
Manifestation of the Śrī Vāsudeva Hymn in the Glory of Guru-tīrtha (Cyavana Narrative within the Vena Episode)
毗阇瓦罗听闻鹦鹉长者昆阇罗的吉祥教诲后,昆阇罗宣说礼赞哈利的圣颂,以救度之名“婆苏提婆(Vāsudeva)”为核心,称其为通向解脱之门,并赐予安宁与福祉。 随后,毗阇瓦罗奉命前往苏婆呼王,真实陈述国王所犯的重罪。场景转至欢喜林(Ānandakānana):苏婆呼乘天车而来,车中尽是享乐之相,却奇异地缺乏饮食与清水,显示业报现前。围绕一具尸身所引发的残酷之举,双方发生对质,并引出对法义的劝诫与追问。 苏婆呼与其虔敬的王后对鸟仙生起惊叹与恭敬。毗阇瓦罗自报身份,并宣示圣颂之用法(stotra-viniyoga):那罗陀为圣见者(ṛṣi),阿努什图布为韵律(Anuṣṭubh),唵字(Oṃkāra)为本尊,咒语为“Oṃ namaḥ bhagavate vāsudevāya”。本章继而展开长篇赞颂,将普拉那瓦/唵的神学与归依婆苏提婆相融合,最终以此事归入维那因缘中对古鲁圣渡(Guru-tīrtha)的赞扬而作结。
Verse 1
सूत उवाच । एवमुक्ते शुभे वाक्ये विज्वलेन महात्मना । कुंजलो वदतां श्रेष्ठः स्तोत्रं पुण्यमुदैरयत्
苏多说道:当大心的毗阇瓦罗如此说出吉祥之语后,善言第一的昆阇罗便宣诵了那清净功德的赞歌。
Verse 2
ध्यात्वा नत्वा हृषीकेशं सर्वक्लेशविनाशनम् । सर्वश्रेयः प्रदातारं हरेः स्तोत्रमुदीरितम्
先观想并顶礼赫利湿计沙——摧灭一切苦恼、赐予诸般吉祥之主——于是宣说对哈利的赞颂之歌。
Verse 3
वासुदेवाभिधानं तत्सर्वश्रेयः प्रदायकम् । मोक्षद्वारं सुखोपेतं शांतिदं पुष्टिवर्द्धनम्
此名号“婆苏提婆”能赐予一切至上福善;它是通往解脱之门,具足安乐,施与寂静,并增长滋养与兴盛。
Verse 4
सर्वकामप्रदातारं ज्ञानदं ज्ञानवर्द्धनम् । वासुदेवस्य यत्स्तोत्रं विज्वलाय प्रकाशितम्
那首赞颂婆苏提婆(Vāsudeva)的圣赞,能成就一切所愿,赐予智慧并增长智慧,已向毗阇婆罗(Vijvalā)宣示显现。
Verse 5
वासुदेवाभिधानं चाप्रमेयं पुण्यवर्द्धनम् । सोऽवगम्य पितुः सर्वं विज्वलः पक्षिणांवरः
他得知婆苏提婆那不可测量、增长福德的圣名;而毗阇婆罗(Vijvala),诸鸟之最胜者,也从父亲处明了了一切。
Verse 6
तत्रगंतुंप्रचक्रामपितुःपृष्टंतदानृप । एवं गंतुं कृतमतिं विज्वलं ज्ञानपारगम्
大王啊,当时他在父亲询问之后,便启程前往那里。于是,那位光辉者既已决意出发,又已渡达智慧彼岸,便继续前行。
Verse 7
उवाच पुत्रं धर्मात्मा उपकारसमुद्यतम्
那位具正法之心者,对一心欲施援助的儿子开口说道。
Verse 8
कुंजल उवाच । पुत्र तस्य महज्जाने पातकं भूपतेः शृणु । यतो गत्वा पठ स्वत्वं सुबाहोश्चोपशृण्वतः
昆阇罗(Kuñjala)说道:“孩子,听我说那位国王的大罪,我已尽知其详。你前往那里,如实诵述其事,并让苏婆呼(Subāhu)也一同聆听。”
