
Instruction on All Dharma (in the context of Rāma’s Aśvamedha)
《莲华往世书》5.9章开篇,圣罗摩向阿迦斯提亚请问马祭(Aśvamedha):应选何种祭马、如何礼拜、仪轨如何施行,以及如何制伏敌对。阿迦斯提亚说明吉祥祭马的相貌标记,并讲述放马之法——于毗舍迦月(Vaiśākha)满月放行,在额上作识记,使其在护卫下游行;若被人夺取,则当设法夺回,必要时可用武力。 此大祭并须配合一年之持戒修行,并持续施舍济贫扶弱。罗摩展示王家马厩,阿迦斯提亚见诸祭马而赞叹,劝其圆满成办。随后在萨罗瑜河畔,由婆悉吒(Vasiṣṭha)主持筹备,并广邀诸大圣仙。 在舍沙与瓦茨雅耶那的框架对话中,引出总摄诸法的教诲:诸仙阐明四姓四住(varṇāśrama)之职责,并细述居家者(gṛhastha)之行持——节制欲乐、婚姻规范、待客之道、清净与诸禁戒。末了指出,此等法度皆为利益一切世界而宣说。
Verse 1
श्रीराम उवाच । कीदृशोऽश्वस्तत्र भाव्यः को विधिस्तत्र पूजने । कथं वा शक्यते कर्तुं के जेयास्तत्र वैरिणः
圣罗摩说道:“在那里应当选立何等之马?在那里礼拜的正当仪轨为何?又当如何施行?并且在那里应当征服哪些仇敌?”
Verse 2
अगस्त्य उवाच । गंगाजलसमानेन वर्णेन वपुषा शुभः । कर्णे श्यामो मुखे रक्तः पीतः पुच्छे सुलक्षितः
阿伽斯提耶说道:“其形相吉祥,肤色如恒河之水。两耳黝黑,面呈赤色,尾为黄色——以此诸相,分明可识。”
Verse 3
मनोवेगः सर्वगतिरुच्चैःश्रवस्समप्रभः । वाजिमेधे हयः प्रोक्तः शुभलक्षणलक्षितः
此马迅疾如意念,遍行诸方,光辉如优迦伊施罗婆。于马祀(Aśvamedha)之中,如是之马被宣称为堪用者,以吉祥之相而显著。
Verse 4
वैशाखपूर्णमास्यां तु पूजयित्वा यथाविधि । पत्रं लिखित्वा भाले तु स्वनामबलचिह्नितम्
然而在毗舍佉月望日,依仪轨礼拜既毕,当书一纸札,置于额上,题写自身之名与识别之记号。
Verse 5
मोचनीयः प्रयत्नेन रक्षकैः परिरक्षितः । यत्र गच्छति यज्ञाश्वस्तत्र गच्छेत्सुरक्षकः
当以勤谨之力将其放行,并由守护者细心护卫。祭马所至之处,警醒的护卫亦当随行至彼。
Verse 6
यस्तंबलान्निबध्नाति स्ववीर्यबलदर्पितः । तस्मात्प्रसभमानेयः परिरक्षाकरैर्हयः
凡自恃勇力而生傲慢者,若强行缚住那匹马;因此,那匹马应由守卫强行带回。
Verse 7
कर्त्रा तावत्सुविधिना स्थातव्यं नियमादिह । मृगशृंगधरो भूत्वा ब्रह्मचर्यसमन्वितः
在此,行仪者应先依戒律而住,遵循正当次第——佩持鹿角,并具足梵行(持戒清净)。
Verse 8
व्रतं पालयमानस्य यावद्वर्षमतिक्रमेत् । तावद्दीनांधकृपणाः परितोष्या धनादिभिः
守持此誓愿直至一年过去;在这整段期间,应以财物等资具令贫者、盲者与困乏者得以满足与安慰。
