Adhyaya 15
Patala KhandaAdhyaya 1554 Verses

Adhyaya 15

Description of Cyavana’s Austerity and Enjoyment

《莲华往世书·地下部》5.15章叙述苏迦尼娅(Sukanyā)长期以苦行般的耐心侍奉年迈失明的仙人恰瓦那(Cyavana),被赞为坚守妇道(strī-dharma)与瑜伽清净的典范。她以恒常的奉事与内在的自持,使艰难的婚姻生活成为修行之道。 阿湿毗尼双神(Aśvinī-kumāras)——天界医师——前来受礼敬,并赐予恩愿。苏迦尼娅祈求丈夫复明并得安康。经由祭祀(yajña)的神学线索:恰瓦那同意在祭中分给他们应得之分,从而确立其权利;双神随即以神力施助,引出返老还童的转化景象。 随后出现“三位同样俊美之人”的情节,用以考验苏迦尼娅的贞洁与辨识。章末转入天赐富乐:恰瓦那显现能满愿的空中车(vimāna)与珠宝般华丽的居所,彰显苦行、正法与神恩既可成就享受(bhoga),亦能带来无惧无忧的灵性安稳。

Shlokas

Verse 1

सुमतिरुवाच । अथर्षिः स्वाश्रमं गत्वा मानव्या सह भार्यया । मुदं प्राप हताशेष पातको योगयुक्तया

苏摩提说道:于是那位仙人携妻摩那毗回到自家精舍;凭她恒常的瑜伽修持,他得大欢喜,一切罪垢尽皆灭除。

Verse 2

सा मानवी तं वरमात्मनः पतिं । नेत्रेणहीनं जरसा गतौजसम् । सिषेव एनं हरिमेधसोत्तमं । निजेष्टदात्रीं कुलदेवतां यथा

那位凡女摩那毗侍奉他——自己所择之夫——纵然他失却目力,精气为老所夺;她侍奉这位至善的虔修者,如同侍奉赐予所愿的家族守护神(库拉天神)一般。

Verse 3

शूश्रूषती स्वं पतिमिंगितज्ञा । महानुभावं तपसां निधिं प्रियम् । परां मुदं प्राप सती मनोहरा । शची यथा शक्रनिषेवणोद्यता

她专心侍奉自己的夫君,善解其未言之意;美丽而贞善的萨蒂在所爱之人——那位大心者、苦行功德之宝藏——中得至上喜乐,正如舍契以虔敬侍奉释迦罗(因陀罗)而欢悦。

Verse 4

चरणौ सेवते तन्वी सर्वलक्षणलक्षिता । राजपुत्री सुंदरांगी फलमूलोदकाशना

那纤细的公主具足一切吉祥相,肢体端丽;她侍奉(他的)双足,只以果、根与清水自持。

Verse 5

नित्यं तद्वाक्यकरणे तत्परा पूजने रता । कालक्षेपं प्रकुरुते सर्वभूतहिते रता

她恒常奉行他的言语,专一归依,乐于礼敬;她的时日皆沉浸于利益一切众生之事。

Verse 6

विसृज्य कामं दंभं च द्वेषं लोभमघं मदम् । अप्रमत्तोद्यता नित्यं च्यवनं समतोषयत्

舍弃欲望、虚伪、憎恨、贪婪、罪垢与傲慢,恒常警醒而坚定,他们不断令遮婆那(Cyavana)欢喜。

Verse 7

एवं तस्य प्रकुर्वाणा सेवां वाक्कायकर्मभिः । सहस्राब्दं महाराज सा च कामं मनस्यधात्

如是以言语、身行与作为侍奉于他,历经千年,伟大的王啊,她随后在心中生起一念欲求。

Verse 8

कदाचिद्देवभिषजावागतावाश्रमे मुनेः । स्वागतेन सुसंभाव्य तयोः पूजां चकार सा

有一次,两位天界医师来到圣者的隐修院。她以恭敬之礼迎接,并为他们举行供奉礼拜。

Verse 9

शर्यातिकन्याकृतपूजनार्घ । पाद्यादिना तोषितचित्तवृत्ती । तावूचतुः स्नेहवशेन सुंदरौ । वरं वृणुष्वेति मनोहरांगीम्

