
The Yayāti Episode (with the Glory of Mātā–Pitṛ Tīrtha)
在《莲花往世书》PP.2.78中,耶雅提王虽已年迈,却仍为欲望所逼。他请求诸子替他承受衰老与病弱,把他们的青春交给自己。众子惊讶父王忽然心神不定;耶雅提坦言,舞女与一位女子使他的心意炽燃。 图鲁与随后雅度拒绝承担老迈,耶雅提震怒,降下严厉诅咒,改变他们的法(dharma)地位,并使其后裔的性格与命运受牵引,乃至出现与“弥勒叉”(mleccha)相关的结果;对雅度又有部分宽慰,预示将因摩诃提婆(Mahādeva)的显现而得净化。普鲁则甘愿受苦,承受父王的老态而获王位;耶雅提重得青春,追逐感官之乐。毗舍罗(Viśālā)居中引荐,使他得见所欲之女,并讨论所谓“过失”。本章以母父圣地(Mātā–Pitṛ Tīrtha)的功德为依托,教诫孝道、王者自制、欲望的动摇之力,以及诅咒所投下的漫长业影。
Verse 1
ययातिरुवाच । एकेन गृह्यतां पुत्रा जरा मे दुःखदायिनी । धीरेण भवतां मध्ये तारुण्यं मम दीयताम्
耶雅提说道:“诸子啊,你们中当有一人承受我这带来痛苦的衰老;愿你们中坚忍者,将青春赐予我。”
Verse 2
स्वकीयं हि महाभागाः स्वरूपमिदमुत्तमम् । संतप्तं मानसं मेद्य स्त्रियां सक्तं सुचंचलम्
诚然,诸位大福者,这便是我自身的上妙境况:我心为忧苦所灼,系恋于一女子,且极其躁动不宁。
Verse 3
भाजनस्था यथा आप आवर्त्तयति पावकः । तथा मे मानसं पुत्राः कामानलसुचालितम्
譬如火焰搅动器中之水,使之翻涌流转;如是,我的儿子们,我心亦为欲火所撩拨而动荡不安。
Verse 4
एको गृह्णातु मे पुत्रा जरां दुःखप्रदायिनीम् । स्वकं ददातु तारुण्यं यथाकामं चराम्यहम्
愿我诸子之中有一人承受我这带来痛苦的老迈,并将其自身的青春赐与我;如此,我便可随心所欲而行。
Verse 5
यो मे जरापसरणं करिष्यति सुतोत्तमः । स च मे भोक्ष्यते राज्यं धनुर्वंशं धरिष्यति
那位最贤良的儿子,若能除去我老迈之羸弱,他必得享我之王国,并护持弓之世系——王家弓手之正统。
Verse 6
तस्य सौख्यं सुसंपत्तिर्धनं धान्यं भविष्यति । विपुला संततिस्तस्य यशः कीर्तिर्भविष्यति
于彼将有安乐与圆满昌盛——财宝与丰盈谷粮;其后裔亦将繁多,而名声与美誉必将兴起。
Verse 7
पुत्रा ऊचुः । भवान्धर्मपरो राजन्प्रजाः सत्येन पालकः । कस्मात्ते हीदृशो भावो जातः प्रकृतिचापलः
诸子说道:“大王,你奉持达摩,以真实护持臣民。为何你心境忽然如此变易,生起这似与本性相违的轻躁与反复?”
