Adhyaya 11
Srishti KhandaAdhyaya 1195 Verses

Adhyaya 11

The Glory of Śrāddha at Sacred Fords and the Determination of the Kutapa Time

毗湿摩请问普罗阿斯提耶:施行祭祖的施罗陀(śrāddha)应择何时,哪些圣地(tīrtha)能得最丰厚的功德。普罗阿斯提耶在层层往复的《往世书》叙述中,列举婆罗多大地的祖灵圣地(pitṛ-tīrtha)——普什迦罗、奈弥沙、俱卢之野、伽耶,以及诸河汇流处与林伽圣所——并宣说在这些地方所行布施(dāna)、火供(homa)、持诵(japa)与施罗陀,其福报皆成无尽。 随后章末阐明择时之法:一日分为十五个牟呼尔多(muhūrta);施罗陀不应在傍晚“罗刹西”(Rākṣasī)时段举行。尤称“库塔帕”(Kutapa)——正午之后第八牟呼尔多——最为殊胜多果。 经文亦肯定“内在的圣地”:真实、慈悲、自制与宁静。并特别指出伽耶之施罗陀能赐解脱(mokṣa)。

Shlokas

Verse 1

भीष्म उवाच । कस्मिन्वासरभागे तु श्राद्धी श्राद्धं समाचरेत् । तीर्थेषु केषु वै श्राद्धं कृतं बहुफलं द्विज

毗湿摩说道:“欲如法行施祖祭(śrāddha)者,应在一日之何时分举行?又在何等圣地渡口(tīrtha)行此 śrāddha,能得广大功德之果报,噢,二次生者?”

Verse 2

पुलस्त्य उवाच । तीर्थं तु पुष्करं नाम यत्तु श्रेष्ठतमं स्मृतम् । सर्वेषां द्विजमुख्यानां मनोरथमिव स्थितम्

普拉斯提耶说道:“有一处名为普什迦罗(Puṣkara)的圣地(tīrtha),被忆念为诸 tīrtha 中最殊胜者;它宛如一切最尊贵的二次生者心中所愿,恒常安住。”

Verse 3

तत्र दत्तं हुतं जप्तमनन्तं भवति ध्रुवम् । पितॄणां वल्लभं नित्यमृषीणां परमं मतम्

在那里,凡所布施(dāna)、投供于圣火、或以持诵(japa)所作之功德,必定成为无尽无量。此处恒为祖灵(pitṛ)所爱,亦被诸仙圣(ṛṣi)视为至上之教。

Verse 4

नंदाथ ललिता तद्वत्तीर्थं मायापुरी शुभा । तथा मित्रपदं राजंस्ततः केदारमुत्तमम्

其后有难陀(Nandā)与拉利塔(Lalitā);亦有彼处之圣地渡口(tīrtha);吉祥的摩耶城(Māyāpurī);又有密特拉帕达(Mitrapada),大王啊;随后是最胜的计达罗(Kedāra)。

Verse 5

गंगासागरमित्याहुः सर्वतीर्थमयं शुभम् । तीर्थं ब्रह्मसरस्तद्वच्छतद्रुसलिलं शुभम्

人们说,恒河入海处的冈伽萨伽罗(Gaṅgāsāgara)吉祥无比,具足一切圣地渡口(tīrtha)之功德。同样,梵天池(Brahma-saras)亦为圣 tīrtha;沙塔德鲁河(Śatadru)之吉祥水流亦复如是。

Verse 6

तीर्थं तु नैमिषं नाम सर्वतीर्थफलप्रदम् । गंगोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः

有一处名为奈弥沙(Naimiṣa)的圣地,能赐予一切圣地的功德果报。于彼,在戈摩提河中,恒常不灭的恒河(Gaṅgā)涌现显现。

Verse 7

तथा यज्ञवराहस्तु देवदेवश्च शूलधृक् । यत्र तत्कांचनं दानमष्टादशभुजो हरः

同样,在彼处礼敬祭祀之野猪神(Yajña-Varāha),亦礼敬执三叉戟的诸神之神。又在彼处称扬金施之功德,因为哈罗(Hara)——十八臂之主——临在其间。

Verse 8

नेमिस्तु धर्मचक्रस्य शीर्णा यत्राभवत्पुरा । तदेतन्नैमिशारण्यं सर्वतीर्थनिषेवितम्

此即奈弥沙森林:往昔法轮之轮缘(nemi)于此磨损。此地为一切圣地(tīrtha)所趋赴礼敬。

Verse 9

देवदेवस्य तत्रापि वराहस्य च दर्शनम् । यः प्रयाति स पूतात्मा नारायणपुरं व्रजेत्

于彼亦得诸神之神之达尔善(darśana,圣见),并得见野猪化身瓦拉哈(Varāha)。凡朝礼而后离去者,心灵清净,得往那罗延之城——那罗延城(Nārāyaṇapura)。