Verse 9
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सर्वधर्मोपदेशोनाम नवमोऽध्यायः
如是,在《圣莲花往世书》之《地下篇》中,于舍沙与瓦茨亚耶那的对话里,关于罗摩阿湿婆美陀(马祀)之段落,第九章《一切法教诲》至此结束。
Verse 10
एवं प्रकुर्वतः कर्म यज्ञः संपूर्णतां गतः । करोति सर्वपापानां नाशनं रिपुनाशन
如此行持此业,则祭祀(yajña)圆满成就;它能灭尽一切罪垢,并摧破诸敌。
Verse 11
तस्माद्भवान्समर्थोऽस्ति करणे पालनेऽर्चने । कृत्वा कीर्तिं सुविमलां पावयान्याञ्जनान्नृप
因此,国王啊,你能胜任行事、护持与礼拜。既已建立无垢之名声,也当净化他人。
Verse 12
श्रीराम उवाच । विलोकय द्विजश्रेष्ठ वाजिशालां ममाधुना । तादृशाः संति नो वाश्वाः शुभलक्षणलक्षिताः
圣罗摩说道:“最胜的二次生者啊,请看我如今的马厩。我们确有那样的骏马,具足吉祥之相。”
Verse 13
इति श्रुत्वा तु तद्वाक्यमगस्त्यः करुणाकरः । उत्तस्थौ वीक्षमाणोऽयं यागार्हान्वाजिनः शुभान्
听罢此言,慈悲如海的阿迦斯提耶起身,凝目观看,见到吉祥而堪用于祭祀的骏马。
Verse 14
गत्वाथ तत्र शालायां रामचंद्रसमन्वितः । ददर्शाश्वान्विचित्रांगान्मनोवेगान्महाबलान्
随后他与罗摩旃陀一同进入马厩,见到肢体斑斓的骏马,疾如心念,力大无比。
Verse 15
अवनितलगताः किं वाजिराजस्य वंश्याः किमथ रघुपतीनामेकतः कीर्तिपिंडाः । किमिदममृतराशिर्वाहरूपेण सिंधोर्मुनिरिति मनसोंतर्विस्मयं प्राप पश्यन्
见他们立于地上,他心中暗自惊叹:“这些是马王瓦吉罗阇的后裔吗?还是说,他们合在一起,正是罗伽诸王荣耀的化身?抑或这是一堆甘露,乃大海亲自化作马形?”如此观望之时,圣者之心充满惊异。
Verse 16
एकतः शोणदेहानां वाजिनां पंक्तिरुत्तमा । एकतः श्यामकर्णाश्च कस्तूरीकांतिसप्रभाः
一侧列着一排上等骏马,身躯微赤;另一侧则是黑耳之马,光泽莹然,如麝香之辉。
Verse 17
एकतः कनकाभाश्च त्वन्यतो नीलवर्णिनः । एकतः शबलैर्वर्णैर्विशिष्टैर्वाजिभिर्वृताः
一侧有金光灿然如黄金者,另一侧有深蓝之色者;又一处则环列着上等骏马,毛色斑斓,格外殊胜。
Verse 18
एवं पश्यन्मुनिः सर्वान्कौतुकाविष्टमानसः । ययावन्यत्र तान्द्रष्टुं यागयोग्यान्हयान्मुनिः
圣者如是观遍诸马,心为好奇所摄;遂又往他处而行,欲见堪为祭祀(yajña)之用、适合供献的骏马。
Verse 19