Verse 8
राजोवाच । आगता नर्तकाः पूर्वं पुरं मे हि प्रनर्तकाः । तेभ्यो मे कामसंमोहे जातो मोहश्च ईदृशः
国王说道:“先前有舞者来到我的城中,确是善于表演之人。因她们之故,在欲念所生的迷乱中,我心里便起了这般痴惑。”
Verse 9
जरया व्यापितः कायो मन्मथाविष्टमानसः । संबभूव सुतश्रेष्ठाः कामेनाकुलव्याकुलः
其身已为老迈所遍覆,其心又为迦摩所攫。诸子之最者啊,他因欲而躁动不安,纷乱至极。
Verse 10
काचिद्दृष्टा मया नारी दिव्यरूपा वरानना । मया संभाषिता पुत्राः किंचिन्नोवाच मे सती
我见到一位女子,形貌如天,容颜殊胜。我与她交谈,诸子啊,然而那位贞善之女对我竟一言不发。
Verse 11
विशालानाम तस्याश्च सखी चारुविचक्षणा । सा मामाह शुभं वाक्यं मम सौख्यप्रदायकम्
她有一位名叫毗舍罗的友人,娴雅可亲,明慧善察;她对我说了吉祥之语,使我心生安乐。
Verse 12
जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत् । एवमंगीकृतं वाक्यं तयोक्तं गृहमागतः
“当你脱离衰老之时,她便会对你最为亲爱。”他如是领受他们所说之语,遂返归家中。
Verse 13
मया जरापनोदार्थं तदेवं समुदाहृतम् । एवं ज्ञात्वा प्रकर्तव्यं मत्सुखं हि सुपुत्रकाः
我如此宣说,乃为除去衰老之患。既如是知,当依之而行——为令我心安乐,善子们。
Verse 14
तुरुरुवाच । शरीरं प्राप्यते पुत्रैः पितुर्मातुः प्रसादतः । धर्मश्च क्रियते राजञ्शरीरेण विपश्चिता
图鲁说道:“子嗣得此身,赖父母之恩德;大王啊,智者亦凭此身而行持法(dharma)。”
Verse 15
पित्रोः शुश्रूषणं कार्यं पुत्रैश्चापि विशेषतः । न च यौवनदानस्य कालोऽयं मे नराधिप
子辈尤当恭敬奉事父母。大王啊,如今并非我施与青春之力、赐回少壮之时。
Verse 16
प्रथमे वयसि भोक्तव्यं विषयं मानवैर्नृप । इदानीं तन्न कालोयं वर्तते तव सांप्रतम्
大王啊,世间诸欲乐,当在人生初期受用;而今此刻,对你而言并非其时。
Verse 17
जरां तात प्रदत्वा वै पुत्रे तात महद्गताम् । पश्चात्सुखं प्रभोक्तव्यं न तु स्यात्तव जीवितम्
亲爱的啊,既已将衰老转付给已得大命运之子,此后你当享受安乐;你的生命将不再如今日这般延续。
Verse 18
तस्माद्वाक्यं महाराज करिष्ये नैव ते पुनः । एवमाभाषत नृपं तुरुर्ज्येष्ठसुतस्तदा
“因此,大王啊,我不再执行你的命令。”当时,图鲁的长子如此对国王说道。
Verse 19
तुरोर्वाक्यं तु तच्छ्रुत्वा क्रुद्धो राजा बभूव सः । तुरुं शशाप धर्मात्मा क्रोधेनारुणलोचनः
国王听见图鲁之言,便勃然大怒。那位具正法之心者,怒目赤红,遂诅咒图鲁。
Verse 20
अपध्वस्तस्त्वयाऽदेशो ममायं पापचेतन । तस्मात्पापी भव स्वत्वं सर्वधर्मबहिष्कृतः
你这罪念之人,竟推翻我的命令;因此由你自作自受,成为罪人,永被摒弃于一切正法行持之外。
Verse 21
शिखया त्वं विहीनश्च वेदशास्त्रविवर्जितः । सर्वाचारविहीनस्त्वं भविष्यसि न संशयः
你将失去顶髻(śikhā),并被排除于《吠陀》与诸圣典(śāstra)之外;你必将丧失一切正当行仪,毫无疑问。
Verse 22
ब्रह्मघ्नस्त्वं देवदुष्टः सुरापः सत्यवर्जितः । चंडकर्मप्रकर्ता त्वं भविष्यसि नराधमः