Verse 10

कोकामुखं परं तीर्थमिन्द्रमार्गोपि लक्ष्यते । अथापि पितृतीर्थं तु ब्रह्मणोव्यक्तजन्मनः

科迦穆迦(Kokāmukha)乃至上圣渡(tīrtha),于彼亦可见因陀罗之道。彼处亦有梵天(Brahmā)之祖灵圣渡(Pitṛ-tīrtha),其诞生不可显现。

Verse 11

पुष्करारण्यसंस्थोसौ यत्र देवः पितामहः । विरिंचिदर्शनं श्रेष्ठमपवर्गफलप्रदम्

他安住于普什迦罗(Puṣkara)之林,彼处有神圣的祖父神毗梨因支(Viriñci,梵天Brahmā)居住。得见毗梨因支最为殊胜,能赐解脱(mokṣa)之果。

Verse 12

कृतं नाम महापुण्यं सर्वपापनिषूदनम् । यत्राद्यो नारसिंहस्तु स्वयमेव जनार्दनः

有一处名为“克利多”(Kṛta)之地,功德至大,能灭尽诸罪;在那里,最初的那罗辛哈(Narasiṃha)正是阇那尔达那(Janārdana,毗湿奴Viṣṇu)自身。

Verse 13

तीर्थमिक्षुमतीनाम पितॄणां च शुभावहा । तुष्यन्ति पितरो नित्यं गंगायमुनसंगमे

有一处名为伊克舒玛蒂(Ikṣumatī)的圣地渡口,能为祖先带来吉祥。在恒河(Gaṅgā)与亚穆纳河(Yamunā)的汇合处,诸祖灵(Pitṛ)恒常满足。

Verse 14

कुरुक्षेत्रं महापुण्यं यत्र मार्गोपि लक्ष्यते । अद्यापि पितृतीर्थं तु सर्वकामफलप्रदम्

俱卢之野(Kurukṣetra)功德无量,声名远播,乃至通往其处的道路亦清晰可辨。即便在今日,其中的祖灵圣地(Pitṛ-tīrtha)仍能赐予一切所愿之果。

Verse 15

नीलकण्ठमिति ख्यातं पितृतीर्थं नराधिप । तथा भद्रसरः पुण्यं सरो मानसमेव च

大王啊,有一处名为尼罗迦ṇṭha(Nīlakaṇṭha)的祖灵圣地(Pitṛ-tīrtha);又有名为跋陀罗萨罗婆(Bhadrasaras)的圣湖,以及摩那萨(Mānasa)之湖。

Verse 16

मंदाकिनी तथाऽच्छोदा विपाशा च सरस्वती । सर्वमित्रपदं तद्वद्वैद्यनाथं महाफलम्

曼达吉尼河,以及阿遮陀河、毗婆沙河与萨拉斯瓦蒂河;同样还有名为“萨尔瓦密特拉足迹处”的圣地;亦如吠陀医王那他圣所——朝礼供奉,皆得广大功德之果。

Verse 17

क्षिप्रा नदी तथा पुण्या तथा कालञ्जरं शुभम् । तीर्थोद्भेदं हरोद्भेदं गर्भभेदं महालयम्

克希普拉河亦为圣流;吉祥的迦兰阇罗山亦然。又有提尔托德婆陀、哈罗德婆陀、伽婆婆陀与摩诃罗耶——皆为圣地。

Verse 18

भद्रेश्वरं विष्णुपदं नर्मदा द्वारमेव च । गयापिंडप्रदानेन समान्याहुर्महर्षयः

大圣仙宣说:婆陀雷湿伐罗、毗湿奴足迹处,以及那尔摩陀河之门,其功德等同于在伽耶奉献亡灵食团(品荼)。

Verse 19

एतानि पितृतीर्थानि सर्वपापहराणि च । स्मरणादपि लोकानां किमु श्राद्धप्रदायिनाम्

此等皆为祖灵圣渡(Pitṛ-tīrtha),亦能除尽诸罪。若仅凭忆念便能净化世人,更何况在彼处奉行施食追荐(śrāddha)者呢?