ददर्श तत्र शतशो बद्धांस्तादृशवर्णकान् । दृष्ट्वा विस्मयमापेदे स मुनिर्हर्षितांगकः
在那里,他见到成百上千的那些被系缚者,形貌色泽皆如先前所见。目睹此景,圣者大为惊异,通身欢喜而战栗。
Verse 20
एकतः श्यामकर्णांश्च सर्वांगैः क्षीरसन्निभान् । पीतपुच्छान्मुखे रक्ताञ्छुभलक्षणलक्षितान्
一侧是黑耳之马,通体乳白如酥乳;尾呈金黄,口色朱红,并具吉祥之相与瑞相。
Verse 21
निरीक्ष्य परितोऽनघान्विमलनीरधारानिभान्मनोजवनशोभितान्विमलकीर्तिपुंजप्रभान् । पयोनिधिविशोषको मुनिरुवाचसीतापतिं विचित्रहयदर्शनाद्धृषितनेत्रवक्त्रप्रभः
他环顾四周,见诸位无垢之士:如清净水流,因心念迅捷之美而光耀,又如无瑕名声之聚而辉映。那位“令大海干涸者”圣仙遂对悉多之主开口。见到奇妙之马,他的眼与面皆因欢喜而发光。
Verse 22
अगस्त्य उवाच । हयमेधक्रतौ योग्यान्वाहांस्ते बहुशः शुभान् । पश्यतो नेत्रयोर्मेऽद्य तृप्तिर्नास्ति रघूत्तम
阿伽斯提耶说道:“罗睺族中最胜者啊,我亲眼观看你为马祭(阿湿婆梅陀)所备的诸多吉祥而堪用的祭马,然而今日我的目光仍未得满足。”
Verse 23
रामचंद्र महाभाग सुरासुरनमस्कृत । यज्ञं कुरु महाराज हयमेधं सुविस्तरम्
吉祥的罗摩旃陀罗啊,受天神与阿修罗同敬者——大王啊,请举行祭祀(yajña):以广大圆满之仪成就马祭(阿湿婆梅陀)。
Verse 24
सुरपतिरिव सर्वान्यज्ञसंघान्करिष्यंस्तपन इव सुपर्वारातितोयं विशोष्यन् । हतरिपुगणमुख्यं सांपरायं विजित्य क्षितितलसुखभोगं कुर्विदं भूरिभाग
如因陀罗一般,他将举行无数祭祀;如太阳一般,他将在吉时使敌人的水势枯竭。既诛灭敌军之魁首,复战胜战场上致命的危难,他将令这广大国土在大地上享受安乐与繁荣。
Verse 25
इत्येवं वाक्यवादेन परितुष्टाखिलेंद्रियः । सर्वान्वै यज्ञसंभारानाजहार मनोहरान्
如是以言语往复,使诸根悉皆满足;随后他便汇集一切悦意的祭祀资具与供品。
Verse 26
मुन्यन्वितो महाराजः सरयूतीरमागतः । सुवर्णलांगलैर्भूमिं विचकर्ष महीयसीम्
大王偕同诸圣仙来到萨拉尤河岸;以金犁耕划,犁开广袤大地。
Verse 27
विलिख्य भूमिं बहुशश्चतुर्योजनसंमिताम् । मंडपान्रचयामास यज्ञार्थं स नरोत्तमः
他反复划定地界,量得四由旬之广;那人中至上者为祭祀而建起诸多曼荼罗式的祭亭。
Verse 28
कुंडं तु विधिवत्कृत्वा योनिमेखलयान्वितम् । अनेकरत्नरचितं सर्वशोभासमन्वितम्
又依仪轨建成火坛(昆达),具备“优尼”形围栏与其带饰;以众宝镶成,庄严具足,光彩无量。