你将成弑婆罗门者,亵渎诸天,嗜酒离真;行凶作恶之人,终将沦为卑劣之徒。
Verse 23
सुरालीनः क्षुधी पापी गोघ्नश्च त्वं भविष्यसि । दुश्चर्मा मुक्तकच्छश्च ब्रह्मद्वेष्टा निराकृतिः
你将沉溺于酒,常受饥饿而造罪,成为杀牛者;又患皮肤恶疾、腰布松脱,并憎恨婆罗门——被逐出而蒙羞。
Verse 24
परदाराभिगामी त्वं महाचंडः प्रलंपटः । सर्वभक्षश्च दुर्मेधाः सदात्वं च भविष्यसि
你将追逐他人之妻,凶暴而极度堕落;吞食无度,心智败坏,并将永远如此。
Verse 25
सगोत्रां रमसे नारीं सर्वधर्मप्रणाशकः । पुण्यज्ञानविहीनात्मा कुष्ठवांश्च भविष्यसि
若你与同族之女行乐,便成毁灭一切法(dharma)者;失却福德与正知,必受麻风之苦。
Verse 26
तव पुत्राश्च पौत्राश्च भविष्यंति न संशयः । ईदृशाः सर्वपुण्यघ्ना म्लेच्छाः सुकलुषीकृताः
你的儿子与孙子必将出生,毫无疑问;他们将如此:成为弥勒叉(Mleccha),毁尽诸福德,被罪垢彻底染污。
Verse 27
एवं तुरुं सुशप्त्वैव यदुं पुत्रमथाब्रवीत् । जरां वै धारयस्वेह भुंक्ष्व राज्यमकंटकम्
于是,他严厉诅咒了图鲁之后,又对儿子雅度说道:“在此你当承担衰老,并享受无荆棘之国度——远离障碍与仇敌。”
Verse 28
बद्धाञ्जलिपुटो भूत्वा यदू राजानमब्रवीत् । यदुरुवाच । जराभारं न शक्नोमि वोढुं तात कृपां कुरु
雅度合掌恭敬,对国王说道:“父王,我不能承受衰老之重;愿你垂怜于我。”
Verse 29
शीतमध्वा कदन्नं च वयोतीताश्च योषितः । मनसः प्रातिकूल्यं च जरायाः पंचहेतवः
冷蜜、不净之食、过了盛年的女子,以及心意的逆向不和——此乃衰老的五种因缘。
Verse 30
जरादुःखं न शक्नोमि नवे वयसि भूपते । कः समर्थो हि वै धर्तुं क्षमस्व त्वं ममाधुना
大王啊,我尚在青春新鲜之时,不能忍受衰老之苦。究竟谁能承担此苦?愿你此刻赦恕我。
Verse 31
यदुं क्रुद्धो महाराजः शशाप द्विजनंदन । राज्यार्हो न च ते वंशः कदाचिद्वै भविष्यति
噢,二次生者所喜爱者啊,大王震怒之下诅咒雅度:“你与你的后裔,永不得具足王权之资格。”
Verse 32
बलतेजः क्षमाहीनः क्षात्रधर्मविवर्जितः । भविष्यति न संदेहो मच्छासनपराङ्मुखः
他将强盛而炽烈,却缺乏忍耐,背离刹帝利之法;毫无疑问,因为他已背转我的命令。
Verse 33
यदुरुवाच । निर्दोषोहं महाराज कस्माच्छप्तस्त्वयाधुना । कृपां कुरुष्व दीनस्य प्रसादसुमुखो भव
雅度说道:“大王,我并无过失,为何如今咒诅我?愿怜悯这困苦之人,赐我恩泽,面容和悦。”
Verse 34
राजोवाच । महादेवः कुले ते वै स्वांशेनापि हि पुत्रक । करिष्यति विसृष्टिं च तदा पूतं कुलं तव
国王说道:“亲爱的孩子,确实,摩诃提婆将以自身一分本质在你族中显现;那时你的家系便得净化。”
Verse 35
यदुरुवाच । अहं पुत्रो महाराज निर्दोषः शापितस्त्वया । अनुग्रहो दीयतां मे यदि मे वर्त्तते दया
雅度说道:“大王,我是你的儿子,却在无过之时被你咒诅。若你对我尚存怜悯,请赐我恩宠。”
Verse 36
राजोवाच । यो भवेज्ज्येष्ठपुत्रस्तु पितुर्दुःखापहारकः । राज्यदायं सुभुंक्ते च भारवोढा भवेत्स हि
国王说道:“凡为长子者,能除父之忧,理当享受王国之嗣业;确实,他就是家族重担的承担者。”
Verse 37