Verse 20

ओंकारं पितृतीर्थं तु कावेरीकपिलोदकम् । संभेदश्चण्डवेगायां तथैवामरकंटकम्

唵迦罗(Om̐kāra)、祖灵圣渡(Pitṛ-tīrtha)、迦维利与迦毗罗之水、在旃陀维伽河上的汇合处,以及阿摩罗迦ṇṭaka——这些皆被称为圣地。

Verse 21

कुरुक्षेत्राच्चद्विगुणं तस्मिन्स्नानादिकं भवेत् । शुक्लतीर्थं तु विख्यातं तीर्थं सोमेश्वरं परम्

其功德为拘卢之野(Kurukṣetra)的两倍;在彼处沐浴及诸般圣行,皆得如是果报。此圣渡口名闻为“白净圣地”(Śukla-tīrtha),而其中至上的朝圣处为“月主自在天”(Someśvara)。

Verse 22

सर्वव्याधिहरंपुण्यंफलंकोटिगुणाधिकम् । श्राद्धेदानेतथाहोमेस्वाध्यायेचापिसन्निधौ

其功德清净,能除一切疾病,所得果报增至千万倍——无论行祖先祭(śrāddha)、布施(dāna)、火供(homa),亦或在诵习吠陀自修(svādhyāya)之时,皆如是。

Verse 23

कायावारोहणं नाम देवदेवस्य शूलिनः । अवतारं रोचमानं ब्राह्मणावसथे शुभे

有一圣显名为“身降”(Kāyāvarohaṇa),乃诸天之主、持三叉戟的湿婆(Śiva)之化现;此光辉的降临,显于一处吉祥的婆罗门居所。

Verse 24

जातं तत्सुमहापुण्यं तथा चर्मण्वती नदी । शूलतापी पयोष्णी च पयोष्णीसंगमस्तथा

彼处兴起了那极其殊胜的福德之地;又有迦尔曼伐底河(Carmaṇvatī),以及“矛热”(Śūlatāpī)与“乳温”(Payoṣṇī)诸河,并有Payoṣṇī之圣汇流处(saṅgama)。

Verse 25

महौषधी चारणा च नागतीर्थप्रवर्त्तिनी । महावेणा नदी पुण्या महाशालस्तथैव च

亦复提及摩诃药地(Mahauṣadhī)、恰罗那(Cāraṇā)与“开显龙圣地者”(Nāgatīrtha-pravartinī);又有圣河摩诃韦那(Mahāveṇā);并且还有摩诃沙罗(Mahāśāla)。

Verse 26

गोमती वरुणा तद्वत्तीर्थं हौताशनं परम् । भैरवं भृगुतुंगं च गौरीतीर्थमनुत्तमम्

有戈摩提河、伐楼那河,以及同样的圣渡口;至圣的豪塔沙那圣地;又有怖罗婆(Bhairava)、婆利古通伽(Bhṛgutunga),以及无与伦比的高丽圣渡(Gaurī-tīrtha)。

Verse 27

तीर्थं वैनायकं नाम वस्त्रेश्वरमनुत्तमम् । तथा पापहरं नाम पुण्या वेत्रवती नदी

有一处名为毗那耶迦(Vaināyaka)的圣渡(tīrtha),又有无上的瓦斯特雷湿伐罗(Vastreśvara)圣地。亦有名为破罪者(Pāpahara)的圣渡;并有圣河韦特拉伐蒂(Vetravatī)。

Verse 28

महारुद्रं महालिंगं दशार्णा च महानदी । शतरुद्रा शताह्वा च तथा पितृपदं पुरम्

有摩诃鲁陀罗(Mahārudra)、大灵伽(Mahāliṅga)、达沙尔那河(Daśārṇā,亦为大河)、舍多鲁陀罗(Śatarudrā)、舍多阿呼婆(Śatāhvā),以及名为祖足城(Pitṛpada)的城邑。

Verse 29

अंगारवाहिका तद्वन्नदौ द्वौ शोणघर्घरौ । कालिका च नदी पुण्या पितरा च नदी शुभा

同样有安伽罗婆希迦河(Aṅgāravāhikā);又有两条河:舍那河(Śoṇa)与伽尔伽罗河(Gharghara)。并有圣河迦利迦(Kālikā),以及吉祥之河皮多罗(Pitarā)。

Verse 30

एतानि पितृतीर्थानि शस्यंते स्नानदानयोः । श्राद्धमेतेषु यद्दत्तं तदनंतफलं स्मृतम्

这些被称颂为祖灵圣渡(pitṛ-tīrtha),适宜沐浴与布施(dāna)。凡在这些地方所奉献的施罗陀(Śrāddha)祭供,皆被记为得无量无尽之福果。

Verse 31

शतावटा नदी ज्वाला शरद्वी च नदी तथा । द्वारका कृष्णतीर्थं च तथा ह्युदक्सरस्वती

有Śatāvaṭā河与Jvālā河,亦有Śaradvī河;又有德瓦拉卡(Dvārakā),以及克里希纳的圣渡处(tīrtha),并有Udaksarasvatī河。