Verse 9
यथायथा श्रोष्यति स्तोत्रमुत्तमं तथा तथा ज्ञानमयो भविष्यति । श्रीवासुदेवस्य न संशयो वै तस्य प्रसादात्सुशिवं मयोक्तम्
此上妙赞颂,听闻愈多,真知愈益充满其心。于圣者室利·婆苏提婆实无疑虑;承其恩典,我已宣说最为吉祥之言。
Verse 10
आमंत्र्य स गुरुं पश्चादुड्डीय लघुविक्रमः । आनंदकाननं पुण्यं संप्राप्तो विज्वलस्तदा
向师尊辞别之后,步履轻捷的毗阇婆罗遂腾空而起,抵达名为阿难陀迦那那的圣林。
Verse 11
वृक्षच्छायां समाश्रित्य उपविष्टो मुदान्वितः । समालोक्य स राजानं विमानेनागतं पुनः
他依止树荫而坐,满怀欢喜。随即举目望去,见那国王又乘天界飞车(vimāna)再度来到。
Verse 12
एष्यत्यसौ कदा राजा सुबाहुः प्रियया सह । पातकान्मोचयिष्यामि स्तोत्रेणानेन वै कदा
那苏婆呼王何时将与其爱侣同来?我又何时能以此赞颂,确然解脱他诸罪?
Verse 13
तावद्विमानः संप्राप्तः किंकिणीजालमंडितः । घंटारवसमाकीर्णो वीणावेणुसमन्वितः
正当此时,一辆天界飞车到来,饰以叮当铃网;钟声回荡其间,并伴随维那琴与笛音齐奏。
Verse 14
गंधर्वस्वरसंघुष्टश्चाप्सरोभिः समन्वितः । सर्वकामसमृद्धस्तु अन्नोदकविवर्जितः
其中回荡着乾闼婆的乐音,并有阿普萨拉斯相随;诸般所愿之乐皆丰足,然而却无饮食与清水。
Verse 15
तस्मिन्याने स्थितो राजा सुबाहुः प्रियया सह । समुत्तीर्णो विमानात्स सुतार्क्ष्य प्रियया सह
苏婆胡王与其爱侣同坐于那乘具之中,继而自天界飞车(毗摩那)下降——并与苏塔尔克夏及其爱侣一同而下。
Verse 16
शस्त्रमादाय तीक्ष्णं तु यावत्कृंतति तच्छवम् । तावद्धि विज्वलेनापि समाह्वानं कृतं तदा
他执起锋利的兵刃,正当他切割那具尸身之时,持续多久——毗阇伐罗也就在那时发出了召唤,亦持续同样之久。
Verse 17
भो भोः पुरुषशार्दूल देवोपम भवानिदम् । करोति निर्घृणं कर्म नृशंसैर्न च शक्यते
嗟乎,嗟乎,人中之虎,神祇般的尊者!你所行之事太过无情;即便凶残之人也难以容忍。
Verse 18
कर्तुं पुरुषशार्दूल कोऽयं विधिविपर्ययः । दुष्कृतं साहसं कर्म निंद्यं लोकेषु सर्वदा
人中之虎啊,你将要犯下何等违逆正法之举?如此鲁莽之业乃为恶行,世间恒常所讥所责。
Verse 19
वेदाचारविहीनं तु कस्मात्प्रारब्धवानि ह । तन्मे त्वं कारणं सर्वं कथयस्व यथा तथा
你既不具备吠陀所规定的行持,为何还要开始此事?请你将这一切的缘由,依其真实如是,完整告诉我。
Verse 20
इत्येवं भाषितं तस्य विज्वलस्य महात्मनः । समाकर्ण्य महाराजः स्वप्रियां वाक्यमब्रवीत्
大王听罢大德毗阇瓦罗(Vijvala)所说之语,便对自己心爱的女子说道如下。
