
Karmic Causality, Fate, and the Supremacy of Food-Charity (within Guru-tīrtha Glorification)
第94章开示:唯有业(karma)支配有身众生的经历;人如何造作,其果报必然成熟,决定出生、寿命、财富、学识,以及苦乐的起伏。经文以工艺譬喻——金属入火、黄金入模、陶工之泥——并以不可避免之象——影随形、犊自寻母——强调往昔之业非凭力气或聪慧所能抹除。 随后转入实践之法(dharma)的叙事:在朱罗(Cōḻa)国,毗湿奴信徒苏婆呼王(Subāhu)受祭司耆弥尼(Jaimini)教诲,明白布施(dāna)之艰难与崇高。终以“施食”(anna-dāna)为诸施之最,能利益此世与彼世;并收束于更大的“师圣渡口”(Guru-tīrtha)赞颂及维那(Vena)与恰瓦那(Cyavana)故事脉络之中。
Verse 1
कुंजल उवाच । श्रूयतामभिधास्यामि तत्सर्वं कारणं सुत । यस्मात्तौ तादृशौ जातौ स्वमांसपरिभक्षकौ
孔阇罗说道:“听着,孩子——我将为你宣说全部因由;正因如此,那二人竟生于那般境地,成了啖食自身血肉者。”
Verse 2
सर्वत्र कारणं कर्म शुभाशुभं न संशयः । पुण्येन कर्मणा पुत्र नरः सौख्यं प्रभुंजति
凡事皆以业(karma)为因,无论吉业或凶业,毫无疑惑。凭借福德之行,孩子,人便得享安乐。
Verse 3
दुष्कृतं भुंजते चात्र पापयुक्तेन कर्मणा । सूक्ष्मवर्त्मविचार्यैवं शास्त्रज्ञानेन चक्षुषा
在此世间,众生以染罪之行受报,品尝恶业之果;故当以经论之智为眼,审察业道之幽微。
Verse 4
स्थूलधर्मं प्रदृष्ट्वैव सुविचार्य पुनः पुनः । समारभेन्नरः कर्म मनसा निपुणेन च
先观明白粗显之外在法度,复又反复思惟;然后人当以善巧明辨之心而起行。
Verse 5
समूर्तिकारकः शिल्पी रसमावर्त्तयेद्यथा । अग्नेश्च तेजसा पुत्र ज्वालाभिश्च समंततः
譬如塑匠造像,翻搅锻炼熔融之金属;同样地,孩子,凭借火的光辉与四面腾起的焰舌,万物得以炽热而成形。
Verse 6
द्रवीभूतो भवेद्धातुर्वह्निना तापितः शनैः । यादृशं वत्स भक्ष्यंतु रसपक्वं निषेच्यते
金属被火慢慢加热,便会熔化。亲爱的孩子,同样地,食物若已充分烹炼、化为精华,便适合食用并为身心所摄受。
Verse 7
तादृशं जायते वत्स रूपं चैव न संशयः । यादृशं क्रियते कर्म तादृशं परिभुज्यते
亲爱的孩子,确实会生起相应的形态,此中毫无疑惑。行为如何造作,果报便如何受用。
Verse 8
कर्म एव प्रधानं यद्वर्षारूपेण वर्त्तते । क्षेत्रेषु यादृशं बीजं वपते कृषिकारकः
唯有业(karma)为最要,运作而显为诸果报(如雨降下)。在田地里,农夫播下何种种子,便会结成何种结果。
Verse 9
तादृशं भुंजते तात फलमेव न संशयः । यादृशं क्रियते कर्म तादृशं परिभुज्यते