Verse 32

नदी मालवती नाम तथा च गिरिकर्णिका । धूतपापं तथा तीर्थं समुद्रे दक्षिणे तथा

有一条名为Mālavatī的河,也有名为Girikarṇikā的河;又有名为Dhūtapāpa的圣渡处,位于南方之海。

Verse 33

गोकर्णो गजकर्णश्च तथा चक्रनदी शुभा । श्रीशैलं शाकतीर्थं च नारसिंहमतः परम्

有Gokarṇa、Gajakarṇa与吉祥的Cakranadī;又有Śrīśaila、Śākatīrtha,并且在其后更远处,还有那罗辛哈(Narasiṃha)的圣所——皆为圣地。

Verse 34

महेंद्रं च तथा पुण्या पुण्या चापि महानदी । एतेष्वपि सदा श्राद्धमनंतफलदं स्मृतम्

同样在Mahendra、在Puṇyā,以及在伟大的Puṇyā大河之畔——在这些地方恒常举行施罗达(śrāddha)祭,被记述为能赐无尽之果报。

Verse 35

दर्शनादपि पुण्यानि सद्यः पापहराणि वै । तुंगभद्रा नदी पुण्या तथा चक्ररथीति च

仅仅得见亦具功德;确能立刻除罪。Tuṅgabhadrā河为圣,名为Cakrarathī的圣地亦复如是。

Verse 36

भीमेश्वरं कृष्णवेणा कावेरी चांजना नदी । नदी गोदावरी पुण्या त्रिसंध्या पूर्णमुत्तमम्

毗摩伊湿伐罗;克里希纳韦那与迦维梨二河;阿阇那河;以及神圣的戈达瓦丽——这些圣地连同“三时礼敬”(Trisaṃdhyā),皆为至上殊胜、圆满具足。

Verse 37

तीर्थं त्रैयंबकं नाम सर्वतीर्थनमस्कृतम् । यत्रास्ते भगवान्भीमः स्वयमेव त्रिलोचनः

有一处名为特莱扬巴迦(Traiyambaka)的圣渡口,为诸圣地所共礼敬;在那里,主毗摩——三目者特里洛恰那(Trilocana)——亲自安住。

Verse 38

श्राद्धमेतेषु सर्वेषु दत्तं कोटिगुणं भवेत् । स्मरणादपि पापानि व्रजंति शतधा नृप

大王啊,在这一切圣地所作的施食祭(śrāddha)功德增至一亿倍;即便只是忆念它们,罪业也会百倍消散。

Verse 39

श्रीपर्णा च नदी पुण्या व्यासतीर्थमनुत्तमम् । तथा मत्स्यनदी कारा शिवधारा तथैव च

又有圣河室利帕尔那(Śrīparṇā),无与伦比的朝圣渡口“毗耶娑圣渡”(Vyāsa-tīrtha);以及摩蹉河(Matsya)、迦罗(Kārā)与同样的“湿婆之流”(Śiva-dhārā)。

Verse 40

भवतीर्थं च विख्यातं पुण्यतीर्थं च शाश्वतम् । पुण्यं रामेश्वरं तद्वद्वेणापुरमलंपुरम्

婆伐圣渡(Bhavatīrtha)声名远扬,是恒常不灭的圣渡;同样,圣洁的罗摩伊湿伐罗(Rāmeśvara)具大功德,维那城(Veṇāpura)与摩楞城(Malaṃpura)亦复如是。

Verse 41

अंगारकं च विख्यातमात्मदर्शमलंबुषम् । वत्सव्रातेश्वरं तद्वत्तथागोकामुखं परम्

又有著名的安伽罗迦(Aṅgāraka);名为“自见”(Ātma-darśa)的圣地;阿蓝布沙(Alambuṣa);同样还有瓦察弗罗提湿伐罗(Vatsavrāṭeśvara);以及至上的圣地“牛口”(Gokāmukha)。

Verse 42

गोवर्द्धनं हरिश्चंद्रं पुरश्चन्द्रं पृथूदकम् । सहस्राक्षं हिरण्याक्षं तथा च कदलीनदी

(又列举)戈瓦尔达那(Govardhana)、哈利施旃陀罗(Hariścandra)、普拉施旃陀罗(Puraścandra)、普利图达迦(Pṛthūdaka);萨哈斯拉克沙(Sahasrākṣa)、希兰尼亚克沙(Hiraṇyākṣa)——以及迦达梨河(Kadālī)。

Verse 43

नामधेयानि च तथा तथा सौमित्रिसंगतम् । इंद्रनीलं महानादं तथा च प्रियमेलकम्

并且同样也宣说这些名号:苏弥特利桑伽塔(Saumitrisaṅgata)、因陀罗尼罗(Indranīla)、摩诃那陀(Mahānāda),以及普利耶梅拉迦(Priyamelaka)。

Verse 44

एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि च । एतेषु सर्वदेवानां सांनिध्यं पठ्यते यतः