Verse 21
प्रिये वर्षशतं भुक्तं मयेदं पापकर्मणा । कदा न भाषितं केन यथायं परिभाषते
爱人啊,我因自己罪业而忍受此苦已满百年;从未有人像此人如今这般对我说话。
Verse 22
ममैवं पीड्यमानस्य क्षुधया हृदयं प्रिये । निर्गतं चोत्सुकं कांते शांतिश्चित्ते प्रवर्तते
亲爱的,当我被饥饿如此折磨时,我的心躁动不安,仿佛要离身而去;在心识之中,竟生不起一丝安宁。
Verse 23
यावदस्य श्रुतं वाक्यं सर्वदुःखस्य शांतिदम् । तावच्चित्ते समाह्लादो वर्तते चारुहासिनि
只要听闻他那能息灭一切忧苦之语,心中便长久涌起深深的欢喜,啊,笑容柔美者。
Verse 24
कोयं देवो नु गंधर्वः सहस्राक्षो भविष्यति । मुनीनां स्याद्वचः सत्यं यदुक्तं मुनिना पुरा
此人究竟是谁——是天神还是乾闼婆——将成为“千眼者”?愿诸牟尼之言真实不虚,正如古时圣者所宣说。
Verse 25
एवमाभाषितं श्रुत्वा प्रियस्यानंतरं प्रिया । राजानं प्रत्युवाचाथ भार्या पतिपरायणा
听到爱侣如此言说,那位贞顺的王后——一心归依夫君——便随即答复国王。
Verse 26
सत्यमुक्तं त्वया नाथ इदमाश्चर्यमुत्तमम् । यथा ते वर्तते कांत मम चित्ते तथा पुनः
主啊,你所说确是真实;此乃至妙的奇迹。亲爱的,正如你心中所感,我心亦复如是。
Verse 27
पक्षिरूपधरः कोऽयं पृच्छते हितकारिवत् । एवमाभाषितं श्रुत्वा प्रियायाः पृथिवीपतिः
“此人是谁,化作鸟形,却如同善意之友般发问?”听到爱妃如此说道,大地之主、国王便……
Verse 28
बद्धांजलिपुटोभूत्वा पक्षिणं वाक्यमब्रवीत् । सुबाहुरुवाच । स्वागतं ते महाप्राज्ञ पक्षिरूपधरः प्रभो
他合掌致敬,对那只鸟说道。苏婆呼言:“大智者啊,欢迎你——化作鸟形的主啊!”
Verse 29
शिरसा भार्यया सार्द्धं तव पादांबुजद्वयम् । नमस्करोम्यहं पुण्यमस्तु नस्त्वत्प्रसादतः
我与妻子一同俯首于你那双莲华之足前,恭敬顶礼。愿凭你的恩典,使我们获得吉祥功德。
Verse 30
भवान्कः पक्षिरूपेण पुण्यमेवं प्रभाषते । यादृशं क्रियतेकर्म पूर्वदेहेन सत्तम
“你是谁,竟以鸟身说出如此清净善语?噢,诸善中最胜者,你在前世之身曾作何等业行?”
Verse 31
सुकृतं दुष्कृतं वापि तदिहैव प्रभुज्यते । अथ तेनात्मकं वृत्तं तस्याग्रे च निवेदितम्
无论善业或恶业,皆在此世亲自受报。随后,由彼业所成的命运轨迹,也将呈现在他面前。
Verse 32
यथोक्तं कुंजलेनापि पित्रा पूर्वं श्रुतं तथा । कथयस्वात्मवृत्तांतं भवान्को मां प्रभाषते
正如先前所说——也如我父亲昔日从昆阇罗处所闻——请你讲述自身经历:你是谁,竟对我如此言说?