亲爱的孩子,必定受得那样的果报,毫无疑惑。行为如何造作,便如何承受其后果。
Verse 10
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् । कर्म दायादका लोके कर्म संबंधिबांधवाः
业(karma)是毁败之因;我们众生皆受业力所制。在此世间,业是我们的遗产,业本身亦是亲缘与眷属之系缚。
Verse 11
कर्माणि चोदयंतीह पुरुषं सुखदुःखयोः । सुवर्णं रजतं वापि यथारूपं निषिच्यते
在此世间,众生之业推动人趋向乐与苦;正如金或银注入模具,便随其模而成相应之形。
Verse 12
तथा निषिच्यते जंतुः पूर्वकर्मवशानुगः । पंचैतानीह दृश्यंते गर्भस्थस्यैव देहिनः
如是,具身之众生受孕成形,受前业之势所驱而随行;在此,居于胎中的灵魂可见五种这样的情状。
Verse 13
आयुः कर्म च वित्तं च विद्यानि धनमेव च । यथा मृत्पिंडकं कर्त्ता कुरुते यद्यदिच्छति
寿命、所作之业、财富、学识与资具:如陶工随意塑造一团泥土,造物主亦随其意愿而安排塑成。
Verse 14
तथा कर्मकृतं चैव कर्त्तारं प्रतिपद्यते । देवत्वमथ मानुष्यं पशुत्वं पक्षितां तथा
同样,所作之业必然归于其作者,招致天界之身、或人身、或畜生之性,亦复有鸟类之境。
Verse 15
तिर्यक्त्वं स्थावरत्वं वा याति जंतुः स्वकर्मभिः । स एव तु तथा भुंक्ते नित्यं विहितमात्मनः
众生由自身之业,或堕畜生之生,乃至堕为不动之类;而同一众生亦必定依其应得之次第,受用那为自身所判定之果报。
Verse 16
आत्मना विहितं दुःखमात्मना विहितं सुखम् । गर्भशय्यामुपादाय भुंजते पूर्वदेहिकम्
忧苦由自身所造,安乐亦由自身所造。以母胎为床,众生受用从前身(前世)所携之业果。
Verse 17
पूर्वदेहकृतं कर्म न कश्चित्पुरुषोत्तमः । बलेन प्रज्ञया वापि समर्थः कर्तुमन्यथा
噫,至上人格(Puruṣottama)啊,前身所作之业,无人能令其异熟改易;无论凭力,抑或凭智,皆不能。
Verse 18
स्वकृतान्येव भुंजंति दुःखानि च सुखानि च । हेतुतः कारणैर्वापि सोहं कारेण बाध्यते
众生唯受自作之报,苦与乐皆然。或由动机,或由诸缘,我亦为业力之势所拘。
Verse 19
यथा धेनुसहस्रेषु वत्सो विंदति मातरम् । तद्वच्छुभाशुभं कर्म कर्तारमनुगच्छति
如同小牛在千百母牛中仍能寻得其母,善业与恶业亦必定追随其作者,终至其身。
Verse 20
उपभोगादृते यस्य नाश एव न विद्यते । प्राक्तनं बंधनं कर्म कोन्यथाकर्तुमर्हति
若不亲受便不得灭尽之业果,谁还能使往昔系缚之业改成他样?