这些也常被称赞为适用于施行“施罗陀”(śrāddha)之仪——尤为推崇——因为经中教示:于此可得一切诸神的临在。

Verse 45

दानमेतेषु सर्वेषु भवेत्कोटिशताधिकम् । बाहुदा च नदी पुण्या तथा सिद्धवटं शुभम्

在这一切布施(dāna)之中,功德可超越百俱胝;同样,巴胡达河(Bāhudā)为圣流,而吉祥的悉达瓦塔(Siddhavaṭa)亦复如是。

Verse 46

तीर्थं पाशुपतं चैव नदी पर्यटिका तथा । श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम्

在帕舒帕塔(Pāśupata)圣地,以及名为帕里亚提迦(Paryaṭikā)的河畔,于这些一切处所所作的任何施行“施罗陀”(śrāddha)供养,其功德皆超过百百俱胝(koṭi)。

Verse 47

तथैव पंचतीर्थं च यत्र गोदावरी नदी । युता लिंगसहस्रेण सव्येतर जलावहा

同样还有圣地“潘查提尔塔”(Pañcatīrtha),在那里戈达瓦里河(Godāvarī)流淌——伴随千座林伽(liṅga)——其水流在左岸与右岸两侧奔行。

Verse 48

जामदग्न्यस्य तत्तीर्थं मोदायतनमुत्तमम् । प्रतीकस्य भयात्सिद्धा यत्र गोदावरी नदी

那便是阇摩达格尼亚(Jāmadagnya)的圣渡口——名为“摩陀阿耶塔那”(Modāyatana)的殊胜圣所;戈达瓦里河(Godāvarī)在此流过,并因对普拉提迦(Pratīka)的敬畏而成为成就之地。

Verse 49

तीर्थं तद्धव्यकव्यानामप्सरोगणसंयुतम् । श्राद्धाग्नि दानकार्यं च तत्र कोटिशताधिकम्

此圣渡(tīrtha)为众阿普萨拉(Apsarā)之群所侍从;在此向诸天与祖灵所献之供养尤为灵验。在那里行施罗陀(śrāddha)仪轨、护持祭火、并行布施,其功德增益逾百俱胝(koṭi)。

Verse 50

तथा सहस्रलिंगं च राघवेश्वरमुत्तमम् । सेन्द्रकाला नदी पुण्या तत्र शक्रो गतः पुरा

同样还有“萨哈斯拉林伽”(Sahasraliṅga)与殊胜的“罗伽韦湿伐罗”(Rāghaveśvara)圣所。彼处亦有圣河“森德罗迦拉”(Sendrakālā)流淌;古时释迦罗(Śakra,即因陀罗)曾往彼地。

Verse 51

निहत्य नमुचिं मित्रं तपसा स्वर्गमाप्तवान् । तत्र दत्तं नरैः श्राद्धमनंतफलदं भवेत्

他诛杀友人那牟支(Namuci)后,以苦行(tapas)之力得升天界。人们若在彼处奉行施食祭祖的 śrāddha,据说将得无尽之果报。

Verse 52

पुष्करं नाम वै तीर्थं शालग्रामं तथैव च । शोणपातश्च विख्यातो यत्र वैश्वानराशयः

彼处有名为普什迦罗(Puṣkara)的圣地渡口,亦有沙拉格罗摩(Śālagrāma);又有著名的首那帕多(Śoṇapāta),其处可见毗舍婆那罗(Vaiśvānara)之所居(或其藏处)。

Verse 53

तीर्थं सारस्वतं चैव स्वामितीर्थं तथैव च । मलंदरा नदी पुण्या कौशिकी चंद्रका तथा

亦有娑罗湿伐多圣地(Sārasvata Tīrtha)与斯瓦弥圣地(Svāmitīrtha);有清净的摩楞陀罗河(Malaṃdarā),并有考湿吉(Kauśikī)与旃陀罗迦(Caṃdrakā)。

Verse 54

विदर्भा चाथ वेगा च पयोष्णी प्राङ्मुखा परा । कावेरी चोत्तरांगा च तथा जालंधरो गिरिः

亦有毗达婆(Vidarbhā)、维伽(Vegā)、帕约什尼(Payoṣṇī)与殊胜的普朗穆迦(Prāṅmukhā);又有迦维梨(Kāverī)、乌多罗昂伽(Uttarāṅgā),以及阇兰陀罗山(Jālaṃdhara)。

Verse 55

एतेषु श्राद्धतीर्थेषु श्राद्धमानंत्यमश्नुते । लोहदंडं तथा तीर्थं चित्रकूटस्तथैव च

在这些施行 śrāddha 的圣地(śrāddha-tīrtha)中行祭者,将享无尽功德之果。又有名为罗诃檀陀(Lohadaṇḍa)的圣地,以及质多罗俱吒(Citrakūṭa)。