त्वया धर्मं न प्रवृत्तमभाष्योसि न संशयः । भवता नाशिताज्ञा मे महादंडेन घातिनः
你并未使正法运转——此无疑——你也不是可与之讲理之人。因你我的命令被毁,你又以大杖击杀。
Verse 38
तस्मादनुग्रहो नास्ति यथेष्टं च तथा कुरु । यदुरुवाच । यस्मान्मे नाशितं राज्यं कुलं रूपं त्वया नृप
“因此,对你不再有恩惠——随你所欲而行。”雅度如是说道:“因为你毁了我的国度、我的族系,乃至我的形体,噢,国王。”
Verse 39
तस्माद्दुष्टो भविष्यामि तव वंशपतिर्नृप । तव वंशे भविष्यंति नानाभेदास्तु क्षत्त्रियाः
因此,噢,国王,我将成为你王族中的恶主;在你的血脉里,将出现种种分支的刹帝利。
Verse 40
तेषां ग्रामान्सुदेशांश्च स्त्रियो रत्नानि यानि वै । भोक्ष्यंति च न संदेहो अतिचंडा महाबलाः
他们必定夺取他们的村落与美好国土,也夺其妇女与一切珍宝财物——毫无疑问——因为他们极其凶猛,力大无比。
Verse 41
मम वंशात्समुत्पन्नास्तुरुष्का म्लेच्छरूपिणः । त्वया ये नाशिताः सर्वे शप्ताः शापैः सुदारुणैः
“自我族系中生出图鲁什迦(Turuṣka),呈现弥勒叉(mleccha)之形。凡被你毁灭者,尽皆受诅咒——遭受极其惨烈的咒诅。”
Verse 42
एवं बभाषे राजानं यदुः क्रुद्धो नृपोत्तम । अथ क्रुद्धो महाराजः पुनश्चैवं शशाप ह
于是,亚杜忿然对国王说道:噢,诸王之最。随后,那位大王亦怒火中烧,再次以如下言辞宣下诅咒。
Verse 43
मत्प्रजानाशकाः सर्वे वंशजास्ते शृणुष्व हि । यावच्चंद्रश्च सूर्यश्च पृथ्वी नक्षत्रतारकाः
你当谛听:你的一切后裔都将成为毁灭我子民之人——只要月与日尚存,只要大地、星宿与群星仍在。
Verse 44
तावन्म्लेच्छाः प्रपक्ष्यंते कुंभीपाके चरौ रवे । कुरुं दृष्ट्वा ततो बालं क्रीडमानं सुलक्षणम्
在那般长久之时,mleccha 将在 Kumbhīpāka(地狱)中被烹煮,只要太阳仍循其轨道运行。随后,他们见到那里有一位相貌具吉祥相的男孩在嬉戏,便把目光投向库鲁。
Verse 45
समाह्वयति तं राजा न सुतं नृपनंदनम् । शिशुं ज्ञात्वा परित्यक्तः सकुरुस्तेन वै तदा
国王召唤了他,噢,王子;却不承认他为自己的儿子。得知他只是个幼童后,便在那时将他弃置;事情当时便是如此。
Verse 46
शर्मिष्ठायाः सुतं पुण्यं तं पूरुं जगदीश्वरः । समाहूय बभाषे च जरा मे गृह्यतां पुनः
于是,世间之主召来普鲁——舍尔米什塔之贤善之子——说道:“再一次把我的衰老承受在你身上。”
Verse 47
भुंक्ष्व राज्यं मया दत्तं सुपुण्यं हतकंटकम् । पूरुरुवाच । राज्यं देवे न भोक्तव्यं पित्रा भुक्तं यथा तव
“享用我赐予你的王国——功德殊胜,远离荆棘(仇敌与忧患)。”普鲁答道:“神圣者啊,父亲既已享用之国,子不当再受,如同你曾享用一般。”
Verse 48
त्वदादेशं करिष्यामि जरा मे दीयतां नृप । तारुण्येन ममाद्यैव भूत्वा सुंदररूपदृक्
“大王啊,我必遵行你的命令。愿将衰老赐与我;而你就在今日复得青春,使你得见并拥有美妙之形。”
Verse 49
भुंक्ष्व भोगान्सुकर्माणि विषयासक्तचेतसा । यावदिच्छा महाभाग विहरस्व तया सह
“以心系诸境,享受由善业所得的种种乐受。福德之人啊,随你所愿,与她同游同乐,安然度日。”
Verse 50
यावज्जीवाम्यहं तात जरां तावद्धराम्यहम् । एवमुक्तस्तु तेनापि पूरुणा जगतीपतिः
“只要我还活着,孩子啊,我就将承担衰老直到那时。”普鲁也如此对大地主宰说道。
