
The Aśūnyaśayana Vow: Expiation, Viṣṇu’s Theophany, and Liberation for Divyā Devī
昆伽罗教导其子郁阇婆罗(Ujjvala)四重毗湿奴行持——誓戒(vrata)、赞颂(stotra)、智见(jñāna)与禅观(dhyāna),皆以毗湿奴为中心,并称为阿舒尼亚舍耶那誓(Aśūnyaśayana,“不独眠”)。他奉命前去拯救一位因重罪而受苦的公主。 郁阇婆罗行至普拉克沙洲(Plakṣadvīpa)一座光辉的山岳,山中有河流、天乐神伎与诸天众生。其间他见到因守寡而悲泣的天女公主天妙女神(Divyā Devī),她自言此苦乃往昔业力成熟之果。 郁阇婆罗以大鸟之身(Mahāpakṣī)慈悲开示,询其因缘,并授以忏悔法:观想赫利希凯沙(Hṛṣīkeśa),诵毗湿奴百名,兼严持阿舒尼亚舍耶那誓。多年苦行后,毗湿奴显现,宣示三相神(Trimūrti)本质一体,赐她清净的奉爱与在毗昆塔(Vaikuṇṭha)侍奉之福;天妙女神遂升入至上的毗湿奴圣境。
Verse 1
कुंजल उवाच । व्रतं स्तोत्रं महाज्ञानं ध्यानं चैव सुपुत्रक । मयाख्यातं तवाग्रे वै विष्णोः पापप्रणाशनम्
昆伽罗(Kuṃjala)说道:“善子啊,我先前已在你面前宣说过誓戒、赞颂、广大灵知与禅观——皆为毗湿奴(Viṣṇu)之法,能灭除诸罪。”
Verse 2
एवं चतुष्टयं सा हि यदा पुण्यं समाचरेत् । प्रयाति वैष्णवं लोकं देवानामपि दुर्लभम्
当她真诚奉行此四重善行之修持时,便得往生毗湿奴之界(Vaiṣṇava-loka)——此境界连诸天神亦难得。
Verse 3
इतो गत्वा व्रतं वत्स दिव्यां देवीं प्रबोधय । अशून्यशयनं नाम व्रतराजं वदस्व ताम्
亲爱的孩子,从此处前往,唤醒那光耀的女神,使其起行修誓。并向她宣说名为“阿舒尼亚舍耶那”(Aśūnyaśayana)的誓王——不独眠之誓。
Verse 4
समुद्धर महापापाद्राजकन्यां यशस्विनीम् । त्वया पृष्टं मया ख्यातं पुण्यदं पापनाशनम्
当从大罪之中救拔那声名显赫的王女。你所问者,我已宣说——能生功德、能灭罪障。
Verse 5
गच्छ गच्छ महाभाग इत्युक्त्वा विरराम सः । श्रीविष्णुरुवाच । उज्ज्वलोप्येवमुक्तस्तु स पित्रा कुंजलेन हि
他说了“去吧,去吧,福德之人”便沉默了。圣者室利·毗湿奴说道:就连乌吉瓦拉——确由其父昆阇罗如此告诫——确实……
Verse 6
प्रणम्य पादौ धर्मात्मा मातापित्रोर्महामतिः । जगाम त्वरितो राजन्प्लक्षद्वीपं स उज्ज्वलः
他礼拜母亲与父亲的双足;那位正法而大智之人乌吉瓦拉便迅速启程,王啊,前往普拉克沙洲(Plakṣadvīpa),光辉灿然。
Verse 7
तं गिरिं सर्वतोभद्रं नानाधातुसमाकुलम् । नानारत्नमयैस्तुंगैः शिखरैरुपशोभितम्
那座山岳四面皆吉祥,蕴藏种种矿藏;又以由各类宝石构成的高峻峰顶而增辉。
Verse 8
नानाप्रवाहसंपूर्णैरुदकैरुज्ज्वलैर्नृप । नद्यः संति स्वच्छनीरास्तस्मिन्गिरिवरोत्तमे
王啊,在那最胜的山中有诸河,汇聚多重水流;其水光明闪耀,清澈纯净。
Verse 9
किन्नरास्तत्र गायंति गंधर्वाः सुस्वरैर्नृप । अप्सरोभिः समाकीर्णं देववृंदैरुपावृतम्
在那里,王啊,紧那罗歌唱,乾闼婆以妙音吟诵;其处遍满阿普萨拉斯,并为诸天众(deva)所环绕。
Verse 10
सिद्धचारणसंघुष्टं मुनिवृंदैरलंकृतम् । नानापक्षिनिनादैश्च सर्वत्र परिनादितम्
此处回荡着悉达与迦罗那的声音,众仙贤群集庄严其境;又遍处充满百鸟鸣啭,四方皆闻其响。
Verse 11
एवं गिरिं समासाद्य उज्ज्वलो लघुविक्रमः । सुस्वरेणापि सा कन्या गिरौ तस्मिन्प्ररोदिति
就这样,他抵达那座山——迅捷勇武的乌阇婆罗;而那少女即使以柔和之声,也在那山上放声啼哭起来。
Verse 12
रोरूयमाणां स प्राज्ञो वचनं चेदमब्रवीत् । का त्वं भवसि कल्याणि कस्माद्रोदिषि सांप्रतम्
见她哭泣,那位智者说道:“吉祥的女士,你是谁?为何此刻啼哭?”