因受舍利耶提王之女以供品与款待——如洗足之水等——恭敬供养,两位俊美者心意欢喜;出于慈爱,他们对那肢体娴雅的少女说:“请择一愿。”

Verse 10

तुष्टौ तौ वीक्ष्य भिषजौ देवानां वरयाचने । मतिं चकार नृपतेः पुत्री मतिमतां वरा

见那两位医师因诸天所求赐愿而心生欢喜,王女——智者之冠——便在心中作出决断。

Verse 11

पत्यभिप्रायमालक्ष्य वाचमूचे नृपात्मजा । दत्तं मे चक्षुषी पत्युर्यदि तुष्टौ युवां सुरौ

察知丈夫的心意,王女说道:“若二位天神欢喜,请赐我夫君之双眼。”

Verse 12

इत्येतद्वचनं श्रुत्वा सुकन्या या मनोहरम् । सतीत्वं च विलोक्येदमूचतुर्भिषजां वरौ

听罢此言,妩媚的苏迦尼娅,显现其贞洁守德之心,便对那两位最尊贵的医师如是说道。

Verse 13

त्वत्पतिर्यदि देवानां भागं यज्ञे दधात्यसौ । आवयोरधुना कुर्वश्चक्षुषोः स्फुटदर्शनम्

若你的丈夫确实在祭祀(yajña)中奉献诸天(deva)应得之分,那么此刻就赐予我们二人双眼清明、视见分明。

Verse 14

च्यवनोऽप्योमिति प्राह भागदाने वरौजसोः । तदा हृष्टावश्विनौ तमूचतुस्तपतां वरम्

当为那位大能者分配祭祀份额之时,连契耶瓦那(Cyavana)也诵出“唵(Oṁ)”。于是欢喜的阿湿毗尼双神(Aśvin)对他说:“择取恩赐吧,苦行者之最。”

Verse 15

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे । च्यवनस्य तपोभोगवर्णनं नाम पंचदशोऽध्यायः

如是,在《吉祥莲华往世书》(Śrī Padma Purāṇa)之《地下界篇》(Pātālakhaṇḍa)中,于舍沙(Śeṣa)与瓦茨雅耶那(Vātsyāyana)的对话里,在罗摩(Rāma)马祭(Aśvamedha)一段——第十五章圆满,名为《契耶瓦那的苦行与受用之描写》。

Verse 16

ह्रदं प्रवेशितोऽश्विभ्यां स्वयं चामज्जतां ह्रदे । पुरुषास्त्रय उत्तस्थुरपीच्या वनिताप्रियाः

在阿湿毗尼(Aśvin)引领下,他们进入湖中,并亲自沉入水里。随后三位男子从水中起身,容貌绝伦,深得女子爱慕。

Verse 17

रुक्मस्रजः कुंडलिनस्तुल्यरूपाः सुवाससः । तान्निरीक्ष्य वरारोहा सुरूपान्सूर्यवर्चसः

他们佩戴金色花鬘与耳环,形貌相同,衣着华美。那位腰胯婀娜的女子望见这些俊美之人——灿然如日之辉——不禁凝视。

Verse 18

अजानती पतिं साध्वी ह्यश्विनौ शरणं ययौ । दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ

她未能认出自己的丈夫,那位贞洁贤淑的女子便投奔阿湿毗那双神为庇护。二神因她守妇道之贞诚而欢喜,遂令她得见其夫。

Verse 19

ऋषिमामंत्र्य ययतुर्विमानेन त्रिविष्टपम् । यक्ष्यमाणे क्रतौ स्वीयभागकार्याशयायुतौ

二神辞别仙人,乘天界飞车(vimāna)前往三十三天(Triviṣṭapa),意在于即将举行的祭祀中取得本应属于自己的份额。

Verse 20

कालेन भूयसा क्षामां कर्शितां व्रतचर्यया । प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत्

见她经年累月因守戒修誓而形容枯槁、日渐消瘦,他因爱而哽咽,复为怜悯所动,便开口说道。

Verse 21

तुष्टोऽहमद्य तव भामिनि मानदायाः । शुश्रूषया परमया हृदि चैकभक्त्या । यो देहिनामयमतीव सुहृत्स्वदेहो । नावेक्षितः समुचितः क्षपितुं मदर्थे