Verse 29
मुनीश्वरो महाभागो वसिष्ठः सुमहातपाः । सर्वं तत्कारयामास वेदशास्त्रविधिश्रितम्
圣仙之主、福德具足而苦行深厚的婆悉吒(Vasiṣṭha),令这一切皆依《吠陀》与诸《论典》(Śāstra)之法而行。
Verse 30
प्रेषितास्तेन मुनिना शिष्या मुनिवराश्रमान् । कथयामासुरुद्युक्तं हयमेधे रघूत्तमम्
奉那位圣仙差遣,弟子们前往诸大圣者的精舍(阿湿罗摩),禀告说:罗古至上者罗摩(Raghūttama, Rāma)已着手举行马祭(Aśvamedha)大祭。
Verse 31
आकारितास्तदा सर्वे ऋषयस्तपतां वराः । आजग्मुः परमेशस्य दर्शने त्वतिलालसाः
当时诸位仙圣——苦行者中最殊胜者——奉召而来,满怀炽切渴望,只为瞻仰至上主(至尊自在天)。
Verse 32
नारदोसितनामा च पर्वतः कपिलो मुनिः । जातूकर्ण्योंऽगिरा व्यास आर्ष्टिषेणोऽत्रिरासुरिः
其中有那罗陀(Nārada)、奥西塔那摩(Ositanāmā)、帕尔瓦塔(Parvata)、迦毗罗牟尼(Kapila)、阇都迦耳尼耶(Jātūkarṇya)、安吉罗(Aṅgirā)、毗耶娑(Vyāsa)、阿尔什提舍那(Ārṣṭiṣeṇa),以及阿修梨一系的阿特里(Atri)。
Verse 33
हारीतो याज्ञवल्क्यश्च संवर्तः शुकसंज्ञितः । इत्येवमादयो राम हयमेधवरं ययुः
哈利多(Hārīta)、耶若阇那伐罗迦(Yājñavalkya)、三伐尔多(Saṃvarta)以及名为舒迦(Śuka)者——如是,罗摩啊,他们与其他诸贤同赴殊胜的马祭(Aśvamedha)。
Verse 34
तान्सर्वान्पूजयामास रघुराजो महामनाः । प्रत्युत्थानाभिवादाभ्यामर्घ्यविष्टरकादिभिः
大心的罗阇罗阇·罗瞿王恭敬礼敬众仙:起身迎接,致以礼拜,并奉上迎宾净水(arghya)、座席及诸般礼仪供奉。
Verse 35
गां हिरण्यं ददौ तेभ्यः प्रायशो दृष्टविक्रमः । महद्भाग्यं त्वद्यमेऽस्ति यद्यूयं दर्शनं गताः
他——威德远闻者——多以牛与黄金施与诸贤。并言:“今日我福缘实大,只因诸位为赐我瞻礼(darśana)而来。”
Verse 36
शेष उवाच । एवं समाकुले ब्रह्मन्नृषिवर्य समागमे । धर्मवार्ता बभूवाहो वर्णाश्रमसुसंमता
舍沙说道:“如此,在那喧腾的集会中,婆罗门啊,于最上诸仙的大会里,确实兴起了关于法(dharma)的论谈,完全为种姓(varṇa)与人生住期(āśrama)之制度所认可。”
Verse 37
वात्स्यायन उवाच । का धर्मवार्ता तत्रासीत्किं वा कथितमद्भुतम् । साधवः सर्वलोकानां कारुण्यात्किमुताब्रुवन्
瓦茨雅衍那说道:“那里进行了怎样的法(dharma)之谈?讲述了什么奇妙之事?而诸圣者出于对一切众生的悲悯,究竟说了些什么?”