Verse 21
सुशीघ्रमनुधावंतं विधानमनुधावति । शोभते संनिपातेन यथाकर्म पुराकृतम्
命运的法则迅疾追随奔走之人;当二者相逢时,便依照往昔所作之业而如实显现。
Verse 22
उपतिष्ठति तिष्ठंतं गच्छं तमनुगच्छति । करोति कुर्वतः कर्मच्छायेवानु विधीयते
它伴随站立者,追随行走者,并随行事者而行事;如影随形,必然被人的业行牵引而后至。
Verse 23
यथा छायातपौ नित्यं सुसंबद्धौ परस्परम् । उपसर्गा हि विषया उपसर्गा जरादयः
正如阴影与日光恒常相系,世间诸境亦与诸苦不相离;诸苦如老等种种。
Verse 24
पीडयंति नरं पश्चात्पीडितं पूर्वकर्मणा । येन यत्रोपभोक्तव्यं दुःखं वा सुखमेव च
随后,它们折磨那人——本已为前业所重——使他无论以何方式、在何处,都必须受报:或苦,或乐。
Verse 25
स तत्र बद्ध्वा रज्ज्वेव बलाद्दैवेन नीयते । दैवं प्राहुश्च भूतानां सुखदुःखोपपादनम्
他在那里如同被绳索缚住一般,被命运强力牵引而去;所谓“命运”,即令众生得乐受苦之因。
Verse 26
अन्यथा कर्मतच्चिंत्यं जाग्रतः स्वपतोपि वा । अन्यथा ह्युद्यते दैवं बध्यते च जिघांसति
若人以颠倒之心思惟其业——无论醒时或梦中——则天命(daiva)便以异相兴起:缚其身,求其毁灭。
Verse 27
शस्त्राग्निविषदुर्गेभ्यो रक्षितव्यं सुरक्षति । यथा पृथिव्यां बीजानि वृक्षगुल्मतृणान्यपि
当谨慎自护,远离兵刃、烈火、毒害与险境;警觉之慎,实能护持。正如大地之中,种子潜藏,终成树木、灌丛与诸草。
Verse 28
तथैवात्मनि कर्माणि तिष्ठंति प्रभवंति च । तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति
亦复如是,诸业在自性之中安住,亦复生起;如灯因油尽而至寂灭,光焰遂息。
Verse 29
कर्मक्षयात्तथा जंतोः शरीरं नाशमृच्छति । कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतम्
众生之业既尽,其身便趋于坏灭;同样,诸真知者宣说:死亡亦由业尽而起。
Verse 30
विविधाः प्राणिनां रोगाः स्मृतास्तेषां च हेतवः । तस्मात्तत्त्वप्रधानस्तु कर्म एव हि प्राणिनाम्
众生所受诸般疾病甚多,其因亦皆有说。是故对一切有情而言,业(karma)实为主宰之理,乃真实的首要决定者。
Verse 31
यत्पुरा क्रियते कर्म तदिहैव प्रभुज्यते । यत्त्वया दृष्टमेवापि पृच्छितं तात सांप्रतम्
先前所作之业,确在此生此处受报。你亲眼所见之事,如今却来问我,孩子啊。
Verse 32
तस्यार्थं तु मया प्रोक्तं भुंजाते तौ हि सांप्रतम् । आनंदे कानने दृष्टं तयोः कर्मसुदारुणम्
其义我已如实宣说。那二人如今正在受其果报。在Ānanda之林中,他们极其惨烈可怖的业行已被显现。
Verse 33
तयोश्चेष्टां प्रवक्ष्यामि शृणु वत्स प्रभाषतः । कर्मभूमिरियं तात अन्या भोगार्थभूमयः
我将宣说他们各自的行止与生活方式;孩子啊,且听我言。此世为业之地(karma-bhūmi),他界则为受用之地(bhoga)。
Verse 34
सर्गादीनां महाप्राज्ञ तासु गत्वा सुभुंजति । सूत उवाच । चौलदेशे महाप्राज्ञः सुबाहुर्नाम भूमिपः
大智者啊,往彼等境界——自创生等而起——便能在彼处善享其乐。苏多曰:在Cōḻa之国,有一位大智之王,名为Subāhu。
Verse 35