Verse 13
कमाश्रिता महाभागे केन ते विप्रियं कृतम् । समाचक्ष्व ममाद्यैव सर्वदुःखस्य कारणम्
尊贵的女士啊,你为何如此忧苦?是谁加害于你?请就在今日告诉我,你一切悲痛的根由。
Verse 14
दिव्यादेव्युवाच । विपाको हि महाभाग कर्मणां मम सांप्रतम् । इह तिष्ठामि दुःखेन वैधव्येन समन्विता
天女提毗娅说道:“尊贵者啊,我如今所受,确是往昔业行成熟之果。我在此以忧苦而住,背负寡居之苦。”
Verse 15
भवान्को हि महाभाग कृपया मम पीडितः । पक्षिरूपधरो वत्स सोत्सवं परिभाषते
噢,最有福德者,你是谁,竟以慈悲在我苦难中与我言说?虽现鸟之形,亲爱的孩子,你却以欢庆般的喜悦与我对话。
Verse 16
एवमाकर्ण्य तत्सर्वं भाषितं राजकन्यया । अहं पक्षी महाभागे कृपया तव पीडितः
他听完公主所说的一切,便说道:“噢,高贵的夫人,我是一只鸟;因你的慈悲,我的痛苦得以消解。”
Verse 17
पक्षिरूपधरो भद्रे नाहं सिद्धो न ज्ञानवान् । रुदमानां महालापैर्भवतीं दृष्टवानिह
温柔的夫人啊,我只是取了鸟形之者;我既非成就者(悉地者),亦非通达智者。我在此见你悲泣,放声哀号。
Verse 18
ततः पृच्छाम्यहं देवि वद मे कारणं त्विह । पितुर्गेहे यथावृत्तमात्मवृत्तांतमेव हि
因此,女神啊,我请问你:请告诉我此处缘由。请如实叙述你父家所发生的一切,并将你自身的经历完整道来。
Verse 19
तया निवेदितं सर्वं यथासंख्येन दुःखदम् । समासेन समाकर्ण्य उज्ज्वलस्तु महमनाः
她按次第禀告了一切,句句皆令人哀伤。乌阇婆罗(Ujjvala)心怀高洁,略闻其要,便深深忧恼。
Verse 20
तामुवाच महापक्षी दिव्यादेवीं सुदुःखिताम् । यथा विवाहकाले ते भर्तारो मरणं गताः
那大鸟对那位悲恸欲绝的天女说道:“为何在你成婚之时,你的诸位夫君竟遭逢死亡?”
Verse 21
स्वयंवरनिमित्तं ते क्षयं याताश्च क्षत्रियाः । एतत्ते चेष्टितं सर्वं मया पितरि भाषितम्
因你的自择婚(svayaṁvara),那些刹帝利已走向毁灭。你这一切行径,我都已禀告我父亲。
Verse 22
अन्यजन्मकृतंकर्मतव पापं सुलोचने । मम पित्रा ममाग्रे तु कृपया परिभाषितम्
噢,明眸者,你在前世所造的罪业,我父亲早已以慈悲为我详加说明。
Verse 23
तेन दोषेण संपुष्टा लिप्ता जाता वरानने । एतावत्कारणं सर्वं तातेन परिभाषितम्
因那过失而滋长,并由此染污,你才成了如今这般,噢,容颜姣好者。此中一切因由,你父亲已尽数说明。
Verse 24
पूर्वकर्मविपाकं तु भुंक्ष्व त्वं च समाश्वस । एवं सा भाषितं तस्य श्रुत्वा कन्योज्ज्वलस्य तत्
“你确当承受往昔业行成熟之果;忍受它,安心吧。”听她如此言说后,那位名为Kanyojjvala、光辉灿然的少女……
Verse 25
प्रत्युवाच महात्मानं ब्रुवंतं पक्षिणं पुनः । प्रणता दीनया वाचा कुरु पक्षिन्कृपां मम
她俯伏顶礼,以卑微哀恳之声再度答复那正在言说的高贵之鸟:“噢,鸟啊,愿你怜悯我。”
Verse 26
कथयस्व प्रसादेन तस्य पापस्य निष्कृतिम् । प्रायश्चित्तं सुपुण्यं च मम पातकशोधनम्
愿你以慈悲告知那罪业的赎除之法——功德殊胜的忏悔(prāyaścitta),能洗净我的过失。
Verse 27
येन व्रजाम्यहं पुण्यं विशुद्धाधौतकल्मषा । प्रायश्चित्तं महाभाग वद मे त्वं प्रसादतः