Verse 33
सुबाहुं प्रत्युवाचेदं वाक्यं पक्षिवरस्तदा । विज्वल उवाच । शुकजात्यां समुत्पन्नः कुंजलोनाम मे पिता
于是那殊胜之鸟对苏婆呼说道。毗阇伐罗说:“我生于鹦鹉之族,我的父亲名为昆阇罗。”
Verse 34
तस्याहं विज्वलो नाम तृतीयस्तु सुतेष्वहम् । नाहं देवो न गंधर्वो न च सिद्धो महाभुज
在他的诸子之中,我排行第三,名为毗阇婆罗(Vijvala)。我既非天神(deva),亦非乾闼婆(Gandharva),甚至也非成就者(Siddha),噢,臂力无双者。
Verse 35
नित्यमेव प्रपश्यामि कर्म चैवं सुदारुणम् । कियत्कालं महत्कर्म साहसाकारसंयुतम्
我恒常目睹此业行——何其惨烈可怖。如此重大之举,夹杂鲁莽与狂勇,还要延续到几时?
Verse 36
करिष्यसि महाराज तन्मे कथय सांप्रतम् । सुबाहुरुवाच । वासुदेवाभिधानं यत्पूर्वमुक्तं हि ब्राह्मणैः
“大王啊,请你此刻告诉我,你将作何举措?”苏婆呼(Sūbāhu)说道:“‘婆苏提婆(Vāsudeva)’这一称号,确已先前由婆罗门(brāhmaṇa)们宣说。”
Verse 37
श्रोष्याम्यहं यदा भद्र गतिं स्वां प्राप्नुयां तदा । पुण्यात्मना भाषितं वै मुनिना संयतात्मना
贤善之人啊,待我抵达自身所当归之境时,我必将亲闻那位福德具足、克己自持的牟尼所说之言。
Verse 38
तदाहं पातकान्मुक्तो भविष्यामि न संशयः । विज्वल उवाच । तवार्थे पृच्छितस्तातस्तेन मे कथितं च यत्
“如此,我将从罪垢中解脱——毫无疑虑。”毗阇婆罗(Vijvala)说道:“为你之故,亲爱的孩子,我父亲曾被问及此事,他也将所言告知于我。”
Verse 39
तत्तेद्याहं प्रवक्ष्यामि शाश्वतं शृणु सत्तम
因此我现在要向你宣说这永恒的教诲;请聆听吧,哦诸善中最胜者。
Verse 40
ओंअस्य श्रीवासुदेवाभिधानस्य स्तोत्रस्य नारदऋषिरनुष्टुप्छंदः । ओंकारोदेवता सर्वपातकनाशनार्थे चतुर्वर्गसाधनार्थे च जपे विनियोगः । ओंनमो भगवते वासुदेवाय इति मंत्रः । पावनं परमं पुण्यं वेदज्ञं वेदमंदिरम् । विद्याधारं भवाधारं प्रणवं वै नमाम्यहम्
此名为“圣·婆苏提婆”(Śrī Vāsudeva)赞的颂歌,其见者为那罗陀(Nārada)仙人,韵律为阿努什图布(Anuṣṭubh)。其所奉之神为唵迦罗(Oṃkāra);诵持此赞,旨在摧灭一切罪业,并成就人生四大目标。其真言为:“唵,礼敬世尊婆苏提婆。”我顶礼般若那瓦(Praṇava,唵)——净化者、至上功德者;通达吠陀者、亦为吠陀之圣殿;为智慧之依止,亦为世间生存之依止。
Verse 41
निरावासं निराकारं सुप्रकाशं महोदयम् । निर्गुणं गुणसंबद्धं नमामि प्रणवं परम्
我顶礼至上的般若那瓦(Praṇava,唵):无所住处、无有形相,自性光明,成就大升举之源;超越诸古那(guṇa),而又与古那相应并由之显现。
Verse 42
महाकांतं महोत्साहं महामोहविनाशनम् । आचिन्वंतं जगत्सर्वं गुणातीतं नमाम्यहम्