Verse 51
हर्षेण महताविष्टस्तं पुत्रं प्रत्युवाच सः । यस्माद्वत्स ममाज्ञा वै न हता कृतवानिह
他被大喜所充满,便对儿子说道:“孩子啊,既然你在此未曾违背我的命令,你所行正当。”
Verse 52
तस्मादहं विधास्यामि बहुसौख्यप्रदायकम् । यस्माज्जरागृहीता मे दत्तं तारुण्यकं स्वकम्
因此我将安排一件能赐予丰盛安乐之事;因为虽被老迈所攫,我自身的青春已再度蒙赐归来。
Verse 53
तेन राज्यं प्रभुंक्ष्व त्वं मया दत्तं महामते । एवमुक्तः सुपूरुश्च तेन राज्ञा महीपते
“你当治理我赐予你的那国度,伟大心志者啊。”那位国王如此吩咐,哦大地之主,苏补鲁亦领受其任。
Verse 54
तारुण्यंदत्तवानस्मै जग्राहास्माज्जरां नृप । ततः कृते विनिमये वयसोस्तातपुत्रयोः
他赐予其人青春,并从他身上取走衰老,哦国王。于是父与子之间的年龄交换便告完成。
Verse 55
तस्माद्वृद्धतरः पूरुः सर्वांगेषु व्यदृश्यत । नूतनत्वं गतो राजा यथा षोडशवार्षिकः
因此,普鲁在四肢百骸上都显得更为衰老;而国王复得青春,宛如十六岁少年。
Verse 56
रूपेण महताविष्टो द्वितीय इव मन्मथः । धनूराज्यं च छत्रं च व्यजनं चासनं गजम्
为非凡的容光所充满,他宛如第二个摩摩他(爱神);并且具备王权之弓、王伞、拂扇、宝座与御象。
Verse 57
कोशं देशं बलं सर्वं चामरं स्यंदनं तथा । ददौ तस्य महाराजः पूरोश्चैव महात्मनः
那位大王赐予他宝库、国土、全军,又赐王者仪仗,如牦牛尾拂尘与御车;诚然,普鲁王将这一切都赐给那位心怀高贵者。
Verse 58
कामासक्तश्च धर्मात्मा तां नारीमनुचिंतयन् । तत्सरः सागरप्रख्यंकामाख्यं नहुषात्मजः
那护沙之子虽本性正直,却为欲爱所缠;他不断思念那女子,遂建成一座湖,广大如海,名为“迦摩”(Kāmā)。
Verse 59
अश्रुबिंदुमती यत्र जगाम लघुविक्रमः । तां दृष्ट्वा तु विशालाक्षीं चारुपीनपयोधराम्
在那里,拉古维克拉玛前往阿输宾度摩蒂处。见到她——双目宽大,姿容妍丽,胸乳丰盈——
Verse 60
विशालां च महाराजः कंदर्पाकृष्टमानसः । राजोवाच । आगतोऽस्मि महाभागे विशाले चारुलोचने
于是那位大王心神为迦摩所牵,引言对毗舍罗说道:“我已到来,吉祥者啊,毗舍罗啊,明眸可爱者。”
Verse 61
जरात्यागःकृतो भद्रे तारुण्येन समन्वितः । युवा भूत्वा समायातो भवत्वेषा ममाधुना
吉祥的女子啊,我已舍弃衰老,具足青春;我以青年之身归来,如今愿她归属于我。
Verse 62
यंयं हि वांछते चैषा तंतं दद्मि न संशयः । विशालोवाच । यदा भवान्समायातो जरां दुष्टां विहाय च
“她所愿求的任何事——我都毫无疑问地赐予她。”毗舍罗说道:“当你到来之时,已抛却那邪恶的衰老……”
Verse 63
दोषेणैकेनलिप्तोसि भवंतं नैव मन्यते । राजोवाच । मम दोषं वदस्व त्वं यदि जानासि निश्चितम्
因一过失而染污,他便不再敬重你。国王说道:“若你确知无疑,就告诉我我的过失。”
Verse 64
तं तु दोषं परित्यक्ष्येगुणरूपंनसंशयः
然而我必弃绝那过失;毫无疑问,我将安住于德行之相。
Verse 78
इति श्रीपद्मपुराणेभूमिखंडेवेनोपाख्यानेमातापितृतीर्थवर्णने ययातिचरितेऽष्टसप्ततितमोऽध्यायः
至此,《圣莲花往世书》大地篇中“维努传说”之章,叙述神圣的“母父圣地”(Mātā-Pitṛ Tīrtha)并讲述耶雅提事迹的第七十八章圆满结束。