रूपवान्गुणवान्धीरः पृथिव्यां नास्ति तादृशः । विष्णुभक्तो महाप्राज्ञो वैष्णवानां च सुप्रियः
其貌端严,德行具足,心志坚定;大地之上无与伦比。他是毗湿奴的虔信者,大智之人,亦为诸毗湿奴派信众所敬爱。
Verse 36
कर्मणा त्रिविधेनापि प्रध्यायन्मधुसूदनम् । अश्वमेधादिकान्यज्ञान्यजेत सकलान्नृप
大王啊,若以三种行持之道观想蜜杀者摩杜苏达那(毗湿奴),便能圆满获得一切祭祀之功德,自马祭(阿湿婆美陀)等始。
Verse 37
पुरोधास्तस्य चैवास्ति जैमिनिर्नाम ब्राह्मणः । स चाहूय सुबाहुं तमिदं वचनमब्रवीत्
他亦有一位家祭司,是名为阇弥尼的婆罗门。召来苏婆呼后,他说了如下言辞。
Verse 38
राजन्देहि सुदानानि यैः सुखं तु प्रभुंज्यत । दानैस्तु तरते लोकान्दुर्गान्प्रेत्य गतो नरः
大王啊,当施胜妙之布施,由此方能真实享受安乐;因为凭借施舍,世人离此身后,得以渡越幽险艰难的后世诸界。
Verse 39
दानेन सुखमाप्नोति यशः प्राप्नोति शाश्वतम् । दानेन चातुला कीर्तिर्जायते मृत्युमंडले
以布施得安乐,亦得恒常之名声;又因布施,在此死亡之世生起无量的声誉。
Verse 40
यावत्कीर्तिः स्थिता चात्र तावत्कर्ता दिवं वसेत् । तद्दानं दुष्करं प्राहुर्दातुं नैव प्रशक्यते
只要他的名声在此世间长存,施主便在天界安住同样久远。此等布施,人们说极其难行——实难圆满尽施。
Verse 41
तस्मात्सर्वप्रयत्नेन दातव्यं मानवैः सदा । सुबाहुरुवाच । दानाच्च तपसो वापि द्वयोर्मध्ये सुदुष्करम्
因此,人们应当竭尽全力,恒常行布施。苏巴胡说:在布施与苦行之间,最为艰难的乃是真正的布施。
Verse 42
किं वा महत्फलं प्रेत्य तन्मे ब्रूहि द्विजोत्तम । जैमिनिरुवाच । दानान्न दुष्करतरं पृथिव्यामस्ति किंचन
“噢,最胜的二次生者,请告诉我:死后何者得最大果报?”阇弥尼说:“在世间,没有比布施更艰难之事。”
Verse 43
राजन्प्रत्यक्षमेवैकं दृश्यते लोकसाक्षिकम् । परित्यज्य प्रियान्प्राणान्धनार्थं लोभमोहिताः
大王啊,有一事唯独可亲见,举世为证:被贪欲迷惑的人,为了财物,竟舍弃自己所珍爱的生命。
Verse 44
प्रविशंति नरा लोके समुद्रमटवीं तथा । सेवामन्ये प्रपद्यंतेऽश्ववृत्तिरिति या स्थिता
世间有人入海涉险,亦有人入林受苦;另有人依附为役——此乃既定的生计之道,名为“阿湿婆·弗利提”(aśva-vṛtti)。
Verse 45
हिंसाप्रायां बहुक्लेशां कृषिं चैव तथा पुरा । तस्य दुःखार्जितस्यापि प्राणेभ्योपि गरीयसः
古时农耕多与伤害相连,且充满诸多艰辛;然而,即便是这般苦难所得之物,也被看作比自身性命更为贵重。
Verse 46
अर्थस्य पुरुषव्याघ्र परित्यागः सुदुष्करः । विशेषतो महाराज तस्य न्यायार्जितस्य च
噫,人中之虎,舍弃财物极其艰难——尤其是,大王啊,当那财富是以正当之法所得之时。
Verse 47
श्रद्धया विधिवत्पात्रे दत्तस्यांतो न विद्यते । श्रद्धा धर्मसुता देवी पावनी विश्वतारिणी
以信心依仪轨施与贤善受者之布施,其功德无有穷尽。信心乃女神,为法(Dharma)之女,能净化并救度整个世界。
Verse 48
सावित्री प्रसवित्री च संसारार्णवतारिणी । श्रद्धया साध्यते धर्मो महद्भिर्न्नार्थराशिभिः