噢热情的佳人,噢可敬的夫人——今日我因你至上的侍奉与心中一念专诚的信奉而欢喜。你这身体,珍贵且实为众生之益友,不可轻忽;为我之故而令其枯损,并不相宜。

Verse 22

ये मे स्वधर्मनिरतस्य तपः समाधि । विद्यात्मयोगविजिता भगवत्प्रसादाः । तानेव ते मदनुसेवनयाऽविरुद्धान् । दृष्टिं प्रपश्य वितराम्यभयानशोकान्

我所获得的诸天恩赐——凭我安住于自身之法(dharma),凭苦行(tapas)与深定(samādhi),并凭智慧与自我之瑜伽(ātma-yoga),这一切皆由主的恩典而成——这些福佑亦不违你对我虔诚的侍奉;你当亲眼观见。我赐你一种无惧无忧的圣见。

Verse 23

अन्ये पुनर्भगवतो भ्रुव उद्विजृंभ । विस्रंसितार्थरचनाः किमुरुक्रमस्य । सिद्धासि भुंक्ष्व विभवान्निजधर्मदोहान् । दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः

另一些人不过是主宰眉间的一次舒展;其义理与辞章的安排随即崩散:他们又能为乌鲁克罗摩——大步威行的毗湿奴——成就什么呢?你已臻圆满,因此当享受由自身法(dharma)所结的福泽:那是天赐的恩赐,世人难以凭诸王反复无常的权术而得。

Verse 24

एवं ब्रुवाणमबलाखिलयोगमाया । विद्याविचक्षणमवेक्ष्य गताधिरासीत् । संप्रश्रयप्रणयविह्वलया गिरेषद् । व्रीडाविलोकविलसद्धसिताननाह

见他学识精妙、言辞如是,那女子——全体瑜伽幻力(māyā)的化身——内心遂安定澄然。继而,她因恭敬而含情,声音微微颤动,带着羞怯的一瞥与柔和的微笑,开口说道。

Verse 25

सुकन्योवाच । राद्धं बत द्विजवृषैतदमोघयोग । मायाधिपे त्वयि विभो तदवैमि भर्तः । यस्तेऽभ्यधायि समयः सकृदंगसंगो । भूयाद्गरीयसि गुणः प्रसवः सतीनाम्

苏甘雅说道:“此恩赐确已圆满,噫,婆罗门中之雄——此不失之合!我今方悟,吾主:在你这幻力(māyā)之主、遍一切者身上,本当如此。为你所立之约——仅一次身相交合——愿它转为更大的功德:使贤德之妻得以孕育后嗣。”

Verse 26

तत्रेति कृत्यमुपशिक्ष्य यथोपदेशं । येनैष कर्शिततमोति रिरंसयात्मा । सिध्येत ते कृतमनोभव धर्षिताया । दीनस्तदीशभवनं सदृशं विचक्ष्व

他依所受教诲,详示彼处当行之事,继而说道:“凭此,愿这被浓重黑暗所折磨的自我得以安慰。愿你的意愿得成——噫,欲念已被激起者——在那受苦之人身上。至于你,纵然困顿,也当寻求一处与主宰相称的居所。”

Verse 27

सुमतिरुवाच । प्रियायाः प्रियमन्विच्छंश्च्यवनो योगमास्थितः । विमानं कामगं राजंस्तर्ह्येवाविरचीकरत्

苏摩提说道:为求取悦其爱侣,遮婆那入于瑜伽三昧;就在那一刻,噫,大王,他显现出一乘随心而行的天车(vimāna)。

Verse 28

सर्वकामदुघं रम्यं सर्वरत्नसमन्वितम् । सर्वार्थोपचयोदर्कं मणिस्तंभैरुपस्कृतम्

其境殊妙,能满一切所愿,具足诸宝;令一切福祉增长丰盈,并以宝柱庄严。

Verse 29

दिव्योपस्तरणोपेतं सर्वकालसुखावहम् । पट्टिकाभिः पताकाभिर्विचित्राभिरलंकृतम्

又具天妙铺陈,恒时带来安乐;并以斑斓的缎带与旌幡种种庄饰。

Verse 30

स्रग्भिर्विचित्रमालाभिर्मंजुसिंजत्षडंघ्रिभिः । दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम्