我顶礼那至爱者、具大勇进者,能摧破广大迷妄;遍入并摄持整个宇宙,超越三种古那(guṇa)者。
Verse 43
भाति सर्वत्र यो भूत्वा भूतानां भूतिवर्द्धनः । अभयं भिक्षुसंबद्धं नमामि प्रणवं शिवम्
我顶礼湿婆(Śiva)、神圣的般若那瓦(Oṁ):遍在而于一切处放光;增长众生福祉;并且本身即是无畏,与出家行乞者之道相应。
Verse 44
गायत्रीसाम गायंतं गीतं गीतप्रियं शुभम् । गंधर्वगीतभोक्तारं प्रणवं प्रणमाम्यहम्
我顶礼神圣的普罗那瓦(唵):吉祥而爱乐歌咏;以伽耶特丽与娑曼之声被吟唱,并享受乾闼婆的天乐之歌。
Verse 45
विचारं वेदरूपं तं यज्ञस्थं भक्तवत्सलम् । योनिं सर्वस्य लोकस्य ओंकारं प्रणमाम्यहम्
我顶礼唵迦罗:神圣辨识之理,化现为吠陀;安住于祭祀(yajña)之中;怜爱信众;并为一切世界之胎藏与本源。
Verse 46
तारकं सर्वभूतानां नौरूपेण विराजितम् । संसारार्णवमग्नानां नमामि प्रणवं हरिम्
我顶礼哈利——普罗那瓦(唵),一切众生的救度者;他以舟之形辉耀,为沉没于轮回大海者作渡船。
Verse 47
सर्वलोकेषु वसते एकरूपेण नैकधा । धामकैवल्यरूपेण नमामि प्रणवं शिवम्
他住于一切世界:体性唯一,非多。以至上圣境与解脱绝对之形,我顶礼普罗那瓦,顶礼湿婆。
Verse 48
सूक्ष्मं सूक्ष्मतरं शुद्धं निर्गुणं गुणनायकम् । वर्जितं प्राकृतैर्भावैर्वेदस्थानं नमाम्यहम्
我顶礼那真实:微细而更微细,清净;超越诸性(guṇa)却为诸性之主;不染物质诸态,且为吠陀之所依与圣住处。
Verse 49
देवदैत्यवियोगैश्च वर्जितं तुष्टिभिः सदा । दैवैश्च योगिभिर्ध्येयं तमोंकारं नमाम्यहम्
我顶礼彼之唵(Oṃkāra):恒与澄然满足相伴,不为天神与阿修罗的离合争斗所触,亦为诸神与瑜伽行者所当观想。
Verse 50
व्यापकं विश्ववेत्तारं विज्ञानं परमं शुभम् । शिवं शिवगुणं शांतं वंदे प्रणवमीश्वरम्
我礼敬那以唵为身之主:遍一切处,知晓宇宙,至上觉知,极其吉祥;为善的湿婆(Śiva),具湿婆之德,寂静安然。
Verse 51
यस्य मायां प्रविष्टास्तु ब्रह्माद्याश्च सुरासुराः । न विंदंति परं शुद्धं मोक्षद्वारं नमाम्यहम्
我顶礼彼者:其摩耶(māyā)连梵天(Brahmā)及诸天与群魔皆已入其中;他们亦不得见那至极清净的真实——解脱(mokṣa)之门。
Verse 52
आनंदकंदाय विशुद्धबुद्धये शुद्धाय हंसाय परावराय । नमोऽस्तु तस्मै गणनायकाय श्रीवासुदेवाय महाप्रभाय
敬礼彼圣者室利·婆苏提婆(Śrī Vāsudeva)大主:为喜乐之根,具至净慧;为无垢至上之天鹅(Haṃsa),超越上与下;亦为众部之领袖。
Verse 53
श्रीपांचजन्येन विराजमानं रविप्रभेणापि सुदर्शनेन । गदाब्जकेनापि विराजमानं प्रभुं सदैनं शरणं प्रपद्ये
我归依那恒常光耀之主:以吉祥的螺贝般阇阇尼(Pāñcajanya)为饰,以如日炽燃的苏达尔沙那(Sudarśana)为辉,亦以神杵与莲华而灿然。
Verse 54