凭何法门我能得福德,使罪垢尽净、全然洗除?噢大福者,愿你以恩慈告我忏悔之法(prāyaścitta)。
Verse 28
उज्ज्वल उवाच । तवार्थं तु महाभागे पितरं पृष्टवानहम् । समाख्यातमतः पित्रा प्रायश्चित्तमनुत्तमम्
乌阇瓦罗说:“为你之故,福德具足者,我曾询问父亲;因此父亲已开示无上之忏悔法(prāyaścitta)。”
Verse 29
तत्त्वं कुरु महाभागे सर्वपातकशोधनम् । ध्यायस्व हि हृषीकेशं शतनामजपस्व च
噢贤淑尊贵的女士,当行真实要义之法——能净除一切罪业的修持。应当观想赫利希凯沙(Hṛṣīkeśa),并诵念祂的一百圣名。
Verse 30
भव ज्ञानपरा नित्यं कुरु व्रतमनुत्तमम् । अशून्यशयनं पुण्यं व्रतं पापप्रणाशकम्
应恒常安住于灵性智慧,并常行无上誓愿。名为“不独眠”的清净誓戒功德殊胜,能灭除诸罪。
Verse 31
समाचष्ट स धर्मात्मा सर्वज्ञानप्रकाशकम् । ज्ञानं स्तोत्रं व्रतं ध्यानं विष्णोश्चैव महात्मनः
那位具正法之心者遂宣说能照明一切知见之法:正智、赞颂之偈、清净戒行与禅观,皆奉献于大心之主毗湿奴。
Verse 32
विष्णुरुवाच । तस्मात्सा हि प्रजग्राह संस्थिता निर्जने वने । सर्वद्वंद्वविनिर्मुक्ता संजाता तपसि स्थिता
毗湿奴说:因此她确实受持此法,住于寂静的林野。她解脱一切对待二相,遂专心修苦行,安住其中。
Verse 33
व्रतं चक्रे जिताहारा निराधारा सुदुःखिता । कामक्रोधविहीना सा वर्गं संयम्य नित्यशः
她立行誓戒,克制饮食;无所依怙,深受苦楚。远离欲与嗔,她日日不断摄持诸根。
Verse 34
इंद्रियाणां महाराज महामोहं निरस्य सा । अब्दे चतुर्थके प्राप्ते सुप्रसन्नो जनार्दनः
大王啊,她驱散由诸根所生的大迷惑;及至第四年到来,阇那尔达那(毗湿奴)对她极为欢喜。
Verse 35
तस्यै वरं दातुकामश्चायातो वरनायकः । तस्यै संदर्शयामास स्वरूपं वरदः प्रभुः
为赐予她恩赐,赐福之主来到她前;那慈悲的主宰遂向她显现自身真实之相。
Verse 36
सूत उवाच । इंद्रनीलघनश्यामं शंखचक्रगदाधरम् । सर्वाभरणशोभाढ्यं पद्महस्तं महेश्वरम्
苏多说道:“(我见到)大自在主——如因陀罗青宝般、似浓云之深暗;执螺、轮与杵;诸般庄严之美辉映全身,手持莲华。”
Verse 37
बद्धांजलिपुटा भूत्वा वेपमाना निराश्रया । उवाच गद्गदैर्वाक्यैः प्रणता मधुसूदनम्
她合掌致敬,战栗无依;俯伏礼拜,以哽咽之声向摩杜苏达那启言。
Verse 38
तेजसा तव दिव्येन स्थातुं शक्नोमि नैव हि । दिव्यरूपो भवेः कस्त्वं कृपया मम चाग्रतः
在你神圣的光辉前,我实难站立。噢,具天界妙相者,你是谁?愿你以慈悲在我面前显现。
Verse 39
कथयस्व प्रसादेन किमत्र तव कारणम् । सर्वमेव प्रसादेन प्रब्रवीहि महामते
愿你垂恩告知:此事你为何而来?噢,大慧者,请以慈恩将一切详尽宣说。
Verse 40
देवमेवं विजानामि तेजसा इंगितैस्तव । ज्ञानहीना जगन्नाथ न जाने रूपनामनी
噢主啊,我只能如此认识你——凭你的光辉与微妙的示意。因缺乏真实的智慧,噢世主(Jagannātha),我既不知你的形相,亦不知你的名号。
Verse 41
किं ब्रह्मा वा भवान्विष्णुः किं वा शंकर एव हि । एवमुक्त्वा प्रणम्यैवं दंडवद्धरणीं गता
“你是梵天(Brahmā)吗?还是毗湿奴(Viṣṇu)?抑或确是商羯罗(Śaṅkara)?”说罢,她恭敬礼拜,继而伏地作全身投地的大礼。