以缤纷花鬘与杂色花环而辉耀;六足之虫甜美嗡鸣;又以多种衣帛增光——细软的dukūla、亚麻与丝绸。

Verse 31

उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक् । कॢप्तैः कशिपुभिः कांतं पर्यंकव्यजनादिभिः

在层层安置的居所之中,各处各别,皆备妥雅致寝具——褥垫、卧榻、扇具等诸物,以供安居。

Verse 32

तत्रतत्र विनिक्षिप्त नानाशिल्पोपशोभितम् । महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः

处处陈设诸物,皆以多样工艺而增辉;地面广铺翡翠,其间又以珊瑚祭坛而更显丰美。

Verse 33

द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटकम् । शिखरेष्विंद्रनीलेषु हेमकुंभैरधिश्रितम्

在门前,宛如金刚般的门扇熠熠生辉,嵌于珊瑚砌墙之中;在因陀罗尼罗蓝宝石的峰顶,又以金制宝瓶作顶饰。

Verse 34

चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः । जुष्टं विचित्रवैतानैर्मुक्ताहारावलंबितैः

其上点缀着光耀上品的红宝石,镶嵌在如金刚般的墙壁之中;又以奇妙华盖装饰,并悬垂串串珍珠璎珞。

Verse 35

हंसपारावतव्रातैस्तत्र तत्र निकूजितम् । कृत्रिमान्मन्यमानैस्तानधिरुह्याधिरुह्य च

此处彼处回荡着天鹅与鸽群的咕咕鸣声;人们以为它们是人工造作,便一次又一次地攀上去、再攀上去。

Verse 36

विहारस्थानविश्राम संवेश प्रांगणाजिरैः । यथोपजोषं रचितैर्विस्मापनमिवात्मनः

其中有游乐园林、歇息之所、寝居之室、庭院与广阔空地——随心所欲地布置——仿佛此地专为取悦并惊叹自心而造。

Verse 37

एवं गृहं प्रपश्यंतीं नातिप्रीतेन चेतसा । सर्वभूताशयाभिज्ञः स्वयं प्रोवाच तां प्रति

于是,当她以并非十分欢喜的心观看那宅邸时,那位洞悉一切众生心意者,便自然而然地对她开口说道。

Verse 38

निमज्ज्यास्मिन्ह्रदे भीरु विमानमिदमारुह । सुभ्रूर्भर्तुः समादाय वचः कुवलयेक्षणा

“在这湖中沐浴沉入之后,怯弱者啊,登上这天车。那位莲华眼的女子承接夫君之言,对那眉如新月的女子开口说道。”

Verse 39

सरजो बिभ्रती वासो वेणीभूतांश्च मूर्द्धजान् । अंगं च मलपंकेन संछन्नं शबलस्तनम्

她衣裳染尘,发丝编成辫束;身躯涂抹污泥,尽被秽泥遮覆,胸前斑驳可见——显得污浊而凌乱。

Verse 40

आविवेश सरस्तत्र मुदा शिवजलाशयम् । सांतःसरसि वेश्मस्थाः शतानि दशकन्यकाः

他欢喜地进入那里的湖中——那是湿婆的圣水之藏。于其内层莲湖之中有诸多居舍,舍中住着数百名约十岁的少女。

Verse 41

सर्वाः किशोरवयसो ददर्शोत्पलगंधयः । तां दृष्ट्वा शीघ्रमुत्थाय प्रोचुः प्रांजलयः स्त्रियः

诸位妙龄女子,芬芳如莲,见到了她;一见之下,便迅速起身,合掌恭敬,对她说道。

Verse 42

वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम् । स्नानेन ता महार्हेण स्नापयित्वा मनस्विनीम्

“我们是你的侍女,请你差遣。我们当作何事?既以至珍的沐浴仪轨、以芬芳之水,为那高贵而坚心的夫人沐浴之后……”