यं वेदगुह्यं सगुणं गुणानामाधारभूतं सचराचरस्य । यं सूर्यवैश्वानरतुल्यतेजसं तं वासुदेवं शरणं प्रपद्ये
我皈依婆苏提婆(Vāsudeva)——他是吠陀所秘藏的奥义;虽超越一切,却以诸德相而被称说;他是诸“德”(guṇa)之所依,也是动与不动宇宙的根基;其光辉与太阳及毗湿婆那罗(Vaiśvānara,宇宙之火)同等炽盛。
Verse 55
क्षुधानिधानं विमलं सुरूपमानंदमानेन विराजमानम् । यं प्राप्य जीवंति सुरादिलोकास्तं वासुदेवं शरणं प्रपद्ये
我皈依婆苏提婆——他是饥者的宝藏与依怙;清净无垢、相好庄严;以喜乐之量而辉耀。得见得至于他,诸界自天神之界起,方得真实的生命。
Verse 56
तमोघनानां स्वकरैर्विनाशं करोति नित्यं परिकर्महेतुः । उद्द्योतमानं रविदीप्ततेजसं तं वासुदेवं शरणं प्रपद्ये
我皈依那位婆苏提婆——以自手恒常摧灭浓密黑暗,成为一切正法与秩序之因;他光明炽盛,其威光如日般照耀。
Verse 57
यो भाति सर्वत्र रविप्रभावैः करोति शोषं च रसं ददाति । यः प्राणिनामंतरगः स वायुस्तं वासुदेवं शरणं प्रपद्ये
我皈依婆苏提婆——他以日之威力遍照十方;既令万物干燥蒸散,又赐予湿润与汁液;他又在众生之内运行,作为生命之风、普拉那(prāṇa)之气。
Verse 58
स्वेच्छानुरूपेण स देवदेवो बिभर्ति लोकान्सकलान्महीपान् । संतारणे नौरिव वर्तते यस्तं वासुदेवं शरणं प्रपद्ये
我皈依婆苏提婆——诸天之天(神中之神),随其自在之意承持一切世界与大地诸王;他如渡船,使众生得以越过轮回世海。
Verse 59
अंतर्गतो लोकमयः सदैव पचत्यसौ स्थावरजंगमानाम् । स्वाहामुखो देवगणस्य हेतुस्तं वासुदेवं शरणं प्रपद्ये
祂恒住于内,遍满诸世界,常常“烹炼”(使之成熟并转化)一切众生——无动与有动者皆然。祂为诸天众之因,亦以供献呼声“svāhā”而被召请。我归依彼婆苏提婆(Vāsudeva)。
Verse 60
रसैः सुपुण्यैः सकलैः सहैव पुष्णाति सौम्यो गुणदश्च लोके । अन्नानि योनिर्मल तेजसैव तं वासुदेवं शरणं प्रपद्ये
与一切至福至善的诸味(rasa)同在,温和者滋养世间及其十种德性。祂即诸食之源,具无垢光明;我归依彼婆苏提婆(Vāsudeva)。
Verse 61
अस्त्येव सर्वत्र विनाशहेतुः सर्वाश्रयः सर्वमयः स सर्वः । विना हृषीकैर्विषयान्प्रभुंक्ते तं वासुदेवं शरणं प्रपद्ये
诚然,祂无处不在:为毁灭之因,为众生所依,遍一切而成一切者,即“全体”。不凭诸根,祂亦能受用诸境。我归依彼婆苏提婆(Vāsudeva)。
Verse 62
जीवस्वरूपेण बिभर्ति लोकांस्ततः स्वमूर्तान्सचराचरांश्च । निष्केवलो ज्ञानमयः सुशुद्धस्तं वासुदेवं शरणं प्रपद्ये
以个体灵魂之相,祂承持诸世界;同样也承持祂自身所显现的诸形相——动与不动皆然。离系、纯净、唯由智慧所成;我归依彼婆苏提婆(Vāsudeva)。
Verse 63
दैत्यांतकं दुःखविनाशमूलं शांतं परं शक्तिमयं विशालम् । यं प्राप्य देवा विनयं प्रयांति तं वासुदेवं शरणं प्रपद्ये