Verse 38
शेष उवाच । तान्समेतान्मुनीन्दृष्ट्वा रामो दाशरथिर्महान् । पप्रच्छ सर्वधर्मांश्च सर्ववर्णाश्रमोचितान्
舍沙说道:“见诸牟尼在彼齐集,达沙罗陀之子、大罗摩便向他们请问一切义务——适合于各个种姓(varṇa)与各个住期(āśrama)者。”
Verse 39
ते तु पृष्टा हि रामेण धर्मान्प्रोचुर्महागुणान् । तान्प्रवक्ष्यामि ते सर्वान्यथाविधि शृणुष्व तान्
他们被罗摩问及,便宣说具大功德的诸般法义。我今将依次为你尽皆陈述;当如法谛听。”
Verse 40
ऋषय ऊचुः । ब्राह्मणेन सदा कार्यं यजनाध्ययनादिकम् । वेदान्पठित्वा विरजो नैव गार्हस्थ्यमाविशेत्
诸仙人说道:“婆罗门当恒常行祭(yajña)、诵习吠陀及诸相关之业。既已研习吠陀而离染无欲,便不应进入居家之道(家住期)。”
Verse 41
ब्राह्मणेन सदा त्याज्यं नीचसेवानुजीवनम् । आपद्गतोऽपि जीवेत न श्ववृत्त्या कदाचन
婆罗门应当恒常舍弃以侍奉卑劣之人而得的生计。纵遭厄难亦当自持而活,任何时候都不可过如犬般的卑贱生活。
Verse 42
ऋतुकालाभिगमनं धर्मोऽयं गृहिणः परः । स्त्रीणां वरमनुस्मृत्याऽपत्यकामोथवा भवेत्
居士于妻之受孕时节亲近,是家住者最上之法。忆念此乃赐予妇女之恩福,遂可怀求子嗣之愿而行之。
Verse 43
दिवाभिगमनं पुंसामनायुष्यकरं मतम् । श्राद्धाहः सर्वपर्वाणि यतस्त्याज्यानि धीमता
白昼行房被认为会损减男子寿命。因此智者应于施罗陀日及一切斋戒、节庆等圣行之日避之。
Verse 44
तत्र गच्छेत्स्त्रियं मोहाद्धर्मात्प्रच्यवते परात् । ऋतुकालाभिगामी यः स्वदारनिरतश्च यः
若人迷惑而趋向他人之妻,便从至上法道堕落;而于适时亲近(己妻)、并专守自妻者,则行于正法。
Verse 45
सर्वदा ब्रह्मचारी ह विज्ञेयः स गृहाश्रमी । ऋतुः षोडशयामिन्यश्चतस्रस्ता सुगर्हिताः
家住者应被认识为时时皆为梵行者,常持自制。受孕之期为十六夜;其余四夜被视为极可责之夜。
Verse 46
पुत्रदास्तासु या युग्मा अयुग्माः कन्यकाप्रदाः । त्यक्त्वा चंद्रमसं दुष्टं मघां मूलं विहाय च
在这些月相时段与宿位之中,成双者被称为“赐子(男嗣)”,不成双者则不宜嫁女。应避开不祥之月,并当远离摩伽(Maghā)与牟罗(Mūla)二宿。
Verse 47
शुचिः सन्निर्विशेत्पत्नीं पुंनामर्क्षे विशेषतः । शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधनम्
男子当以清净之身亲近其妻——尤其在月宿为“Puṃnāma”之时;彼时她将诞生清净之子,能成就人生诸义(puruṣārtha)。
Verse 48
आर्षे विवाहे गोद्वंद्वं यदुक्तं तत्प्रशस्यते । शुल्कमण्वपि कन्यायाः कन्याक्रेतुस्तु पापकृत्
在阿尔沙(Ārṣa)式婚姻中,经典所规定的一对牛被视为可嘉。然若为女子收取哪怕微薄的聘财,也使那“买女者”成为造罪之人。
Verse 49
वाणिज्यं नृपतेः सेवा वेदानध्ययनं तथा । कुविवाहः क्रियालोपः कुलपातनहेतवः
经商、事奉君王、以及研习吠陀;不正当的婚姻与废弃应行之仪轨——这些皆为家族血脉衰败之因。
Verse 50
अन्नोदक पयो मूलफलैर्वापि गृहाश्रमी । गोदानेन तु यत्पुण्यं पात्राय विधिपूर्वकम्
即便居家之人,若以食物、清水、乳、根茎或果实布施——并依仪轨奉与堪受者——亦得与如法施牛所生之功德无异。