Verse 56

दिव्यं सर्वत्र गंगायास्तथा नद्यास्तटं शुभम् । कुब्जाम्रकं तथा तीर्थमुर्वशीपुलिनं तथा

恒河沿岸处处皆具神圣之光;同样,这条河的吉祥河岸亦为圣地。又有名为“库布迦阿摩罗迦”(Kubjāmraka)的圣渡口,以及称作“乌尔瓦希沙洲”(Urvaśī-pulina)的沙洲,亦皆神圣。

Verse 57

संसारमोचनं तीर्थं तथैव ऋणमोचनम् । एतेषु पितृतीर्थेषु श्राद्धमानंत्यमश्नुते

又有名为“轮回解脱”(Saṃsāra-mocana)的圣渡口,能解脱世缚;亦有名为“债解脱”(Ṛṇa-mocana)的圣地,能解除诸债。在这些祖灵圣地(pitr̥-tīrtha)中行施“施罗陀”(śrāddha)者,得无尽功德。

Verse 58

अट्टहासं तथा तीर्थं गौतमेश्वरमेव च । तथा वसिष्ठतीर्थं च भारतं च ततः परम्

又说到名为“阿塔哈萨”(Aṭṭahāsa)的圣渡口,以及“乔多摩自在天”(Gautameśvara);同样还有“婆悉吒圣地”(Vasiṣṭha-tīrtha)。其后,更在远处的是“婆罗多”(Bhārata),即印度圣土。

Verse 59

ब्रह्मावर्तं कुशावर्तं हंसतीर्थं तथैव च । पिंडारकं च विख्यातं शंखोद्धारं तथैव च

又有“梵居地”(Brahmāvarta)、“俱沙旋处”(Kuśāvarta)与“天鹅圣渡”(Haṃsatīrtha);同样还有著名的“品陀罗迦”(Piṇḍāraka),以及“螺出圣地”(Śaṅkhoddhāra)——皆为应当忆念与朝礼之圣处。

Verse 60

भांडेश्वरं बिल्वकं च नीलपर्वतमेव च । तथा च बदरीतीर्थं सर्वतीर्थेश्वरेश्वरम्

又说到“班荼自在天”(Bhāṇḍeśvara)、“毗罗迦”(Bilvaka)与“尼罗山”(Nīlaparvata);同样还有“婆陀梨圣渡”(Badarī-tīrtha)——至上无比,为一切朝圣圣地之主中之主。

Verse 61

वसुधाराह्वयं तीर्थं रामतीर्थं तथैव च । जयंती विजया चैव शुक्लतीर्थं तथैव च

名为“Vasudhārā”的圣渡处,以及同样的“Rāma-tīrtha”;又有名为“JayantVijayā”的诸圣地,并有“Śukla-tīrtha”。

Verse 62

एषु श्राद्धप्रदातारः प्रयांति परमं पदम् । तीर्थं मातृगृहं नाम करवीरपुरं तथा

在这些地方奉献“śrāddha”者,得至无上境界。其中有名为“Mātṛgṛha”的圣渡处,以及“Karavīrapura”。

Verse 63

सप्तगोदावरीनाम सर्वतीर्थेश्वरेश्वरम् । तत्र श्राद्धं प्रदातव्यमनंतफलमीप्सुभिः

在名为“Saptagodāvarī”的圣地——被尊为一切圣地之中的至上主宰——求无尽功德者,应当在那里行“śrāddha”。

Verse 64

कीकटेषु गया पुण्या पुण्यं राजगृहं वनम् । च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनःपुना

在Kīkaṭa之地,Gayā为圣;Rājagṛha之林亦为圣。Cyavana的修行林(āśrama)亦圣,而那条河流更是一次又一次地圣洁。

Verse 65

विषयाराधनं पुण्यं नदी या तु पुनःपुना । यत्र गाथा विचरति ब्रह्मणा परिकीर्तिता

那条河流福德无量,且一再蒙福:礼敬其流便得功德;在那里,神圣的颂歌行游流转,正如梵天(Brahmā)所宣说。

Verse 66

एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्

应当希求多子——只要其中一人前往伽耶(Gayā)为祖先行祭。否则,也可举行阿湿婆美陀(Aśvamedha)大祭,或放生一头深蓝黑色的公牛作为神圣布施。

Verse 67

एषा गाथा विचरति तीर्थेष्वायतनेषु च । सर्वे मनुष्या राजेंद्र कीर्त्तयंतः समागताः

大王啊,这首神圣的偈颂在诸朝圣圣地(tīrtha)与神庙道场间流传;众人四方汇集,齐声歌咏称赞。

Verse 68

किमस्माकं कुले कश्चिद्गयां यास्यति यः सुतः । प्रीणयिष्यति तान्गत्वा सप्तपूर्वांस्तथापरान्

在我族中可会有一位儿子前往伽耶(Gayā),到彼处使他们欢喜——使我等七代祖先以及其后的诸先灵得以满足?