Verse 42
तामुवाच जगन्नाथः प्रणतां राजनंदिनीम् । श्रीभगवानुवाच । त्रयाणामपि देवानामंतरं नास्ति शोभने
世主(Jagannātha)对俯首礼敬的王女说道:“世尊曰:‘美丽的女子啊,三位天神之间毫无差别。’”
Verse 43
ब्रह्मा समर्चितो येन शंकरो वा वरानने । तेनाहमर्चितो नित्यं नात्र कार्या विचारणा
容颜姣好的女子啊,凡恭敬礼拜梵天者——或礼拜商羯罗(湿婆)者——也就恒常礼拜于我;对此无需再作思量。
Verse 44
एतौ ममाभिन्नतरौ नित्यं चापि त्रिरूपवान् । अहं हि पूजितो यैश्च तावेतौ तैः सुपूजितौ
此二者与我本不相离,而我亦恒常具三重之相。诚然,凡礼拜于我者,也必善礼拜此二者。
Verse 45
अहं देवो हृषीकेशः कृपया तव चागतः । स्तवेनानेन पुण्येन व्रतेन नियमेन च
我乃主宰赫利希凯沙(Hṛṣīkeśa);出于慈悲我来到你面前——因这功德殊胜的赞颂之歌,以及你所立的誓愿与严谨的修持而感动。
Verse 46
संजाता कल्मषैर्हीना वरं वरय शोभने । दिव्यादेव्युवाच । विजयस्व हृषीकेश कृष्णक्लेशापहारक
“如今你已无垢无罪。美丽者啊,选择一个恩赐——择其最上。”天女(神圣女神)说道:“愿你得胜,赫利希凯沙啊——克里希纳啊,除苦者。”
Verse 47
नमामि चरणद्वंद्वं मामुद्धर सुरेश्वर । वरं मे दातुकामोऽसि चक्रपाणे प्रसीद मे
我顶礼于你双足;请救拔我,诸神之主。你愿赐我恩愿——持轮者(Cakrapāṇi)、执神盘者啊,愿你垂怜于我。
Verse 48
आत्मपादयुगस्यापि भक्तिं देहि ममानघ । दर्शयस्व जगन्नाथ मोक्षमार्गं निरामयम्
无罪之主啊,也赐我对你自身莲足的虔敬。世主(Jagannātha)啊,请向我显示那无瑕、无忧的解脱之道。
Verse 49
दासत्वं देहि वैकुंठ यदि तुष्टो जनार्दन । श्रीभगवानुवाच । एवमस्तु महाभागे गच्छ निर्धूतकल्मषा
“若你欢喜,阎那尔达那(Janārdana)啊,请赐我在毗昆塔(Vaikuṇṭha)为仆的身份。”世尊说道:“如是,福德者啊;去吧,你的罪垢已被洗净。”
Verse 50
वैष्णवं परमं लोकं दुर्लभं योगिभिः सदा । गच्छ गच्छ परं लोकं प्रसादान्मम सांप्रतम्
至上的毗湿奴圣界,连瑜伽行者也恒常难以证得。去吧,去吧,即刻前往那最高世界——凭我的恩典,就在此时。
Verse 51
एवमुक्ते ततो वाक्ये माधवेन महात्मना । दिव्यादेवी अभूद्दिव्या सूर्यतेजः समप्रभा
当大心的摩达婆如此说出这些话时,女神便化为光耀而神圣,放射出与太阳辉煌相等的光芒。
Verse 52
पश्यतां सर्वलोकानां दिव्याभरणभूषिता । दिव्यमालान्विता सा च दिव्यहारविलंबिनी
在诸世界的注视之下,她显现为佩戴天界饰物:身披神圣花鬘,又戴着一串优雅垂落的天上项链。
Verse 53
गता सा वैष्णवं लोकं दाहप्रलयवर्जितम् । पुनः पक्षी समायातः स्वगृहं हर्षसंयुतः
她前往毗湿奴的世界,远离焚烧与毁灭的劫难。随后,那只鸟又回到自己的家中,满怀欢喜。
Verse 54
तत्सर्वं कथयामास पितरं प्रति सत्तमः
随后,那位至善之人将这一切都向父亲叙述了。
Verse 88
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रेऽष्टाशीतितमोऽध्यायः
如是,在《圣莲华往世书》(Śrī Padma Purāṇa)之《大地篇》(Bhūmi-khaṇḍa)中,第八十八章圆满结束——叙述韦那(Vena)之事、名为师圣渡(Guru-tīrtha)的圣地,以及赤瓦那(Cyavana)的事迹。