Verse 51
अनर्चितोऽतिथिर्गेहाद्भग्नाशो यस्य गच्छति । आजन्मसंचितात्पुण्यात्क्षणात्स हि बहिर्भवेत्
若宾客未受礼敬而怀着失望离开其家,此人刹那间便失去自出生以来所积累的一切福德。
Verse 52
पितृदेवमनुष्येभ्यो दत्त्वाश्नीतामृतं गृही । स्वार्थं पचत्यघं भुंक्ते केवलं स्वोदरंभरिः
居家之人先施食于祖灵(Pitṛ)、诸天与众人,然后再食者,便如享甘露(amṛta)。唯为己利而烹者,所食乃罪业,不过是填腹之徒。
Verse 53
षष्ठ्यष्टम्योर्विशेत्पापं तैले मांसे सदैव हि । चतुर्दश्यां तथामायां त्यजेत क्षुरमंगनाम्
在第六与第八月日(tithi),罪垢必由油与肉而入。又在第十四月日及新月之日,当避剃刀,并当远离女色。
Verse 54
रजस्वलां न सेवेत नाश्नीयात्सह भार्यया । एकवासा न भुंजीत न भुंजीतोत्कटासने
不应亲近经期之女,亦不应与妻同席共食;不应仅着一衣而食,也不应坐于高座或不当之座而食。
Verse 55
नाश्नंतीं स्त्रियमीक्षेत तेजःकामो नरोत्तमः । मुखेनोपधमेन्नाग्निं नग्नां नेक्षेत योषितम्
欲求灵耀之光(tejas)者,不应观看女子进食;亦不应以口吹火,且不应观看裸身之女。
Verse 56
नांघ्री प्रतापयेदग्नौ न वस्त्वशुचि निक्षिपेत् । प्राणिहिंसां न कुर्वीत नाश्नीयात्संध्ययोर्द्वयोः
不可在火前烘脚,也不可将不净之物置于其旁。不可伤害众生;亦不可在两次暮晓交接之时——黎明与黄昏——进食。
Verse 57
नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत् । न दिवोद्गतसारं च भक्षयेद्दधिनो निशि
不可注视母牛哺乳其犊之时,也不可指示彩虹。夜间不可食用精华已离析的酸乳,即乳清分离的稀薄凝乳。
Verse 58
स्त्रीं धर्मिणीं नाभिवादेन्नाद्यादातृप्ति रात्रिषु । तौर्यत्रिकप्रियो न स्यात्कांस्ये पादौ न धावयेत्
不可按仪轨向贞善之女行正式礼敬;夜间不可食至极饱。不可嗜好三种娱戏——乐、歌、舞——亦不可在青铜器中洗足。
Verse 59
न धारयेदन्यभुक्तं वासश्चोपानहावपि । न भिन्नभाजनेऽश्नीयान्नाश्नीतान्नं विदूषितम्
不可穿戴他人用过的衣物与鞋履。不可用破损器皿进食,亦不可食用败坏或被污染之食。
Verse 60
संविशेन्नार्द्रचरणो नोच्छिष्टः क्वचिदाव्रजेत् । शयानो वा न चाश्नीयान्नोच्छिष्टः संस्पृशेच्छिरः
不可湿足而卧;亦不可在口中尚有食余、不净之时往来于任何处。不可卧食;不净之时亦不可触摸自己的头顶。
Verse 61
न मनुष्यस्तुतिं कुर्यान्नात्मानमवमानयेत् । अभ्युद्यतं न प्रणमेत्परमर्माणि नो वदेत्
不可谄媚于人,亦不可自轻自贱;不可向欲加害者俯首;亦不可揭露他人最深的隐痛与弱处。
Verse 62
एवं गार्हस्थ्यमाश्रित्य वानप्रस्थाश्रमं व्रजेत् । सस्त्रीको वा गतस्त्रीको विरज्येत ततः परम्
如是,圆满家住期之后,当入林居期(vānaprastha)之道;其后,无论与妻同往,或妻已离世,皆应生离欲之心,趋于出离。
Verse 63
इत्येवमादयो धर्मा गदिता ऋषिभिस्तदा । श्रुता रामेण महता सर्वलोकहितैषिणा
如是,这些以及其他诸般法义,彼时由诸仙(ṛṣi)宣说;而伟大的罗摩(Rāma)——愿求诸世界安乐者——悉心聆受。