Verse 69

मातामहानामप्येवं श्रुतिरेषा चिरंतनी । गंगायामस्थिनिचयं गत्वा क्षेप्स्यति यः सुतः

同样地,即便关于外祖父一系,也有此古老传承:那位前往恒河(Gaṅgā),将遗骨与骨灰之聚投入其中的儿子,便圆满其仪。

Verse 70

तिलैः सप्ताष्टभिर्वापि दास्यते च जलांजलिम् । अरण्यत्रितये वापि पिंडदानं करिष्यति

当以七八粒芝麻和水,献上一捧净水;并且在三处林地之中,也应行“品荼施”(piṇḍa-dāna),即供奉饭团。

Verse 71

प्रथमं पुष्करारण्ये नैमिषे तदनंतरं । धर्मारण्यं पुनः प्राप्य श्राद्धं भक्त्या प्रदास्यति

先至普什迦罗之林,继而到奈弥沙;复至达摩林时,他将以虔敬之心奉献施罗达(śrāddha)。

Verse 72

गयायां धर्मपृष्ठे वा सरसि ब्रह्मणस्तथा । गयाशीर्षवटे चैव पितॄणां दत्तमक्षयम्

在伽耶——无论于达摩背(Dharmapṛṣṭha),或在梵天之湖,亦或在伽耶顶处的榕树下——献给祖灵的一切皆成不朽不坏。

Verse 73

व्रजन्कृत्वा निवापं यस्त्वध्वानं परिसर्पति । नरकस्थान्पितॄन्सोपि स्वर्गं नयति सत्वरं

凡行旅途中,于道上作供(nivāpa)而继续前行者,亦能迅速引领身在地狱的祖先升至天界。

Verse 74

कुले तस्य न राजेंद्र प्रेतो भवति कश्चन । प्रेतत्वं मोक्षभावं च पिंडदानाच्च गच्छति

大王啊,在他的族系中无人沦为饿鬼般的游魂(preta)。以供奉团食(piṇḍa)之功,得脱离preta之态,并趋向解脱(mokṣa)之境。

Verse 75

एको मुनिस्ताम्रकराग्रहस्तो ह्याम्रेषु मूले सलिलं ददाति । आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा

一位仙者手持铜器,于芒果树根倾注清水;树得滋润,祖灵亦得满足——一行之功,素称两利俱成。

Verse 76

गयायां पिण्डदानस्य नान्यद्दानं विशिष्यते । एकेन पिंडदानेन तृप्तास्ते मोक्षगामिनः

在伽耶(Gayā),没有任何布施胜过供奉“品荼”(piṇḍa,祭祖的丧祭供团)。只以一次品荼供养,亡者便得满足,循向解脱(mokṣa)之道而行。

Verse 77

धान्यप्रदानं प्रवरं वदंति वसुप्रदानं च तथामुनींद्राः । गया सुतीर्थेषु नरैः प्रदत्तं तद्धर्महेतुं प्रवरं वदंति

诸牟尼圣者称:施粮为上,施财亦善;然而他们宣说:凡人于伽耶及诸圣渡口(tīrtha)所施之物,皆成就为最胜的法(dharma,功德)之因。

Verse 78

सर्वात्मना सुरुचिना महाचल महानदी । ये तु पश्यंति तां गत्वा मानसे दक्षिणोत्तरे

凡以全心全灵、以清净欢喜前往玛那萨罗瓦拉(Mānasarovara),瞻礼那巍峨大山与浩荡大河,并观其南北两岸者,皆蒙福佑。

Verse 79

प्रणम्य द्विजमुख्येभ्यः प्राप्तं तैर्जन्मनः फलं । यद्यदिच्छति वै मर्त्यस्तत्तदाप्नोत्यसंशयम्

礼拜最尊胜的“二生者”(dvija)之后,凡人便得其出生之真实果报;他所愿求者,皆能获得,毫无疑虑。

Verse 80

एष तूद्देशतः प्रोक्तस्तीर्थानां सग्रहो मया । वागीशोपि न शक्नोति विस्तरात्किमु मानुषः

因此,我仅以略说,陈述了诸圣地(tīrtha)之总摄。即便语主瓦吉沙(Vāgīśa,布里哈斯帕提 Bṛhaspati)也不能尽述其广;何况区区凡人?