她是娑维特丽(Sāvitrī),亦是普罗萨维特利(Prasavitṛ),能渡人越过轮回之海。法(Dharma)由信心而成就,并非凭巨大的财富堆积。
Verse 49
निष्किंचनास्तु मुनयः श्रद्धाधर्मा दिवं गताः । संति दानान्यनेकानि नानाभेदैर्नृपोत्तम
诸牟尼无所拥有,奉信而行正法,已得升天。王中最胜者啊,布施之类多种多样,依差别而分为诸类。
Verse 50
अन्नदानात्परं नास्ति प्राणिनां गतिदाकयम् । तस्मादन्नंप्रदातव्यंपयसाचसमन्वितम्
对众生而言,没有比施食更殊胜的布施,因为它赐予正道与安泰。因此应当布施食物,并兼施牛乳。
Verse 51
मधुरेणापि पुण्येन वचसा च समन्वितम् । नास्त्यन्नात्तु परं दानमिहलोके परत्र च
即使伴以甘美而有功德的言语,也没有比施食更大的布施——无论此世或来世皆然。
Verse 52
तारणाय हितायैव सुखसंपत्तिहेतवे । श्रद्धया विधिवत्पात्रे निर्मलेनापि चेतसा
为求解脱、为得真实利益、并作为安乐与兴盛之因,应以信心依仪轨施与堪受者,即使心念清净亦当如是。
Verse 53
अन्नैकस्य प्रदानस्य फलं भुंक्ते भवेन्नरः । ग्रासाद्ग्रासं प्रदातव्यं मुष्टिप्रस्थं न संशयः
人即便只施与一份食物,也能享受其布施之果。因此应当一口一口地施食——以一把一量——毫无疑虑。
Verse 54
अक्षयं जायते तस्य दानस्यापि महाफलम् । न च प्रस्थं न वा मुष्टिं नरस्य हि न संभवेत्
由此布施生起不灭之报与极大之果。因为对人而言,不可能既无一“钵罗萨他”(prastha)之量,亦无一把之物可施。
Verse 55
अनास्तिक्यप्रभावेण पर्वणि प्राप्य मानवः । श्रद्धया ब्राह्मणं चैकं भक्त्या चैव प्रभोजयेत्
当人因不信之势而逢至圣日仪期(parvan)时,也应怀信以虔敬供养,即便只供养一位婆罗门亦可。
Verse 56
एकस्यापिप्रधानस्यअन्नस्यापिप्रजेश्वर । जन्मांतरं सुसंप्राप्य नित्यं चान्नं प्रभुंजति
噢众生之主,即使仅以一次最殊胜的食物供施之功德,也能得来世吉祥之生,并恒常享受丰足之食。
Verse 57
पूर्वजन्मनि यद्दत्तं भक्त्या पात्रे सकृन्नरैः । जन्मांतरं सुसंप्राप्य नित्यमेव भुनक्ति च
人在前世若曾以虔敬之心,哪怕仅一次布施于堪受者;来世得生之后,便恒常受用其果报。
Verse 58
अन्नदानं प्रयच्छंति ब्राह्मणेभ्यो हि नित्यशः । मिष्टान्नपानं भुंजंति ते नरा अन्नदायिनः
那些恒常向婆罗门施食者,确实得以享用甘美的饮食与饮品;此等之人,名为施食者。
Verse 59
अन्नमेव वदंत्येत ऋषयो वेदपारगाः । प्राणभूतं न संदेहममृताद्धि समुद्भवम्
通达吠陀的圣仙宣说:唯有食物即是生命本身;毫无疑惑,因为它源自甘露(amṛta)之不死精华。
Verse 60
प्राणास्तेन प्रदत्ता हि येन चान्नं समर्पितम् । अन्नदानं महाराज देहि त्वं तु प्रयत्नतः
因为献食之人确实等同于赐予生命之息。故而,大王啊,当以殷勤之心努力行施食之布施。
Verse 61
एवमाकर्ण्य वै राजा जैमिनेस्तु महात्मनः । पुनः पप्रच्छ तं विप्रं जैमिनिं ज्ञानपंडितम्
国王如此聆听了大心的阇弥尼之后,又再次询问那位婆罗门——阇弥尼,这位通达智慧的学者。
Verse 94
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुर्नवतितमोऽध्यायः
至此,《圣莲花往世书》大地篇中,维那传说、导师圣渡(Guru-tīrtha)功德赞与赤伐那事迹之第九十四章圆满结束。