,既无祭祀(yajña)之分,亦无国土。噢智慧之主,请为我筹划,使我重得王权。

Verse 88

ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम् । ग्रहशांतिविधानेन पौष्टिकेन च कर्मणा

于是婆罗诃斯波提以安抚诸 ग्रह(行星)的仪轨,并以滋养增福之祭仪,使因权势与傲慢而自醉的释迦(因陀罗)得以平息并更为强盛。

Verse 89

गत्वाथ मोहयामास रजिपुत्रान्बृहस्पतिः । जिनधर्मं समास्थाय वेदबाह्यं स धर्मवित्

随后婆罗诃斯波提前往迷惑罗阇之子;虽为通达法(dharma)者,却暂依“胜者”(Jina)之教,此教在吠陀之外。

Verse 90

वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः । वेदबाह्यान्परिज्ञाय हेतुवादसमन्वितान्

智慧之主使他们背离三部吠陀;既知其已在吠陀之外,便令他们趋向“因论”(hetuvāda)——唯凭辩理之说。

Verse 91

जघान शक्रो वज्रेण सर्वान्धर्मबहिष्कृतान् । नहुषस्य प्रवक्ष्यामि पुत्रान्सप्तैव धार्मिकान्

因陀罗(释迦)以金刚雷霆击灭一切被逐出达摩之人。如今我将叙述那胡沙的七位儿子,皆为正直之士。

Verse 92

यतिर्ययातिश्शर्यातिरुत्तरः पर एव च । अयतिर्वियतिश्चैव सप्तैते वंशवर्द्धनाः

雅提、雅雅提、舍利雅提、乌多罗,以及帕罗;并有阿雅提与毗雅提——此七人皆为增盛宗族者。

Verse 93

यतिः कुमारभावेपि योगी वैखानसोभवत् । ययातिरकरोद्राज्यं धर्मैकशरणः सदा

雅提虽在童年,已成毗迦那娑派的瑜伽行者;雅雅提治理其国,恒常唯依达摩为归依。

Verse 94

शर्मिष्ठा तस्य भार्याभूद्दुहिता वृषपर्वणः । भार्गवस्यात्मजा चैव देवयानी च सुव्रता

舍弥什塔——弗利沙帕尔梵之女——成为他的妻子;而提婆耶尼亦然——婆伽婆之女——乃持戒贤淑之人。

Verse 95

ययातेः पंचदायादास्तान्प्रवक्ष्यामि नामतः । देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत्

今我将按名宣说雅雅提的五位嗣子。提婆耶尼生下二子:雅度与图尔婆苏。

Verse 96

तथा द्रुह्यमणं पूरुं शर्मिष्ठाजनयत्सुतान् । यदुः पूरूश्च भरतस्ते वै वंशविवर्द्धनाः

同样,舍尔米什塔生下诸子——德鲁希亚摩那、普鲁、雅度、普鲁与婆罗多;诚然,他们成为增盛宗族(王朝)之人。

Verse 97

पूरोर्वंशं प्रवक्ष्यामि यत्र जातोसि पार्थिव । यदोस्तु यादवा जाता यत्र तौ बलकेशवौ

我将叙述普鲁的世系,哦大王,你即生于其中;也将叙述雅度的世系,由他而出雅陀婆族——其中诞生了那二位:婆罗罗摩与凯沙瓦(克里希那)。

Verse 98

भारावतारणार्थाय पांडवानां हिताय च । यदोः पुत्रा बभूवुश्च पंच देवसुतोपमाः

为减轻大地之重担,并为般度族诸子之福祉,在雅度一系诞生了五位儿子——宛如天神之子。

Verse 99

सहस्रजित्तथा ज्येष्ठः क्रोष्टा नीलोञ्जिको रघुः । सहस्रजितो दायादः शतजिन्नाम पार्थिवः

又有娑哈斯罗吉特;并有耶什陀、克罗什塔、尼罗恩吉迦与罗古。娑哈斯罗吉特的继承者,是名为舍多吉特的国王。

Verse 100

शतजितश्च दायादास्त्रयः परमधार्मिकाः । हैहयश्च हयश्चैव तथा तालहयश्च यः

舍多吉特有三位继承者,皆至为正法——海诃耶、诃耶,以及名为塔罗诃耶者。

Verse 101

हैहयस्य तु दायादो धर्मनेत्रः प्रतिश्रुतः । धर्मनेत्रस्य कुंतिस्तु संहतस्तस्य चात्मजः