我归依婆苏提婆(Vāsudeva):诛灭阿修罗族(daitya)者,摧破忧苦之根本;寂静、至上、充满神圣威力而广大无边。得见祂者,连诸天亦归于谦恭。
Verse 64
सुखं सुखांतं सुखदं सुरेशं ज्ञानार्णवं तं मुनिपं सुरेशम् । सत्याश्रयं सत्यगुणोपविष्टं तं वासुदेवं शरणं प्रपद्ये
我皈依彼婆苏提婆(Vāsudeva)——他是安乐、安乐之极、赐安乐者;诸天之主;智慧之海;牟尼之王;真理之所依,安住于真理之德。
Verse 65
यज्ञांगरूपं परमार्थरूपं मायान्वितं मापतिमुग्रपुण्यम् । विज्ञानमेकं जगतां निवासं तं वासुदेवं शरणं प्रपद्ये
我皈依婆苏提婆——其形即祭祀(yajña)之身,其性为至上真义;虽与幻力(māyā)相应,仍为主宰与护佑者,至为清净;他是一体之觉知/智识,亦是一切世界之所居。
Verse 66
अंभोधिमध्ये शयनं हितस्य नागांगभोगे शयनं विशाले । श्रीपादपद्मद्वयमेव तस्य तद्वासुदेवस्य नमामि नित्यम्
我恒常礼敬彼婆苏提婆——他安卧于大海之中,偃息在巨蛇宽广的盘绕之上;我唯独顶礼他那一双莲华之足。
Verse 67
पुण्यान्वितं शंकरमेव नित्यं तीर्थैरनेकैः परिसेव्यमानम् । तत्पादपद्मद्वयमेव तस्य श्रीवासुदेवस्य अघापहं तत्
吉祥而常住者为商羯罗(Śaṅkara),受无数圣地(tīrtha)所奉事;然而,唯有那光辉婆苏提婆的一双莲足,才真正能除灭罪垢。
Verse 68
पादांबुजं रक्तमहोत्पलाभमंभोजसल्लिंगजयोपयुक्तम् । अलंकृतं नूपुरमुद्रिकाभिः श्रीवासुदेवस्य नमामि नित्यम्
我恒常顶礼圣者婆苏提婆(Śrī Vāsudeva)的莲华之足——宛如赤红大莲,具足莲、螺与胜幢等吉祥印相,并以足铃与趾环庄严。
Verse 69
देवैः सुसिद्धैर्मुनिभिः सदैव नुतं सुभक्त्या उरगाधिपैश्च । तत्पादपंकेरुहमेवपुण्यं श्रीवासुदेवस्य नमामि नित्यम्
我恒常顶礼圣瓦苏提婆(Śrī Vāsudeva);祂至圣的莲花足,常为诸天、成就者、牟尼圣贤,乃至龙蛇之王以虔敬的奉爱(bhakti)不断赞颂。
Verse 70
यस्यापि पादांभसि मज्जमानाः पूता दिवं यांति विकल्मषास्ते । मोक्षं लभंते मुनयः सुतुष्टास्तं वासुदेवं शरणं प्रपद्ये
凡沉入祂足下之水者,皆得净化,离垢无罪而升天;心满意足的牟尼圣贤亦得解脱(mokṣa)。我归依那位瓦苏提婆。
Verse 71
पादोदकं तिष्ठति यत्र विष्णोर्गंगादितीर्थानि सदैव तत्र । पिबंति येद्यापि सपापदेहास्ते यांति शुद्धाः सुगृहं मुरारेः
凡有洗涤毗湿奴(Viṣṇu)足的足水所在之处,恒常亦有恒河(Gaṅgā)及一切圣地渡口(tīrtha)同在。即便罪业沉重之身,若饮此水,亦得清净,往生至穆拉里(Murāri,毗湿奴)吉祥的居所。
Verse 72
पादोदकेनाप्यभिषिच्यमाना उग्रैश्च पापैः परिलिप्तदेहाः । ते यांति मुक्तिं परमेश्वरस्य तस्यैव पादौ सततं नमामि
即便身染可怖罪垢之人,若仅被主之足水洒润,也能获得至上主的解脱。对那双圣足,我恒常顶礼,一再顶礼。