Verse 81

सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः । वर्णाश्रमाणां गेहेपि तीर्थं शम उदाहृतम्

真实是真正的圣地(tīrtha);慈悲亦是圣地;制御诸根、调伏感官亦是圣地。即便在遵行种姓与人生阶段(varṇa、āśrama)之法的居家生活中,内心的寂静(śama)也被宣说为圣地。

Verse 82

येषु तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते । गयायां यत्तु वै श्राद्धं तच्छ्राद्धमपवर्गदम्

在诸圣地(tīrtha)所行的任何祭祖供养(śrāddha),都被说能得千万倍功德;而在伽耶(Gayā)所作的śrāddha,确实是能赐予解脱(apavarga)的śrāddha。

Verse 83

यस्मात्तस्मात्प्रयत्नेन तीर्थे श्राद्धं विधीयते । प्रातःकालो मुहूर्तांस्त्रीन्संगवस्तावदेव तु

因此,正因如此,应当勤勉地在圣地(tīrtha)举行śrāddha仪轨。适当的时辰是清晨——三段 muhūrta;而上午时分(saṅgava)亦同此长度。

Verse 84

मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम् । सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत्

正午为三段 muhūrta;其后便是下午。傍晚亦为三段 muhūrta——在那时不应举行śrāddha。

Verse 85

राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु । अह्नो मुहूर्ता व्याख्याता दशपंच च सर्वदा

那一时段名为“罗刹时”(Rākṣasī),于一切行事皆被谴责。白昼的分段(muhūrta)被解说为恒常共有十五段。

Verse 86

तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः । मध्याह्नात्सर्वदा यस्मान्मंदी भवति भास्करः

在那里,第八个牟呼尔塔(muhūrta)被称为“库塔帕”(Kutapa);因为过了正午,太阳(Bhāskara)的炽烈总会渐渐变得柔和。

Verse 87

तस्मादनंतफलदस्तत्रारंभो विशिष्यते । खड्गपात्रं च कुतपस्तथा नैपालकंबलम्

因此,在那时开始的事业被视为格外殊胜,因为它能结无尽之果——例如布施剑器之具、羊毛毯席,以及尼泊尔毯。

Verse 88

रुक्मं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः । पापं कुत्सितमित्याहुस्तस्य तत्तापकारिणः

黄金、达尔婆草(darbha)、芝麻、母牛,以及女儿之子(外孙)被记为第八。他们说罪业是“卑劣”(kutsita),因为它招致与之相应的苦恼。

Verse 89

अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः । ऊर्ध्वं मुहुर्त्तात्कुतपान्महूर्त्तं च चतुष्टयम्

由于这些共有八种,因此被称为“库塔帕众”(Kutapā)。而在库塔帕这一时段之上,还有四个牟呼尔塔,构成四重的时间分段。

Verse 90

मुहूर्त्तपंचकं चैव स्वधावाचनमिष्यते । विष्णुदेहसमुद्भूताः कुशाः कृष्णतिलास्तथा

又规定以五个牟呼尔塔的时段来诵读“斯瓦达”(Svadhā)之呼请;并且说库沙草(kuśa)与黑芝麻同样出自毗湿奴(Viṣṇu)之身。

Verse 91

श्राद्धस्य लक्षणं कालमिति प्राहुर्मनीषिणः । तिलोदकांजलिर्देयो जलांते तीर्थवासिभिः

智者宣说:施行施罗陀(śrāddha)之要,在于时日得当。居于圣地渡口(tīrtha)者,当在水边奉献一捧掺芝麻之净水(añjali)。

Verse 92

सदर्भहस्तेनैकेन गृहे श्राद्धं गमिष्यति । पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम्

即便有人在家行施罗陀(śrāddha),仅以一手执持达尔婆草(darbha),亦得功德:清净、增寿,并能灭除一切罪业。

Verse 93

ब्रह्मणा चैव कथितं तीर्थश्राद्धानुकीर्तनम् । शृणोति यः पठेद्वापि श्रीमान्संजायते नरः

此乃梵天(Brahmā)所宣说之在圣地(tīrtha)行施罗陀(śrāddha)的记述;凡听闻者,或乃至诵读者,皆得富足吉祥。

Verse 94

श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः । सर्वपापोपशांन्त्यर्थमलक्ष्मीनाशनं मतं

当于施罗陀(śrāddha)之时诵此,居于圣地朝圣处者亦当如是;此被认为能息灭诸罪,并摧破不祥与贫厄(alakṣmī)。

Verse 95

इदं पवित्रं यशसो निधानमिदं महापातकनाशनं च । ब्रह्मार्करुद्रैरभिपूजितं च श्राद्धस्य माहात्म्यमुशंति तज्ज्ञाः

此法清净,为名誉之宝藏,亦能摧灭重罪;又为梵天(Brahmā)、日神与鲁陀罗(Rudra)所礼敬——智者如是称扬施罗陀(Śrāddha)之大威德。