如今宣说:海诃耶(Haihaya)的嗣子名为达摩内特拉(Dharmanetra)。达摩内特拉之子为昆提(Kunti);而桑诃塔(Saṃhata)乃昆提之子。

Verse 102

संहतस्य तु दायादो महिष्मान्नाम पार्थिवः । आसीन्महिष्मतः पुत्रो भद्रसेनः प्रतापवान्

而后,桑诃塔(Saṃhata)的嗣子是一位名为摩醯湿曼(Mahiṣmān)的国王。摩醯湿曼之子,是英勇有威的跋陀罗塞那(Bhadrasena)。

Verse 103

वाराणस्यामभूद्राजा कथितः पूर्वमेव हि । भद्रसेनस्य पुत्रस्तु दुर्दमो नाम धार्मिकः

在瓦罗那西(Vārāṇasī)有一位国王——确已在先前述及——他是跋陀罗塞那(Bhadrasena)之子,名为杜尔达摩(Durdama),秉持正法。

Verse 104

दुर्दमस्य सुतो भीमो धनको नाम वीर्यवान् । धनकस्य सुता ह्यासन्चत्वारो लोकविश्रुताः

杜尔达摩(Durdama)有一子名毗摩(Bhīma),乃大有威力者,号檀那迦(Dhanaka)。檀那迦又有四子,名闻天下。

Verse 105

कृताग्निः कृतवीर्यश्च कृतधर्मा तथैव च । कृतौजाश्च चतुर्थोभूत्कृतवीर्याच्च सोर्जुनः

克利塔阿格尼(Kṛtāgni)、克利塔毗利耶(Kṛtavīrya)、克利塔达摩(Kṛtadharmā),以及第四子克利塔欧迦(Kṛtaujā)相继诞生;而由克利塔毗利耶又诞生了那位阿周那(Arjuna)。

Verse 106

जातो बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः । वर्षायुतं तपस्तेपे दुश्चरं पृथिवीपतिः

他生来具千臂,遂为七洲(dvīpa)之主。此大地之王复行艰苦苦行(tapasyā)一万年。

Verse 107

दत्तमाराधयामास कार्त्तवीर्योत्रिसंभवम् । तस्मै दत्तो वरान्प्रादाच्चतुरः पुरुषोत्तमः

出自阿特里(Atri)族系的迦尔塔毗利耶(Kārttavīrya)礼敬达塔(Datta);达塔——至上之人格(Puruṣottama)——赐予他四种恩赐。

Verse 108

पूर्वं बाहुसहस्रं तु स वव्रे राजसत्तमः । अधर्मं ध्यायमानस्य भीतिश्चापि निवारणम्

先前,那位最胜之王选择了千臂为恩赐;又求得:对心中思量不义(adharma)之人,亦能消除其恐惧。

Verse 109

युद्धेन पृथिवीं जित्वा धर्मेणावाप्य वै बलम् । संग्रामे वर्तमानस्य वधश्चैवाधिकाद्भवेत्

他以战争征服大地,又凭正法(dharma)确得威力;然而对投身战阵之人,杀戮反更趋于过度。

Verse 110

एतेनेयं वसुमती सप्तद्वीपा सपत्तना । सप्तोदधि परिक्षिप्ता क्षात्रेण विधिना जिता

由他使此大地——连同七洲(dvīpa)与诸城——为七海所环绕者,依刹帝利(kṣatriya)之法度而被征服。

Verse 111

जज्ञे बाहुसहस्रं च इच्छतस्तस्य धीमतः । सर्वे यज्ञा महाबाहोस्तस्यासन्भूरिदक्षिणाः

那位智者随心所愿,便生出千臂。那位大臂者所行一切祭祀,皆具丰厚的达克希那(dakṣiṇā),以重礼供养祭司。

Verse 112

सर्वे कांचनयूपास्ते सर्वे कांचनवेदिकाः । सर्वे देवैश्च संप्राप्ता विमानस्थैरलंकृतैः