Verse 73
नैवेद्यमात्रेण सुभक्षितेन सुचक्रिणस्तस्य महात्मनस्तु । श्रीवाजपेयस्य फलं लभंते सर्वार्थयुक्ताश्च नरा भवंति
仅以精心烹制的食物作供(naivedya)奉献给那位大魂、执妙轮(cakra)之主,人们便得享殊胜的瓦阇佩耶(Vājapeya)祭祀之果报,并圆满一切所求成就。
Verse 74
नारायणं तं नरकाधिनाशनं मायाविहीनं सकलं गुणज्ञम् । यं ध्यायमानाः सुगतिं प्रयांति तं वासुदेवं शरणं प्रपद्ये
我皈依那位婆苏提婆——那罗延:摧毁地狱权势,远离幻力(māyā),圆满具足,洞悉一切德行;众生观想于彼,便得善道与福归。
Verse 75
यो वंद्यस्त्वृषिसिद्धचारणगणैर्देवैः सदा पूज्यते । यो विश्वस्य विसृष्टिहेतुकरणे ब्रह्मादिदेवप्रभुः । यः संसारमहार्णवे निपतितस्योद्धारको वत्सल । स्तस्यैवापि नमाम्यहं सुचरणौ भक्त्या वरौ पावनौ
我以虔敬顶礼于彼之清净妙足:常为诸仙(ṛṣi)、成就者(siddha)、天歌者(cāraṇa)及诸天众所礼敬;在显现宇宙之业中,亦为梵天等诸神之上主;且慈悲怜爱,救拔堕入生死大海(saṃsāra)者。
Verse 76
यो दृष्टो मखमंडपे सुरगणैः श्रीवामनः सामगः । सामोद्गीतकुतूहलः सुरगणैस्त्रैलोक्य एकः प्रभुः । कुर्वंतं नयनेक्षणैः शुभकरैर्निष्पापतां तद्बले । स्तस्याहं चरणारविंदयुगलं वंदे परं पावनम्
我礼敬至为清净的莲华双足——圣伐摩那(Śrī Vāmana),三界唯一之主:诸天众于祭坛之殿得见其身,彼为《娑摩》(Sāman)圣歌之诵唱者;以其娑摩妙唱令诸天欢悦惊叹;又以吉祥目光,凭其威力赐予无罪清净。
Verse 77
राजंतं द्विजमंडले मखमुखे ब्रह्मश्रियाशोभितं । दिव्येनापि सुतेजसा करमयं यं चेंद्रनीलोपमम् । देवानां हितकाम्यया सुतनुजं वैरोचनस्यापि तं । याचंतं मम दीयतां त्रिपदकं वंदे प्रभुं वामनम्
我礼敬主伐摩那:于祭祀之前、婆罗门众会中灿然辉耀,具梵天之光彩;其身由神圣殊胜之光凝成,宛如青宝(indranīla);虽为毗卢遮那(Virocana,巴利)之俊美之子,却为诸天求其利益;并乞求道:“愿赐我三步之地。”
Verse 78
तं द्रष्टुं रविमंडले मुनिगणैः संप्राप्तवंतं दिवं । चंद्रार्कास्तमयांतरे किल पदा संच्छादयंतं तदा । तस्यैवापि सुचक्रिणः सुरगणाः प्रापुर्लयं सांप्रतं । का ये विश्वविकोशकेतमतुलं नौमि प्रभोर्विक्रमम्
为得瞻仰彼身,众牟尼群至日轮之中而登天界。及月日将没之际,彼之双足似乎遮覆一切。即便诸天众,在持吉祥神轮之主前,如今亦趋向坏灭。主之无比神步,乃展开全宇宙之旌旗,我又岂能称赞得尽?
Verse 98
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रेऽष्टनवतितमोऽध्यायः
至此,《圣莲华往世书》大地品中“维那传说”之“导师圣渡(Guru-tīrtha)功德赞”里,叙述“恰瓦那(Cyavana)事迹”的第九十八章圆满结束。