Verse 43

दुकूले निर्मले नूत्ने ददुरस्यै च मानद । भूषणानि परार्घ्यानि वरीयांसि द्युमंति च

噢,赐予尊荣者,他们献给她两件崭新无垢的衣裳,又奉上辉煌的饰物——至上殊胜,价值无量。

Verse 44

अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् । अथादर्शे स्वमात्मानं स्रग्विणं विरजोंबरम्

随后他得到了具足诸德的饮食,又得一杯如甘露之酿。继而在镜中,他见到自身——佩花鬘,着无垢净衣。

Verse 45

ताभिः कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् । हारेण च महार्हेण रुचकेन च भूषितम्

那些少女以至敬礼遇他,并为他行吉祥仪轨;于是他佩戴上极其珍贵的项链,又饰以光耀的宝饰。

Verse 46

निष्कग्रीवं वलयिनं क्वणत्कांचननूपुरम् । श्रोण्योरध्यस्तया कांच्या कांचन्या बहुरत्नया

她颈佩金饰,臂戴手镯,足系叮当作响的金踝铃;其腰胯环以镶嵌众宝的金带。

Verse 47

सुभ्रुवा सुदता शुक्लस्निग्धापांगेन चक्षुषा । पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम्

她眉秀齿美,双眸眼角洁白润泽,含柔光而轻瞥。她光辉的面容被深蓝卷发环绕,宛如与莲蕾之美争胜。

Verse 48

यदा सस्मार दयितमृषीणां वल्लभं पतिम् । तत्र चास्ते सहस्त्रीभिर्यत्रास्ते स मुनीश्वरः

当她忆起那位挚爱的夫君——为诸仙圣所敬爱、为众所珍奉的主——她便发现自己已在彼处,正是那位牟尼之王所住之地,身旁侍立着一千位女子。

Verse 49

भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा । निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत

于是,她看见夫君立于面前——其身为千女所环绕——又察觉他那非凡的瑜伽境界,心中便生起疑惑。

Verse 50

सतां कृत मलस्नानां विभ्राजंतीमपूर्ववत् । आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम्

她从未如此光辉:因贤善者所备的净化沐浴为她洗濯;她持守自身的妙相,秀美的双乳亦以衣裳端庄遮覆。

Verse 51

विद्याधरी सहस्रेण सेव्यमानां सुवाससम् । जातभावो विमानं तदारोहयदमित्रहन्

在一千位毗陀耶陀罗天女的侍奉下,身着华美衣裳;那位灭敌者——志意已然苏醒——令她登上那天界飞车(vimāna)。

Verse 52

तस्मिन्नलुप्तमहिमा प्रिययानुषक्तो । विद्याधरीभिरुपचीर्णवपुर्विमाने । बभ्राज उत्कचकुमुद्गणवानपीच्य । स्ताराभिरावृत इवोडुपतिर्नभःस्थः

在那里,他威光不减,依恋于爱妻;乘于空中飞车,身形为毗陀耶陀罗天女所庄严,灿然如天穹之月——群星之主——被盛放的白莲(kumuda)与繁星环绕。

Verse 53

तेनाष्टलोकपविहारकुलाचलेंद्र । द्रोणीष्वनंगसखमारुतसौभगासु । सिद्धैर्नुतोद्युधुनिपातशिवस्वनासु । रेमे चिरं धनदवल्ललनावरूथी

与他同在,那座威严之山——以“八界游乐之地”闻名——久长沉醉于诸谷之间;谷中清风如爱神迦摩之友,令人欢悦;瀑流倾泻,吉祥之声回荡,诸悉地者赞颂其间;又在财主俱毗罗所爱之众的辉煌随从中,尽享欢娱。

Verse 54

वैश्रंभके सुरवने नंदने पुष्पभद्रके । मानसे चैत्ररथ्ये च सरे मे रामया रतः

在毗舍兰婆迦,在天界圣林,在难陀那,在普湿婆跋陀罗迦,在摩那萨罗婆罗,以及在柴特罗罗他——于这一切湖畔,我与我的罗摩(Rāmā)相伴而欢喜。