一切祭祀皆立金色祭柱,一切皆设金色祭坛。诸天神皆来侍临,并由乘天车者庄严装饰。

Verse 113

गंधर्वैरप्सरोभिश्च नित्यमेवापि सेविताः । यस्य यज्ञे जगौ गाथा गंधंर्वो नारदस्तथा

他常为乾闼婆与阿普萨拉斯所侍奉;在他的祭祀中,乾闼婆吟唱圣歌,纳罗陀亦同声歌咏。

Verse 115

यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च । सप्तद्वीपाननुचरन्वेगेन पवनोपमः

凭借祭祀、布施与苦行,凭借勇武与圣典之学,他巡行七大洲,疾速如风。

Verse 116

पंचाशीतिसहस्राणि वर्षाणां च नराधिपः । सप्तद्वीपपृथिव्याश्च चक्रवर्ती बभूव ह

八万五千年间,那位人中王成为转轮圣王(cakravartin),统御具七大洲之大地。

Verse 117

स एव पशुपालोभूत्क्षेत्रपालः स एव हि । स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोभवत्

唯有他成了牧牛者;也唯有他成了田野的守护者。以降雨之力他化为雨神帕尔贾尼亚;以瑜伽成就他成为阿周那。

Verse 118

योसौ बाहुसहस्रेण ज्याघातकठिनत्वचा । भाति रश्मिसहस्रेण शारदेनेव भास्करः

他——其肌肤因弓弦在千臂上反复击打而坚硬——放射千道光辉,如秋季之日般灿然。

Verse 119

एष नाम मनुष्येषु माहिष्मत्यां महाद्युतिः । एष वेगं समुद्रस्य प्रावृट्काले भजेत वै

在人间,摩醯湿摩底有一位名为“埃沙”的人,光辉伟大;确实,他能与雨季之海的威势相匹敌。

Verse 120

क्रीडते स्वसुखा ये विप्रतिस्रोतो महीपतिः । ललनाः क्रीडता तेन प्रतिबद्धोर्मिमालिनी

在那里,威严的国王随心嬉游,仿佛逆流而行;他嬉戏之时,众女亦与之同乐——而那被浪花缀成花鬘的河流,似也因他们的游戏而被暂时阻住。

Verse 121

ऊर्मिभ्रुकुटिमाला सा शंकिताभ्येति नर्मदा । एष एव मनोर्वंशे त्ववगाहेन्महार्णवम्

纳尔玛达河以层层波浪如蹙眉之列,带着惴惴不安而来。正是此人,在摩奴的族系中,将投身于浩瀚大海。

Verse 122

करेणोद्धृत्य वेगं तु कामिनीप्रीणनेन तु । तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ

他以手攫起水势之力,意在取悦那位少女;凭借千臂搅动,大海翻腾震荡,波涛尽起。

Verse 123

भवंति लीना निश्चेष्टाः पातालस्था महासुराः । तदूरुक्षोभचकिता अमृतोत्पादशंकिताः

居于帕塔拉的强大阿修罗潜伏不动;被那剧烈震荡所惊,他们疑心甘露(amṛta)正在生成。

Verse 124

नता निश्चलमूर्द्धानो भवंति च महोरगाः । एष धन्वी च चिक्षेप रावणं प्रति सायकान्

巨蛇俯首,头颅纹丝不动。随后那位弓手向罗波那(Rāvaṇa)射出箭矢。

Verse 125

एष धन्वी धनुर्गृह्य उत्सिक्तं पंचभिः शरैः । लंकेशं मोहयित्वा तु सबलं रावणं बलात्

这位强弓之士执弓连发五箭,以威力压制,使楞迦之主罗波那(Rāvaṇa)及其军队陷入迷乱。

Verse 126

निर्जित्य बद्ध्वा त्वानीय माहिष्मत्याम्बबंध तम् । ततो गतोहं तस्याग्रे अर्जुनं संप्रसादयन्

我战胜并缚住他后,将你带来,并把他拘禁在摩醯湿摩底(Māhiṣmatī)。随后我到他面前,安抚阿周那(Arjuna)。

Verse 127

मुमोच राजन्पौत्रं मे सख्यं कृत्वा च पार्थिवः । तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः

大王啊,那位人间君主与我孙儿结为友好后便将他释放;而那千臂之人,其弓弦随即绷紧,发出清越回响之声。

Verse 128

युगांताग्नेः प्रवृत्तस्य यथा ज्यातलनिःस्वनः । अहो बलं विधेर्वीर्यं भार्गवः स यदाच्छिनत्

如同劫末之火方起时弓弦的震响——那般回声轰然。嗟乎,命运之力何其奇伟:那位婆伽婆(Bhārgava)竟在刹那间将其斩断。

Verse 129

मृधे सहस्रं बाहूनां हेमतालवनं यथा । यं वसिष्ठस्तु संक्रुद्धो ह्यर्जुनं शप्तवान्विभुः

战场之上,他的千臂宛如一片金色棕榈林。正是这位阿周那,被大能圣者婆悉吒(Vasiṣṭha)盛怒之下加以诅咒。

Verse 130

यस्माद्वनं प्रदग्धं ते विश्रुतं मम हैहय । तस्मात्ते दुष्कृतं कर्म कृतमन्यो हनिष्यति

既然你啊,海诃耶(Haihaya),焚毁了那为世人所知、属于我的森林,那么因你所作此恶业,必有他人将你诛杀。

Verse 131

छित्वा बाहुसहस्रं ते प्रमथ्य तरसा बली । तपस्वी ब्राह्मणस्त्वां वै वधिष्यति स भार्गवः

他将斩断你那千臂,以猛力摧碎你的傲慢;那位大力的苦行婆罗门——婆伽婆(Bhārgava)——必定要杀你。

Verse 132

तस्य रामोथ हंतासीन्मुनिशापेन धीमतः । तस्य पुत्रशतं त्वासीत्पंच तत्र महारथाः

随后,由于一位睿智牟尼的诅咒,罗摩成了他的诛杀者。他有一百个儿子;其中五位是大勇的大车战士。

Verse 133

कृतास्त्रा बलिनः शूरा धर्मात्मानो महाबल । शूरसेनश्च शूरश्च धृष्टो वै कृष्ण एव च

他们皆精习兵器,强健英勇,秉持正法,威力无比:舒罗塞那、舒罗、德里什塔,以及确然还有克里希那。

Verse 134

जयद्ध्वजः स वै कर्ता अवन्तिश्च रसापतिः । जयध्वजस्य पुत्रस्तु तालजंघो महाबलः

阇耶达缚阇确实成为统治者,阿凡提成为罗萨之主;而阇耶达缚阇之子名为塔拉姜伽,力大无比。

Verse 135

तस्य पुत्राश्शतान्येव तालजंघा इति स्मृताः । तेषां पंचकुलान्यासन्हैहयानां महात्मनाम्

他有数百个儿子,被称为“塔拉姜伽族”。在那些大心的海诃耶之中,分为五个氏族。

Verse 136

वीतिहोत्राश्च संजाता भोजाश्चावंतयस्तथा । तुंडकेराश्च विक्रांतास्तालजंघाः प्रकीर्तिताः

于是出现了毗提诃多罗族;同样也有菩阇族与阿凡提族;并且还称颂勇武的吞荼迦罗族,以及塔拉姜伽族。

Verse 137

वीतिहोत्रसुतश्चापि अनंतो नाम वीर्यवान् । दुर्जयस्तस्य पुत्रस्तु बभूवामित्रकर्षणः

毗提霍特罗之子亦是一位英勇之人,名为阿难陀;而他的儿子则是杜尔阇耶,摧破诸敌者。

Verse 138

सद्भावेन महाराजः प्रजाधर्मेण पालयन् । कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रधृत्

以善意与正念,大王依循护民之法守护臣民;其王名迦尔塔毗利耶·阿周那,世称“千臂之王”。

Verse 139

येन सागरपर्यंता धनुषा निर्जिता मही । यस्तस्यकीर्तयेन्नाम कल्यमुत्थाय मानवः

凭其弓力,四海环绕之大地尽被征服;凡人若于黎明起身称颂其名,便得吉祥。

Verse 140

न तस्य वित्तनाशः स्यान्नष्टं च लभते पुनः । कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः । यथा यष्टा यथा दाता स्वर्गलोके महीयते

于彼人而言,财物不致损失,失去者亦复得。智者若在此讲述迦尔塔毗利耶之诞生,便在天界受尊崇,如同行祭祀者与施布施者。